Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. dōṣadhātumalakṣayavr̥ddhivijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्ये तु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२||

Adhikarana 2 (3) · Śloka 3

दोषधातुमलमूलं हि शरीरं, तस्मादेतेषां लक्षणमुच्यमानमुपधारय ||३||

🔊 Audio coming soon

कुतः पुनरेषां क्षयवृद्धी वक्तव्ये इत्याह- दोषेत्यादि| हि यस्मादर्थे, यस्माच्छरीरं दोषादिमूलं; यथा वृक्षादीनां सम्भवस्थितिप्रलयेषु मूलं प्रधानं, तथा शरीरस्य वातादय इत्यर्थः||३||

Adhikarana 3 (4(1)) · Śloka 4

तत्र प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुः पञ्चधा प्रविभक्तः शरीरं धारयति (१) |४|

🔊 Audio coming soon

दोषधातुमलादीनां साम्यक्षयवृद्धयः स्वभावाख्यलिङ्गेन कर्माख्यलिङ्गेन च ज्ञेयाः, तस्मात् साम्यादिज्ञाने एतल्लिङ्गद्वयं वाच्यं; तथाहि - वातस्य स्वभावाख्यं लिङ्गं ‘रूक्षः शीत’(नि. अ. १) इत्यादि वातव्याधौ वक्ष्यते; पित्तस्य तु ‘पित्तं तीक्ष्णं द्रवं’(सू. अ. २१) इत्यादि व्रणप्रश्ने; तथा कफस्य ‘श्लेष्मा शीतो गुरुः’(सू. अ. २१) इत्यादि; एवं धातुमलयोरपि स्वभावाख्यं लिङ्गं दर्शनीयम्; इह तु दोषादीनां कर्माख्यं लिङ्गं दर्शयन्नाह- तत्र प्रस्पन्दनेत्यादि| प्रस्पन्दनं शरीरस्य चलनम्, इदं व्यानस्य कर्म; उद्वहनमिन्द्रियार्थानां धारणम्, उदानस्य कर्म; पूरणमाहारेण, प्राणस्य कर्म; विवेको रसमूत्रपुरीषाणां पृथक्करणं, समानस्य कर्म; शुक्रमूत्रादीनां वेगकाले कर्षणमवेगकाले धारणम् , अपानस्य| पञ्चधा प्रविभक्त इति प्राणोदानसमानव्यानापानभेदेन| अन्ये तु सामान्यं सर्ववायूनां प्रस्पन्दनादिकर्म आहुः; प्रस्पन्दनं श्वासप्रश्वासादिभावेन चलनम्, उद्वहनं दोषधातुमलानामित इतो नयनं, पूरणम् आहाररसादीनां स्वेषु स्वेष्वाशयेषु नयनं, विवेकः पूर्ववदत्रापि, धारणं शरीरयन्त्रस्य | कथमित्याह- पञ्चधा प्रविभक्त इत्यादि||४(१)||

Adhikarana 4 (4(2)) · Śloka 4

रागपक्त्योजस्तेजोमेधोष्मकृत् पित्तं पञ्चधा प्रविभक्तमग्निकर्मणाऽनुग्रहं करोति; (२) |४|

🔊 Audio coming soon

प्रकृतिस्थस्य पित्तस्य कर्म निर्देष्टुमाह- रागेत्यादि| कृच्छब्दो रागादिभिः प्रत्येकं सम्बध्यते| रागकृत् रसस्य रञ्जकाग्निसञ्ज्ञं पित्तं; पक्तिकृत् आहारस्य पाचकाग्निसञ्ज्ञं पित्तं; ओजःकृत् साधकाग्निसञ्ज्ञं पित्तम्, ओजो हृदिस्थं सोमात्मकं; तेजःकृत् आलोचकाग्निसञ्ज्ञं पित्तं, तेजो दृष्टिः, तदुक्तं- “तेजो दृष्टिरिति ख्यातं तेजः शुक्रं प्रकीर्तितम्”- इति; मेधाकृत् मेधा ग्रन्थाकर्षणसामर्थ्यं, तस्या अपि साधकाग्निसञ्ज्ञमेव पित्तं कारकम्; ऊष्मकृत् त्वक्स्थं पित्तं भ्राजकाग्निसञ्ज्ञम्, ऊष्मा शरीरस्यौष्ण्यम्| पञ्चधा प्रविभक्तमिति पाचकरञ्जकसाधकालोचकभ्राजकभेदेन| अग्निकर्मणेति रागादि यदग्निकर्म तेन कृत्वेत्यर्थः| अनुग्रहम् उपकारं करोति, ‘शरीरस्य’ इत्यनुवर्तते| अन्ये तु तेजःशब्देन वर्णप्रकाशिनीं त्वक्स्थां दीप्तिमाहुः; “इदं च रागादिकर्म सामान्यं सर्वपित्तानाम्” इति वदन्ति||४(२)||-

Adhikarana 5 (4) · Śloka 4

सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा पञ्चधा प्रविभक्त उदककर्मणाऽनुग्रहं करोति ||४||

🔊 Audio coming soon

प्रकृतिस्थस्य कफस्य कर्म निर्दिशन्नाह- सन्धीत्यादि| कृच्छब्दः सन्धिसंश्लेषणादिभिः प्रत्येकं सम्बध्यते| सन्धिसंश्लेषणकृत् सन्धिबन्धनं करोति; यद्यपि सन्धिसंश्लेषणं श्लेष्मकर्म व्रणप्रश्नेऽप्युक्तं, तथाऽपीह तद्वचनं व्यानस्य सन्धिचारित्वात्तस्यापि सन्धिश्लेषणं कर्मेति शङ्कानिरासार्थम्| स्नेहनकृदिति शरीरस्य स्नैग्ध्यं करोति, स्निग्धत्वात्| रोपणकृत् व्रणस्य, सौम्यत्वात्| पूरणकृत् शरीरस्य, बहुत्वान्मूर्तत्वाच्च| बलकृत् पुष्टिकृत्| स्थैर्यकृत् त्रिकसन्धिदार्ढ्यकृत्, कफस्थानानां स्वकार्यसामर्थ्यं वा| पञ्चधा प्रविभक्त आशयभेदेन आमाशयोरःशिरःकण्ठसन्धिभेदेनेत्यर्थः| अन्ये तु तस्यैव कफस्याशयभेदेन पञ्चधाभिन्नस्य श्लेषकक्लेदकबोधकतर्पकावलम्बकनामान्याहुः | केचिदत्र कफकर्मसु बृंहणं तर्पणं च पठन्ति, व्याख्यानयन्ति च- “बृंहणः शरीरस्य, द्रवत्वमूर्तिमत्त्वाभ्यां; तर्पणः तृप्तिजनको धातूनाम्”||४||

Adhikarana 6 (5(1)) · Śloka 5

रसस्तुष्टिं प्रीणनं रक्तपुष्टिं च करोति, रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च, मांसं शरीरपुष्टिं मेदसश्च, मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च, अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति, शुक्रं धैर्यं च्यवनं प्रीतिं देहबलं हर्षं बीजार्थं च; (१) |५|

🔊 Audio coming soon

इदानीं धातूनां प्रकृतिस्थानां प्राकृतं कर्म निर्दिशन्नाह- रसस्तुष्टिमित्यादि| धैर्यं शौर्यं शूरत्वम्, अत एव क्लीबा अधीराः; च्यवनं शीघ्रत्वेनावस्रंसनं, प्रीतिं स्नेहं प्रमदासु; देहबलमुत्साहोपचयलक्षणं; हर्षं पुनरुत्कण्ठाजननं प्रमदास्वेव; बीजार्थं चेति बीजप्रयोजनं, यथा- ऋतुक्षेत्रादिसम्पत्तौ बीजमङ्कुरजननं स्यात्, एवं शुक्रमपि गर्भजनकमित्यर्थः| अन्ये त्वन्यथा पठन्ति- “रसः प्रीणयति, रक्तं जीवयति, मांसं लेपयति, मेदः स्नेहयति, अस्थि धारयति, मज्जा अस्थीनि पूरयति, शुक्रं धैर्यच्यवनं प्रीतिदेहबलहर्षबीजार्थकृत्”- इति; व्याख्यानयन्ति च- “रसः प्रीणयति धातूंस्तर्पयतीत्यर्थः, रक्तं जीवयति प्राणानुवर्तनं करोति, मांसं लेपयति अस्थ्यादीन्, मेदः स्नेहयति स्नेहात्, अस्थि धारयति शरीरमित्यर्थः, धैर्यच्यवनमिति धैर्यस्य च्यवनं धैर्यच्यवनं च्युतिः प्रमदासु विषय इत्यर्थः”| अयं पाठो निबन्धकारैः सादरं पठितः||५(१)||

Adhikarana 7 (5(2)) · Śloka 5

पुरीषमुपस्तम्भं वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेदः क्लेदत्वक्सौकुमार्यकृत्; (२) |५|

🔊 Audio coming soon

अत ऊर्ध्वं मलानां प्राकृतं कर्मोच्यते- पुरीषमित्यादि| ‘करोति’ इत्यनुवर्तते| उपस्तम्भः अवष्टम्भः शरीरधारणमित्यर्थः| केचित् पुरीषकर्मसु प्रीणनं पठन्ति, न त्वाचार्याः| कश्चिदाचार्योऽत्रोपस्तम्भं न पठति| बस्तिर्मूत्राशयः, तस्य पूरणं, विक्लेदमार्द्रत्वं च, मूत्रं करोतीत्यर्थः| अन्ये तु ‘क्लेदविवेकजं बस्तिपूरणकृन्मूत्रं’ इति पठन्ति, क्लेदविवेकजमिति क्लेद आर्द्रत्वं स चाहारस्य, तस्य विवेकात् पृथक्त्वाज्जातं मूत्रम्| केचित् ‘स्वेदः क्लेदयति’ इति पठन्ति||५(२)||-

Adhikarana 8 (5) · Śloka 5

रक्तलक्षणमार्तवं गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ||५||

🔊 Audio coming soon

अत उपधातूनां प्राकृतं कर्माह- रक्तलक्षणमित्यादि| रक्तलक्षणमार्तवमिति रक्तस्य यानि लक्षणानि तान्यस्य सम्भवन्तीति स्वभावकथनम्| गर्भकृच्चेति प्राकृतकर्मकथनम्| चकाराद्रक्तकर्मापि जीवनसञ्ज्ञं करोति| केचिदाचार्या “रक्तलक्षणमार्तवं यथोक्तमकृत्रिमं गर्भकृच्च” इति पठन्ति, व्याख्यानयन्ति च- “यथोक्तमिति ‘शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्’- (शा. अ. २) इत्याद्युक्तलक्षणम्, अकृत्रिममिति वातपित्तकफैरधःप्रसृतैरष्टधाऽऽर्तवदूषकैरसृग्दररूपतया वा कृतं कृत्रिमं, न कृत्रिममकृत्रिमं शुद्धं, गर्भकृद्भवतीत्यर्थः”| गर्भो गर्भलक्षणमिति ‘स्तनयोः श्यावमुखता’ (शा. अ. ३) इत्यादिकं ‘करोति’ इत्यध्याहारः| स्तन्यमित्यादि आपीनत्वजननं मांसलत्वजननम्| जीवनं बालानां, तेषामेव स्त्रीक्षीरसात्म्यत्वात्||५||

Adhikarana 9 (6) · Śloka 6

तत्र विधिवत् परिरक्षणं कुर्वीत ||६||

🔊 Audio coming soon

प्रकृतिस्थानां रक्षणमाह- तत्रेत्यादि| तत्रेति तेषु वातादिषु प्रकृतिस्थेषु| विधिवत् विधिनोपपन्नं; विधिरत्र स्वास्थ्यवृत्तिकः | परिरक्षणं सर्वतो रक्षणम्||६||

Adhikarana 10 (7) · Śloka 7

अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः | तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता सन्धिशैथिल्यं (तृष्णा दौर्बल्यं प्रजागरणं) च ||७||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| केचिदत्र “क्षयः पुनरेषामतिसंशोधनातिसंशमनवेगविधारणासात्म्यान्नमनस्तापव्यायामानशनातिमैथुनैर्भवति”- इति क्षयकारणानि पठन्ति| “एतानि प्रायो वायोर्वृद्धिं कुर्वन्ति, पित्तकफयोस्तु क्षयमिति; तस्माद्यथासम्भवं कारणं ज्ञेयं; नास्मिन् पाठे प्रयोजनम्” इत्याचार्या वदन्ति| तत्रेत्यादि| मन्दचेष्टता मन्दकायव्यापारता| अप्रहर्षः अतुष्टिः| मूढसञ्ज्ञता नष्टसम्यग्ज्ञानता| चकारात् प्राकृतकर्महानिस्तद्विरोधिनश्च श्लेष्मणः प्राकृतकर्मवृद्धिरिति चकारः समुच्चिनोति| एवं पित्तादिक्षयेष्वपि चकारप्रयोजनं ज्ञेयम्| पित्तक्षय इत्यादि निष्प्रभता प्रभाहानिः| श्लेष्मक्षय इत्यादि आमाशयो यत्राशितादि पच्यते, इतराशया उरःकण्ठशिरःसन्धय इति; श्लेष्माशयशून्यतेति कृते सति आमाशयो लब्धः, यदामाशयस्य पृथगुपादानं तद्विशेषेण शून्यताख्यापनार्थम्| केचिच्छिरःशब्दं सूत्रे पठन्ति, शिरसोऽपि सर्वेन्द्रियाधिष्ठानत्वेन प्राधान्यात् पृथगभिधानम्||७||

Adhikarana 11 (8) · Śloka 8

तत्र स्वयोनिवर्धनान्येव प्रतीकारः ||८||

🔊 Audio coming soon

दोषक्षये चिकित्सामाह- तत्रेत्यादि| स्वयोनिवर्धनान्येवेति शीतरूक्षादीनि| प्रतीकारश्चिकित्सितम्| न पुनः स्वयोनिवर्धनान्यपि कटुकादीनि, कुतः? भूयस्त्वेनान्यदोषप्रकोपणत्वात्| तथाचोक्तं- “वातक्षये शीतरूक्षैर्न त्वन्यैः कटुकादिभिः| पित्तक्षयेऽपि कटुकैरुष्णैर्न लवणादिभिः|| क्षीरादिभिः स्निग्धशीतैः प्रतिकुर्यात् कफक्षये”- इति| अन्ये तु व्याख्यानयन्ति- “स्वयोनिवर्धनानीति स्वयोनिरात्महेतुः; तत्र वायोर्वायुरेव हेतुः, पित्तस्याग्निर्हेतुः, कफस्य हेतुरापः; वातक्षये वातवर्धनानि, पित्तक्षये पित्तवर्धनानि, कफक्षये कफवर्धनानि” इति| “कफस्य योनी रसः, पित्तस्य रक्तम्” इत्यपरे; रसरक्तयोरपि वर्धनान्याप्यतैजसद्रव्याणीति स एवार्थः||८||

Adhikarana 12 (9) · Śloka 9

रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं च, मेदःक्षये प्लीहाभिवृद्धिः सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं दन्तनखभङ्गो रौक्ष्यं च, मज्जक्षयेऽल्पशुक्रता पर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् ||९||

🔊 Audio coming soon

इदानीं धातुक्षयं दर्शयति- रसक्षय इत्यादि| हृच्छब्दः पीडादिभिः शून्यतान्तैः प्रत्येकं सम्बध्यते| तृष्णा उदकपानाभिलाषः| चकारप्रयोजनं दोषक्षयप्रस्तावे दर्शितम्| अन्ये तु “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा च” इति पठन्ति, व्याख्यानयन्ति च- “शोषः शरीरस्य, शून्यता आमाशयस्य मनसो वा इति,” शेषं समम्| शोणितक्षय इत्यादि| अम्लशीतप्रार्थनेति शोणितक्षये सति वातवृद्धौ तत्प्रत्यनीकाम्लरसेच्छा, तथा रक्तस्य द्रवत्वात्तत्क्षये तेजोवृद्धौ शीतप्रार्थनाऽपि; केचित् “अग्नीषोमीयत्वाद्रक्तस्य तत्तुल्यगुणयोरम्लशीतयोः प्रार्थना ” इति वदन्ति| चकाराद्वह्निमान्द्यादिकं च शोणितवर्णनीयोक्तमप्यत्र द्रष्टव्यम्| मांसक्षय इत्यादि| स्फिचौ कटिप्रोथौ, गण्डौ गल्लौ, उपस्थो योनिः, ऊरुः लोके ‘जङ्घा’ इति व्याख्याता, वक्षः उरः, पिण्डिका जानुगुल्फयोरन्तरं; शुष्कशब्दः स्फिगादिभिः प्रत्येकं सम्बध्यते| मेदःक्षय इत्यादि रौक्ष्यं त्वचः| मेदुरमांसप्रार्थनेति मेदुरं स्निग्धतमं; प्रार्थना अभिलाषः| अस्थिक्षय इत्यादि| रौक्ष्यं देहस्य दन्तनखानां च; दन्तादीनामस्थिमयत्वाद्भङ्गः | मज्जक्षय इत्यादि| पर्वभेदो ग्रन्थिपीडा; अस्थिशून्यता रिक्तता, पूरणाभावात्| शुक्रक्षय इत्यादि| चिराद्वा प्रसेक इति कथञ्चित् प्रवृत्तावपि चिरकालेन क्षरणम्; अल्परक्तशुक्रदर्शनं शुक्रं क्षीणं मज्जमिश्रमल्परक्तत्वमृच्छति; अन्ये तु “अल्पशुक्ररक्तदर्शनमिति धातुक्षयात् कुपितो वायुः शोणितमल्पशुक्रमिश्रं निःस्रावयति” इति; मेढ्रवृषणवेदनेति शुक्रस्य सर्वशरीरव्यापिनोऽपि विशेषाधारत्वान्मेढ्रवृषणनिर्देशः||९||

Adhikarana 13 (10) · Śloka 10

तत्रापि स्वयोनिवर्धनद्रव्योपयोगः (प्रतीकारः ) ||१०||

🔊 Audio coming soon

चिकित्सासूत्रं निर्दिशन्नाह- तत्रापीत्यादि| स्वयोनिवर्धनमपि समानेन द्रव्येण समानगुणेन समानगुणभूयिष्ठेन वा| समानेन द्रव्येण यथा- रक्तं रक्तेन वर्धते, मांसं मांसेन, मेदो मेदसा, अस्थि तरुणसञ्ज्ञकेनास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण; समानगुणेन यथा- रक्तक्षये तैजसद्रव्योपयोगः, तेजोगुणभूयिष्ठद्रव्योपयोगो वेत्यादि बोद्धव्यम्| द्रव्यग्रहणमुपलक्षणं, तेन कर्मापि यद्यस्य धातोरभिवृद्धिकरं तत्क्षये तत् सेव्यम्| तत्र स्वयोनिद्रव्याणामवबोधार्थं धातुमलोपधातुषु श्लोकाः कथ्यन्ते- “यद्यपि पञ्चभूतानां वाच्यः पाको द्विधा पुनः| तथाऽप्यपां प्रधानत्वाद्रसः सौम्योऽभिधीयते|| अतिरिक्ता गुणा रक्ते वह्नेर्मांसे तु पार्थिवाः| मेदस्यम्बुभुवोरस्थ्नि पृथिव्यनिलतेजसाम्|| मज्ज्ञि शुक्रे च सोमस्य मूत्रेऽम्बुशिखिनोर्गुणाः| भुवो विश्यार्तवे त्वग्नेः प्रस्वेदस्तन्ययोरपाम्|| इति धातुमलेषूक्ता गुणाः प्राधान्यतः स्थिताः| प्रायेण भूगुणा गर्भे स्तोका ह्यन्यगुणा अपि”- इति||१०||

Adhikarana 14 (11) · Śloka 11

पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ सञ्चरणं च, मूत्रक्षये बस्तितोदोऽल्पमूत्रता च; अत्रापि स्वयोनिवर्धनद्रव्योपयोगः | स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं स्वेदनाशश्च; तत्राभ्यङ्गः स्वेदोपयोगश्च ||११||

🔊 Audio coming soon

मलक्षयं दर्शयन्नाह- पुरीषक्षय इत्यादि| कुक्षिरत्र जठरम्| अत्र चिकित्सासूत्रं निर्दिशन्नाह- अत्रापीत्यादि| पुरीषक्षये माषकुल्माषादीनां, मूत्रक्षये इक्षुत्रपुसादीनामुपयोगः| स्वेदक्षय इत्यादि| स्पर्शवैगुण्यं स्पर्शहानिः| चिकित्सामाह- तत्राभ्यङ्ग इत्यादि| चकारात् स्वेदजननकुक्कुटवराहादिमांसोपयोगश्चाभ्यन्तरो लभ्यते||११||

Adhikarana 15 (12) · Śloka 12

आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदना च; तत्र संशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः | स्तनक्षये स्तनयोर्म्लानता स्तन्यासम्भवोऽल्पता वा; तत्र श्लेष्मवर्धनद्रव्योपयोगः | गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च; तत्र प्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ||१२||

🔊 Audio coming soon

उपधातुक्षयमाह- आर्तवक्षय इत्यादि| यथोचितकालो मासि मासि त्र्यहस्रवणम्| चिकित्सामाह- तत्र संशोधनमित्यादि| “संशोधनमिह सामान्यम्” इति केचित्; “संशोधनमिह वमनं न विरेकः” इत्यपरे, कुतः? विरेचनेन हि पित्तक्षयादार्तवस्य क्षय एव स्यादिति, वमनेन तु सौम्यधातौ निर्हृते आग्नेयधातौ वृद्धे आर्तवमाप्याय्यते| आग्नेयानां च द्रव्याणामिति तिलमाषसुराशुक्तादीनाम्| स्तन्यक्षय इत्यादि| म्लानता अनुन्नतिः| चिकित्सामाह- तत्र श्लेष्मवर्धनेत्यादि| स्तन्यस्य रसजत्वात्| गर्भक्षय इत्यादि| अत्र चिकित्सामाह- तत्रेत्यादि| प्राप्तबस्तिकालाया इति प्राप्ताष्टममासाया इत्यर्थः| मेद्यान्नोपयोग इति स्निग्धान्नोपयोगः; “मेध्याण्डोपयोग” इत्यन्ये पठन्ति, “मेध्याण्डानि वृष्याण्डानि, बस्तमत्स्याण्डादीनि” इति च व्याख्यानयन्ति||१२||

Adhikarana 16 (13) · Śloka 13

अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं वक्ष्यामः | वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवनाद्भवति | तत्र, वातवृद्धौ वाक्पारुष्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं च; पित्तवृद्धौ पीतावभासता सन्तापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च; श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्धिविश्लेषश्च ||१३||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| गाढवर्चस्त्वं चेति चकारोऽयं वातस्य प्रकृतिकर्मणोऽतिशयत्वं समुच्चिनोति, एवं पित्तकफरसादिष्वपि चकारप्रयोजनम्| वाक्पारुष्यं वचनकार्कश्यं, केचिद्वाक्पारुष्यं न पठन्ति| कार्श्यं मांसक्षयः| कार्ष्ण्यं कृष्णत्वं शरीरे| अल्पबलत्वम् उत्साहहानिः| पित्तवृद्धावित्यादि| अल्पनिद्रता किञ्चित् स्निग्धत्वात् पित्तस्य| मूर्च्छा सर्वेन्द्रियशक्तेस्तिरस्कारः| बलहानिरिह ओजोहानिः, सन्तापात्तत्क्षयोपपत्तेः| श्लेष्मवृद्धावित्यादि| शौक्ल्यशैत्ये त्वगादीनाम्| स्थैर्यं गात्राणां स्तम्भः| अवसादः चित्तदेहयोर्ग्लानिः| तन्द्रा निद्राभेदः| सन्धिविश्लेषः अत्यन्तवृद्धेन विष(घ)टनम्| ‘सन्ध्यस्थिश्लिष्टता ’ इति केचित् पठन्ति, व्याख्यानयन्ति च- ‘कफोपचितत्वात् सुष्ठु सङ्घट्टनं सन्ध्यस्थ्नोर्भवति’ इति| ‘अध्यस्थिश्लिष्टता’ इति क्वचित् पाठः||१३||

Adhikarana 17 (14) · Śloka 14

रसोऽतिवृद्धो हृदयोत्क्लेदं प्रसेकं चापादयति; रक्तं रक्ताङ्गाक्षितां सिरापूर्णत्वं च; मांसं स्फिग्गण्डौष्ठोपस्थोरुबाहुजङ्घासु वृद्धिं गुरुगात्रतां च; मेदःस्निग्धाङ्गतामुदरपार्श्ववृद्धिं कासश्वासादीन् दौर्गन्ध्यं च; अस्थ्यध्यस्थीन्यधिदन्तांश्च; मज्जा सर्वाङ्गनेत्रगौरवं च; शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च ||१४||

🔊 Audio coming soon

धातूनामतिवृद्धिं दर्शयन्नाह- रसोऽतिवृद्ध इत्यादि| हृदयोत्क्लेदं हृल्लासम्, अन्ये छर्दिमाहुः| प्रसेकं लालास्रावमित्यर्थः| आपादयतीति क्रियापदं गर्भो जठराभिवृद्धिं स्वेदं चेत्यन्तं यावदनुवर्तते| अध्यस्थीनि अधिकास्थीनि| अधिदन्तानिति अधिकान् दन्तान्; चकारात् केशनखयोरप्यतिवृद्धिर्ज्ञेया| शुक्रमित्यादि|- अतिप्रादुर्भावमिति अतिप्रवृत्तिं शुक्रस्येत्यर्थः||१४||

Adhikarana 18 (15) · Śloka 15

पुरीषमाटोपं कुक्षौ शूलं च; मूत्रं मूत्रवृद्धिं मुहुर्मुहुः प्रवृत्तिं बस्तितोदमाध्मानं च; स्वेदस्त्वचो दौर्गन्ध्यं कण्डूं च ||१५||

🔊 Audio coming soon

मलानामतिवृद्धिं दर्शयन्नाह- पुरीषमित्यादि| आटोपम् आध्मानं, क्षोभमित्यन्ये| मूत्रमित्यादि| आध्मानमिह बस्तेरेव||१५||

Adhikarana 19 (16) · Śloka 16

आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च; स्तन्यं स्तनयोरापीनत्वं मुहुर्मुहुः प्रवृत्तिं तोदं च; गर्भो जठराभिवृद्धिं स्वेदं च ||१६||

🔊 Audio coming soon

उपधातूनामतिवृद्धिं निर्देष्टुमाह- आर्तवमित्यादि| अङ्गमर्दो वेदनाविशेषः| दौर्गन्ध्यं पित्तधर्मत्वादार्तवस्य, तदुक्तं- “ईषत्कृष्णं विगन्धं च” (शा. अ. ३) इत्यादि; “दौर्बल्यम्” इत्यन्ये पठन्ति| चकाराद्रक्तगुल्मादीनपि||१६||

Adhikarana 20 (17) · Śloka 17

तेषां यथास्वं संशोधनं क्षपणं च क्षयादविरुद्धैः क्रियाविशेषैः प्रकुर्वीत ||१७||

🔊 Audio coming soon

चिकित्सासूत्रं निर्दिशन्नाह- तेषामित्यादि| यथास्वं यद्यदस्यात्मीयम्| क्षपणमत्र संशमनम्| क्षयादविरुद्धैः क्रियाविशेषैरिति तन्त्रान्तरोक्तैः| तथाहि- “छिन्नाविश्वादिभिर्वायुं, पित्तं क्षौद्रफलत्रिकैः| कफं गुडार्द्रकाद्यैश्च जयेद्दोषाविरोधिभिः”- इति| अन्ये त्वेवं पठन्ति- “तेषां क्षपणमविरुद्धैः क्रियाविशेषैः कुर्वीत”| क्रियाविशेषैरिति क्रियाः संशोधनसंशमनाहाराचाराख्याः||१७||

Adhikarana 21 (18) · Śloka 18

पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् | तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम् ||१८||

🔊 Audio coming soon

स्वयं तावदेते वृद्धा अनर्थकराः, परम्परया वर्धिताः पूर्वपरधातुभिरपि महानर्थकारिण इति दर्शयन्नाह- पूर्व इत्यादि| हि यस्मादर्थे| ह्रासनमिति ह्रासोऽत्र वृद्धेर्हानिः| पूर्वः पूर्व इत्याद्युपलक्षणम्| तेन परोऽपि वृद्धः प्रतिस्रोतःसरिद्बन्धः(ध)स्थलाप्लावनन्यायेन पूर्वं वर्धयति, तथा परोऽपि क्षीणः पूर्वं क्षपयति, तथा पूर्वः क्षीणः परं क्षपयति| केचिदमुं श्लोकं ‘यस्य धातुक्षयाद्वायुः’ इत्यादिश्लोकस्याग्रे पठन्ति||१८||

Adhikarana 22 (19) · Śloka 19

बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदेक्ष्यामः | तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशास्त्रसिद्धान्तात् ||१९||

🔊 Audio coming soon

बललक्षणमित्यादि| परम् उत्कृष्टं, तेज इव तेजः, तेजो घृतं वा, घृतं यथा कृत्स्नक्षीरस्नेहस्तथैवौजोऽपि कृत्स्नधातुस्नेह इत्यर्थः; “यत् परं तेज इति यदुत्कृष्टं सारः” इत्यन्ये व्याख्यानयन्ति| तत् खल्वोजस्तदेव बलमित्युच्यत इति, इयं चाभेदोक्तिश्चिकित्सैक्यार्था, परमार्थस्तु बलौजसोर्भेद एव; यथा भेदस्तदुच्यते- सर्वधातुस्नेहभूतस्योपचयलक्षणस्यौजसो रूपरसौ वीर्यादि च विद्यते, बलस्य तु भारहरणादिशक्तिगम्यस्य रसवीर्यवर्णादिगुणा न विद्यन्ते, अतोऽनयोर्भेदोऽस्त्येवेति; तथाच बलौजसोर्भेदो वेदोत्पत्तावध्याये उक्तः- “प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च”(सू. अ. १)- इति| तन्त्रान्तरे तु ओजःशब्देन रसोऽप्युच्यते, जीवशोणितमप्योजःशब्देनामनन्ति केचित्, ऊष्माणमप्योजःशब्देनापरे वदन्ति||१९||

Adhikarana 23 (20) · Śloka 20

तत्र बलेन स्थिरोपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरवर्णप्रसादो बाह्यानामाभ्यन्तराणां च करणानामात्मकार्यप्रतिपत्तिर्भवति ||२०||

🔊 Audio coming soon

बलस्य प्राकृतं कर्म निर्देष्टुमाह- तत्र बलेनेत्यादि| स्थिरोपचितमांसतेति एतत्सर्वधातुसारोपचयलक्षणेन बलेन; सर्वचेष्टास्विति कायवाङ्मनोव्यापारेषु, अप्रतिघातोऽप्रतिहतशक्तित्वम्, एतद्भारहरणादिशक्तिलक्षणेन बलेन; स्वरवर्णप्रसाद इति प्रसादो नैर्मल्यम्; एतदुभयात्मकेन बलेन| बाह्यानामित्यादि|- बाह्यानां करणानां कर्मेन्द्रियाणाम्, आभ्यन्तराणां बुद्धीन्द्रियाणाम्| आत्मकार्यप्रतिपत्तिः स्वकीयकार्यावबोधो भवति; ‘प्रतिपत्तिरत्रानुष्ठानम्’ इत्यन्ये| तत्र बाह्यानां वाक्पाणिपादपायूपस्थानामात्मकार्याणि वचनादानगमनविसर्गानन्दनानि, आभ्यन्तराणां करणानां श्रोत्रत्वक्चक्षुर्जिह्वानासिकानामात्मकार्याणि शब्दस्पर्शरूपरसगन्धग्रहणानि; एतदप्युभयात्मकेन बलेन| केचिदन्यथा व्याख्यानयन्ति- “बाह्यानां श्रोत्रत्वक्चक्षुर्जिह्वानासिकावाक्पाणिपादपायूपस्थानाम्, आभ्यन्तराणां मनोबुद्धिप्रभृतीनां, बलकारणभूतमोजः” इति||२०||

Adhikarana 24 (21-22) · Śloka 22

भवन्ति चात्र- ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् | विविक्तं मृदु मृत्स्नं च प्राणायतनमुत्तमम् ||२१|| देहः सावयवस्तेन व्याप्तो भवति देहिनः | तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् ||२२||

🔊 Audio coming soon

बलचिकित्सार्थं स्वचिकित्सार्थमपि च प्राकृतैर्गुणैर्निर्दिशन्नाह- ओज इत्यादि| सोमात्मकं सौम्यम्| स्निग्धं स्नेहगुणयुक्तम्| शुक्लम् अतिश्वेतम्| यत्तु चरके- “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम्” (सू. अ. १७)- इत्यादिश्लोकेनौजस्त्रिवर्णं पठितं; तत्र हि शुद्धग्रहणेन शुक्लमुक्तम्, अतः शुक्लपीतरक्तवर्णास्त्रय उक्ताः; अत्राप्योजसस्त्रय एव वर्णाः, येनात्र ‘शुक्रमोजः’ इति पठितं, शुक्रौजसोरभेदादपरं तैलक्षौद्रवर्णद्वयं प्राप्तं; तेनात्रापि शुक्लरक्तपीतवर्णास्त्रय एवौजस उक्ताः; न चात्र शुक्रौजसोर्भेदोऽङ्गीकर्तव्यः, तस्मिन् सत्यष्टधातुत्वं स्यात्, तस्माद्रसादिधातुस्नेहपरम्पराहैतुकः स्नेहः शुक्रं, क्षीरस्थघृतमिवाभिन्नमोजः शुक्रेण| अपरे शुक्लस्थाने शुक्रं पठन्ति; युक्तं चैतत् शुक्रवर्णेनैवौजोवर्णानां निर्दिष्टत्वात्| शीतं शीतवीर्यम्| स्थिरं शरीरावयवस्थैर्यकारि| सरं प्रसरणशीलम्| अन्ये त्वत्र ‘रसं’ इति पठन्ति, ‘प्रधानरसकल्पनया मधुरम्’ इति व्याख्यानयन्ति च| विविक्तं श्रेष्ठैर्गुणैर्युक्तम्; अन्ये पुनर्विविक्तं प्रत्यग्रमाहुः, ततः प्रत्यग्रैरेवान्नादिभिराप्यायनम्| मृदु कोमलम्| मृत्स्नं चेति पिच्छिलम्| चकाराद्गुर्वादयो गुणा अनुक्ताः समुच्चीयन्ते| प्राणानाम् अग्नीषोमादीनाम्, आयतनं स्थानम्| उत्तमं श्रेष्ठम्| तत्र बलेनेत्यादिवाक्येन स्थितौ हेतुत्वं प्रतिपादयति| देह इत्यादि| तेन ओजसा| भवति उत्पद्यते| इदानीं प्रलये तस्यैव हेतुत्वं दर्शयन्नाह- तदभावादित्यादि| शीर्यन्ते विनश्यन्ति| अयं पाठोऽभावात् समग्रो न लिखितः||२१-२२||

Adhikarana 25 (23) · Śloka 23

अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रमात्क्षुधः | ओजः सङ्क्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् | तेजः समीरितं तस्माद्विस्रंसयति देहिनः ||२३||

🔊 Audio coming soon

इदानीमभिघातादिभिर्हेतुभिरोजसः क्षयं निर्दिशन्नाह- अभिघातादित्यादि| एभ्योऽभिघातादिहेतुभ्यः| धातुग्रहणमिति धातवो गृह्यन्ते यैस्तानि धातुग्रहणानि धातुवाहीनि स्रोतांसि, तेभ्यो निःसृतं निर्गतं सर्वधातुस्नेहपरम्परारूपेण; अथवा धातुग्रहणं हृदयं धातुवहस्रोतसां स्थानत्वात्, तस्माद्धृदयान्निःसृतं, स्रोतसो मुखैरेव| अन्यैस्तु हृदयमेव धातून् गृह्णातीति धातुग्रहणशब्देनैव हृदयमुच्यते| तेजः पित्तं, समीरितं सम्यक्प्रेरितं ‘वातेन’ इति शेषः| तस्मात् हृदयात्; विस्रंसयति च्यावयति||२३||

Adhikarana 26 (24) · Śloka 24

तस्य विस्रंसो व्यापत् क्षय इति (त्रयो दोषाः;) लिङ्गानि भवन्ति सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियासन्निरोधश्च विस्रंसे, स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने, मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति च क्षये ||२४||

🔊 Audio coming soon

तस्यौजसः क्षयभेदान् साध्यासाध्यज्ञानार्थं स्वलक्षणैर्निर्दिशन्नाह- तस्येत्यादि| विस्रंसः स्थानाच्च्युतिरभिघातादिभिरेव| व्यापदन्यथापत्तिः, सा दुष्टदोषदूष्यसंसर्गात्| क्षयः स्वप्रमाणात् शोकध्यानक्षयादिभिः| ‘लिङ्गानि व्यापन्नस्य भवन्ति’ इति केचित् पठन्ति; व्यापन्नस्य दोषदूषितस्य| विस्रंसादीनामोजःक्षयभेदानां किं लिङ्गमित्याह- सन्धिविश्लेष इत्यादि| सन्धिविश्लेषः सन्धीनां विषटनम्| दोषच्यवनं स्वस्थानाद्वातादीनां भ्रंशः, अन्ये “दोषैः कृत्वा च्यवनमोजसः” इति वदन्ति, “दोषच्यवनं मलानां च्यवनम्” इति केचित्| क्रियाणां कायवाङ्मानसीनां सन्निरोधः; “क्रियाशब्दाग्रे नञ् लुप्तो द्रष्टव्यः; नञ् ईषदर्थे, तेन क्रियाणामीषत्सन्निरोधः” इत्यन्ये व्याचक्षते| चकाराद्बलस्य प्राकृतकर्महानिः| एवं व्यापत्तौ क्षये च चकारप्रयोजनम्| एतानि विस्रंसे लिङ्गानि भवन्तीति योज्यम्| स्तब्धगुरुगात्रतेति स्तब्धगुरुभ्यां गात्रतेति सम्बध्यते; स्तब्धगात्रता जान्वादेरनमनसामर्थ्यम्| वर्णभेदो गौरादिवर्णान्यत्वम्| ग्लानिः अप्रहर्षः| तन्द्रा इन्द्रियार्थेऽकर्मण्यता| व्यापन्ने ‘लिङ्गानि भवन्ति’ इत्यनुवर्तते| मूर्च्छेत्यादि मूर्च्छा विज्ञानेन्द्रियनिरोधः| मोहः वैचित्त्यम्| प्रलापः असम्बद्धभाषणम्| क्षये ‘लिङ्गानि भवन्ति’ इत्यनुवर्तते||२४||

Adhikarana 27 (25-27) · Śloka 28

भवन्ति चात्र- त्रयो दोषा बलस्योक्ता व्यापद्विस्रंसनक्षयाः | विश्लेषसादौ गात्राणां दोषविस्रंसनं श्रमः ||२५|| अप्राचुर्यं क्रियाणां च बलविस्रंसलक्षणम् | गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् ||२६|| तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् | मूर्च्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च ||२७|| पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये |२८|

🔊 Audio coming soon

गद्योक्तमेवार्थं श्लोकैराह- भवन्ति चात्रेत्यादि| त्रयो दोषाः तिस्रो विकृतयः| विश्लेषसादावित्यादि| पूर्वोक्तानि विस्रंसव्यापदोर्लिङ्गानीत्यर्थः||२५-२७||

Adhikarana 28 (28) · Śloka 28

तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलमाप्याययेत् ; इतरं तु मूढसञ्ज्ञं वर्जयेत् ||२८||

🔊 Audio coming soon

चिकित्सासूत्रं निर्दिशन्नाह- तत्रेत्यादि| क्रियाविशेषै रसायनवाजीकरणादिभिः| अविरुद्धैरग्न्याद्यविरुद्धैः| बलं शक्त्युपचयलक्षणम्| आप्याययेत् वर्धयेत्| क्षीणस्यावस्थायां वर्जनमाह- इतरं त्वित्यादि|- इतरं क्षीणं वर्जयेत्| किम्भूतं वर्जयेदित्याह- मूढसञ्ज्ञं नष्टसञ्ज्ञं, पूर्वं मोहस्योक्तत्वात्| मूढसञ्ज्ञं वर्जयेदित्येतस्याग्रे केचित् सुश्रुताध्यायिनः “तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिर्वृत्तमन्तरस्थं स्नेहजातं वसाख्यं स्त्रीणां विशेषतो भवति; तेन मार्दवसौकुमार्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयो भवन्ति; तत् कषायतिक्तगुरुशीतरूक्षविष्टम्भिवेगविघातव्यवायव्यायामव्याधिकर्षणै(र्शनै)श्च विक्रियते; तस्यापि पारुष्यवर्णभेदतोदनिष्प्रभत्वानि विस्रंसने भवन्ति, कार्श्यं मन्दाग्निताऽधस्तिर्यक्च प्रच्युतिर्व्यापत्तौ, दृष्ट्यग्निबलहान्यनिलप्रकोपमरणानि क्षये| तत्र स्नेहपानाभ्यङ्गप्रदेहपरिषेकस्निग्धलघ्वन्नानि क्षयादृते विदधीत” इत्यमुं पठन्ति| अयं तु पाठो न पठनीयः, कुतः? निबन्धकारैरनार्षीकृतत्वात् ||२८||

Adhikarana 29 (29-31) · Śloka 31

दोषधातुमलक्षीणो बलक्षीणोऽपि वा नरः | स्वयोनिवर्धनं यत्तदन्नपानं प्रकाङ्क्षति ||२९|| यद्यदाहारजातं तु क्षीणः प्रार्थयते नरः | तस्य तस्य स लाभे तु तं तं क्षयमपोहति ||३०|| यस्य धातुक्षयाद्वायुः सञ्ज्ञां कर्म च नाशयेत् | प्रक्षीणं च बलं यस्य नासौ शक्यश्चिकित्सितुम् ||३१||

🔊 Audio coming soon

दोषेत्यादि| स्वयोनिवर्धनम् आत्मकारणवर्धनं यदन्नपानं तदभिलषति| यद्यदित्यादि| आहारजातमाहारसमूहम्| केचिदाचार्या अमुं श्लोकं न पठन्ति| केचित् सुश्रुताध्यायिनोऽत्र दोषधात्वादिक्षयविनाशार्थं देयमन्नादिकं पठन्ति- “यवान् मुद्गान् हरेणूंश्च रूक्षं च लघुभोजनम्| कषायकटुतिक्तं च वातक्षीणोऽभिकाङ्क्षति|| तिलमाषकुलत्थादि पिष्टान्नविकृतिं तथा| मस्तुशुक्ताम्लतक्राणि पित्तक्षीणस्तथा दधि|| मांसं माहिषवाराहमाजं गुडगुरूणि च| श्लेष्मक्षीणोऽभिलषति क्षीरस्वप्नदधीनि च|| इक्षुं मांसरसं मन्थं मधु सर्पिर्गुडोदकम्| असृङ्मांसं यवागूं च रसक्षीणोऽभिवाञ्छति|| द्राक्षादाडिमयुक्तानि सस्नेहलवणानि च| रक्तसिद्धानि मांसानि रक्तक्षीणोऽभिकाङ्क्षति||अम्लानि दधिसिद्धानि तथा षाडवकानि च| स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्क्षति|| मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानि च| सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति|| रसान् सुसिद्धान् सास्थीनि मांसानीहाभिकाङ्क्षति|| अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्| स्वाद्वम्लसंयुतं द्रव्यं मज्जक्षीणोऽभिकाङ्क्षति|| मयूरकुक्कुटाण्डानि हंससारसयोस्तथा| ग्राम्यानूपौदकानां च शुक्रक्षीणोऽभिकाङ्क्षति|| यवानि यवकान्नानि शाकानि विविधानि च| मायूरं माषयूषं च वर्चःक्षीणोऽभिकाङ्क्षति|| पेयामिक्षुरसं क्षीरं सगुडं बदरोदकम्| मूत्रक्षीणोऽभिलषति त्रपुसैर्वारुकाणि च|| अभ्यङ्गं मर्दनं मद्यं निवातशयनासनम्| गुरुप्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्षति|| कट्वम्ललवणाम्लानि विदाहीनि गुरूणि च| फलशाकानुपानानि स्त्री वाञ्छत्यार्तवक्षये|| मृगाजाविवराहाणां गर्भान् वाञ्छति संस्कृतान्| वसाशूल्यप्रकारादीन् भोक्तुं गर्भपरिक्षये|| सुराशाल्यन्नमांसानि गोक्षीरं शर्करां तथा| आसवं दधि हृद्यानि क्षये स्तन्यस्य वाञ्छति” इति| यस्येत्यादि ‘इतरं तु मूढसञ्ज्ञं वर्जयेत्’ इत्यनेनैवास्योक्तार्थत्वात् केचिदमुं न पठन्ति, “सर्वधातुक्षयव्यापकत्वाद्भिन्नविषयोऽयं श्लोकः,तस्मात् पठनीयः” इत्यन्ये||२९-३१||

Adhikarana 30 (32) · Śloka 32

रसनिमित्तमेव स्थौल्यं कार्श्यं च | तत्र श्लेष्मलाहारसेविनोऽध्यशनशीलस्याव्यायामिनो दिवास्वप्नरतस्य चाम एवान्नरसो मधुरतरश्च शरीरमनुक्रामन्नतिस्नेहान्मेदो जनयति, तदतिस्थौल्यमापादयति ; तमतिस्थूलं क्षुद्रश्वासपिपासाक्षुत्स्वप्नस्वेदगात्रदौर्गन्ध्यक्रथनगात्रसादगद्गदत्वानि क्षिप्रमेवाविशन्ति, सौकुमार्यान्मेदसः सर्वक्रियास्वसमर्थः, कफमेदोनिरुद्धमार्गत्वाच्चाल्पव्यवायो भवति, आवृतमार्गत्वादेव शेषा धातवो नाप्यायन्तेऽत्यर्थमतोऽल्पप्राणो भवति, प्रमेहपिडकाज्वरभगन्दरविद्रधिवातविकाराणामन्यतमं प्राप्य पञ्चत्वमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यावृतमार्गत्वात् स्रोतसाम्; अतस्तस्योत्पत्तिहेतुं परिहरेत् | उत्पन्ने तु शिलाजतुगुग्गुलुगोमूत्रत्रिफलालोहरजोरसाञ्जनमधुयवमुद्गकोरदूषकश्यामाकोद्दालकादीनां विरूक्षणच्छेदनीयानां च द्रव्याणां विधिवदुपयोगो व्यायामो लेखनबस्त्युपयोगश्चेति ||३२||

🔊 Audio coming soon

रसनिमित्तमित्यादि| चकारान्मध्यशरीरत्वं च| ननु, कथमेक एव रसः परस्परविरुद्धयोः स्थौल्यकार्श्ययोर्हेतुरित्यत आह- तत्रेत्यादि| अध्यशनशीलस्येति अजीर्णभोजनाभ्यासिन इत्यर्थः| ननु, मेदस्विनो दीप्ताग्नित्वे कथमामरससम्भवः? नैष दोषः, दीप्ताग्नित्वेऽप्यध्यशनशीलत्वादामरसो भवति| तर्हि कथं रसश्चापक्वश्चेति विरोधनीयवचनं? न ह्यपक्वो रसव्यपदेशं लभते| सत्यं, जाठरेणाग्निना रसः कद्भावेन कृत एव, किन्तु धात्वग्निभिरपाकादाम इत्युच्यते| शरीरमनुक्रामन्निति तं तं शरीरदेशं गच्छन्नित्यर्थः| मेदो जनयति विशिष्टाहारवशाददृष्टवशान्मेदसाऽऽवृतमार्गत्वाच्च धातुद्वयमतिक्रम्य मेद एव वर्धयति| तदतिस्थौल्यमापादयतीति तत् मेदः, आपादयति करोति| क्रथनं स्वपतः कण्ठे घुर्घुरारवः, अन्ये त्वकस्माच्छ्वासावरोधं क्रथनं कथयन्ति| गद्गदत्वम् अव्यक्तवचनत्वम्| क्षिप्रमेवाविशन्तीति एते क्षुद्रश्वासादयस्तं स्थूलं शीघ्रमेव प्रविशन्ति, स्थूले भवन्तीत्यर्थः| शेषधातवो नाप्यायन्तेऽत्यर्थमिति शेषधातवोऽस्थ्यादयः| वातविकाराणामिति अत्र वातविकारा मेदःकृतमार्गावरणनिमित्तवातकोपविकारा इत्यर्थः| अन्यतममिति एषामेकम्| पञ्चत्वमुपयातीति मरणमुपगच्छतीत्यर्थः| तस्य चिकित्सामाह- अत इत्यादि| तस्योत्पत्तिहेतुं परिहरेदित्यनेन निदानपरिवर्जनेनानागताबाधचिकित्सोक्ता| उत्पन्ने जाते पुनरित्यर्थः| उद्दालकादीनामिति उद्दालक आरण्यकोद्रवः, आदिशब्दाद्गवेधुकादीनां ग्रहणम्| विरूक्षणच्छेदनीयानामिति विरूक्षणं मेदोघ्नं, छेदनीयं स्रोतोविशोधनीयम्| विधिवदुपयोग इति पुरुषाग्निबलमात्राविधानवानुपयोग इत्यर्थः| लेखनबस्त्युपयोगश्च लेखनबस्तयश्चिकित्सितोक्ताः, “त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमन्विताः| ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः” (चि. अ. ३८) इति| चकाराद्व्यायामादयो मृदवः काङ्कायनसक्तवश्च||३२||

Adhikarana 31 (33) · Śloka 33

तत्र पुनर्वातलाहारसेविनोऽतिव्यायामव्यवायाध्ययनभयशोकध्यानरात्रिजागरणपिपासाक्षु त्कषायाल्पाशनप्रभृतिभिरुपशोषितो रसधातुः शरीरमननुक्रामन्नल्पत्वान्न प्रीणाति, तस्मादतिकार्श्यं भवति; सोऽतिकृशः क्षुत्पिपासाशीतोष्णवातवर्षभारादानेष्वसहिष्णुर्वातरोगप्रायोऽल्पप्राणश्च क्रियासु भवति, श्वासकासशोषप्लीहोदराग्निसादगुल्मरक्तपित्तानामन्यतममासाद्य मरणमुपयाति, सर्व एव चास्य रोगा बलवन्तो भवन्त्यल्पप्राणत्वात्; अतस्तस्योत्पत्तिहेतुं परिहरेत् | उत्पन्ने तु पयस्याश्वगन्धाविदारिगन्धाशतावरीबलातिबलानागबलानां मधुराणामन्यासां चौषधीनामुपयोगः, क्षीरदधिघृतमांसशालिषष्टिकयवगोधूमानां च, दिवास्वप्नब्रह्मचर्याव्यायामबृंहणबस्त्युपयोगश्चेति ||३३||

🔊 Audio coming soon

कार्श्यनिमित्तं दर्शयन्नाह- तत्र पुनरित्यादि| वातलाहारसेविन इति अतिरूक्षाहारसेविनः| अतिव्यायामेत्यादि अतिशब्दो व्यायामादिभिः प्रत्येकं सम्बध्यते| क्षयो धातुक्षयः| उपशोषितो रसधातुरिति अतिरूक्षीकृतोऽल्पीकृतश्च| न प्रीणाति ईषत्प्रीणातीत्यर्थः| सोऽतिकृश इत्यनेनोपचयलक्षणबलाभावो दर्शितः| वातरोगप्राय इति वातरोगबहुल इत्यर्थः| अल्पप्राणश्च क्रियासु भवतीति कायवाङ्मानसीषु क्रियासु विषयेऽल्पशक्तिर्भवति; एतेन शक्तिलक्षणबलाभाव उक्तः| शोषो राजयक्ष्मा| उत्पन्ने त्विति ‘कार्श्ये’ इति शेषः| पयस्या अर्कपुष्पी, क्षीरकाकोलीत्यन्ये| विदारिगन्धा शालिपर्णी| मधुराणामित्यादि ऋद्धिवृद्धिजीवकादीनाम्| बृंहणबस्त्युपयोगश्चेति बृंहणबस्तिर्यथा- “बृंहणद्रव्यनिःक्वाथास्तत्कल्कस्नेहसैन्धवैः| युक्ताः खजप्रमथिता बस्तयो बृंहणा मताः” (चि. अ. ३८) इति| चकारात् सन्तर्पणमपि लघु कर्तव्यम्||३३||

Adhikarana 32 (34) · Śloka 34

यः पुनरुभयसाधारणान्यासेवेत तस्यान्नरसः शरीरमनुक्रामन् समान् धातूनुपचिनोति, समधातुत्वान्मध्यशरीरो भवति सर्वक्रियासु समर्थः क्षुत्पिपासाशीतोष्णवातवर्षातपसहो बलवांश्च, स सततमनुपालयितव्य इति ||३४||

🔊 Audio coming soon

मध्यशरीरस्य हेतुं गुणं च दर्शयन्नाह- यः पुनरित्यादि| उभयसाधारणानि नातिस्निग्धरूक्षाणि स्वास्थ्यवृत्तिकानि द्रव्याणि षष्टिकरक्तशालिलावकदाडिमतण्डुलीयकादीनि, अदिवास्वप्नादींश्च विहारविशेषान्| सर्वक्रियासु समर्थ इत्यनेनैव बलवत्त्वे लब्धे यद्बलवांश्चेति करोति तन्नियमार्थम्; एवम्भूताहारविहारसेवी बलवानेव भवतीत्यर्थः| मध्यशरीरस्य चिकित्सामाह- स सततमनुपालयितव्य इति ‘स्वस्थवृत्तानुवर्तनेन’ इति शेषः||३४||

Adhikarana 33 (35) · Śloka 35

भवन्ति चात्र- अत्यन्तगर्हितावेतौ सदा स्थूलकृशौ नरौ | श्रेष्ठो मध्यशरीरस्तु कृशः स्थूलात्तु पूजितः ||३५||

🔊 Audio coming soon

तयोर्द्वयोः कृशस्थूलयोर्दोषवत्त्वेऽपि स्थूलस्यातिशयदोषवत्त्वं मध्यशरीरस्य च गुणवत्त्वं निर्देष्टुमाह- अत्यन्तेत्यादि| कुतः स्थूलात् कृशः पूजितः? उच्यते- स्थूलस्य क्रियाऽक्षमत्वात्, अतिशयेन व्याधिपीडनाच्च||३५||

Adhikarana 34 (36) · Śloka 36

दोषः प्रकुपितो धातून् क्षपयत्यात्मतेजसा | इद्धः स्वतेजसा वह्निरुखागतमिवोदकम् ||३६||

🔊 Audio coming soon

दोषादीनां क्षयवृद्ध्योरेकत्र निर्देशेऽपि दोषा एव धातुमलक्षयहेतव इति दर्शयन्नाह- दोष इत्यादि| दोषो वातपित्तकफसञ्ज्ञकः| धातूनिति धातुशब्दोऽत्र समेषु मलेष्वपि वर्तते, देहधारणसामर्थ्यात्; अथवा धातुशब्द उपलक्षणम्, तेन मला अपि प्राप्यन्ते| क्षपयतीति क्षपणं वृद्धिसाम्ययोः ह्रासः| आत्मतेजसेति आत्मशक्त्या| तत्र पित्तं कटुकोष्णत्वाद्धातून् क्षपयति, वायुश्च शोषणहेतुत्वात्, कफो मार्गावरोधकत्वात्| इद्धो दीप्तः| उखागतं स्थालीस्थम्||३६||

Adhikarana 35 (37) · Śloka 37

वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च | दोषधातुमलानां तु परिमाणं न विद्यते ||३७||

🔊 Audio coming soon

कुतः पुनः पलादिमानेन दोषादीनां प्रमाणं न निर्दिष्टमित्याह- वैलक्षण्यादित्यादि|- वैलक्षण्यात् विसदृशत्वात्, विसदृशत्वं चात्र वातादिप्रकृति-रसरक्तादिसार-संहनन-दीर्घह्रस्वादिकायभेदेन| अस्थायित्वात्तथैव चेति अनवस्थितत्वात्, अस्थायित्वं च द्विविधेऽपि काले नित्यग आवस्थिकेऽपि च; तत्र नित्यगे प्रातः श्लेष्मोपचीयते मध्याह्ने पित्तमित्यादि प्रत्यहमाह्निकचयादिभेदेन, तथा हेमन्ते श्लेष्मोपचीयते ग्रीष्मे वायुरित्याद्यार्तवचयादिभेदेन; तथाऽऽवस्थिकेऽपि बाल्ये श्लेष्माऽभिवर्धते, तथा बाल्ये शुक्राल्पत्वं कन्यानामार्तवस्तन्याभावः, युवसु पित्तमुपचीयते, वृद्धेषु वायुरित्यादिना| परिमाणमिति स्वं सर्वतो मानं न विद्यते; तेन कस्यचिदेव क्वचिदेव मानं कर्तुं शक्यते, न सर्वत इत्यर्थः||३७||

Adhikarana 36 (38) · Śloka 38

एषां समत्वं यच्चापि भिषग्भिरवधार्यते | न तत् स्वास्थ्यादृते शक्यं वक्तुमन्येन हेतुना ||३८||

🔊 Audio coming soon

ननु, दोषादीनां पलादिमानं विना साम्यं कथं ज्ञेयमित्याह- एषामित्यादि| एषामिति दोषधातुमलानाम्| न तदित्यादि तदपि साम्यं; स्वास्थ्यादृते स्वास्थ्यं विना||३८||

Adhikarana 37 (39) · Śloka 39

दोषादीनां त्वसमतामनुमानेन लक्षयेत् | अप्रसन्नेन्द्रियं वीक्ष्य पुरुषं कुशलो भिषक् ||३९||

🔊 Audio coming soon

क्षयवृद्धिभेदात्मकमसाम्यमनुमानेन दर्शयन्नाह- दोषादीनामित्यादि| दोषादीनामिति आदिशब्देन धातुमलानां ग्रहणम्| तुशब्दः पुनरर्थे| असमतां क्षयवृद्धिलक्षणाम्| ‘अप्रसन्नेन्द्रियं’ इत्यत्र ‘अप्रसन्नतनुं’ इति यन्न कृतं तदिन्द्रियाधिष्ठानानामिन्द्रियशक्तीनां च प्रसन्नत्वं बोधयति| वीक्ष्येत्यनेन वर्णादि सर्वमुक्तं भवति| ‘वीक्ष्य’ इत्यत्र ‘ज्ञात्वा’ इत्येके पठन्ति||३९||

Adhikarana 38 (40) · Śloka 40

(स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्) | क्षपयेद्बृंहयेच्चापि दोषधातुमलान् भिषक् | तावद्यावदरोगः स्यादेतत्साम्यस्य लक्षणम् ||४०||

🔊 Audio coming soon

असाम्यं वृद्धिक्षयात्मकमित्यनुमानेन प्रतिपाद्य किं कुर्यादित्याह- क्षपयेदित्यादि|- क्षपयेदिति वृद्धान् दोषधातुमलान् ह्रासयेदित्यर्थः| बृंहयेदिति तानेव क्षीणान् वर्धयेत्| क्षपणबृंहणयोर्मात्रावधिं दर्शयन्नाह- तावदित्यादि| कुतः पुनरारोग्यमवधिरित्याह- एतत् साम्यस्य लक्षणमित्यादि| अयं पाठः समग्रोऽभावान्न लिखितः||४०||

Adhikarana 39 (41) · Śloka 41

समदोषः समाग्निश्च समधातुमलक्रियः | प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ||४१||

🔊 Audio coming soon

दोषादिसाम्यं स्वास्थ्यं, तद्दर्शयितुमाह- समदोष इत्यादि| ननु, द्विविधेऽपि काले नित्यं दोषचयाद्यनुबन्धात् कथं समदोषत्वं? तथाहि नित्यगे- आह्निके तावत् प्रातः कफः कुप्यति, मध्याह्ने पित्तमित्यादि; तथाऽऽर्तवेऽपि हेमन्ते कफश्चीयते वसन्ते स एव कुप्यतीति; तथाऽऽवस्थिके च काले ‘बाले(ल्ये)विवर्धते श्लेष्मा’(सू. अ. ३५) इत्याद्युक्तत्वात्| उच्यते- दोषचयादेरल्पत्वादतद्व्यपदेश इति, एकतण्डुलाभ्यवहारेऽनशनव्यपदेशवत्| अन्ये त्वेवं वदन्ति- “आर्तवे चयादौ स्वस्थवृत्तोक्तविधिभिराहोरात्रिके पुनरनागताबाधोक्तदन्तधावनादिविधानेन दोषाणां साम्यमुपपन्नमेव” इति| समधातुमलक्रिय इति समा धातुमलानां क्रिया यस्य स तथा| क्रिया स्वप्नजागरणादिकेति केचिद्भिन्नं क्रियाशब्दं व्याख्यानयन्ति| प्रसन्नात्मेन्द्रियमना इति आत्मा देहः, अन्ये कर्मात्मा बद्धपुरुषः; तस्य निर्विकारस्यापि शरीरगुणदोषाभ्यां बद्धत्वमाचार्यैर्बहुधोक्तम् , अस्माभिर्ग्रन्थगौरवभयान्नोच्यते| इन्द्रियाणि भौतिकाधिष्ठानशक्तिरूपाणि, मनस्त्विन्द्रियानुग्राहकमन्तःकरणम्| एवम्भूतः पुरुषः स्वस्थ इत्यभिधीयते ‘पूर्वाचार्यैः’ इति शेषः| दोषसाम्येनैवाग्न्यादिसाम्यं लब्धं तत् किं पृथगाचार्यः प्राह? उच्यते, न दोषैः समा अग्न्यादयो भवितुमर्हन्तीति; कुतः? पृथक्चिकित्सितत्वात्; पित्तहरणमपि सर्पिरजापयश्चाग्निं वर्धयति| अत्र श्रीमाधवः प्राह- “लब्धाश्चेत् समदोषत्वे समाग्नित्वादयस्तदा| पृथगुक्ताः किमर्थं ते भक्तिरेषा निरर्थका”- इति; समाधानमाह- “दोषेऽभ्यस्ते यतो भिन्नाः पृथगुक्ता अतस्तु ते| प्रकृत्या तादृशाः केचिदत्यर्थं वा न दूषणम्”- इति| ‘दोषादीनां त्वसमताम्’ इत्यादिश्लोकं ‘वैलक्षण्याच्छरीराणाम्’ इत्यादिश्लोकाग्रे केचिदन्यथा पठन्ति| तथाहि, “पलादिमानाभावात् कथमेषां साम्यं ज्ञेयमित्याह- ‘दोषादीनां तु समतामनुमानेन लक्षयेत्’ इति श्लोकार्धमेव दोषसाम्यज्ञानार्थं पठन्ति| येनानुमानेन समता ज्ञेया तदेव दर्शयन्नाह- एषां समत्वं यच्चापीत्यादि| एतेन साम्यकार्येण स्वास्थ्येन दोषाणां समता ज्ञातव्येत्यर्थः| अतोऽनन्तरं ‘समदोषः समाग्निश्च’ इत्यादि पठन्ति| व्याख्यानं चास्य पूर्वमेवोक्तम्| इदानीं स्वस्थप्रतिपालनायास्वस्थस्य च स्वास्थ्यकरणायाह- ‘स्वस्थस्य रक्षणं कुर्यादस्वस्थस्य तु बुद्धिमान्| क्षपयेद्बृंहयेच्चापि’ इत्यादि;” ईदृशं कृत्वा केचित् पाठक्रमं पठन्ति||४१||

Adhikarana puShpikA · Śloka 15

इति सुश्रुतसंहितायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः ||१५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने दोषधातुमलक्षयवृद्धिविज्ञानीयो नाम पञ्चदशोऽध्यायः||१५||