Adhikarana 1 (1-2) · Śloka 2
अथातो द्रव्यसङ्ग्रहणीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
द्रव्याणां सङ्ग्रहः सङ्क्षेपः, तमधिकृत्य कृतोऽध्याय इत्यर्थः; विस्तरस्तु चिकित्सिते कथ्यते| तदुक्तं- “समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम्| चिकित्सितेषु वक्ष्यामि ज्ञात्वा दोषबलाबलम्”- इति||१-२||
Adhikarana 2 (3) · Śloka 3
समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति ||३||
तत्रादावध्यायस्य पिण्डार्थं निर्दिशन्नाह- समासेनेत्यादि|- समासेन सङ्क्षेपेण| गण्यन्त इति गणाः समूहाः| तत्र द्वात्रिंशदनियतावयवाः, पुनः पञ्च पञ्चावयवाः| केचित् पञ्चत्रिंशदिति पठन्ति (त्रिंशद्वाऽऽमलकादीनि विहायेति)||३||
Adhikarana 3 (4-5) · Śloka 5
तद्यथा- विदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ||४||
विदारीगन्धादिरयं गणः पित्तानिलापहः |
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ||५||
तत्र प्रथमं दोषक्रमेणाद्यं गणं निर्दिशन्नाह- तद्यथेत्यादि| विदारिगन्धा शालपर्णी, विदारी विपादिककन्दः कोहलाकारो लोहितकुसुमः, स च द्विविधः- दीर्घकन्दो बहुक्षीरः, हस्तिपादकोऽल्पक्षीर इति| विश्वदेवा गाङ्गेरुकी प्रसिद्धा, ‘गुडशर्करा (गुलशकरी)’ इति पूर्वदेशे, अन्ये सितकुसुमां बलामाहुः| सहदेवी बलाभेदः पीतपुष्पा ‘काङ्कसी’ इति लोके; अन्ये बलां नीलपुष्पामाहुः| श्वदंष्ट्रा गोक्षुरकः| पृश्निपर्णी पृथक्पर्णी ‘पीठवनी’ इति लोके| शतावरी सूक्ष्मपत्रा ‘शताउरी’ इति लोके| सारिवा जम्बूपत्रा, दुग्धगर्भा वल्ली स्वनामप्रसिद्धा| कृष्णसारिवा छिलहेण्टापत्रसदृशच्छदा चन्दनगन्धा ‘कालवेली’ इति लोके; केचित् कृष्णसारिवां न पठन्ति| जीवकः कूर्चशीर्षकः स्वनामख्यातः| ऋषभको वृषभकः, अयमपि स्वनामख्यातः| महासहा माषपर्णी| क्षुद्रसहा मुद्गपर्णी| बृहत्यौ सूक्ष्मफला स्थूलफला च| पुनर्नवा वर्षाभूः ‘साटडी’ इति लोके| एरण्डः स्वनामप्रसिद्धः| हंसपादी मधुश्रवा हंसपदाकारपत्रा पीतपुष्पा जलयु(मु)क्तदेशजाता ‘हंसपाई’ इति लोके प्रसिद्धा| वृश्चिकाली कण्टकितमेषशृङ्गयुगाकारफला पाठापत्रा ईषद्रोमशा श्वेतपुष्पगुच्छा दक्षिणावर्तवल्ली मेषशृङ्गीभेदः; वृश्चियाशाकमन्ये| ऋषभी कपिकच्छुः| शृगालविन्नामेके विदारिगन्धादौ पठन्ति, तामपठनीयामेके मन्यन्ते, अन्ये पृथक्पर्णीभेदं दीर्घपत्रां सिंहपुच्छामाहुः| शोषो राजयक्ष्मा, अङ्गमर्दः स्फुटनिका| पित्तानिलहरत्वेन दोषप्रत्यनीकतोक्ता, शोषादिनाशकत्वेन व्याधिप्रत्यनीकत्वं चोक्तम्, एवं दोषयोरुक्तयोर्व्याधिषु चोक्तेष्ववस्थाकालदेशादिभेदेन समस्तैरेतैरर्धैर्यथालाभं लब्धैर्वा शृतशीतफाण्टस्वरसकल्कचूर्णगुटिकोत्कारिकारसक्रियालेपप्रदेहपरिषेकावगाहनघृततैलादीनि यथायोगं साधनीयानि| एवमन्येष्वपि गणेषु योज्यम्| येषां जीवकर्षभकादिद्रव्याणामन्नपानादौ गुणो न निर्दिष्टः, तेषां समुदितस्य गणस्य गुणाभिधानेनैव पृथग्द्रव्यगुणो ज्ञातव्य इति||४-५||
Adhikarana 4 (6-7) · Śloka 7
आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टक- गुडूचीचित्रकशार्ङ्ग(र्ङ्गे)ष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ||६||
आरग्वधादिरित्येष गणः श्लेष्मविषापहः |
मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ||७||
आरग्वधेत्यादि| आरग्वधः किरमालकः; मदनः पिण्डीतकः, ‘मयणफल’ इति लोके; गोपघोण्टा कर्कोटी, बदरभेद इत्यन्ये, ‘ग्रामकोलिका’ इति प्रसिद्धा, पूगभेदमपरे; कण्टकी विकङ्कतः वृक्षकण्टकारिकेति प्रसिद्धा, ‘काङ्कई’ इति लोके; कुटज इन्द्रवृक्षः; पाठा अविद्धकरणी, ‘पाढ’ इति लोके; पाटला वसन्तदूती स्वनामप्रसिद्धा; मूर्वा धनुर्गुणोपयोग्या, ‘दूध उ’ इति लोके, अन्ये चोरस्नायुमाहुः; इन्द्रयवः कुटजफलं; सप्तपर्णः शाल्मलीसदृशपर्णो गजमदगन्धपुष्पः शरदि विकसनशील उच्चैर्वृक्षः ‘सातवन’ इति लोके; निम्बः प्रसिद्धः; कुरुण्टकः पीतपुष्पः, ‘कण्टाशेलुआ’ इति लोके; नीलपुष्पः स एव दासीकुरुण्टकः; गुडूची प्रसिद्धा; चित्रकः प्रसिद्धः; शार्ङ्ग(र्ङ्गे)ष्टा काकजङ्घा ‘विकसवनी’ इति लोके, काकमाचीत्यन्ये, अन्ये तु शार्ङ्गष्टा काकतिक्ता गौरवर्तुलावगुण्ठितफला ‘चिरपोटिका’ इति प्रसिद्धा, ‘भुरुदाका’ इति पूर्वदेशे, काकादनीत्यपरे, सा च गुञ्जेति प्रसिद्धा; करञ्जद्वयमिति एकश्चिरबिल्वः, द्वितीयः कण्टकी विटपकरञ्जः; पटोलः कुलकः स्वनामख्यातः; किराततिक्तको भूनिम्बः; सुषवी कारवेल्लकः, अन्ये तु पानीयवल्लीमाहुः||६-७||
Adhikarana 5 (8-9) · Śloka 9
सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्दनकुचन्दनशिंशपा- शिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ||८||
सालसारादिरित्येष गणः कुष्ठविनाशनः |
मेहपाण्ड्वामयहरः कफमेदोविशोषणः ||९||
सालसारेत्यादि| सालः शङ्कुः, तस्य सारः सालसारः; अजकर्णः सर्जः सालभेद एव; खदिरो गायत्री स्वनामख्यातः; कदरः खदिराकारः श्वेतसारः; क्रमुकः पूगः, केचित् ‘क्रमुग’ इति पठन्ति, अत्रापि स एवार्थः, वृक्षरोध्र इत्यन्ये साराधिकारात्; भूर्जो मृदुत्वक् स्वनामख्यातः, केचित् भूर्जस्थाने ‘स्फूर्जक’ इति पठन्ति, तत्र स्फूर्जकः श्योनाकनाम्ना प्रसिद्धः, (लकुचाकारपत्रकाण्डः ); मेषशृङ्गः कर्कटशृङ्गः, स च पुत्रञ्जीवकसदृशस्तरुविशेषः; तिनिशः स्यन्दनः, ‘सादण’ इति लोके प्रसिद्धः; चन्दनं श्रीचन्दनं ‘श्रीखण्ड’ इति प्रसिद्धं; कुचन्दनं रक्तचन्दनं; शिंशपा कृष्णसारा ‘सीसई’ इति लोके; शिरीषो विषघाती, ‘शिरस’ इति लोके; असनो बीजकः पूर्वदेशे प्रसिद्धः; धवः शकटाख्यः स्वनामप्रसिद्धः; अर्जुनः ककुभः; तालः स्वनामख्यातः; शाकः पूर्वदेशे प्रसिद्धो महाखरपत्रः; नक्तमालो बृहत्करञ्जः; पूतीकः चिरबिल्वः; अश्वकर्णो गन्धमुण्डोऽश्वत्थसदृशः पूर्वदेशे प्रसिद्धः; अगुरु स्वनामख्यातं; कालीयकं ‘मलेन्द्रीचन्दनम्’ इति प्रसिद्धम्| विनाशनहरणविशोषणानामर्थभेदमाहुः- तत्र कुष्ठविनाशनो मूलोच्छेदनः, हरणो मेहपाण्ड्वादेः संशमनत्वेन निर्मूलनत्वेन वा, शोषणः कफमेदसोर्द्रवस्निग्धयोः||८-९||
Adhikarana 6 (10-11) · Śloka 11
वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरेयकद्वयबिम्बीवसुकवसिरचित्रक- शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयं चेति ||१०||
वरुणादिर्गणो ह्येष कफमेदोनिवारणः |
विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्रधीन् ||११||
वरुणेत्यादि| वरुणस्तिक्तसारः शाकद्रुमः ‘वरुण’ इति लोके; आर्तगलः ककुभः सुगन्धमूलः ‘कवहा (कौहा)’ इति नाम्ना पूर्वदेशे प्रसिद्धाः; शिग्रुः शोभाञ्जनकः; मधुशिग्रू रक्तशोभाञ्जनकः; तर्कारी अरणिका; मेषशृङ्गी कर्कटशृङ्गी; पूतीकश्चिरबिल्वः; नक्तमालो बृहत्करञ्जः; मोरटोऽङ्कोल्लपुष्पो ‘मोइहर ’ इति लोके, हस्तिकर्णपलाश इत्यन्ये; अग्निमन्थस्तेजोवृक्षः पूर्वदेशे ‘आगथ’ इति प्रसिद्धः; सैरेयकद्वयं रक्तपुष्पनीलपुष्पकण्टशेलुआद्वयं; बिम्बी ओष्ठोपमफला ‘तिण्डुरिका’ इति प्रसिद्धा; चित्रकः प्रसिद्धः; शतावरी प्रसिद्धा; वसुको बुकः ‘बकपुष्प’ इति लोके; अन्ये तु वसुकोऽर्कः; वशिरो मर्कटपिप्पली तृणजातिः ‘अपामार्ग’ इति प्रसिद्धः; बिल्वः श्रीफलः; अजशृङ्गी छगलविषाणिका उत्तमारणी ‘मेण्ढिका’ इति लोके; दर्भः कुशः; बृहतीद्वयं कण्टकारिकाद्वयम्- एका स्थूलफला, द्वितीया ह्रस्वफला||१०-११||
Adhikarana 7 (12-13) · Śloka 13
वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति ||१२||
वीरतर्वादिरित्येष गणो वातविकारनुत् |
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ||१३||
वीरेत्यादि| वीरतरुः शरः, अन्ये तु वीरतरुः ‘वेल्लन्तर’ इति नाम्ना प्रसिद्धो जाङ्गलदेशे नर्मदातटे चर्मण्वतीनदीसमीपे च, तल्लक्षणमुच्यते- “वेल्लन्तरुर्जगति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितपीतपुष्पः| आदारितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात् कण्टकी विजलदेशज एष वृक्षः-” इति; सहचरद्वयं कण्टशेलुद्वयं; दर्भः प्रसिद्धः; वृक्षादनी बन्दाकः ‘कवलेखू’ इति लोके, वृक्षकलम्बुकमपरे; गुन्द्रा पादरकभेदो ‘गोदर’ इति लोके; नलो दूर्वाकाराङ्कुरोऽन्तःशुषिरः स्वनामख्यातः; कुशो ह्रस्वदर्भः; काशः चामरपुष्पः; अश्मभेदकः पाषाणभेदकः, अग्निमन्थः तेजोवृक्षः; ‘अङ्गेशूर’ इति लोके; मोरटोऽङ्कोल्लपुष्पः, हस्तिकर्णपलाश इत्येके, इक्षुमूलमित्यपरे; वसुको बुकः ‘बकपुष्प’ इति लोके; वसिरः अपामार्गः, सूर्यावर्तभेद इत्येके; भल्लूकः श्योनाकः ‘शोणा’ इति लोके; कुरण्टिका कृष्णसूक्ष्मफला ‘सिरिवालिका’ इति लोके; इन्दीवरोऽपि तद्भेदो दीर्घपत्रो बहुलपुष्पः; कपोतवङ्का सुवर्चला, अन्ये ‘शिरीषसदृशपत्रा स्वल्पविटपा’ इति द्रव्यान्तरमाहुः; श्वदंष्ट्रा गोक्षुरकः| अश्मरी बस्तिपाषाणः, सैव वातभिन्ना शर्करा, मूत्राघातो मूत्रावरोधः; रुजाशब्दो रोगवचनः, स चाश्मर्यादिषु प्रत्येकं सम्बध्यते||१२-१३||
Adhikarana 8 (14-15) · Śloka 15
लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजिङ्गिनीकदम्बसालाः कदली चेति ||१४||
एष रोध्रादिरित्युक्तो मेदःकफहरो गणः |
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ||१५||
रोध्रेत्यादि| रोध्रो लाक्षाप्रसादनो रक्तः; सावरलोध्रः श्वेतस्थूलत्वक्; पलाशः किंशुकः; कुटन्नटः स्योनाकः; अशोको लोहितकुसुमः स्वनामख्यातः; फञ्जी भार्गी; कट्फलः ‘कायफल’ इति लोके; एलवालुकं हरिवालुकं कृष्णगन्धिकट्फलसदृशं; शल्लकी गजभक्ष्या ‘साल’ इति लोके; जिङ्गिनी गुडमज्जनिका, ‘गुलदुणि’ इति लोके, पूर्वदेशे स्वनामप्रसिद्धा; कदम्बो वृक्षकदम्बः; सालः सर्जः; कदली रम्भा स्वनामप्रसिद्धा| स्तम्भी अतिसारादेः स्तम्भनः||१४-१५||
Adhikarana 9 (16-17) · Śloka 17
अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति ||१६||
अर्कादिको गणो ह्येष कफमेदोविषापहः |
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ||१७||
अर्केत्यादि| अर्को रक्तपुष्पः प्रसिद्धः; अलर्को मन्दारकः, यस्य क्षीरं न विनश्यति; करञ्जद्वयं वृक्षविटपकरञ्जौ; नागदन्ती दन्तिनी; मयूरकोऽपामार्गः; भार्गी स्वनामख्याता; रास्ना सुरभी स्वनामख्याता; इन्द्रपुष्पी कण्टकी कृष्णपुष्पकरञ्जः, ‘कलिकारिका’ इत्यन्ये; क्षुद्रश्वेता श्वेतस्यन्दा श्वेतपुष्पा ‘सेफन्द’ इति लोके; महाश्वेता नीलपुष्पः सेफन्दः, ‘वन्ध्याकर्कोटिका’ इत्यन्ये; वृश्चिकाली वृश्चियाकः; अलवणा ज्योतिष्मती वर्तुलपक्वरक्तफला, पीततैला ‘काकमर्दनीका’ इति लोके प्रसिद्धा; तापसवृक्षः इङ्गुदः, पुत्रञ्जीवक इत्यन्ये||१६-१७||
Adhikarana 10 (18-19) · Śloka 19
सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमालकुठेरककासमर्दक्षवकखरपुष्पाविडङ्गकट्फल- सुरसीनिर्गुण्डीकुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति ||१८||
सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः |
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ||१९||
सुरसेत्यादि| सुरसे द्वे श्वेतकृष्णकुसुमे ते च लोके ‘तुलसी’ इति प्रसिद्धे; फणिज्झकस्तीक्ष्णगन्धो ‘मरुवक’ इति लोके, अन्ये त्वनेनैव नाम्ना प्रसिद्धः; अर्जको बर्बरिकाकारो लघुमञ्जरीकः सूक्ष्मपत्रो निर्गन्धः श्वेतकुठेरकः; भूस्तृणो गुदाकनामधेयो, द्रोणपुष्पीसदृशः; सुगन्धको द्रोणपुष्पः; अन्ये तु भूस्तृणं रोहिषं, सुगन्धको बृहत्सुगन्धतृणं; सुमुखो राजिका, अन्ये तु वनबर्बरिका ‘सौहा’ इति नाम्ना जेजीभुक्तौ प्रसिद्धा; कालमालः कृष्णमल्लिका ‘बर्बरिका’ इति लोके; कासमर्दः स्वनामख्यातः; क्षवकः क्षवथुकारः फणिज्झकाकारः ‘चिह्वरियाक’ इति पारियात्रे प्रसिद्धः, ‘छिङ्किनी’ इति लोके; खरपुष्पः तस्यैव भेदः, बोवैकामपरे, मरुवकमन्ये; विडङ्गः प्रसिद्धः; कट्फलः सोमवल्कः ‘कायफल’ इति लोके; सुरसी कपित्थसदृशपत्रा ‘बिल्वनासी’ इति लोके प्रसिद्धा, श्वेतनिर्गुण्डीत्यन्ये; निर्गुण्डी नीलनिर्गुण्डी; कुलाहलः ‘मुण्डिका’ इति प्रसिद्धः; उन्दुरुकर्णिका मूषिककर्णिका ‘उन्दुरी’ इति लोके, उन्दुरकर्णीं द्रवन्तीमाहुरन्ये, अपरे दन्तिनीमाहुः, ‘उन्दुरकर्णा’ इत्येके पठन्ति, तत्रापि स एवार्थः; फञ्जी भार्गी; प्राचीबलो मत्स्याक्षकः, ‘काकजङ्घा, नदीपिप्पली वा’ इत्यपरे, केचिदाचार्या एवं वदन्ति- यद्यपि प्राचीबलशब्देन काकजङ्घा गण्डदूर्वा जलपिप्पली चोच्यते, तथाऽप्यत्र काकजङ्घैव, काकमाचीसान्निध्याद्वातकफकृमिबाधिर्यहरत्वाच्च; काकमाची मृष्टफला स्वनामप्रसिद्धा; विषमुष्टिको द्रेक्का ‘राजनिम्ब’ इति प्रसिद्धः, बृहदलम्बुषामपरे, कर्कोटीमन्ये| कृमिसूदन इति कृमिघ्न इत्यर्थः||१८-१९||
Adhikarana 11 (20-21) · Śloka 21
मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति ||२०||
मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् |
मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः ||२१||
मुष्ककेत्यादि| मुष्ककः क्षारवृक्षः ‘मोखक’ इति लोके; पलाशः किंशुकः; धवः स्वनामप्रसिद्धः; चित्रकोऽपि स्वनाम्नैव प्रसिद्धः; मदनः पिण्डीतकः; वृक्षकः कुटजः; ‘मदनवृक्ष’ इत्यन्ये पठन्ति, मदनवृक्ष इत्यत्र वृक्षशब्दनिर्देशः फलप्रतिषेधार्थमिति व्याख्यानयन्ति; शिंशपा कृष्णसारा स्वनामख्याता; वज्रवृक्षः ‘सेहुण्ड’ इति लोके; त्रिफला हरीतक्यामलकबिभीतकानि||२०-२१||
Adhikarana 12 (22-23) · Śloka 23
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षप- महानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति ||२२||
पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः |
निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः ||२३||
पिप्पलीत्यादि| चव्यं हस्तिपिप्पलीमूलं स्वनामख्यातं; शृङ्गवेरं शुण्ठी; हस्तिपिप्पली गजपिप्पली; अजमोदा स्वनामख्याता, अन्ये यवानिकामाहुः; महानिम्बफलमिति महानिम्बो द्रेक्का ‘पर्वतनिम्ब’ इति लोके; मधुरसा मूर्वा| आमपाचन इति आमलक्षणं यथा- “जठरानलदौर्बल्यादविपक्वस्तु यो रसः| स आमसञ्ज्ञको देहे सर्वदोषप्रकोपकः”- इति| शेषं प्रसिद्धम्||२२-२३||
Adhikarana 13 (24-25) · Śloka 25
एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टक- चोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकागुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरं चेति ||२४||
एलादिको वातकफौ निहन्याद्विषमेव च |
वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ||२५||
एलेत्यादि| ध्यामकं कत्तृणं ‘रोहिष’ इति लोके; त्वक् वराङ्गं ‘गुडतज’ इति लोके; पत्रं पत्रकं; नागपुष्पं नागकेशरम्, अन्ये नागकेशरपुष्पसमपुष्पो महातरुरित्याहुः; हरेणुका रेणुका; व्याघ्रनखो बृहन्नखः, बृहन्नखीत्यन्ये; शुक्तिस्तद्भेदोऽल्पनखः; चण्डा स्वनामख्यातेषत्कृष्णा चोरकभेदः अजमोदाकारा; स्थौणेयकं थुणेरकः; श्रीवेष्टकः सरलचोपः ‘गुग्गुली’ इति लोके; चोचस्त्वग्भेदो वनवासिकात्वक्; चोरकः स्वनामख्यातः, ग्रन्थिपर्णकभेदो ग्रन्थिपर्णाकार एव; सर्जः सर्जरसः ‘राल’ इति प्रसिद्धः; अन्तलोपात्; रसः गन्धरसः ‘बोल’ इति लोके; तुरुष्कः सिह्लकः; कुन्दुरकः शल्लकीचोपः; स्पृक्का कुटिलपुष्पा सुगन्धिद्रव्यमौत्तरापथिकं; भद्रदारु देवदारु; पुन्नागः सुरपर्णिका, सुङ्गन्धिपुष्पा दक्षिणापथे ‘सुरपति’(सुरङ्गी)नाम्ना प्रतीता; केशरं बकुलं, केचित् समुदितं व्याख्यानयन्ति- पुन्नागकेशरं पद्मकेशरमित्यर्थः; अन्ये त्वेवं पठन्ति- “पुन्नागनागकेशरं च” इति, पुन्नागं देववल्लभं राजचम्पकमिति लोके, नागकेशरं स्वनामप्रसिद्धम्| कोठनाशन इति अत्र कोठलक्षणमुच्यते- “वरटीदष्टसङ्काशः कण्डूमान् लोहितोऽस्रकफपित्तात्| क्षिप्रोत्पादविनाशः कोठ इति निगद्यते सद्भिः”- इति||२४-२५||
Adhikarana 14 (26-28) · Śloka 28
वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरं चेति ||२६||
हरिद्रादारुहरिद्राकलशीकुटजबीजानि मधुकं चेति ||२७||
एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ |
आमातिसारशमनौ विशेषाद्दोषपाचनौ ||२८||
वचेत्यादि| भद्रदारु देवदारु| कलशी पृश्निपर्णी| दोषपाचनाविति आमसंसृष्टानां दोषाणां पाचनौ||२६-२८||
Adhikarana 15 (29-30) · Śloka 30
श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणीगवाक्षी- राजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति ||२९||
उक्तः श्यामादिरित्येष गणो गुल्मविषापहः |
आनाहोदरविड्भेदी तथोदावर्तनाशनः ||३०||
श्यामेत्यादि| श्यामा श्वेता त्रिवृता; महाश्यामा वृद्धदारकः; त्रिवृत् रक्तमूला त्रिवृत् ‘निशोत्र’ इति लोके; दन्ती दन्तिनी; शङ्खिनी यवतिक्ताभेदः, ‘श्वेतबुध्ना’ इत्येके; तिल्वको रोध्रः, अन्ये तिल्वको रोध्राकारो बृहत्पत्रो रक्तत्वक्को वैरेचनिकः; कम्पिल्लको रोचनिका, स्वनामख्यातः; रम्यको द्रेक्का ‘महानिम्ब’ इति लोके प्रसिद्धः, पटोलमूलमित्येके; क्रमुकः पूगफलं; पुत्रश्रेणी द्रवन्ती एरण्डसदृशफलपत्राऽल्पविटपा ‘शम्बरी’ इति लोके; गवाक्षी इन्द्रवारुणी; राजवृक्षः किरमालकः; करञ्जद्वयं वृक्षविटपकरञ्जौ; गुडूची प्रसिद्धा; सप्तला सातला स्नुहीभेदः; छगलान्त्री वृद्धदार(रु)कभेदः, बुध्नाभेद इत्यपरे; सुधा सेहुण्डः; सुवर्णक्षीरी अनन्तासदृशपत्रा, कङ्गुष्ठमित्यपरे||२९-३०||
Adhikarana 16 (31-32) · Śloka 32
बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ||३१||
पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः |
कफारोचकहृद्रोगमूत्रकृच्छ्ररुजापहः ||३२||
बृहतीत्यादि| मूले स्पष्ट एव||३१-३२||
Adhikarana 17 (33-34) · Śloka 34
पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ||३३||
पटोलादिर्गणः पित्तकफारोचकनाशनः |
ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ||३४||
पटोलेत्यादि| कुचन्दनं रक्तचन्दनं; मूर्वा दुधौडः, ‘चौरस्नायुक’ इत्येके| व्रणेभ्यो हितो व्रण्यः| शेषं सुखबोधम्||३३-३४||
Adhikarana 18 (35-36) · Śloka 36
काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहा कर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ||३५||
काकोल्यादिरयं पित्तशोणितानिलनाशनः |
जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||३६||
काकोलीत्यादि| काकोली वीरा स्वनाम्ना प्रसिद्धा, क्षीरकाकोली तद्भेदः स्वनामख्यात; जीवकः स्वनामप्रसिद्धः; ऋषभः स्वनामख्यातः; मुद्गपर्णी ‘मुगवनी’ इति लोके; माषपर्णी ‘माषवनी’ इति लोके, ‘अरण्यमाषस्तम्ब’ इत्येके; मेदा महामेदा च स्वनामख्याता; छिन्नरुहा गुडूची; तुगाक्षीरी वंशलोचना; पद्मकं पद्मकाष्ठं; प्रपौण्डरीकं स्वनामख्यातं यष्टीमधुद्रव्यादीषत्स्थूलं मधुररसं नेत्राश्च्योतनार्हं द्रव्यम्, अन्ये श्रीपुष्पमाहुः; मृद्वीका द्राक्षा; जीवन्ती ‘डोडिका’ इति लोके, लताऽर्कफलाकारसक्षीरफला, अन्ये सुवर्णजीवन्तीमाहुः| जीवनः प्राणधारणः, बृंहणः शरीरवृद्धिकरः| शेषं सुबोधम्||३५-३६||
Adhikarana 19 (37-38) · Śloka 38
ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ||३७||
ऊषकादिः कफं हन्ति गणो मेदोविशोषणः |
अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ||३८||
ऊषकेत्यादि| ऊषकः क्षारमृत्तिका वाराणसीसमीपे बडहरदेशे बाहुल्येन भवति, अन्ये तद्भवं द्रव्यान्तरमाहुः; कासीसद्वयं कासीसं भस्मसदृशं किञ्चिदम्ललवणरसं, द्वितीयं पुष्पकासीसमीषत्पीतं तुवररसं तद्भेद एव; तुत्थकं कर्परिकातुत्थं ‘खपरिया’ इति लोके, अन्ये मयूरग्रीवमाहुः| शेषं सुबोधम्||३७-३८||
Adhikarana 20 (39-40) · Śloka 40
सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरं चेति ||३९||
सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः |
पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ||४०||
सारिवेत्यादि| चन्दनं रक्तचन्दनम्; अन्ये पद्ममिति पठन्ति, तत्र पद्मं पद्मपुष्पम्| शेषं सुबोधम्||३९-४०||
Adhikarana 21 (41-42) · Śloka 42
अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकं चेति ||४१||
अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः |
विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ||४२||
अञ्जनमित्यादि| अञ्जनं सौवीराञ्जनं; रसाञ्जनं दारुहरिद्राक्वाथेन कृत्रिमं, अन्ये त्वेवं वदन्ति- रसाञ्जनं द्विविधं- स्रोतोऽञ्जनं कृष्णपाषाणाकृति धातुद्रव्यम्, अन्यद्दारुहरिद्राक्वाथेन कृत्रिमं पीतलोहितम्, अत्र धातुद्रव्यमेव सौवीराञ्जनसाहचर्यात्; नागपुष्पं नागकेशरं; नलदं मांसी; नलिनकेशराणि पद्मकेशराणि| शेषं सुबोधम्||४१-४२||
Adhikarana 22 (43-44) · Śloka 44
परूषकद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ||४३||
परूषकादिरित्येष गणोऽनिलविनाशनः |
मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ||४४||
परूषकेत्यादि| परूषको धन्वपत्रकः स्वनाम्नैव प्रसिद्धः, स द्विविधो वृक्षविटपभेदात्; कट्फलः सोमवल्कः ‘कायफल’ इति लोके; राजादनः क्षीरिका; कतकफलं स्वनामख्यातं शशकपुरीषप्रतिमफलमम्बुप्रसादनं; शाकफलानि शाको मसृणकर्कशोदरपृष्ठदलो वृक्षविशेषः, तस्य फलानि| सर्वेषां फलानि ग्राह्याणि| शेषं सुबोधम्||४३-४४||
Adhikarana 23 (45-47) · Śloka 47
प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ||४५||
अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशनन्दीवृक्षाः पद्मकेशराणि चेति ||४६||
गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ |
सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ||४७||
प्रियङ्ग्वित्यादि| समङ्गाऽञ्जलिकारिका ‘लज्जालुः’ इति लोके; पुन्नागस्तुङ्गः स्वनामख्यातः, अन्ये सुरपर्णिका सुगन्धिपुष्पा दक्षिणापथे सुरपती(सुरङ्गी)ति प्रसिद्धा; नागपुष्पं नागकेशरं; चन्दनं रक्तचन्दनं; कुचन्दनं मलयाद्रिचन्दनं ; मोचरसः शाल्मलीचुपः; रसाञ्जनं दार्वीक्वाथसमुद्भवं स्वनामख्यातं; कुम्भीकः श्लक्ष्णत्वक्को रोमशः कुम्भीनामा वृक्षो यस्य त्वग् वस्त्राकारा भवति, अन्ये पाटलामाहुः, अपरे स्वल्पविटपमाहुः; स्रोतोजं सौवीराञ्जनं; पद्मकेशरं स्वनामख्यातं; योजनवल्ली मञ्जिष्ठा; दीर्घमूला दुरालभा, शालिपर्णीत्यपरे| अम्बष्ठेत्यादि|- अम्बष्ठा माचिका ‘साङ्कुरड’ इति पश्चिमे प्रसिद्धा, पाठा इत्यपरे; धातकीकुसुमं धातकीपुष्पं; समङ्गाऽञ्जलिकारिका ‘लज्जालुः’ इति लोके; कट्वङ्गोऽरलुकः; बिल्वपेशिका बालबिल्वगिरः; महारोध्रं केचित् पठन्ति; सावररोध्रो लोध्रस्तस्यैव ग्राहित्वात्, नेतरस्तस्य विरेचनत्वात्; पलाशः किंशुकः; नन्दीवृक्षः काश्मरी, अन्ये गर्दभाण्डमाहुः; पद्मकेशरं स्वनामख्यातम्| सन्धानीयाविति भग्नसन्धानकारकौ||४५-४७||
Adhikarana 24 (48-49) · Śloka 49
न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वयप्रियाल- मधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभल्लातकपलाशा नन्दीवृक्षश्चेति ||४८||
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधकः |
रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ||४९||
न्यग्रोधेत्यादि| न्यग्रोधो वटः; उदुम्बरः प्रसिद्धः; अश्वत्थः पिप्पलः; प्लक्षः पर्कटी; मधुकं प्रसिद्धं; कपीतन आम्रातकः; ककुभः अर्जुनः; आम्राः प्रसिद्धः; कोशाम्रः स्वनामख्यातः; चोरकपत्रो लाक्षावृक्षः; जम्बूद्वयमेका राजजम्बूर्बृहत्फला, द्वितीया काकजम्बूः स्वल्पफला, द्वयग्रहणाद्भूमिजम्ब्वास्तृतीयायाः प्रतिषेधः; प्रियालः चारद्रुमः; मधूको गुडपुष्पो ‘महुवा’ इति लोके; रोहिणी कट्फलः; वञ्जुलो वेतसः; कदम्बः प्रसिद्धः; बदरी प्रसिद्धा; तिन्दुकी तिन्दुकवृक्षः, ‘टिम्बरुयणि’ इति लोके; नन्दीवृक्षोऽत्र प्ररोही गर्दभाण्डः ‘पार्श्वपिप्पल’ इति लोके| शेषं प्रसिद्धम्||४८-४९||
Adhikarana 25 (50-51) · Śloka 51
गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ||५०||
एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः |
हृल्लासारोचकवमीपिपासादाहनाशनः ||५१||
गुडूचीत्यादि| कुस्तुस्बुरुः धान्यकं, चन्दनं रक्तचन्दनम्| हृल्लासस्थूत्करणम्| शेषं प्रसिद्धम्||५०-५१||
Adhikarana 26 (52-53) · Śloka 53
उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ||५२||
उत्पलादिरयं दाहपित्तरक्तविनाशनः |
पिपासाविषहृद्रोगच्छर्दिमूर्च्छाहरो गणः ||५३||
उत्पलेत्यादि| उत्पलं नीलोत्पलं, रक्तोत्पलं लोहितोत्पलं, कुमुदं श्वेतोत्पलं, सौगन्धिकं नीलोत्पलाकारवर्णमुत्पलं सुगन्धि च, कुवलयमीषन्नीलधवलं, पुण्डरीकं श्वेतपद्मं, मधुकं यष्टीमधुकम्||५२-५३||
Adhikarana 27 (54-55) · Śloka 55
मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्रकश्चेति ||५४||
एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः |
योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ||५५||
मुस्तेत्यादि| हैमवती श्वेतवचा; वचा स्वनामख्याताऽरुणवर्णा; शार्ङ्ग(र्ङ्गे)ष्टा काकतिक्ता गौरवर्तुलावगुण्ठितफला ‘चिरपोटिका’ इति प्रसिद्धा, ‘झझरुष’ इति पूर्वदेशे, काकजङ्घामन्ये, काकमाचीत्यपरे; द्राविडी एला| स्तन्यशोधन इति स्त्रीक्षीरप्रसादनः| शेषं प्रसिद्धम्||५४-५५||
Adhikarana 28 (56-57) · Śloka 57
हरीतक्यामलकबिभीतकानीति त्रिफला ||५६||
त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी |
चक्षुष्या दीपनी चैव विषमज्वरनाशनी ||५७||
हरीतकीत्यादि| त्रिफला प्रसिद्धा| त्रिफलात्रिकटुकयोर्यथालाभपरिभाषा न व्याप्रियते अत एवानयोर्ग्रन्थकारेण सञ्ज्ञा कृतेति||५६-५७||
Adhikarana 29 (58-59) · Śloka 59
पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ||५८||
त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान् |
निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ||५९||
पिप्पलीत्यादि| त्वगामयान् कुष्ठादीन्| शेषं प्रसिद्धम्||५८-५९||
Adhikarana 30 (60-61) · Śloka 61
आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ||६०||
आमलक्यादिरित्येष गणः सर्वज्वरापहः |
चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ||६१||
आमलकीत्यादि| मूले स्पष्ट एव||६०-६१||
Adhikarana 31 (62-63) · Śloka 63
त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ||६२||
गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः |
पिपासाविषहृद्रोगपाण्डुमेहहरस्तथा ||६३||
त्रप्वित्यादि| त्रपु वङ्गं, सीसं नागं, ताम्रं प्रसिद्धं, रजतं रूप्यं, सुवर्णं प्रसिद्धं, कृष्णलोहं तीक्ष्णलोहं, लोहमलः प्रसिद्धः ‘काट’ इति लोके| गरः कृत्रिमं विषम्||६२-६३||
Adhikarana 32 (64-65) · Śloka 65
लाक्षारेवतकुटजाश्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति ||६४||
कषायतिक्तमधुरः कफपित्तार्तिनाशनः |
कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ||६५||
लाक्षेत्यादि| आरेवतः किरमालकः; कुटज इन्द्रयवः; अश्वमारकः करवीरः; कट्फलः सोमकल्कलः ‘कायफल’ इति लोके; सप्तच्छदः सप्तपर्णः ‘सातवन’ इति लोके; मालती जाती; त्रायमाणा स्वनामप्रसिद्धा| केचिदत्र त्रिफलां पठन्ति| शेषं प्रसिद्धम्||६४-६५||
Adhikarana 33 (66-67) · Śloka 67
पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामः |
- तत्र त्रिकण्टकबृहतीद्वयपृथक्पर्ण्यो विदारिगन्धा चेति कनीयः ||६६||
कषायतिक्तमधुरं कनीयः पञ्चमूलकम् |
वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ||६७||
पञ्चेत्यादि| त्रिकण्टको गोक्षुरकः, विदारिगन्धा शालपर्णी| कनीयः लघुपञ्चमूलमित्यर्थः| केचिद्गोक्षुरकस्थान एरण्डं पठन्ति||६६-६७||
Adhikarana 34 (68-69) · Śloka 69
बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ||६८||
सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् |
मधुरानुरसं चैव पञ्चमूलं महत् स्मृतम् ||६९||
बिल्वेत्यादि| अग्निमन्थः ‘अग्निवधू’ इति लोके, टुण्टुकः स्योनाकः| महत् महत्पञ्चमूलमित्यर्थः||६८-६९||
Adhikarana 35 (70-71) · Śloka 71
अनयोर्दशमूलमुच्यते ||७०||
गणः श्वासहरो ह्येष कफपित्तानिलापहः |
आमस्य पाचनश्चैव सर्वज्वरविनाशनः ||७१||
अनयोरित्यादि| तस्य गुणमाह- गण इत्यादि||७०-७१||
Adhikarana 36 (72- 74) · Śloka 74
विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसञ्ज्ञः ||७२||
करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसञ्ज्ञः ||७३||
रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ |
सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ||७४||
विदारी विदारीकन्दः, रजनी हरिद्रा, ‘रञ्जनी’ इत्यन्ये पठन्ति, रञ्जनी शिरहलकः; अजशृङ्गी मेढिका, कर्कटशृङ्गीत्यपरे| वल्लीसञ्ज्ञः ‘पञ्चमूलम् ’ इति शेषः| करमर्दी क्षीरफला ‘करमदी’ इति लोके; त्रिकण्टः गोक्षुरकः; सैरेयकः कण्टसेलियाकः; गृध्रनखी हिंस्रा| कण्टकसञ्ज्ञः ‘पञ्चमूलम्’ इति शेषः| “वल्लीजं पञ्चमूलं तु प्रशस्तं कफनाशनम्| सृष्टमूत्रानिलहरं वृष्यमिन्द्रियबोधनम्|| कण्टकाख्यं पञ्चमूलं कफानिलहरं परम्| मधुरानुरसं चैव पक्वाशयविशोधनम्-” इत्यन्ये पठन्ति||७२- ७४||
Adhikarana 37 (75-76) · Śloka 76
कुशकाशनलदर्भकाण्डेक्षुका इति तृणसञ्ज्ञकः ||७५||
मूत्रदोषविकारं च रक्तपित्तं तथैव च |
अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ||७६||
कुशेत्यादि| कुशो ह्रस्वो मृदुः सूचीपत्रः, काशश्चमरपत्रः, नलः स्वनाम्ना ख्यातः; दर्भः पृथुलः खरपत्रो दीर्घः; काण्डेक्षुका महती खगाली, अन्ये इक्षुमेवाहुः, अन्ये तु पठन्ति ‘काण्डश्च’ इति, तत्र काण्डः शरः| अन्त्यस्तृणपञ्चमूलमित्यर्थः||७५-७६||
Adhikarana 38 (77) · Śloka 77
एषां वातहरावाद्यावन्त्यः पित्तविनाशनः |
पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ||७७||
ये प्रतिपञ्चकं गुणश्लोकं न पठन्ति तेषां मते पञ्चकानां गुणानेकेनैव श्लोकेन वक्तुमाह- एषामित्यादि| आद्याविति लघुपञ्चमूलमहापञ्चमूलौ, अन्त्यस्तृणपञ्चमूलमित्यर्थः, इतरौ मध्यौ वल्लीसञ्ज्ञः कण्टकसञ्ज्ञकश्चेत्यर्थः||७७||
Adhikarana 39 (78) · Śloka 78
त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ||७८||
केचिदत्र वृद्धाः पठन्ति- त्रिवृदादिकमित्यादि||७८||
Adhikarana 40 (79) · Śloka 79
समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम् |
चिकित्सितेषु वक्ष्यामि, ... |७९|
अयमेषां सङ्क्षेप इति दर्शयन्नाह- समासेनेत्यादि||७९||-
Adhikarana 41 (79-80) · Śloka 80
... ज्ञात्वा दोषबलाबलम् ||७९||
एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान् |
प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ||८०||
किमेभिर्गणैः कर्तव्यमित्याह- ज्ञात्वेत्यादि| दोषबलाबलमिति दोषादिबलाबलमित्यर्थः, तेन सर्वेषामेव परीक्षाणामवरोधः कृतो भवति| कषायशब्देनात्र शृतशीतस्वरसफाण्टकल्कभेदाः पञ्चोच्यन्ते| पीयन्त इति पानका यूषमण्डादयः कथ्यन्ते, कषायांश्चेति चकारादनुक्ता गुडादिसंस्काराः समुच्चीयन्ते||७९-८०||
Adhikarana 42 (81) · Śloka 81
धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते |
ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसङ्ग्रहम् ||८१||
अत्र केचिद्वृद्धाः पठन्ति- धूमेत्यादि| एतदुक्तं भवति- विधिनौषधसङ्ग्रहं ग्राहयित्वा धूमादिभिरनुपद्रुते गृहे निक्षिपेदिति||८१||
Adhikarana 43 (82) · Śloka 82
समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् भिन्नान् प्रयोजयेत् |
पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ||८२||
कथमेते द्रव्यगणा योज्या इत्याह- समीक्ष्येत्यादि| अयमर्थः- दोषभेदान् पृथक् कोऽर्थः? भिन्नान् दृष्ट्वा, गणान् भिन्नान् अमिश्रान् प्रयोजयेत्| मिश्रान् वा कोऽर्थः? द्वन्द्वान् दोषभेदान् वा समीक्ष्य मिश्रान् गणान् प्रयोजयेत्| समस्तान् वा दोषभेदान् समीक्ष्य संयुक्तांस्त्रीनेव प्रयोजयेदिति| गणेनापि गणस्य संयोगोऽभिप्रेतः| तदुक्तं- “वर्गमपि वर्गेण सह योजयेत्” इति| अयं चार्थः प्रतिगणं चकारकरणाल्लभ्यते| एकस्यैव गणस्य यथाऽवचारणं करणीयं तथा निर्दिशन्नाह- गणं वेत्यादि| व्यस्तं द्वित्रिचतुरादिद्रव्ययोगः, संहतं समस्तद्रव्ययोगः| इयं पुनः परिभाषा गणविषयैव ज्ञेया नान्ययोगेषु| केचित् पुनरिमां परिभाषां नाधीयत इति||८२||
Adhikarana puShpikA · Śloka 38
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यसङ्ग्रहणीयो नामाष्टत्रिंशोऽध्यायः ||३८||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थानेऽष्टत्रिंशत्तमोऽध्यायः||३८||