Adhikarana 1 (1-2) · Śloka 2
अथातो मिश्रकमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
षष्ट्युपक्रमाणां मध्ये विम्लापनपाचनदारणपीडनशोधनरोपणोत्सादनावसादनानामष्टानां प्रधानानामिह निर्दिष्टानां मिश्रीकृत्य कथनान्मिश्रकाख्योऽध्याय इत्यर्थः; अन्ये तु शोफस्य व्रणस्य च मिश्रयोगकथनान्मिश्रक इति वदन्ति||१-२||
Adhikarana 2 (3-7) · Śloka 7
मातुलुङ्ग्यग्निमन्थौ च भद्रदारु महौषधम् |
अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ||३||
दूर्वा च नलमूलं च मधुकं चन्दनं तथा |
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ||४||
आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः |
विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ||५||
अजगन्धाऽश्वगन्धा च काला सरलया सह |
एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ||६||
एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च |
अनन्ता चेति लेपोऽयं सान्निपातिकशोफहृत् ||७||
तत्र प्रथमं विम्लापनं क्रमेण वातादिदोषजशोफप्रत्यनीकं दर्शयन्नाह- मातुलुङ्गीत्यादि| मातुलुङ्गी बीजपूरकः, अग्निमन्थः अरणी, भद्रदारु देवदारु, महौषधं शुण्ठी, अहिंस्रा बृहदहिंस्रा, रास्ना सुरभिः| दूर्वेत्यादि| दूर्वादीनि द्रव्याणि प्रसिद्धानि| शीतलाश्च गणा इति काकोल्याद्युत्पलादिन्यग्रोधादयः| पित्तविम्लापनवदागन्तुजरक्तजयोरपि दर्शयन्नाह- आगन्तुज इत्यादि| आगन्तुजे पाकप्रतिबन्धाय शीतविधिः स्मृतः| विषजनितशोथस्यागन्तुभेदस्य वक्ष्यमाणातिदेशेन चिकित्सां दर्शयन्नाह- विधिरित्यादि| विधिर्विषघ्नः कल्पोक्तः| अजगन्धेत्यादि| अजगन्धा बोथयिका, लतौषधीत्येके, अन्ये यवानिकामाहुः; अश्वगन्धा प्रसिद्धा; काला अहिंस्रा; सरला अरुणमूला त्रिवृत्; एकैषिका शुक्लमूला त्रिवृत्; अजशृङ्गी कर्कटशृङ्गी, अन्ये अजशृङ्गी छगलविषाणिका उत्तमारणी ‘मेढिका’ इति लोके| प्रत्येकदोषजशोथविम्लापनमभिधाय सान्निपातिकस्य विम्लापनं निर्देष्टुमाह- एत इत्यादि| एते वर्गास्त्रयो मातुलुङ्गादयः, लोध्रं प्रसिद्धं, पथ्या हरीतकी, पिण्डीतको मदनः, अनन्ता दुरालभा| केचित् पिण्डीतकत्रयमित्यादि पाठं पठन्ति||३-७||
Adhikarana 3 (8) · Śloka 8
स्निग्धाम्ललवणो वाते कोष्णः, शीतः पयोयुतः |
पित्ते, चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ||८||
दोषभेदेन लेपस्य संस्कारविशेषं निर्दिशन्नाह- स्निग्धेत्यादि| आढ्यो बहुल इत्यर्थः||८||
Adhikarana 4 (9) · Śloka 9
शणमूलकशिग्रूणां फलानि तिलसर्षपाः |
सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ||९||
विम्लापनमभिधाय पाचनानि निर्दिशन्नाह- शणमूलकेत्यादि| फलशब्दः शणादिभिः सर्षपान्तैः सह प्रत्येकं सम्बध्यते| शणः परिपाके सस्वनफलः, शिग्रुः शोभाञ्जनकः, किण्वं सुराबीजं यद्बहिः प्रक्षिप्यते, अतसी ‘अलसी’ इति लोके प्रसिद्धा, द्रव्याण्युष्णानि उष्णवीर्याणि कुष्ठागुरुप्रभृतीनि| एतेनानुक्तपाचनद्रव्यसङ्ग्रह उक्तः| पाचनं शोथस्य| शेषं प्रसिद्धम्| एतेषां व्यस्तानां समस्तानां च पाचनत्वं, सक्तूनां शीतवीर्यत्वेऽपि प्रभावविशेषात् पाचनत्वं संयोगविशेषाद्वा||९||
Adhikarana 5 (10) · Śloka 10
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः |
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् |
क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ||१०||
पाचनमभिधाय दारणं निर्दिशन्नाह- चिरबिल्व इत्यादि| चिरबिल्वो वृद्धकरञ्जः ‘चिरिहिलि’ इति लोके; अग्निकः कलिकारिका, अन्ये भल्लातकमाहुः; दन्ती दन्तिनी; चित्रकः प्रसिद्धः; हयमारः करवीरः| पुरीषशब्दः कपोतादिभिः सह प्रत्येकं सम्बध्यते| कपोतो वनवासी पाण्डुकः, कङ्कः कङ्कमल्लः न पुनः काकः; गृध्रो मांसाशी पक्षिविशेषः| दारणं विदारणं, पक्वशोथस्य| दारणद्रव्ययोगभेदं दर्शयन्नाह- क्षारद्रव्याणीत्यादि| क्षारद्रव्याणि मुष्कककुटजपलाशाश्वकर्णपारिभद्रादीनि| क्षारो वेति एतैर्द्रव्यैः सिद्धः प्रतिसारणीयः| परमिति कृच्छ्रो दारणमित्यर्थः; बालवृद्धादिष्वयोजनीयः; द्विविधं हि पक्वशोथदारणं सुकुमारं कृच्छ्रं चेति; तत्र कपोतपुरीषादि सुकुमारं, क्षारः कृच्छ्रमिति||१०||
Adhikarana 6 (11) · Śloka 11
द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् |
यवगोधूममाषाणां चूर्णानि च समासतः ||११||
ततः परं पीडनं दर्शयन्नाह- द्रव्याणामित्यादि| पिच्छिलद्रव्याणि शाल्मलीशेलुवटपर्णादीनि| प्रपीडनं मर्मादिसमीपसूक्ष्ममुखव्रणपीडनम्| समासतः सङ्क्षेपतः| प्रपीडनं चेत्थं कर्तव्यं- व्रणमुखं बहिःकृत्य लेपयेत्, लिप्त्वा च शोषयेत् शुष्कं सत् पीडनं भवति||११||
Adhikarana 7 (12) · Śloka 12
शाङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः |
शोधनानि कषायाणि वर्गश्चारग्वधादिकः ||१२||
अथ शोधनं दर्शयन्नाह- शङ्खिनीत्यादि| शङ्खिनी यवतिक्ताभेदः सुदुग्धा बृहत्पत्रा; अङ्कोठः सङ्ग्राही चीरितस्वल्पपत्रः,‘अङ्कोल्ल’ इति लोके; सुमना जाती; करवीरः प्रसिद्धः; सुवर्चला सूर्यावर्तः, सौञ्च(च)लीति लोके| शङ्खिन्यादीनां कषाया आरग्वधादिश्च धावनादिद्वारेण शोधनः| शोधनं पुनरष्टविधं कषायवर्तिकल्कघृततैलरसक्रियाचूर्णधूपनभेदेन| एतच्चाष्टविधमपि क्रमेणात्रैव वक्ष्यति| कषायस्तु शृतशीतफाण्टस्वरसभेदेन चतुर्विधो ग्राह्यः| कल्कं चात्र पञ्चमं पृथगेव वक्ष्यति||१२||
Adhikarana 8 (13-14) · Śloka 15
अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया |
पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ||१३||
कटुत्रिकं यवक्षारो लवणानि मनःशिला |
कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ||१४||
संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् |१५|
कषायमभिधाय वर्तिमाह- अजगन्धेत्यादि| गवाक्षी इन्द्रवारुणी; लाङ्गलाह्वया कलिकारिका; पूतीकः चिरबिल्वः, ‘कण्टकी विटपकरञ्ज’ इत्येके; हरेणवो रेणुकाः; लवणानि सैन्धवसौवर्चलबिडगडसामुद्रिकाणि पञ्च, अन्ये गडस्थाने काललवणेन सह पञ्चसङ्ख्यामाहुः, काललवणं तु निर्गन्धं सौवर्चलभेदः; सुराष्ट्रजा तुम्बुरुमृत् ‘तुरी’ इति लोके, अपरे सामान्येन कृष्णमृत्तिकामाहुः| शेषाणि द्रव्याणि किञ्चित्पूर्वं व्याख्यातानि किञ्चित्प्रसिद्धानि| एतैर्द्रव्यैः सूत्रवर्तिं लिप्त्वा व्रणे निक्षिपेत्, एवं वर्तिर्भवति||१३-१४||-
Adhikarana 9 (15) · Śloka 15
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ||१५||
वर्तिमुक्त्वा कल्कमाह- एतैरेवौषधैरित्यादि| एतैरौषधैरजगन्धादिभिः सुराष्ट्रजान्तैः||१५||
Adhikarana 10 (16) · Śloka 17
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च |
जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ||१६||
पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् |१७|
कल्कमभिधाय शोधनघृतमाह- अर्कोत्तमामित्यादि| अर्कः अकर्मूलम्, उत्तमा त्रिफला, अन्ये तु पुनरर्कोत्तममित्यभिन्नपदेन मन्दारकमाहुः; स्नुहीक्षीरं सेहुण्डदुग्धं; क्षारोत्तमानि क्षारश्रेष्ठद्रव्याणि मुष्कककुटजपलाशाश्वकर्णादीनि; जातीमूलं जात्या जटा; अन्ये ‘जातुकन्द’, इति पठन्ति, तत्र जातुकन्दो गुग्गुलुक उत्तरापथे प्रसिद्धः; पूर्वोद्दिष्टानि शोधनवर्तिनिर्दिष्टानि| शेषं सुगमम्||१६||-
Adhikarana 11 (17-18) · Śloka 18
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ||१७||
बृहती कण्टकारी च हरितालं मनःशिला |
शोधनानि च योज्यानि तैले द्रव्याणि शोधने ||१८||
तैलं शोधनं निर्दिशन्नाह- मयूरक इत्यादि| मयूरकोऽपामार्गः; राजवृक्षः किरमालकः| कोशातकी घोषकः, ‘घुसुण्डी’ इति लोके| शोधनानि च योज्यानीति शोधनवर्तिनिर्दिष्टानि, वमनविरेचननिर्दिष्टानीत्यन्ये| शेषं प्रसिद्धम्||१७-१८||
Adhikarana 12 (19) · Śloka 19
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये |
शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ||१९||
शोधनचूर्णानि निर्दिशन्नाह- कासीस इत्यादि| शोधनाङ्गेषु चान्येष्विति शोधनवर्तिनिर्दिष्टेषु वमनविरेचनाङ्गद्रव्येषु च; कानिचित् पूर्वं व्याख्यातानि कानिचित् प्रसिद्धानि द्रव्याणि||१९||
Adhikarana 13 (20) · Śloka 20
सालसारादिसारेषु पटोलत्रिफलासु च |
रसक्रिया विधातव्या शोधनी शोधनेषु च ||२०||
रसक्रियां शोधनीं निर्दिशन्नाह- सालसारादिसारेष्वित्यादि| रसक्रिया फाणिताकृतिः, ‘काकवी’ इति लोके| विधातव्या कर्तव्या| शोधनेषु चेति शोधनवर्तिनिर्दिष्टेषु, अथवोर्ध्वाधःशोधनेषु वमनविरेचनद्रव्येषु, शेषं प्रसिद्धम्| रसक्रियाकल्पना चेयं- द्रव्यापेक्षयाऽष्टगुणं षोडशगुणं वा जलं दत्त्वाऽष्टभागावशेषः षोडशभागावशेषो वा क्वाथः कार्यः, ततः पूतं कषायं पुनस्तावत् पचेद्यावत् फाणिताकृतिः||२०||
Adhikarana 14 (21) · Śloka 21
श्रीवेष्टके सर्जरसे सरले देवदारुणि |
सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ||२१||
परिशिष्टमष्टमं धूपनं दर्शयन्नाह- श्रीवेष्टक इत्यादि| श्रीवेष्टकः सरलरसो नवनीतपिण्डप्रायः, ‘गुग्गुली’ इति लोके प्रसिद्धः; सर्जरसः ‘राला’ इति लोके प्रसिद्धः; सरले सरलवृक्षत्वचीत्यर्थः| सारेष्विति अनुक्तेषु सालसारादिसारेष्वित्यर्थः| शेषं प्रसिद्धम्| अत्र शोधनप्रकरणे केचित् “एतैरेवौषधैः कुर्यात् कल्कानपि च शोधनान्” अस्याग्रे “कासीसकटुरोहिण्योर्जातीकन्दहरिद्रयोः| पूर्वोद्दिष्टेषु चाङ्गेषु कुर्यात्तैलघृतानि वै”- इति पाठं पठन्ति, व्याख्यानयन्ति च- कन्दहरिद्रयोरित्यत्र कन्दशब्दो दारुहरिद्रापरिहाराय| ‘जातुकन्दहरिद्रयोः’ इत्यन्ये पठन्ति, अत्र जातुकन्दो गुग्गुलुः| पूर्वोद्दिष्टेषु चाङ्गेष्विति शङ्खिन्यादिषु अजगन्धादिषु च| एषां कषायादीनां व्रणधावनादौ द्विव्रणीये यथोक्तविषयमवचारणम्||२१||
Adhikarana 15 (22-23) · Śloka 23
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः |
शृतः शीतकषायो वा रोपणार्थं प्रशस्यते ||२२||
सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा |
क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ||२३||
रोपणमपि धूपनवर्ज्यं शोधनमिव सप्तविधं कषायादिभेदेन दर्शयन्नाह- कषायाणामित्यादि| कषायाणामनुष्णानामिति न्यग्रोधोदुम्बराश्वत्थप्लक्षप्रभृतीनाम्| शृतं शीतकषायं वेत्युपलक्षणं, तेन फाण्टस्वरसावपि गृह्येते| द्रव्यमुष्णोदके रात्रौ स्थापितं ‘शीतकषायः’ इत्युच्यते| रोपणार्थं संरोहणार्थम्| रोपणवर्तीद्रव्याणि निर्दिशन्नाह- सोमेत्यादि| सोमः सोम एव, ‘सोमवल्कल’ इत्यन्ये, अपरे ‘सोमा ब्राह्मी’ इत्याहुः; अमृता गुडूची; क्षीरिप्ररोहा न्यग्रोधोदुम्बरादीनामङ्कुराः| शेषं प्रसिद्धम्||२२-२३||
Adhikarana 16 (24) · Śloka 24
समङ्गा सोमसरला सोमवल्कः सचन्दनः |
काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ||२४||
रोपणकल्कद्रव्यं निर्दिशन्नाह-समङ्गेत्यादि|- समङ्गा अञ्जलिकारिका ‘लज्जालुकी’ इति लोके प्रसिद्धा, वराहक्रान्तामपरे; सोमः सोम एव; सरला सरलः, विशंसिकामन्ये; सोमवल्कः कट्फलः| शेषं प्रसिद्धम्||२४||
Adhikarana 17 (25) · Śloka 25
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता |
काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते ||२५||
रोपणघृतं निर्दिशन्नाह- पृथक्पर्णीत्यादि| पृथक्पर्णी पृश्निपर्णी, आत्मगुप्ता कपिकच्छूः, मालती जाती, सिता शर्करा, श्वेतदूर्वेत्यन्ये| शेषं प्रसिद्धम्||२५||
Adhikarana 18 (26) · Śloka 26
कालानुसार्यागुरुणी हरिद्रे देवदारु च |
प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे ||२६||
रोपणतैलमुद्दिशन्नाह- कालानुसार्येत्यादि| कालानुसार्यं तगरं, शैलजमिति केचित्| शेषं प्रसिद्धम्||२६||
Adhikarana 19 (27-28) · Śloka 28
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया |
धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ||२७||
प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च |
त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ||२८||
रोपणचूर्णमाह- कङ्गुकेत्यादि| कङ्गुकाः कङ्गवः, ‘अन्नविशेषा’ इत्यपरे| श्रवणाह्वया मुण्डितिका| धवः शकटाख्यः, अनेनैव नाम्ना प्रसिद्धः; अश्वकर्णः पूर्वदेशे गन्धमुण्डोऽश्वत्थसदृशवृक्षः| शेषं प्रसिद्धम्| कङ्गुकास्थाने केचित् ‘किंशुका’ इति पठन्ति| द्वितीयं रोपणचूर्णमाह- प्रियङ्गुकेत्यादि| अत्र सर्वं सुबोधम्||२७-२८||
Adhikarana 20 (29) · Śloka 29
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च |
रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ||२९||
रसक्रियां रोपणीमाह- त्वक्ष्वित्यादि| रसक्रियावस्थायां रोपणरसक्रिया कर्तव्येत्यर्थः| शेषं सुगमम्||२९||
Adhikarana 21 (30) · Śloka 30
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला |
उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ||३०||
इदानीमुत्सादनमाह- अपामार्ग इत्यादि| अपामार्गस्य मूलं शीतलं गृह्यते; न तु फलं, तस्योष्णवीर्यत्वात्| तालपत्री मुशली| सुवर्चला सूर्यावर्तः; अस्या अपि मूलं न तु फलं, तस्योष्णवीर्यत्वात्| उत्सादन इति उत्सादनं मांसवर्धनं, लेपप्रयोगादुत्सादनं भवति| शेषं सुगमम्||३०||
Adhikarana 22 (31-32) · Śloka 32
कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला |
कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ||३१||
फले शैरीषकारञ्जे धातुचूर्णानि यानि च |
व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ||३२||
अवसादनं निर्दिशन्नाह- कासीसमित्यादि| कुरुविन्दो लोहितरत्नं ‘पद्मराग’ इत्युच्यते| कुक्कुटाण्डकपालानि कुक्कुटाण्डकर्पराणि| सुमनोमुकुलानि चेति जातिकलिकेत्यर्थः|धातुचूर्णानि यानि चेति हरितालपुष्पकासीसरसाञ्जनप्रभृतीनि| उत्सन्नमांसेषु उन्नतमांसेष्वित्यर्थः| अवसादन इति मांसस्फोटने||३१-३२||
Adhikarana 23 (33) · Śloka 33
समस्तं वर्गमर्धं वा यथालाभमथापि वा |
प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ||३३||
एषां शोधनरोपणादिवर्गाणां समस्तानामलाभे कल्पान्तरं दर्शयन्नाह- समस्तमित्यादि| मिश्रकीयेषु द्रव्यगणेषु तथा द्रव्यसङ्ग्रहणीयोक्तेषु तथा संशोधनसंशमनीयोक्तेषु यानि द्रव्याणि तेषां समस्तानामलाभे त्रिचतुःपञ्चषडादिद्रव्याणामपि योगः कर्तव्य इत्यर्थः| तेनाध्यायत्रयनिर्दिष्टगणविषयिण्येवेयं परिभाषा, न समस्ततन्त्रव्यापिनी| अन्ये समस्तमुत्तमबले व्याधौ, अर्धं मध्यबले, यथालाभं हीनबले, इति कथयन्ति| अयं पक्षो गयदासाचार्येण दूषितः| यथालाभमिति यस्य यस्य लाभः स्यात्तत्तत् प्रयुञ्जीतेत्यर्थः| यथोद्दिष्टेषु कर्मस्विति उक्तेषु विम्लापनादिकर्मस्वित्यर्थः||३३||
Adhikarana puShpikA · Śloka 37
इति सुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ||३७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने सप्तत्रिंशत्तमोऽध्यायः||३७||