Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

14. śōṇitavarṇanīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगादश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा | तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः | तस्मिन् सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा- किमयं सौम्यस्तैजस? इति | अत्रोच्यते- स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते ||३||

🔊 Audio coming soon

शोणितोत्पत्ते रसाधीनत्वाद्रसमेव दर्शयन्नाह- तत्रेत्यादि| इत्थम्भूतस्याहारस्य यः सारः स `रस’ इत्युच्यत इति पिण्डार्थः| पाञ्चभौतिकस्येति पृथिव्यादिभूतद्रव्यभेदेन, चतुर्विधस्येति पेयलेह्यभोज्यभक्ष्यभेदेन, षड्रसस्येति मधुरादिरसभेदेन, द्विविधवीर्यस्येति शीतोष्णवीर्यभेदेन, पक्षान्तरमाह- अष्टविधवीर्यस्य वेति शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णभेदेन, अनेकगुणस्येति शीतादिद्रवादिगुणभेदेन विंशतिगुणस्य, उपयुक्तस्येति सम्यक्परिणतस्येत्यनेनैवोपयुक्तपदार्थस्य लब्धत्वाद्यदुपयुक्तग्रहणं करोति तत् सम्यग्योगं स्वास्थ्यवृत्तीयद्वादशविधाशनप्रविचारमपेक्ष्योपयोगं प्रापयति| तेजोभूत इति तेजसा भूतस्तेजोभूतो वह्निसम्भूत इत्यर्थः; अन्ये तु तेजःशब्देन घृतमाहुः, तत्र तेजोभूतो घृतवदुत्पन्न इत्यर्थः; अन्ये तु वदन्ति- भूतशब्दोऽत्रोपमानार्थः, तत्र तेजोभूतो घृताकार इत्यर्थः| सार इति विडादिमलरहित इत्यर्थः| परमसूक्ष्म इति अतिशयेनास्थूलावयवः, सूक्ष्मस्रोतोऽनुसारीत्यर्थः| रसस्य स्थानमाह- तस्येत्यादि| तस्य रसस्य सर्वदेहानुसारित्वेऽपि हृदयं स्थानं ; हृदयशब्देनात्र हृदयोपलक्षितः प्रदेश उच्यते, न तु साक्षाद्धृदयं; कुतः? हृदयस्यौजःस्थानत्वात्| रसस्य क्रियां निर्दिशन्नाह- स हृदयादित्यादि| तर्पयतीति बालमध्यस्थविरान् सर्वानेव प्रीणयति; अन्ये गर्भं तर्पयतीति मन्यन्ते, तस्याहारासम्भवात्; वर्धयतीति बालं; धारयतीति मध्यं सम्पूर्णधातुत्वात्, केचित् `धारयति’ इत्यत्र `जीवयति’ इति पठन्ति, अत्रापि स एवार्थः; यापयतीति वृद्धं क्षीयमाणदेहत्वात्| केचिदत्र `हृदयात्’ इत्यादि पाठं `चतस्रश्च तिर्यग्गाः’ इत्यन्तं न पठन्ति, `कृत्स्नं शरीरं’ इत्यादि च पठन्ति| कुतः पुनरयं तर्पणादि करोतीत्याह- अदृष्टहेतुकेन कर्मणा; प्राक्तनकर्मणेत्यर्थः| अन्ये तु केषाञ्चिदेव मर्तुमिच्छूनां कुतो न तर्पणादि करोतीति पृष्ट आह- अदृष्टहेतुकेन कर्मणेति| तस्य शरीरमित्यादि तस्येति रसस्य| अनुसरतः अनुगच्छतः| क्षयवृद्धिवैकृतैरिति वैकृतं विकारः; क्षयविकारैः `रसक्षये हृत्पीडा कम्प’ इत्यादिभिः, वृद्धिविकारैः `हृदयोत्क्लेदं’ इत्यादिभिः| तत्र क्षयवृद्धिविकारैर्विकृतस्य; क्षयवृद्धिवैकृतैश्चेत्यत्र चकारो द्रष्टव्यः, तेन सर्वशरीरतर्पणादिभिश्चाविकृतस्य गतिरनुमन्तव्येत्यर्थः| रसस्वभावं विनिर्देष्टुमाह- तस्मिन्नित्यादि| तस्मिन्निति पूर्वोक्ते रसे| जिज्ञासा ज्ञातुमिच्छा| किमयं सौम्यः कफवत्, अथवा तैजसः पित्तवत्? इति संशयः| अत्रोच्यत इत्यादि| अनुसारी अनुसरणशीलः, स्नेहनः स्नेहयतीति, जीवनो जीवयतीति, तर्पणः प्रीणनः शरीरस्य, आदिशब्दादवष्टम्भनादयः| विशेषैः भेदैः| अवगम्यते अवबुध्यते||३||

Adhikarana 3 (4) · Śloka 4

स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ||४||

🔊 Audio coming soon

इदानीं क्रमनिष्पत्त्या शोणितं दर्शयन्नाह- स खल्वित्यादि| खलुशब्दोऽप्यर्थः| आप्योऽपि रसो रागमुपैति लोहितत्वं गच्छति||४||

Adhikarana 4 (5) · Śloka 5

श्लोकौ चात्र भवतः- रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् | अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ||५||

🔊 Audio coming soon

तमेवार्थं श्लोकेन स्पष्टीकुर्वन्नाह- भवतश्चात्रेत्यादि| शरीरस्थेन यकृत्लीहस्थेनैव, प्रसन्नेन प्रकृतिस्थेन, इर्त्थभूतेन तेजसा रञ्जकनाम्ना, अव्यापन्ना एवङ्गुणविशिष्टा आपो रञ्जिता लोहितीकृताः सत्यो रक्तमित्युच्यते| आपोऽत्र रसः||५||

Adhikarana 5 (6) · Śloka 6

रसादेव स्त्रिया रक्तं रजःसञ्ज्ञं प्रवर्तते | तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् ||६||

🔊 Audio coming soon

रक्तार्तवयोरभेदं दर्शयन्नाह- रसादेवेत्यादि| रजःसञ्ज्ञमिति सञ्ज्ञान्तरमेतत् स्त्रीयोनिप्रवृत्तस्य रक्तस्य, ऋतुकालजं रक्तमेव रजःसञ्ज्ञमुच्यत इत्यर्थः| तद्वर्षाद्द्वादशादूर्ध्वमिति तद्रजःसञ्ज्ञं शोणितं द्वादशवर्षादनन्तरं प्रवर्तत इति सम्बन्धः| तस्य निवृत्ति कालमाह- याति पञ्चाशतः क्षयमिति| `रसादेव रजः स्त्रीणां मासि मासि त्र्यहं स्रवेत्| तद्वर्षाद्द्वादशादूर्ध्वं यावत् पञ्चाशतं समाः’- इत्यन्ये पठन्ति| समाः वर्षाणि||६||

Adhikarana 6 (7) · Śloka 7

आर्तवं शोणितं त्वाग्नेयम्, अग्नीषोमीयत्वाद्गर्भस्य ||७||

🔊 Audio coming soon

रक्तार्तवयोः सौम्यरससम्भूतयोरपि स्वभावभेदं दर्शयन्नाह- आर्तवमित्यादि| तुशब्दोऽत्र भेदे, तेन रसात् सौम्याज्जातमप्यार्तवं शोणितं चाग्नेयम्| कुतः कारणादित्याह- अग्नीषोमीयत्वाद्गर्भस्येति|- आर्तवमाग्नेयं, शुक्रं सौम्यं, ताभ्यामग्नीषोमीयो गर्भो भवति| ननु यद्यार्तवमपि सौम्यं भवति, तदा सौम्यारब्धः सौम्य एव गर्भो भवति; न चैवम्, अग्नीषोमीयत्वाद्गर्भस्येत्यत्रार्तवस्याग्नेयत्वमुच्यते, आर्तवशोणितयोः स्वभावाभेदादार्तवस्याग्नेयत्वे उक्ते शोणितस्याप्याग्नेयत्वमुक्तमेवेति| `आर्तवशोणितं त्वाग्नेयम्’- इत्यन्ये पठन्ति; `आर्तवं च तच्छोणितं चेत्यार्तवशोणितं; तुशब्दोऽत्रावधारणे, तेनार्तवस्याग्नेयत्वमवधारयति’ इति व्याख्यानयन्ति| रक्तं पुनरनुष्णशीतमेवमाचार्या मन्यन्ते||७||

Adhikarana 7 (8) · Śloka 8

पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः ||८||

🔊 Audio coming soon

शोणितस्वभावे मतान्तरमाह- पाञ्चभौतिकमित्यादि| जीवरक्तमिति जीवतुल्यं रक्तम्| कुतः? जीवच्छरीरे रक्तदर्शनात्, मृतशरीरे चादर्शनात्; नतु जीवरक्तमोज इति, एवं प्रस्तुतस्यैव रक्तस्य लक्षणमनुक्तं स्यात्||८||

Adhikarana 8 (9) · Śloka 9

विस्रता द्रवता रागः स्पन्दनं लघुता तथा | भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ||९||

🔊 Audio coming soon

तदेव पाञ्चभौतिकत्वं सुखबोधार्थं स्पष्टयितुमाह- विस्रतेत्यादि| विस्रता आमगन्धता, भूमिगुणः; द्रवता द्रवभावः, अयमम्बुगुणः; रागो रक्तता, तेजोगुणः; स्पन्दनं किञ्चिच्चलनं, वातगुणः; लघुता अगुरुत्वम्, आकाशगुणः| भूम्यादीनामित्यत्रादिशब्देनाप्तेजोवाय्वाकाशा गृह्यन्ते| हि यस्मादर्थे, यस्मादेते विस्रतादयः पृथिव्यादीनां गुणा अत्र शोणिते दृश्यन्ते, तस्माद्रक्तं पाञ्चभौतिकमिति||९||

Adhikarana 9 (10) · Śloka 10

रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते | मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रं तु जायते ||१०||

🔊 Audio coming soon

शोणितप्रसङ्गेनान्येषामपि धातूनां क्रमेणोत्पत्तिं दर्शयन्नाह- रसाद्रक्तमित्यादि| स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैतीत्यनेनैव रसादेव रक्तस्य भवने उक्ते रसात् पुनः शोणितसम्भवनवचनं नियमार्थम्| तेन रसात् क्रमोत्पत्त्या शोणितमेव भवति न परे धातव इति| एतेन युगपदेव सर्वधातुषु रससञ्चाराद्रसेनैव सर्वधातुपोषणमिति तन्त्रान्तरीयं वचो निरस्तम्| ननु, यदि परिणमन्ति रसादयो रक्तादिभावेन, तर्हि सर्वेषामुत्सादः स्यात्? सन्तत्या परिणाम इति चेत्तर्हि सर्वेषां पूर्वेषामल्पता स्यादुत्तरेषां बाहुल्यमिति? नैतदस्ति| तेषां रसादीनां मलस्थूलाणुभागविशेषेण त्रिविधः परिणामो भवति; तद्यथा- अन्नात् पच्यमानाद्विण्मूत्रं मलः, सारो रसः; रसादग्निपक्वान्मलः कफः, स्थूलो भागो रसः, अणुभागो रक्तं; रक्तादग्निपक्वान्मलः पित्तं, स्थूलभागः शोणितम्, अणुभागस्तु मांसमिति; ततोऽप्यात्मपावकपच्यमानान्मलः श्रोत्रनासाकर्णाक्षिप्रजननादिस्रोतोमलः, स्थूलभागो मांसं, सूक्ष्मो मेदः; ततोऽपि निजवह्निपच्यमानान्मलः स्वेदः, स्थूलोंऽशो मेद एव, सूक्ष्मभागोऽस्थि; ततोऽपि पच्यमानान्मलः केशलोमश्मश्रूणि, स्थूलोऽस्थि, सूक्ष्मस्तु मज्जा; ततोऽपि मज्ज्ञः पावकपच्यमानान्मलो नयनपुरीषत्वचां स्नेहः, स्थूलो भागो मज्जा, सूक्ष्मः शुक्रं; ततः पुनः पच्यमानादुपमलो नोत्पद्यते सहस्रधाध्मातसुवर्णवत्, स्थूलो भागः शुक्रमेव, स्नेहभागः सूक्ष्मस्तेजोभूतमोजः| पूर्वोक्त एवार्थः श्लोकाभ्यां कथ्यते- “स्थूलाण्वंशमलैः सर्वे भिद्यन्ते धातवस्त्रिधा| स्वः स्थूलोंऽशः परं सूक्ष्मस्तन्मलं याति तन्मलः|| स्वाग्निभिः पच्यमानेषु मलः षट्सु रसादिषु| न शुक्रे पच्यमानेऽपि हेमनीवाक्षये मलः - इति| आकृष्टाण्डकोषस्य पुंसः श्मश्रुपाताच्छ्मश्रु शुक्रमल इत्येके| तन्न, श्मश्रुहीनस्यापि शुक्रदर्शनात्| ननु, मांसान्मेदः प्रजायत इत्यनर्थकं, ‘मज्ज्ञः शुक्रं तु जायते’ इत्येकेनैव क्रियापदेन प्रजायत इत्यस्यार्थस्य लब्धत्वात्| सत्यं, प्रजायत इति क्रियापदं रसादीनां मेदःपर्यन्तानां विशिष्टकार्यान्तरोत्पाददर्शनार्थम्, एभ्य एवोपधातवः स्वभावादुत्पद्यन्ते न पुनरस्थ्यादिभ्य इति| तथाहि - रसात् स्तन्यमार्तवं च, रक्तात् कण्डराः सिराश्च, मांसाद्वसात्वचौ, मेदसः स्नायुसन्धी इति| शुक्रं तु जायत इति द्वितीयजायतेग्रहणेन शुक्रे विशिष्टधर्मवत्ता उक्ता; शुक्रं हि स्वाग्निपच्यमानमपि नाणुभागमुत्पादयति| अन्ये तु ‘मेदः प्रजायते’ इत्यत्र `प्रवर्तते’ इति पठन्ति, `शुक्रं तु जायते’ इत्यत्र `शुक्रस्य सम्भव’ इति पठन्ति, व्याख्यानयन्ति च- सम्भवाशब्दोऽत्र पोषणे न त्वपूर्वोत्पादने, यतो रसादीनां शुक्रान्तानामागर्भादेवोत्पत्तिरिति||१०||

Adhikarana 10 (11-12) · Śloka 12

तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता ||११|| रसजं पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः | अन्नात्पानाञ्च मतिमानाचाराञ्चाप्यतन्द्रितः ||१२||

🔊 Audio coming soon

रसस्य निर्दिष्टस्य प्राधान्यं दर्शयितुमाह- तत्रैषामित्यादि| तत्र तेषु धातुषु मध्ये| एतेषां धातूनां प्रागुक्तानां रक्तादीनाम्| अन्नपानरसः अन्नपानस्य सारः| प्रीणयिता तर्पयितेत्यर्थः| अतन्द्रितोऽनलस इत्यर्थः||११-१२||

Adhikarana 11 (13) · Śloka 13

तत्र ‘रस’ गतौ धातुः, अहरहर्गच्छतीत्यतो रसः ||१३||

🔊 Audio coming soon

रसस्यैव निरुक्तिमाह- तत्र रसगतावित्यादि||१३||

Adhikarana 12 (14-15) · Śloka 15

स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते; एवं मासेन रसः शुक्रं स्त्रीणां चार्तवं भवति ||१४|| भवति चात्र- अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुच्चये | कलानां नवतिः प्रोक्ता स्वतन्त्रपरतन्त्रयोः ||१५||

🔊 Audio coming soon

रसधातुर्धात्वन्तराणां स्वभावं जनयन्नेकैकस्मिन् धातौ कियन्तं कालमवतिष्ठत इत्याह- स खल्वित्यादि| अवतिष्ठते अवस्थितिं करोतीत्यर्थः, परिणामं गच्छन्नेव तिष्ठति पच्यमानस्थालीतण्डुलवत्, न पुनरस्य गमननिवृत्तिः| त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला इत्यस्यार्थः- रसः किलैकाहेनैव सम्पद्यते, तदनन्तरं ये षट्धातवस्ते प्रत्येकं पञ्चभिः पञ्चभिरहोभिः सम्पद्यन्ते| यावता कालेन रसः शुक्रतां याति तावन्तं वक्तुमाह- एवं मासेनेत्यादि| अत्रार्तवशब्दोऽयं शुक्रे वर्तते न तु रजसि, रजो हि रसाद्रक्तवत् सप्तमेऽहनि जायते; अथवा यद्ययमार्तवशब्दः शुक्रे न वर्तते तदाऽत्र शुक्रोत्पत्त्यधिकारे स्त्रीणां शुक्रस्यानुक्तत्वात् षड्धातुत्वं स्यात्, तस्मादार्तवशब्दः शुक्रे वर्तते; अन्ये तु पुनरत्रार्तवशब्दं रजस्येव वर्तयन्ति, चकारेण स्त्रीशुक्रं समुच्चिन्वन्ति शुक्रेऽपि गर्भजननशक्तिद्योतनार्थम्| तथा चोक्तं- `यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन| मुञ्चतः शुक्रमन्योऽन्यमनस्थिस्तत्र जायते’ (शा. अ. २)- इति| अस्मिन् पक्षे मासेनार्तवस्य भवनमुपचयोऽभिप्रेतः प्रकाशश्च; यस्मादार्तवस्य रक्तवत् सप्ताहेनैवोत्पत्तिरिति| इदानीं समुदायसङ्ख्यामाह- अष्टादशेत्यादि| अष्टादशसहस्राणीत्यादिना त्रिंशद्दिनानि कथितानि| स्वतन्त्रपरतन्त्रयोरिति समानतन्त्रासमानतन्त्रयोरित्यर्थः||१४-१५||

Adhikarana 13 (16) · Śloka 16

स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम् ||१६||

🔊 Audio coming soon

दृष्टान्तत्रयेण शरीरे रसगतिं त्रिधा दर्शयन्नाह- स शब्दार्चिर्जलसन्तानवदित्यादि| सःरसः, सन्तानशब्दः शब्दादिभिः सह प्रत्येकं सम्बध्यते| अणुना विशेषेण सूक्ष्मप्रकारेण| अनुधावति सञ्चरति| एवंशब्दो नियमार्थः| शरीरं केवलं सकलनित्यर्थः| तत्र शब्दसन्तानवदित्यनेन तिर्यग्गामित्वं रसस्योक्तम्, अर्चिःसन्तानवदित्यनेनोर्ध्वगामित्वं, जलसन्तानवदित्यनेनाधोगामित्वमिति| केचिदन्यथा व्याख्यानयन्ति- `शब्दादिदृष्टान्तत्रयेण तीक्ष्णमध्यमन्दाग्नयो निर्दिष्टाः| शब्दसन्तानवत्तीक्ष्णाग्नीनां रसः सञ्चरति, अर्चिःसन्तानवन्मध्याग्नीनां, जलसन्तानवन्मन्दाग्नीनाम्’ इति| तेन तीक्ष्णाग्नीनामष्टाहेनैव रसः शुक्रीभवति, मन्दाग्नेर्मासेनैव | अयमर्थो गयदासाचार्येण बहुधा दूषितः| दीप्ताग्नेस्तु किञ्चिन्यूनेन मासेन शुक्रं भवति, मन्दाग्नेस्तु किञ्चिदधिकेन मासेनेत्ययमर्थो न्याय्य इति||१६||

Adhikarana 14 (17) · Śloka 17

वाजीकरण्यस्त्वोषधयः स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ताः शुक्रं शीघ्रं विरेचयन्ति ||१७||

🔊 Audio coming soon

यदि मासेन रसः शुक्रीभवति तर्हि वाजीकरीणां महौषधीनां प्रयोगो निष्फलः स्यादित्याह- वाजीकरण्य इत्यादि| वाजीकरण्यस्त्वोषधय इति याभिरोषधिभिः स्त्रीषु नरो वाजीव समर्थो भवति ता वाजीकरण्यः| स्वबलगुणोत्कर्षादिति स्वशब्दो बलगुणाभ्यां सह प्रत्येकं संवध्यते, उत्कर्षशब्दोऽपि| अत्र काश्चिदोषधयः स्वबलोत्कर्षात्, काश्चित् स्वगुणोत्कर्षात्, काश्चित् स्वबलगुणोत्कर्षात्, तत्र सङ्कल्पपादलेपविशिष्टकान्तास्पर्शादयः स्वबलोत्कर्षात्, स्वप्रभावोत्कर्षादित्यर्थः; घृतक्षीरादयः स्वगुणोत्कर्षात्, स्वस्नेहाद्युत्कर्षादित्यर्थः; माषादयः स्वबलगुणोत्कर्षात्, स्वप्रभावस्नेहाद्युत्कर्षादित्यर्थः; उत्कर्ष आधिक्यम्| वाजीकरण्य इति बहुवचनमाद्यर्थे, तेन बल्यबृंहणीयजीवनसङ्ग्रहणादयोऽपि तद्वद्वाच्या इति||१७||

Adhikarana 15 (18) · Śloka 18

यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं, नैव नास्तीति; अथ चास्ति, सतां भावानामभिव्यक्तिरिति ज्ञात्वा , केवलं सौक्ष्म्यान्नाभिव्यज्यते; स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति; एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो भवति, रोमराज्यादयश्च विशेषा नारीणाम् ||१८||

🔊 Audio coming soon

ननु, यदि मासेन रसः शुक्रीभवति तर्हि बालानामश्नतामपि तत् कथं न दृश्यत इति दृष्टान्तमाह- यथेत्यादि| यथाहीत्यव्ययं यथादृष्टान्तताप्रतिपादनार्थम्| पुष्पमुकुलस्थ इति कुसुमकलिकामध्यस्थः| इहेति पुष्पमुकुले, गन्धोऽस्त्येवेति नास्त्येवेति च वक्तुं न शक्यम्| पारमार्थिकं रूपमाह- अथ चास्तीति|- अथशब्दः सम्बोधने ; चशब्द एवार्थे, अस्त्येवेत्यर्थः| युक्तिमाह- सतां भावानामभिव्यक्तिरिति ज्ञात्वेति; पूर्वं सन्त एव भावाः पश्चाद्धेतुमासाद्याभिव्यज्यन्ते, यथा- तिलेषु तैलमित्यादि| यद्यस्त्येविति तर्हि मुकुलावस्थायामेव कथं नाभिव्यज्यत इत्याह- केवलं सौक्ष्म्यान्नाभिव्यज्यत इति| स एवेत्यादि| स एव गन्धो विवृतपत्रकेशरे कुसुमे कालान्तरेणोपचितोऽभिव्यक्तिं गच्छति| एवं बालानामित्यादि इत्थं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो व्यक्तीभावो भवति| रोमराज्यादयश्च विशेषा भावा वयःपरिणामान्नारीणामपि प्रादुर्भवन्ति, आदिशब्दात् स्तन्यार्तवादयः; रोमराज्यादयश्चेति चकारो नारीणां चेत्यत्र द्रष्टव्यः; तेन पुरुषाणामपि श्मश्रुप्रभृतयो गृह्यन्ते| अत्र केचित् `रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति’- इति पठन्ति, न तु निबन्धकाराः, कुतः? आदिशब्दात्तदर्थस्य लब्धत्वादिति||१८||

Adhikarana 16 (19) · Śloka 19

स एवान्नरसो वृद्धानां (जरा) परिपक्वशरीरत्वादप्रीणनो भवति ||१९||

🔊 Audio coming soon

ननु रसस्योपचयकरत्वाद्वृद्धेनापि वर्धितव्यमित्याह- स एवान्नरस इत्यादि| स एवान्नरस इति अशेषधातुपोषकोऽपि वृद्धानामप्रीणन ईषत्प्रीणनो भवति, जीवनमात्रं करोतीत्यर्थः| कुत इत्याह- परिपक्वशरीरत्वात्||१९||

Adhikarana 17 (20) · Śloka 20

त एते शरीरधारणाद्धातव इत्युच्यन्ते ||२०||

🔊 Audio coming soon

रसादिधातूनां निरुक्तिं कुर्वन्नाह- त एते शरीरधारणादित्यादि| यद्यपि क्वचिददुष्टा दोषा अपि देहधारणाद्धातुशब्देनोच्यन्ते, तथाऽप्यत्र रसादीनामधिकृतत्वात् एव धातवः कथ्यन्ते||२०||

Adhikarana 18 (21) · Śloka 21

तेषां क्षयवृद्धी शोणितनिमित्ते, तस्मात्तदधिकृत्य वक्ष्यामः | तत्र, फेनिलमरुणं कृष्णं परुषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं; नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं; गैरिकोदकप्रतीकाशं स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं; सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं; द्विदोषलिङ्गं संसृष्टम् ||२१||

🔊 Audio coming soon

प्रस्तुतं शोणितमेवाधिकर्तुमाह- तेषामित्यादि| तेषामिति धातूनाम्| तदधिकृत्येति शोणितमधिकृतं कृत्वेत्यर्थः| तत्र फेनिलमित्यादि| फेनिलं फेनसहितम्| अरुणम् ईषद्रक्तम्; तदेव पाकाभिमुखं कृष्णम्| परुषम् अपिच्छिलं, रूक्षमित्यन्ये| तनु अच्छम्| शीघ्रगम् आशुप्रसृति| अस्कन्दि चेति स्त्यानत्वरहितम्| नीलमित्यादि|- नीलं हरितं, श्यावं सामपित्तदुष्टं, पीतं निरामपित्तदुष्टं, श्यावं हरितकृष्णम्| विस्रम् आमगन्धि| अनिष्टं पिपीलिकादीनामननुसरणादवगन्तव्यम्| अस्कन्दि चेति स्त्यानत्वरहितम्| गैरिकेत्यादि|- गैरिकोदकप्रतीकाशं पाण्डुलोहितम्| बहलं घनम्| मांसपेशीप्रभं स्त्यानत्वात्| सर्वेत्यादि|- सर्वलक्षणयुक्तं वातादिलक्षणयुक्तम्| अत्र केचित् पित्तवद्रक्तेनातिकृष्णं ’ इति पठन्ति, न तु निबन्धकाराः| द्विदोषलिङ्गमित्यादि|- संसृष्टं दोषद्वययुक्तमित्यर्थः| अत्र क्वचित् ‘जीवशोणितमन्यत्रोपदेक्ष्यामः’ इति पाठः, न तु निबन्धेषु||२१||

Adhikarana 19 (22) · Śloka 22

इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात् ||२२||

🔊 Audio coming soon

रक्तविकृतीरभिधाय प्रकृतिं वक्तुमाह- इन्द्रगोपकप्रतीकाशमित्यादि| इन्द्रगोपकः प्रावृट्कालज उद्भिज्जः `इन्द्रवधूः’ इति लोके, स चानेकप्रकारवर्णः, अत्र तु रक्त एव गृह्यते| असंहतं नात्यच्छं नातिघनं, न स्त्यायतीत्यन्ये| अविवर्णमिति इन्द्रगोपकवर्णमपीषद्विविधवर्णम्, एतेन पद्मालक्तकगुञ्जाफलवर्णमित्युक्तम्; अथवा वस्त्रादिलग्नं सत् प्रक्षाल्यमानमपि न विवर्णतां यातीत्यविवर्णम्||२२||

Adhikarana 20 (23) · Śloka 23

विस्राव्याण्यन्यत्र वक्ष्यामः ||२३||

🔊 Audio coming soon

शोणितस्य स्रावणविषयमतिदेशेन दर्शयन्नाह- विस्राव्याणीत्यादि| अन्यत्रेति अष्टविधशस्त्रकर्मीये||२३||

Adhikarana 21 (24) · Śloka 24

अथाविस्राव्याः- सर्वाङ्गशोफः, क्षीणस्य चाम्लभोजननिमित्तः, पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथवः ||२४||

🔊 Audio coming soon

विस्राव्यनिषेधविषयं दर्शयन्नाह- अथाविस्राव्या इत्यादि| क्षीणस्य पुंसोऽम्लभोजननिमित्तो यः सोऽविस्राव्य इत्यर्थः| तथा पाण्डुरोग्यादीनां शोथा अविस्राव्याः; एतेषां व्रणशोथा एकाङ्गजा अपि न स्राव्याः||२४||

Adhikarana 22 (25) · Śloka 25

शस्त्रविस्रावणं द्विविधं- प्रच्छानं , सिराव्यधनं च ||२५||

🔊 Audio coming soon

शस्त्रविस्रावणस्य द्वैविध्यमाह- शस्त्रेत्यादि||२५||

Adhikarana 23 (26) · Śloka 26

तत्र, ऋज्वसङ्कीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ||२६||

🔊 Audio coming soon

अत्र प्रच्छानमधिकृत्याह - तत्रेत्यादि| ऋजु प्राञ्जलम्| असङ्कीर्णं न सङ्कटं, विशालमित्यर्थः; अन्ये परस्परासंसृष्टमित्याहुः| सूक्ष्मं नातिमहामुखशस्त्रकृतम्| समं तुल्यरेखम्| अनवगाढम् अदूरगतिकम्| अनुत्तानं किञ्चिन्मांसस्पृगित्यर्थः| आशु अविलम्बितं यथा भवत्येवं शस्त्रं पातयेत्||२६||

Adhikarana 24 (27-28) · Śloka 28

तत्र, दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ||२७|| मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसङ्गिनाम् | निद्राभिभूतभीतानां नृणां नासृक् प्रवर्तते ||२८||

🔊 Audio coming soon

रक्तस्यायोगं चिकित्सार्थमाह- तत्र दुर्दिन इत्यादि| दुर्दिन इति नित्यगकालदोषः| केचिद् ‘दुर्दिने’ इति न पठन्ति| दुर्विद्धे इति वैद्यक्रियादोषः| शीतवातयोरिति कालकृतो दोषः| भुक्तमात्र इति आवस्थिककालदोषः; ‘अभुक्तवत’ इत्यन्ये पठन्ति| स्कन्दत्वात् स्त्यानत्वात्| मदो विषमद्यजो विकारः, आर्तानां पीडितानाम्| वातविण्मूत्रसङ्गिनामिति सङ्गोऽप्रवर्तनम्||२७-२८||

Adhikarana 25 (29) · Śloka 29

तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत् ||२९||

🔊 Audio coming soon

दुष्टरक्तस्यास्रुतिदोषमुपदिशन्नाह- तद्दुष्टमित्यादि||२९||

Adhikarana 26 (30) · Śloka 30

अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्विस्रावितमतिप्रवर्तते ; तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ||३०||

🔊 Audio coming soon

अतियोगं व्यापदश्चोपदिशन्नाह- अत्युष्ण इत्यादि| अत्युष्णे अत्युष्णकाले| अतिस्विन्ने अतिस्वेदिते| अतिविद्धेऽज्ञैरिति आज्ञा अदृष्टकर्माणः| शिरोऽभितापं शिरःशूलम्| आन्ध्यम् अन्धताम्| अधिमन्थः चक्षूरोगोऽभिष्यन्दपूर्वकः, तिमिरं लिङ्गनाशः, प्रादुर्भावशब्दोऽधिमन्थतिमिराभ्यां सम्बध्यते| शिरोभितापादीन् शिरस्यतिहृतं रक्तं करोति, धातुक्षयं सर्वत्रैवातिहृतम्| एकाङ्गविकारमिति एकस्मिन्नङ्गे य उत्पद्यते स एकाङ्गविकारः, स चात्र वातजनितः||३०||

Adhikarana 27 (31) · Śloka 31

तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते | यवागूं प्रति पीतस्य शोणितं मोक्षयेद्भिषक् ||३१||

🔊 Audio coming soon

अयोगातियोगौ सहेतुकौ निर्दिश्य सम्यग्योगं सहेतुकं निर्दिशन्नाह- तस्मादित्यादि| न शीते नात्युष्णे साधारणे काले| नास्विन्ने नातिस्वेदिते| नातितापिते सूर्यतापादिभिः| यवागूरत्र तिलयवागूः, तस्याः सद्यःस्नेहनीयत्वाद्रक्तोत्क्लेशकरत्वाच्च| प्रतिपीतस्येति प्रतिशब्दोऽत्र पानान्तरं सूचयति; तेन यवाग्वा द्वितीयपानानन्तरं तृतीयपानानन्तरं वेत्यर्थः; अन्ये तु ‘यवागूर्विरलद्रवा बहुसिक्था, तां प्रतिपीतस्य, सा हि प्रायशः प्रक्लेदनात्मिका स्वेदलत्वाद्द्रवोष्णत्वाच्च शोणितं विलाययति; प्रतिशब्दोऽत्र मात्रार्थः, तेन यवागूं मात्रया पीतवत इत्यर्थः’||३१||

Adhikarana 28 (32) · Śloka 32

सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते | शुद्धं तदा विजानीयात् सम्यग्विस्रावितं च तत् ||३२||

🔊 Audio coming soon

इदानीं सम्यग्योगस्य सुविशुद्धस्य चैकेनैव वाक्येन लक्षणं वक्तुमाह- सम्यगित्यादि| सम्यग्गत्वा यदा रक्तमिति गत्वा निःसृत्य, यदा सम्यग्रक्तं रक्तवर्णं शोणितं भवति तदा शुद्धं विजानीयात्; सम्यग्विस्रावितपक्षे त्वयमर्थः- सम्यग्गत्वेति सम्यक् प्रवर्तनं कृत्वा, यदा रक्तं रुधिरं, स्वयमेवावतिष्ठते अवस्थितिं करोति, तदा सम्यग्विस्रावितं च तद्रक्तं विजानीयात्| चकारेणैतल्लक्षणद्वयं लभ्यते| अन्ये तु सम्यग्गत्वेत्यादिश्लोकस्य व्याख्यानमन्यथा कृत्वा सार्धश्लोकेन व्याख्यानयन्ति- “न चातिवेगं नावेगं सम्यग्युक्त्या विनिःसृतम्| विहाय दुष्टतां स्वेन रूपेण ह्यवतिष्ठते|| प्रयत्नमनपेक्ष्यासृक् तदा शुद्धं विनिर्दिशेत्”- इति||३२||

Adhikarana 29 (33) · Śloka 33

लाघवं वेदनाशान्तिर्व्याघेर्वेगपरिक्षयः | सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ||३३||

🔊 Audio coming soon

आभ्यन्तरमपरमपि रक्तशुद्धिस्रावणस्य लक्षणं दर्शयन्नाह- लाघवमित्यादि| एतच्छारीरं सम्यग्विस्राविते लिङ्गं; प्रसादो मनसस्तथेति पुनर्मानसम्||३३||

Adhikarana 30 (34) · Śloka 34

त्वग्दोषा ग्रन्थयः शोफा रोगाः शोणितजाश्च ये | रक्तमोक्षणशीलानां न भवन्ति कदाचन ||३४||

🔊 Audio coming soon

शोणितस्रावणफलं दर्शयन्नाह- त्वग्दोषा इत्यादि| त्वग्दोषा अष्टादश कुष्ठानि न्यच्छनीलिकादयश्च, ग्रन्थयो वातादिनिमित्ता सिराग्रन्थिश्च| शोणितजा रोगा रक्तगुल्मविद्रधिविसर्पादयः| रक्तमोक्षणशीलानां रक्तस्रावणाभ्यासकारिणाम्||३४||

Adhikarana 31 (35) · Śloka 35

अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्काङ्कुरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्भिः समस्तैर्वा चूर्णीकृतैर्लवणतैलप्रगाढैर्व्रणमुखमवघर्षयेत्, एवं सम्यक् प्रवर्तते ||३५||

🔊 Audio coming soon

इदानीमप्रवृत्तरक्तस्य प्रवर्तनायाह- अथ खल्वियादि| शीताशिवं कर्पूरं, नक्तमालो बृहत्करञ्जः| त्रिभिश्चतुर्भिरिति एतेनैकद्विद्रव्यनिषेधः कृतः| लवणतैलप्रगाढैरिति सैन्धवतिलतैलोत्कटैरित्यर्थः||३५||

Adhikarana 32 (36-38) · Śloka 38

अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णैः शनैः शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत् सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भि र्वा चूर्णिताभिः क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा, यथोक्तर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात्, शीताच्छादनभोजनागारैः शीतैः प्रदेहपरिषेकैश्चोपचरेत्, क्षारेणाग्निना वा दहेद्यथोक्तं, व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत्; काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत्, एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं; क्षीरयूषरसैः सुस्निग्धैश्चाश्नीयात्; उपद्रवांश्च यथास्वमुपचरेत् ||३६|| भवन्ति चात्र- धातुक्षयात् स्रुते रक्ते मन्दः सञ्जायतेऽनलः | पवनश्च परं कोपं याति तस्मात् प्रयत्नतः ||३७|| तं नातिशीतैर्लघुभिः स्निग्धैः शोणितवर्धनैः | ईषदम्लैरनम्लैर्वा भोजनैः समुपाचरेत् ||३८||

🔊 Audio coming soon

अतिप्रवृत्तौ रक्तास्थापनाय चिकित्सां दर्शयन्नाह- अथेत्यादि| पत्तङ्गं रक्तचन्दनं, सर्जरसो राला, शुक्तिर्जलशुक्तिः| सालः शङ्कुः, सर्जः शालभेदः, अर्जुनः ककुभः, अरिमेदः ‘अरिमञ्ज’ इति लोके प्रसिद्धः, मेषशृङ्गः कर्कटशृङ्गः, धन्वनः ‘धम्मण’ इति प्रसिद्धः; सालादित्वग्भिश्चूर्णीकृताभिः ‘व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्’ इत्यत्रापि सम्बध्यते| क्षौमेण वा ध्मापितेन अतसीवस्त्रेण दग्धेन ‘व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्’ इत्यत्रापि सम्बध्यते| यथोक्तैर्वा व्रणबन्धनद्रव्यैरिति क्षौमकार्पासवस्त्रादिभिः| आच्छादनं वस्त्रादि, प्रदेहो लेपः, परिषेको धारासेकः| यथोक्तं वलयबिन्द्वादि भेदेनेत्यर्थः| व्यधादनन्तरं प्राक्कृतव्यधनादधःस्थाने , तामेव पूर्वविद्धां सिरां विध्येत्, रक्तगतिच्छेदनार्थम्| रक्तातिस्रुतावाभ्यन्तरं भेषजं दर्शयन्नाह- काकोल्यादीत्यादि| एणः कृष्णहरिणः, हरिणस्ताम्रवर्णः; एणादिरक्तं पाययेदिति सम्बन्धः, रक्ताप्यायनार्थं; तच्चादुष्टमसंस्कृतं च| रक्तातिप्रवृत्तौ भोजनं नियमयन्नाह- क्षीरेत्यादि| यूषो मुद्गयूषः, रसो मांसरसः| सुस्निग्धैरिति शोभनं कृत्वा घृतेन स्निग्धीकृतैः| अश्नीयादिति क्षीरादिसिक्तमोदनं भुञ्जीत| पित्तदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य क्षीरभोजनम्, अथवा पित्तप्रकृतिकस्यैव रक्तातिप्रवृत्तौ क्षीरभोजनं, कफदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य यूषभोजनं, श्लेष्मप्रकृतिकस्यैव वा; वातदुष्टरक्तस्यैवातिप्रवृत्तावतिप्रवृत्तरक्तस्य रसभोजनं, वातप्रकृतिकस्यैव वा; अन्ये तु दीप्तमध्यमन्दाग्नीनां यथासङ्ख्यं क्षीरादिसिक्तमोदनं भोजनमाहुः; सात्म्यापेक्षयेत्येके| अतिस्रुतरक्तस्योपद्रवान् चिकित्सितुमाह- उपद्रवांश्चेत्यादि| उपद्रवान् शिरोऽभितापादीन्| यथास्वमिति स्वकीयेन स्वकीयेनोपचारेणेत्यर्थः| धातुक्षयादित्यादि| तस्मादनतिशीतादिभोजनैः प्रयत्नतस्तं पुरुषमुपाचरेदिति सम्बन्धः, अग्निसन्धुक्षणार्थं शोणिताप्यायनार्थमुपद्रवपरिहारार्थं च| ईषदम्लैर्दाडिमामलकैः, तेषामेवाम्लेषु प्रधानत्वात्||३६-३८||

Adhikarana 33 (39-40) · Śloka 40

चतुर्विधं यदेतद्धि रुधिरस्य निवारणम् | सन्धानं स्कन्दनं चैव पाचनं दहनं तथा ||३९|| व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् | तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् सिराः ||४०||

🔊 Audio coming soon

चतुर्विधमित्यादि| सन्धानं शस्त्रपदस्य, स्कन्दनं शोणितस्य स्त्यानीकरणं, पाचनं दहनं च शस्त्रपदस्य| कषायः कषायरसद्रव्यं, तच्च लोध्रादिकम्; अन्ये तु हरीतक्यादिकं पञ्चवल्कलादिकं चाहुः| हिमं शीतम्| भस्म क्षौमादिजनितम्| दहनं शलाकाप्रभृतिभिः||३९-४०||

Adhikarana 34 (41-42) · Śloka 42

अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् | सन्धाने भ्रश्यमाने तु पाचनैः समुपाचरेत् ||४१|| कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि | असिद्धिमत्सु चैतेषु दाहः परम इष्यते ||४२||

🔊 Audio coming soon

इदानीं पूर्वपूर्वासिद्धावुत्तरोत्तरं विध्यवसरं प्रतिपादयन्नाह- अस्कन्दमाने इत्यादि| तत्र प्रथमं शीतोपचारादि कर्तव्यं, तेन यदा स्त्यानीभूय रक्तं न तिष्ठति तदा हरीतक्यादि पञ्चवल्कलादि वा प्रयोजयेत्; सन्धानेन चेन्न तिष्ठति रसं तदा पाचनं भस्म प्रयोजयेत्; एभिस्त्रीभिर्विधानैर्यदि न तिष्ठति रक्तं तदा दहनं शोणितस्थापनार्थं कर्तव्यमित्यर्थः||४१-४२||

Adhikarana 35 (43) · Śloka 43

शेषदोषे यतो रक्ते न व्याधिरतिवर्तते | सावशेषे ततः स्थेयं न तु कुर्यादतिक्रमम् ||४३||

🔊 Audio coming soon

इदानीं रक्तातिस्रावदोषं दर्शयन्नाह- शेषेत्यादि| न व्याधिरतिवर्तते न वृद्धिं याति| सावशेषे ततः स्थेयमिति सावशेषे दोषे रक्तं पुनः संशमनादिभिर्जयेत्||४३||

Adhikarana 36 (44) · Śloka 44

देहस्य रुधिरं मूलं रुधिरेणैव धार्यते | तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ||४४||

🔊 Audio coming soon

कुतः पुनः शोणितस्रावणेऽतिक्रमो न करणीय इत्याह- देहस्येत्यादि| मूलमिति उत्पत्तिस्थितिप्रलयेषु शोणितमेव हेतुः, अनेनैव धार्यते स्थाप्यते||४४||

Adhikarana 37 (45) · Śloka 45

स्रुतरक्तस्य सेकाद्यैः शीतैः प्रकुपितेऽनिले | शोफं सतोदं कोष्णेन सर्पिषा परिषेचत् ||४५||

🔊 Audio coming soon

शोणितावसेके पश्चात्कर्म दर्शयन्नाह- स्रुतरक्तस्येत्यादि||४५||

Adhikarana puShpikA · Śloka 14

इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्याय ||१४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्यायः||१४||