Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. karṇavyadhabandhavidhyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अत्राधिकारानुवृत्तिः सम्बन्धहेतुः| कथं? स्वस्थाधिकारः; स्वस्थस्य निर्दोषशरीरस्य कर्णव्यधः कर्तव्यः| तदुक्तं भोजे- “कालेष्वेतेष्वदोषाणां बालानां कर्णयोर्व्यधे| सह गात्रैर्विवर्धन्ते कर्णपाल्यश्च खानि च” इति| तस्मादत्र स्वस्थवृत्तानुवृत्तिरेव सम्बन्धकारणम्| पञ्चैव हि सम्बन्धकारणान्युक्तानि; तद्यथा- अधिकारानुवृत्तिः, शेषत्वं, तादर्थ्यं, जात्यभेदो, नामसङ्कीर्तनं चेति| भवति चात्र- “तादर्थ्यं जात्यभेदश्च शेषत्वं नामकीर्तनम्| अधिकारानुवृत्तिश्च पञ्च सम्बन्धहेतवः”- इति||१-२||

Adhikarana 2 (3) · Śloka 3

रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते | तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत्, प्रतनुकं सूच्या, बहलमारया, पूर्वं दक्षिणं कुमारस्य, वामं कुमार्याः; ततः पिचुवर्तिं प्रवेशयेत् ||३||

🔊 Audio coming soon

किन्निमित्तं बालस्य कर्णौ विध्येदित्याह- रक्षेत्यादि| रक्षाभूषणनिमित्तमिति निमित्तशब्दो रक्षाभूषणाभ्यां सह प्रत्येकं सम्बध्यते; अन्ये तु रक्षणार्थं भूषणानि रक्षाभूषणानि,तन्निमित्तमित्यर्थः| यद्यपि विद्धकर्णत्वाद्व्रणिनि बाले रक्तमांसप्रियत्वाद्रक्षोभयमस्त्येव, तथाऽपि व्रणस्याल्पकालत्वाद्दैवकृतच्छिद्रत्वाद्वा रक्षणार्थं भवति| कस्मिन् काले कर्णस्य व्यधः कर्तव्य इत्याह- तौ षष्ठे मासि सप्तमे वा शुक्लपक्ष इति; ताविति तौ कर्णौ, षष्ठे मासे सप्तमे वेति नायं जन्मकालादूर्ध्वं किन्तु संवत्सरादेर्भाद्रपदाद्यः षष्ठो मासो माघः सप्तमः फाल्गुनस्तयोर्मध्य एकस्मिन्निति| मङ्गलं गीतादि| स्वस्तिवाचनमाशीर्वादोच्चारणम्| धात्र्यङ्के इति धात्री कुमारस्य स्तनपायिनी स्त्री तस्या अङ्के, कुमारधराङ्के वेति बालग्राहिपुरुषस्योत्सङ्गे| बालक्रीडनकैरिति कृत्रिमहस्त्यश्वबलीवर्दशुकादिभिः| अस्याग्रे‘भक्ष्यविशेषैर्वा’ इति केचित् पठन्ति, भक्ष्यविशेषैर्मोदकादिभिः| दैवकृते छिद्र इति प्राक्तनजन्मकर्मकृते इत्यर्थः| ऋजु अवक्रम्| कर्णविशेषेण सूचीविशेषविषयं नियमयन्नाह- प्रतनुकं सूच्येति|- प्रकर्षेण तनुं कर्णं सूच्या विध्येदित्यर्थः; बहलमारयेति स्थूलकर्णमारया विध्येदित्यर्थः; आरा चर्मकाराणां चर्मभेदनं शस्त्रं, बहलं कठिनमिति लक्ष्मणटिप्पणकेनोक्तम्| पुरुषस्त्रीभेदेन प्राक्कर्णव्यधने प्रशस्तत्वेन विशेषमाह- पूर्वं दक्षिणमित्यादि| कर्णे विद्धे सति किं कार्यमित्याह- तत इत्यादि| विद्ध्वा च पिचुवर्तिं प्रवेशयेत्||३||

Adhikarana 3 (4) · Śloka 4

शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात्, निरुपद्रवतया तद्देशविद्धमिति ||४||

🔊 Audio coming soon

अन्यदेशविद्धस्य विज्ञानोपायमाह- शोणितबहुत्वेनेत्यादि| दैवकृतच्छिद्रविद्धस्य विज्ञानमाह- निरुपद्रवतयेत्यादि| तद्देशविद्धमिति दैवकृतच्छिद्रविद्धं, 'जानीयात्' इत्यनुवर्तते||४||

Adhikarana 4 (5) · Śloka 5

तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति | तत्र, कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति; मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च; लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति | तेषु यथास्वं प्रतिकुर्वीत ||५||

🔊 Audio coming soon

सिरासु दोषं वक्तुमाह- तत्राज्ञेनेत्यादि| ज्ञेन तु कालिकालोहितिकयोवर्णेनैव परिहारः कर्तव्यः, मर्मरिकायास्तु वर्णानुक्तौ दैवकृतच्छिद्रव्यधनेनेति| प्रत्येकमुपद्रवान् वक्तुमाह- तत्र कालिकायां ज्वर इत्यादि| कालिकादिव्यधोपद्रवचिकित्सामाह- तेषु यथास्वमित्यादि| तेषु ज्वरादिषु व्याधिषु; यथास्वं प्रतिकुर्वीतेति यस्य ज्वरादिव्याधेर्यः प्रतीकारस्तेन तं प्रतिकुर्वीतेत्यर्थः||५||

Adhikarana 5 (6) · Śloka 6

क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति; सुरूढं चैनं पुनर्विध्येत्; विधानं तु पूर्वोक्तमेव ||६||

🔊 Audio coming soon

कालिकादिव्यधादन्यथाऽपि व्यापदं तच्चिकित्सां च निर्दिशन्नाह- क्लिष्टजिह्माप्रशस्तेत्यादि| क्लिष्टा अमनोज्ञा, जिह्मा वक्रतमा, अप्रशस्ता यथोक्तगुणहीना| दोषसमुदायादिति दोषप्रकोपात्| अप्रशस्तव्यधाद्वेति अदैवकृतच्छिद्रे व्यधाद् गर्हितशस्त्रादिव्यधाद्वा| संरम्भः श्वयथुः| केचित् 'क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वात्' इति न पठन्ति, ‘दोषसमुदायात्' इत्यादि च पठन्ति, ‘सुरूढं चैनं पुनर्विध्येत्' इति च न पठन्ति||६||

Adhikarana 6 (7) · Śloka 7

तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्, त्र्यहात्त्र्यहाच्च वर्तिं स्थूलतरां दद्यात्, परिषेकं च तमेव ||७||

🔊 Audio coming soon

दुर्विद्धे व्यापच्चिकित्सां प्रतिपाद्य सम्यग्विद्धे चिकित्सामाह- तत्रेत्यादि| आमतैलेनेति अपक्वतैलेन, तिलकल्कनिष्पीडनेन मुष्टितः परिस्रुतेनेत्यर्थः; तमेवेति आमतैलपरिषेकमेवेत्यर्थः||७||

Adhikarana 7 (8) · Śloka 8

अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ||८||

🔊 Audio coming soon

गतोपद्रवे कर्णे वर्धनोपायमाह- अथेत्यादि| लघुवर्धनकमिति दोषविशेषादपामार्गनिम्बकार्पासादीनां काष्ठानामन्यतमस्य, अथवा सीसकादिघटितं धत्तूरपुष्पाकृतिं कुर्यात्||८||

Adhikarana 8 (9) · Śloka 9

एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् | दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ||९||

🔊 Audio coming soon

एवमित्यादि| दोषत इति दोषशब्दो व्याधिष्वपि वर्तते, तेन दोषैर्वातादिभिस्तज्जनितव्याधिभिर्वेत्यर्थः| अभिघाताद्वेति पतनपीडनादिभिः||९||

Adhikarana 9 (10) · Śloka 10

तत्र समासेन पञ्चदशकर्णबन्धाकृतयः | तद्यथा- नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः सङ्क्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति | तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानकः, वृत्तायतसमोभयपालिरुत्पलभेद्यकः; ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः; अभ्यन्तरदीर्घैकपालिरासङ्गिमः; बाह्यदीर्घैकपालिर्गण्डकर्णः; अपालिरुभयतोऽप्याहार्यः; पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः, स्थूलाणुसमविषमपालिर्व्यायोजिमः; अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः; बाह्यदीर्घैकपालिरितराल्पपालिरर्धकपाटसन्धिकः | तत्र दशैते कर्णबन्धविकल्पाः साध्याः ; तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः सङ्क्षिप्तादयः पञ्चासाध्याः | तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः ; अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः; तनुविषमाल्पपालिर्वल्लीकर्णः; ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः; निर्मांससङ्क्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति | बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ||१०||

🔊 Audio coming soon

इदानीं सन्धेयस्य सन्धानायासन्धेयस्य परिहाराय चाह- तत्रेत्यादि| समासेन सङ्क्षेपेण, विस्तरेण तु कर्णबन्धा अमिताः, यद्यपि पञ्चदशसु कर्णेषु मध्ये दशैव बन्ध्याः, तथाऽपि बन्ध्यबाहुल्यादबन्ध्येष्वपि बन्धशब्दो वर्तते; यथा 'छत्रिणो यान्ति' इत्यत्र छत्रिबाहुल्यादच्छत्रिष्वपि छत्रिव्यपदेशः| 'तत्र समासेन पञ्चदश कर्णाकृतय' इत्यन्ये पठन्ति| तानेव बन्धान्नामभिर्निर्दिशन्नाह- तद्यथा- नेमिसन्धानक इत्यादि| तद्यथेति निदर्शने| तत्रामी बन्धविकल्पाः नित्यकर्मदर्शनादभ्यासाच्च जायन्ते| यद्यप्येषां नामभिरेवाकृतयः प्रायेण व्याख्यातास्तथाऽपि लक्षणसूत्रं निर्दिशन्नाह- तेषु पृथुलायतेत्यादि| पृथुले विस्तीर्णे, आयते दीर्घे, समे तुल्ये, इत्थम्भूते द्वे पाल्यौ यस्य स तथा; पालिः कर्णलतिका| नेमिः चक्रधारा, तद्वत् सन्धानं यस्य स नेमिसन्धानकः| वल्लूरक इति वल्लूरं शुष्कमांसं, शुष्कमांसवदनेकधा विपाट्य यः सन्धीयते स वल्लूरकः| `समुन्नतसमोभयपालिः' इत्येके पठन्ति| एतत् कर्णबन्धत्रयं समोभयपालिविषयतया ज्ञेयम्| अभ्यन्तरदीर्घैकेत्यादि यस्त्वभ्यन्तरदीर्घैकपालिः कथञ्चिच्छिन्नो भवति तस्येतरपाल्यभावाद्बाह्यपालिमूले व्यासङ्ग आसङ्गिमः| गण्डकर्ण इति सानुबन्धकपोलमांसमुत्कृत्य बाह्यदीर्घपाल्यग्रभागः सन्धीयते यस्मिन् स गण्डकर्णः| एतद्बन्धद्वयमेकपालिकम्| अपालिरिति ईषत्पालिः| उभयतो गण्डप्रदेशात् सानुबन्धमांसमाहृत्य पाल्याकारं कृत्वा सन्धानं यस्य क्रियते स आहार्यः| पीठोपमपालिरिति यस्य तु पालिद्वयं मूलत एव छिन्नं भवति स पीठोपमपालिः, निर्वेधिम इति वेधेन निष्पन्न इत्यर्थः, पालिद्वयहीनं कर्णं पुत्रिकाया उपरि विद्ध्वा निष्पादनीय इत्यर्थः; इदमपालिकं कर्णबन्धद्वयम्| स्थूलाणुसमेत्यादि स्थूलाणुत्वाभ्यामेका पालिः समा, अपरा विषमा, ते उल्लिख्य नानाप्रकारयोजनाद्व्यायोजिम इति| अभ्यन्तरदीर्घैकपालिरिति अभ्यन्तरदीर्घैकपालिरितराल्पपाल्या सह बहिः सन्धानात् कपाटवत्सन्धानं यत्र स कपाटसन्धिकः| अर्धकपाटसन्धिक इति बाह्यदीर्घैकपालिरितराल्पपाल्या सहाभ्यन्तरसन्धानेनार्धकपाटवद्यत्र सन्धीयते सोऽर्धकपाटसन्धिकः| इदं कर्णबन्धत्रयं विषमोभयपालिकम्| तत्रेत्यादि तत्र तेषु पञ्चदशसु कर्णबन्धविकल्पेषु मध्ये| तेषामाकारज्ञानमधिकृत्याह- तेषां नामभिरेवेत्यादि| शेषाणां परिहारार्थमाह- सङ्क्षिप्तादय इत्यादि| तेषां लक्षणमाह- तत्र शुष्केत्यादि| शुष्कशष्कुलिरिति शुष्कबाह्यपाल्यधिष्ठानः, इतराल्पपालिरिति इतरा गण्डदेशानुगता अल्पा पालिर्यस्य स तथा| अनधिष्ठानपालिरिति अल्पत्वेन अविद्यमाने अधिष्ठानपाली यस्य स तथा, पर्यन्तयोश्चेति गण्डबाह्यपार्श्वयोः| विषमा तनुत्वस्थूलत्वाभ्याम्| त एते पञ्च कर्णबन्धाः सपालयोऽप्यसाध्याः, असाध्या इति साधनायाशक्याः; केचिदमुं पाठं न पठन्ति| एतेषां पञ्चानामसाध्यत्वे हेतुमाह- बद्धेष्वपीत्यादि| अन्ये तु शोफाद्युपद्रवोपेतानां पूर्वेषां दशानां बन्धानां साध्यानामप्यसाध्यत्वमाहुः||१०||

Adhikarana 10 (11) · Śloka 11

भवन्ति चात्र- यस्य पालिद्वयमपि कर्णस्य न भवेदिह | कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ||११||

🔊 Audio coming soon

गद्योक्तानां कर्णबन्धानां मध्ये निर्वेधिमस्य सन्धानसूत्रमाह- यस्येत्यादि| इहेति कर्णबन्धमध्ये| कर्णपीठं पुत्रिकोपरिप्रदेशम्||११||

Adhikarana 11 (12) · Śloka 12

बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् | आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः ||१२||

🔊 Audio coming soon

व्यायोजिमकपाटसन्धिकार्धकपाटसन्धिकानां सन्धानसूत्रमाह- बाह्यायामित्यादि| यदा बाह्या पालिर्दीर्घा भवेत्तदा आभ्यन्तरः सन्धिः कर्तव्य इत्यर्थः, आभ्यन्तरा च पालिर्यदा दीर्घा स्यात्तदा बाह्यसन्धिर्विधेय इति; बाह्यायां गण्डाद्दूरवर्तिन्यां पाल्यां दीर्घायाम्, आभ्यन्तरो गण्डसन्निकृष्टो गण्डसंश्रयी वेत्यर्थः| "कपाटसन्धिकार्धकपाटसन्धिकयोरेवेदं सन्धानसूत्रं, न तु व्यायोजिमस्य" इत्यन्ये||१२||

Adhikarana 12 (13) · Śloka 13

एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या | तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ||१३||

🔊 Audio coming soon

इदानीमासङ्गिमस्य सन्धानसूत्रमाह- एकैवेत्यादि| "वल्लूरकस्येदं सन्धानसूत्रं सम्भाव्यते" इत्यन्ये वदन्ति||१३||

Adhikarana 13 (14) · Śloka 14

गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता | कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ||१४||

🔊 Audio coming soon

आहार्यस्य सन्धिसूत्रं निर्देष्टुमाह- गण्डादुत्पाठ्येत्यादि| सानुबन्धेनेति गण्डप्रदेशलग्नेनेत्यर्थः| जीवतेति शोणितसहितेनेत्यर्थः| अन्ये तु "गण्डकर्णस्याप्येतत् सन्धानसूत्रम्" इति वदन्ति||१४||

Adhikarana 14 (15) · Śloka 15

अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसम्भृतसम्भारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति | ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतं च कृत्वा, बन्धमुपधार्य, छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य, कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति; तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ, पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य, स्थितरक्तं सन्दध्यात् | ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णेनावकीर्याचारिकमुपदिशेत्, द्विव्रणीयोक्तेन च विधानेनोपचरेत् ||१५||

🔊 Audio coming soon

अतः परं बन्धविधिः| अग्रोपहरणीयोक्तोपसम्भृतसम्भारमिति अग्रोपहरणीयोक्तो यन्त्रशस्त्रादिरुप समीपे सम्भृतः सम्यक्कृत्वा धृतः सम्भारः समूहो यत्र| सुरामण्डं मद्यस्योपर्यच्छभागं, कपालचूर्णं नवमृन्मयभाण्डखण्डचूर्णम्| ततोऽङ्गनां पुरुषं वेति अङ्गनाया भूषणप्राधान्यात् प्राङ्निर्देशः| ग्रथितकेशान्तमिति ग्रथितकेशावयवम्, अन्यथा केशव्याकुलतया कर्माभिघातः स्याद्बन्धविश्लेषो वा| लघुभुक्तवन्तमिति भुक्तवान् शस्त्रकर्मपीडां सहते, आहारलघुत्वाद्वेदनया रात्रिजागरितवतोऽपि नाजीर्णबाधा स्यात्| आप्तैः सुपरिगृहीतं च कृत्वेति आप्तैर्हितैः| बन्धमुपधार्येति अयं बन्धोऽत्र कर्तव्य इति निश्चित्य| छेद्याद्यैरुपपन्नैरिति युक्तैः| उपपाद्येति संयोज्य, सन्निवेश्य आरोप्य, सन्दध्यात् सन्धानं कुर्यात्| पिचुप्रोतयोरिति तूलकर्पटयोरित्यर्थः| अवगुण्ठ्येति आवेष्ठ्य| आचारिकमिति आहारविहाराख्यम्| द्विव्रणीयोक्तेन विधानेनेति आलेपनादिना||१५||

Adhikarana 15 (16) · Śloka 16

भवति चात्र- विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् | व्यवायमग्निसन्तापं वाक्श्रमं च विवर्जयेत् ||१६||

🔊 Audio coming soon

परिहार्याण्युपदिशन्नाह- विघट्टनमित्यादि| विघट्टनं चालनम्||१६||

Adhikarana 16 (17) · Śloka 17

न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा सन्दध्यात् | स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवेदनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्, अतिप्रवृत्तरक्ते श्यावशोफवान्, क्षीणोऽल्पमांसो न वृद्धिमुपैति ||१७||

🔊 Audio coming soon

परिहार्यसामान्यादन्यदपि विरुद्धं प्रतिपादयन्नाह- न चेत्यादि| अशुद्धरक्तमिति दुष्टरक्तम्| अतिप्रवृत्तरक्तमिति शुद्धरक्तमपि यदाऽतिप्रवृत्तं स्यात्तदा न सन्धेयम्| अशुद्धरक्तसन्धाने दोषमाह- स हि वातदुष्टे इत्यादि| परिपुटनं त्वच उच्चटनं, मिश्रकाध्यायोक्तः सशोफः कर्णलतिकारोगो वा| अतिप्रवृत्तरक्तस्य सन्धाने दोषमाह- अतिप्रवृत्तरक्ते इति; अतिस्रवद्रक्ते इत्यर्थः| श्यावशोफोऽत्र वातकृतः| क्षीणकर्णस्य सन्धाने दोषमाह- क्षीण इत्यादि| क्षीणोऽत्र शुद्धरक्तातिप्रवृत्त्या; न तु दोषोपद्रवैः, सदोषोपद्रववर्धने छिद्यत एव||१७||

Adhikarana 17 (18-19) · Śloka 19

(आमतैलेन त्रिरात्रं परिषेचयेत्, त्रिरात्राच्च पिचुं परिवर्तयेत्) | स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् | अतोऽन्यथा संरम्भदाहपाकरागवेदनावान्, पुनश्छिद्यते वा ||१८|| अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः | तद्यथा- गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं सम्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् ||१९||

🔊 Audio coming soon

द्विव्रणीयोक्तसामान्यविधिमुद्दिश्य विशेषविधिं निर्दिशन्नाह- आमतैलेनेत्यादि| प्रतुदाः लट्वादयः श्रेष्ठत्वात्, विष्किरा लावादयः, आनूपा वराहमहिषादयः, औदका रोहितमत्स्यादयः, एषां वसामज्जानौ, वसा मांसस्नेहः| गौरसर्षपजस्थाने ‘राजसर्षपजं’ इति केचित् पठन्ति, राजसर्षपाः श्वेतसर्षपाः| वसामज्जासर्पिर्गौरसर्षपतैलमेतत्स्नेहचतुष्टयमर्कादिकल्कमावाप्य चतुर्गुणेन दुग्धेनैव पचनीयमिति| अन्ये त्वत्र सर्पिर्न पठन्ति| अपरे वसादिस्नेहचतुष्टयं परं पठन्ति नतु पयः, द्रवानुक्तौ च जलं चतुर्गुणं वदन्ति स्नेहपाके; ‘यदाऽन्यत्रापि केवलं दुग्धं स्यात्तदा स्नेहाच्चतुर्गुणं दुग्धं, यदा पुनरन्योऽपि द्रवो भवेत्तदा स्नेहसममेव दुग्धं कार्यम्’ इत्याचार्या भाषन्ते| यथालाभं सम्भृत्येति यस्य यस्य लाभस्तं तमेकत्र कृत्वेत्यर्थः; एतेन द्वित्राणामपि ग्रहणमुक्तम् | अलर्को मन्दारः, अनन्ता उत्पलसारिवा, विदारिगन्धा शालपर्णी, क्षीरशुक्ला क्षीरविदारी; जलशूको जलनीलिका, जलान्तर्वर्ती रोमयुक्तः सविषप्राणी वा, जलशूको जलसंस्थस्तृणसक्तो जन्तुविरचितः शूकसङ्घातवान् निवासोऽन्दुक इत्यन्ये, `जलचारी कृष्णकीट’ इति लक्ष्मणटीप्पणकेनोक्तं; मधुरवर्गः काकोल्यादिः, पयस्या विदारीभेदः, केचिदर्कपुष्पीत्याहुः; अन्ये मधुरवर्गं पयस्यां च न पठन्ति| तैलं वेति तिलतैलं वा पचेत्, एकैकं वा| स्वनुगुप्तमिति निरुपद्रवस्थान इत्यर्थः||१८-१९||

Adhikarana 18 (20) · Śloka 20

स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् | अथानुपद्रवः सम्यग्बलवांश्च विवर्धते ||२०||

🔊 Audio coming soon

अस्य तैलस्यावचारणमाह- स्वेदितोन्मर्दितमित्यादि||२०||

Adhikarana 19 (21) · Śloka 21

यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम् |२१|

🔊 Audio coming soon

अभ्यक्तस्योद्वर्तनमाह- यवेत्यादि|२१|-

Adhikarana 20 (21) · Śloka 22

शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ||२१|| तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् |२२|

🔊 Audio coming soon

कर्णपालिविवृद्ध्यर्थमपरं तैलमाह- शतावर्यश्वगन्धाभ्यामित्यादि| शतावर्यादिकल्केन स्नेहचतुर्थांशेन केवलक्षीरेण चतुर्गुणेन तैलमत्र पचनीयम्| पयस्या अर्कपुष्पी| जीवनैः काकोल्यादिद्रव्यैः||२१||

Adhikarana 21 (22-23) · Śloka 23

ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः ||२२|| तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु | बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततोध्रुवाः ||२३||

🔊 Audio coming soon

एवमप्यवर्धमानानां कर्णानां वर्धनोपायं दर्शयन्नाह- ये त्वित्यादि| उपपादिताः संयोजिताः| अपाङ्गदेशे त्विति कर्णपुत्रिकाया अधः| तुशब्द एवार्थः| प्रच्छानमेव त्विति एवशब्द ईषदर्थे, ईषच्छेदनं; तुशब्दोऽयमप्यर्थः, तेन कर्णपुत्रिकाया अध एव छेदनं, तदपीषदेव कार्यमित्युक्तं भवति| तेषामपाङ्गच्छेद्यं हि कार्यमाभ्यन्तरं भवेत्’ इति केचित् पठन्ति, अपाङ्गपुत्रिकाया अधः कर्णानुकूलमाभ्यन्तरं छेद्यं प्रच्छयेद्वा| बाह्यच्छेदं कर्णबाह्यलतिकाच्छेदम्| व्यापदः कर्णलतिकात्रुटनादयः; ‘व्याधयः स्युः’ इत्यन्ये पठन्ति||२२-२३||

Adhikarana 22 (24) · Śloka 24

बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत् | आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते ||२४||

🔊 Audio coming soon

अरूढकर्णस्य वर्धने दोषमाह- बद्धमात्रमित्यादि| आमकोशीति असम्यग्रूढमध्यः| केचिदमुं न पठन्ति||२४||

Adhikarana 23 (25) · Śloka 25

जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः | सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ||२५||

🔊 Audio coming soon

कीदृशः पुनर्वर्धनीयस्तमाह- जातरोमेत्यादि| सुवर्त्मेति शोभनच्छिद्रः, श्लिष्टसन्धिः; संलग्नसन्धिः; समो निम्नोन्नतत्वरहितः, स्थिरो दृढः||२५||

Adhikarana 24 (26) · Śloka 26

अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह | यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् | (कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत! | कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः(१) ||२६|| द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः | विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके(२) ||२६|| दाहविस्फोटजननं शोफः पाकश्च पैत्तिके | कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके(३) ||२६|| यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् | स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः(४) ||२६|| मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा | य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति(५) ||२६|| अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् | उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम्(६) ||२६|| अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा | स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्(७) ||२६|| अपामार्गः सर्जरसः पाटलालकुचत्वचौ | उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत्(८) ||२६|| शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम् | वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत्(९) ||२६|| लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् | गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम्(१०) ||२६|| श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् | पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम्(११) ||२६|| दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् | व्रणीभूतस्य देयं स्यादिदं तैलं विजानता(१२) ||२६|| मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम् | गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे(१३) ||२६|| प्रलेपनमिदं दद्यादवसिच्यावमन्थके | प्रपौण्डरीकं मधुकं समङ्गां धवमेव च(१४) ||२६|| तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् | सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् | एतैरालेपनं दद्यात्तैलमेभिश्च साधितम्(१५) ||२६|| ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु | ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत्(१६) ||२६|| लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले | क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः(१७) ||२६|| मधुपर्णी मधूकं च मधुकं मधुना सह | लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम्(१८) ||२६|| पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः | जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत्)(१९) ||२६||

🔊 Audio coming soon

कर्णपालिच्छेदविशेषेण कर्णसन्धिबन्धानामपरिमितत्वादनुक्तमपि प्रकारं दर्शयन्नाह- अमिता इत्यादि| `सुविशिष्ट’ इत्यत्र केचित् ‘सुनिविष्टः’ इति पठन्ति| केचिदत्रैवाध्याये कर्णपाल्यामयान् परिपोटादीन् पठन्ति, अन्ये तु सलिङ्गचिकित्सितान् मिश्रकचिकित्सिते पठन्ति; तांश्च तत्रैव व्याख्यास्यामः| अन्ये तु सुश्रुताध्यायिनोऽत्र `कर्णपाल्यामयानन्यान् वक्ष्यामि चतुरः पृथक्’ इत्यादिकं ग्रन्थं सचिकित्सितं पठन्ति, स त्वाचार्यैरनार्षीकृतः; तस्मान्न पठनीयः| अपरे पुनरत्रैवोत्पाटकादीन् सचिकित्सितान् पठन्ति, अमुमपि पाठमनार्षमाचार्या वर्णयन्ति, अतोऽयमपि न पठितव्यः||२६||

Adhikarana 25 (27-31) · Śloka 31

विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् | नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य ||२७|| तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् | विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिषगप्रमत्तः ||२८|| सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा | प्रोन्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ||२९|| सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् | घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ||३०|| रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् | हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ||३१||

🔊 Audio coming soon

विश्लेषिताया इत्यादि| विश्लेषिताया इति छिन्नायाः| पृथिवीरुहाणां वृक्षाणाम्| तस्येति छिन्ननासिकस्य पुरुषस्य| तेन प्रमाणेनेति वृक्षपत्रप्रमाणेन| उत्कृत्येति ऊर्ध्वं छेदयित्वा| बद्धमिति संलग्नं यथा स्यात्, ‘मांसं’ इति शेषः| तदिति नासिकाग्रम्| साधुबन्धैरिति शोभनबन्धैः कृत्वा| अप्रमत्तः सावधानः| सुसंहितमित्यादि| सुसंहितं सम्यगभिसमीक्ष्य, नाडीद्वयेन यथावद्बद्ध्वा, प्रोन्नम्य च प्रकृष्टं यथा स्यादेवमुत्थाप्य, एनां नासिकामवचूर्णयेदिति सम्बन्धः| नाडीद्वयमत्र नलकृतमेरण्डपत्रनालकृतं वा, न तु सीसकादिबी(वी)टिका; कुतः? सा हि गुरुत्वादधो गच्छति| पतङ्गं रक्तचन्दनम्, अञ्जनं रसाञ्जनम्| सितेन शुक्लेन| तैलेनेत्युक्ते तिलतैलं लब्धं, तिलानामिति यत् कृतं तत् प्रतिनिधितैलनिषेधार्थम्| पाय्यः पाययितव्यः| सुजीर्णे भोजने| अन्ये त्वेवं पठन्ति-"छिन्नां तु नासिकां दृष्ट्वा वयःस्थस्य शरीरिणः| नासानुरूपं सञ्च्छिद्य पत्रं गण्डे निवेशयेत्"- इत्यादि||२७-३१||

Adhikarana 26 (32) · Śloka 32

नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् | य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ||३२||

🔊 Audio coming soon

अतश्छिन्नस्यौष्ठस्य सन्धानमाह- नाडीयोगमित्यादि| ओष्ठस्य सन्धानविधिर्नासासन्धानवत् कर्तव्यः; परं नाडीयोगं विना| अर्हति योग्यो भवति| इदं नासासन्धानौष्ठसन्धानसूत्रं पूर्वाचार्यैरनार्षीकृतमपि जेज्जटगयदासादिभिरङ्गीकृतं सुबोधत्वाच्च न व्याख्यातं, तैरङ्गीकृतत्वादस्माभिरपि सङ्गृहीतं, सुबोधमपि च वैद्यपुत्रबोधार्थं व्याख्यातम्| दाक्षिणात्यास्तु भिषजः कर्णस्योपरि कोटिव्यधमत्र पठन्ति| सोऽप्यत्राप्रसिद्धेरनार्षः||३२||

Adhikarana puShpikA · Śloka 16

इति सुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्यायः ||१६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने षोडशोऽध्यायः||१६||