Adhikarana 1 (1-2) · Śloka 2
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
संशोधनं संशमनं चाधिकृत्य कृतोऽध्यायः संशोधनसंशमनीयः, तस्यारम्भमित्यर्थः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
संशोधनं संशमनं चाधिकृत्य कृतोऽध्यायः संशोधनसंशमनीयः, तस्यारम्भमित्यर्थः||१-२||
Adhikarana 2 (3) · Śloka 3
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपुन्नाड कोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीवचामृगेर्वारवश्चित्रा चेत्यूर्ध्वभागहराणि | तत्र, कोविदारपूर्वाणां फलानि, कोविदारादीनां मूलानि ||३||
🔊 Audio coming soon
प्राग्द्रव्यसङ्ग्रहणीयाध्याये व्याधिप्रत्यनीका द्रव्यगणा उक्ताः, संशोधनसंशमनीये तु दोषप्रत्यनीकप्रायाः पञ्चकर्मोपयोगिनः शोधनद्रव्यसङ्ग्रहगणा वातादिशमनद्रव्यगणाश्च कथयितव्या इति; तत्र द्विविधं संशोधनं- वमनं विरेचनं च; तत्र वमनपूर्वकत्वाद्विरेचनस्य प्रथमं वमनद्रव्यगणमभिधातुमाह- मदनेत्यादि| जीमूतको देवदाली, इक्ष्वाकुः कटुकालाबूः, धामार्गवः पीतपुष्पा कोषातकी, कृतवेधनः कोषातकीभेदः, सर्षपाः श्वेतसर्षपा विशेषेण वमनार्हाः, कोविदारः काञ्चनारः, कर्बुदारः श्लेष्मान्तकः ‘बवहार’ इति ‘लिहूसाडक’ इति च देशभाषया प्रसिद्धः, अरिष्टो निम्बः, विदुलो वेतसः, बन्धुजीवो मध्याह्नपुष्पकः ‘मरुनीया’ इति लोके, श्वेता श्वेतवचा, शणपुष्पी शणसदृशविटपः ‘सणहुली’ इति लोके, बिम्बी किन्दुरिका, वचा द्वितीयाऽरुणा, मृगेर्वारुरिन्द्रवारुणी, चित्रा चित्राण्डिका पटोलफलाकारफला आरण्यकचण्डकेत्यर्थः, अन्ये द्रवन्तीमाहुः| शेषं प्रसिद्धम्| ऊर्ध्वभागहराणि वमनकराणीत्यर्थः| एषां मध्ये कानिचिद्द्रव्याणि साक्षाद्वामयन्ति कानिचिद्वमनद्रव्यमिलितानि| केचिदाचार्या ‘द्वाविंशतिद्रव्याणि’ इत्यत्र गणे नियममाहुः| एषाभवयवविभागमाह- तत्रेत्यादि||३||
Adhikarana 3 (4) · Śloka 4
विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्नुक्सु वर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापूगहरीतक्या मलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि | तत्र तिल्वकपूर्वाणां मूलानि , तिल्वकादीनां पाटलान्तानां त्वचः, कम्पिल्लकफलरजः, पूगादीनामेरण्डान्तानां फलानि, पूतीकारग्वधयोः पत्राणि, शेषाणां क्षीराणीति ||४||
🔊 Audio coming soon
विरेचनद्रव्याणि निर्दिशन्नाह- त्रिवृदित्यादि| त्रिवृत् रक्तमूला ‘निसोतृ’ इति लोकेः; श्यामा कृष्णमूला त्रिवृत्; दन्ती दन्तिनी; द्रवन्ती दन्तीभेदः ‘संवरी’ इति लोके; सप्तला सातला सेहुण्डभेदः, अपरे बुध्नामाहुः; शङ्खिनी यवतिक्ताभेदः, श्वेतबुध्नेत्यपरे; विषाणिका मेषशृङ्गी; गवाक्षी श्वेतपुष्पेन्द्रवारुणी; छगलान्त्री वृद्धदार(रु)कः; स्नुक् सेहुण्डः; सुवर्णक्षीर्यनन्तासदृशपत्रा ‘हियावलि ’ इति लोके, ‘कङ्गुष्ठ’ इत्यपरे; किणिही कटभी; तिल्वकः स्वल्परोध्रः; कम्पिल्लको रोचनिकः स्वनामख्यातः; रम्यको द्रेक्का ‘बकाइणि’ इति लोके, पटोलमूलमित्यपरे; नीलिनी नीलबुध्ना(ह्ना), ‘श्रीफलिका’ इति लोके; चतुरङ्गुलः किरमालकः, अत्रैके चतुरङ्गुलस्थाने ‘पञ्चाङ्गुल’ इति पठन्ति, तेषां मते पञ्चाङ्गुल एरण्डः, अन्ये तु पञ्चाङ्गुलशब्देन पटोलफलसदृशफलां लतां स्निग्धपत्रां शारदफलामाहुः; पूतीकश्चिरबिल्वः; महावृक्षः सेहुण्डभेदः, तस्य क्षीरम्, एतेन न पुनरुक्तदोषः; सप्तच्छदः सप्तपर्णः; ज्योतिष्मती काकमर्दनिका| अधोभागहराणीति विरेचनानीत्यर्थः| शेषं सुगमम्| एषामवयवविभागमाह- तत्रेत्यादि||४||
Adhikarana 4 (5) · Śloka 5
कोशातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि | एषां स्वरसा इति ||५||
🔊 Audio coming soon
उभयभागहराणि निर्दिशन्नाह- कोशातकीत्यादि| कोशातकी घोषकः; सप्तला स्नुहीभेदः, अपरे श्रीफलिकामाहुः; देवदाली स्वनामख्याता, ‘देवली’ इति लोके| उभयतोभागहराणीति वमनानि विरेचनानि चेत्यर्थः| एतानि कोशातकीप्रभृतीनि नियमेनोभयतोभागहराणि, गवाक्षीप्रभृतीनां पूर्वोक्तानां तु पत्रादिविशेषेण कदाचिद्वामकत्वं कदाचिद्विरेचकत्वमिति न तेषामुभयतोभागहरत्वम्| एषां कोशातक्यादीनां किं गृह्यत इत्याह- एषामित्यादि| तत्र स्वरसग्रहणं कषायादिनिवारणार्थम्||५||
Adhikarana 5 (6) · Śloka 6
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीरबिम्बीगिरिकर्णिकाकिणिहीवचाज्योतिष्मती- करञ्जार्कालर्कलशुनातिविषाशृङ्गवेरतालीशतमालसुरसार्जकेङ्गुदीमेषशृङ्गीमातुलुङ्गीमुरङ्गीपीलु- जातीशालतालमधूकलाक्षाहिङ्गुलवणमद्यगोशकृद्रसमूत्राणीति शिरोविरेचनानि | तत्र करवीरपूर्वाणां फलानि, करवीरादीनामर्कान्तानां मूलानि, तालीशपूर्वाणां कन्दाः, तालीशादीनामर्जकान्तानां पत्राणि, इङ्गुदीमेषशृङ्ग्योस्त्वचः, मातुलुङ्गीमुरङ्गीपीलुजातीनां पुष्पाणि, शालतालमधूकानां साराः, हिङ्गुलाक्षे निर्यासौ, लवणानि पार्थिवविशेषाः; मद्यान्यासुतसंयोगाः, शकृद्रसमूत्रे मलाविति ||६||
🔊 Audio coming soon
शिरोविरेचनद्रव्याणि निर्देष्टुमाह- पिप्पलीत्यादि| अपामार्गः शिखरी ‘अन्धडक’ इति लोके; शिग्रुः शोभाञ्जनकः; सिद्धार्थः सर्षपः; शिरीषो विषघाती स्वनामख्यातः;करवीरः ‘कणवीर’ इति लोके; बिम्बी कुन्दुरुका; गिरिकर्णिका सेफन्दः; किणिही कटभी; ज्योतिष्मती ककुन्दनी; अर्कालकौ अर्कद्वयं; शृङ्गवेरं शुण्ठी; तालीशं तालीशपत्रं; तमालं तमालपत्रं, पत्रकमिति लोके; सुरसा ‘तुलसी’ इति लोके; अर्जकः कुठेरकः; इङ्गुदी इङ्गुकः; मेषशृङ्गी मेढशृङ्गः पुत्रञ्जीवकसदृशपत्रो वृक्षः, अन्ये कर्कटशृङ्गमाहुः; मातुलुङ्गी सुरभिफला वनजाऽरण्यबीजपूरकः; मुरङ्गी रक्तकुसुमः शोभाञ्जनकः, पीलुर्मधुरफलः ‘पीलु’ इति लोके; जाती मालती; शकृद्रसो गोमयरसः; मूत्रं गोमूत्रम्| शिरोविरेचनानीति नस्यप्रयोगेण शिरस्थं श्लेष्माणं विरेचयन्ति स्रावयन्तीत्यर्थः| शेषं प्रसिद्धम्| एषामवयवविभागमाह- तत्रेत्यादि| निर्यासौ स्वरसावित्यर्थः| लवणानि पार्थिवविशेषा इति पृथिव्या अवयवविशेषाः, एतेन स्वरूपेणैव लवणानि ग्राह्याणीत्युक्तम्| मद्यान्यासुतसंयोगा इति सन्धानकसंयोगो मद्यम्, अत एव तदपि स्वरूपेणैव ग्राह्यम्| शकृद्रसमूत्रे मलाविति एते मलौ, तस्मादेते अपि स्वरूपेण ग्राह्ये||६||
Adhikarana 6 (7) · Śloka 7
संशमनान्यत ऊर्ध्वं वक्ष्यामः- तत्र भद्रदारुकुष्ठहरिद्रावरुणमेषशृङ्गीबलातिबलार्तगलकच्छुराशल्लकीकुबेराक्षीवीरतरुसहचराग्निमन्थ- वत्सादन्येरण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समासेन वातसंशमनो वर्गः ||७||
🔊 Audio coming soon
संशोधनमभिधाय संशमनं निर्दिशन्नाह- भद्रदार्वित्यादि| संशमनानीति सम्यक् शमयतीति संशमनं, सम्यक्त्वं च दुष्टदोषस्यानिर्हरणपूर्वकं शमनम्, अदुष्टस्यानुदीरणं च; व्याधिसंशमनं तु प्रस्तुतव्याधेः संशमनमप्रस्तुतव्याधेरनुदीरणम्| तदुक्तं- “न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति च क्रुद्धान् तत् संशमनमुच्यते” इति| दोषशब्दोऽत्र दोषेषु दोषकार्येषु व्याधिष्वपि च वर्तते, कार्ये कारणोपचारात्| मेषशृङ्गी मेढशृङ्गः, पुत्रञ्जीवकतरुसदृशपत्रो वृक्षः, अन्ये कर्कटशृङ्गमाहुः; बलातिबले शुक्लपीतपुष्पं बलाद्वयं; आर्तगलः ककुभः, केचिदार्तगलं कण्टकीवृक्षमाचक्षते; कच्छुरा कुङ्कुमर्दनिका, ‘कच्छुरा शूकशिम्बिः’ इत्यन्ये; कुबेराक्षी काष्ठपाटला, पो(पे)टिकेत्यन्ये; वीरतरुर्बिल्वनासिका, शर इत्यन्ये; सहचरः कण्टशेलियाकः; अग्निमन्थः ‘अग्निवधूः’ इति पूर्वदेशे प्रसिद्धः; वत्सादनी गुडूची, वीर्येण गुडूची वातं हन्ति, रसेन कफपित्ते; अश्मभेदकः पाषाणभेदकः, वसुकः शिवमल्लिका, बकपुष्पमिति लोके; वशिरः सूर्यावर्तः, अपामार्ग इत्यपरे; काञ्चनको धत्तूरकः, ‘कर्चूर’ इत्यन्ये पठन्ति, कर्चूरः शटी; कार्पासी वनकार्पासिका, कार्पासविटपसदृशी; वृश्चिकाली वृश्चियाकः; पत्तूरः कुचन्दनम्| शेषं प्रसिद्धं, पूर्वं व्याख्यातं च| प्रभृतिग्रहणान्माषतिलातसीप्रभृतीनां ग्रहणम्| समासेन सङ्क्षेपेण, विस्तरेण त्वन्नपानाद्यनिलहरग्रहणश्रुतिप्रतिपादितं यावद्भूजलानलगुणबहुलं द्रव्यं वातसंशमनमिति||७||
Adhikarana 7 (8) · Śloka 8
चन्दनकुचन्दनह्रीबेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीगुन्द्राशैवलकह्लारकुमुदोत्पलकन्द(द)लीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ||८||
🔊 Audio coming soon
पित्तसंशमनं निर्दिशन्नाह- चन्दनेत्यादि| चन्दनं श्रीखण्डं; कुचन्दनं रक्तचन्दनं; ह्रीबेरं बालकं; पयस्या क्षीरकाकोली; विदारी विदारीकन्दः; शैवलं शैवालं; कह्लारं रक्तोत्पलं ‘बृहत्पत्रिका’ इति लोके, अन्ये सौगन्धिकोत्पलं; कुमुदोत्पलं श्वेतोत्पलं, कन्दली श्वेतश्लक्ष्णबहुपुटकन्दविशेषः ‘सर्पच्छत्रकम्’ इति लोके; मूर्वा कन्दलीसदृशस्वल्पविटपः ‘हधोड’ इति लोके| प्रभृतिग्रहणादनुक्तमपि मधुरतिक्तकषायं द्रव्यं ग्राह्यम्| समासग्रहणेन त्वन्नपानादौ पित्तहरत्वेन यदन्यदप्युदितं खभूमिजलानिलभूयिष्ठं तदपि पित्तशमनं ग्राह्यम्| ननु, चन्दनकुचन्दने सारिवादौ, पयस्या काकोल्यादौ, उत्पलादीन्युत्पलादिगणे पठितान्येव, तत्कथं पृथङ्निर्देश इति? ब्रूमः, समस्तव्यस्तानां त्रिचतुराणां गुणविशेषज्ञापनाय पृथक् पाठः| यष्टीमधुकं तु शीतकषायादिकल्पनया पित्तं शमयति वामनीयद्रव्यसंयुतं तु वामनीयमिति न दोषः||८||
Adhikarana 8 (9) · Śloka 9
कालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकीर्येङ्गुदीसुमना- काकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ||९||
🔊 Audio coming soon
कफसंशमनं निर्दिशन्नाह- कालेयकेत्यादि| कालेयकः कृष्णवर्णचन्दनविशेषो ‘मलयाद्रिचन्दनम्’ इति लोके; तिलपर्णी हुलहुलः; शीतशिवं कर्पूरं, शतपुष्पाभेदमेके, गवेधुकेत्यपरे; सरला त्रिवृत्; प्रकीर्या कण्टकी विटपकरञ्जः; उदकीर्या चिरबिल्वः; इङ्गुदी इङ्गुकः, ‘पुत्रञ्जीवक’ इत्यन्ये; सुमना जाती; काकादनी हिंस्रा; लाङ्गलकी कलिकारिका; हस्तिकर्णो गजकर्णाकारैकपत्रः, ‘भूपलाश’ इति लोके, रक्तैरण्ड इत्यन्ये; मुञ्जातकः; स्वनामख्यातः स्वल्पकन्द उत्तरापथे; लामज्जकमुशीरभेदः| केषाञ्चिदत्र पिप्पल्यादिवचादिपठितानां पुनर्वचनं विशेषेण कफसंशमनत्वदर्शनार्थं; मुञ्जातकस्य वातपित्तहरत्वेऽपि श्लेष्महरत्वेन प्रायस्त्रिदोषहरत्वं दर्शयन्ति| प्रभृतिग्रहणादनुक्तकटुतिक्तकषायाणामुपसंहारः| समासेनेति विस्तरेण त्वन्नपानादौ तथा तेजोऽनिलाकाशगुणभूयिष्ठमनुक्तमपि द्रव्यं कफसंशमनमिति||९||
Adhikarana 9 (10) · Śloka 10
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यभिसमीक्ष्य विदध्यात् | तत्र, व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति; अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते; पुरुषबलादधिकं ग्लानिमूर्च्छामदानावहति संशमनम्; एवं संशोधनमतिपातयति | हीनमेभ्यो दत्तमकिञ्चित्करं भवति | तस्मात् सममेव विदध्यात् ||१०||
🔊 Audio coming soon
अतःपरं संशोधनसंशमनद्रव्यमात्रां नियमयन्नाह- तत्रेत्यादि| सर्वाणीति संशोधनानि संशमनानि चेत्यर्थः| व्याध्यग्निपुरुषाणां च बलं शक्तिमभिसमीक्ष्य न्यूनाधिकभावेन, विदध्यात् कुर्यात्| व्याधिशब्देन दोषा रोगाश्च| तेषां व्याध्यादीनां बलादिकमनपेक्ष्य भेषजप्रयोगे क्रियमाणे व्याध्यादिबलाधिके दोषं निर्दिशन्नाह- तत्रेत्यादि| विष्टभ्य वा पच्यत इति चिरकालं स्थिरीभूय शूलादिकं कृत्वेत्यर्थः| ग्लानिः शरीरशैथिल्यं, मूर्च्छा चेतनाच्युतिः, मदो मद्यमत्तस्येव; आवहति करोति| शमनमिति संशमनौषधमित्यर्थः| संशोधनदोषमाहु- एवं संशोधनमिति|-एवमेतद्दोषं संशोधनमपि करोतीत्यर्थः| अतिपातयति अतिपातनमप्यधिकं करोत्यातुरबलस्येत्यर्थः| व्याधिबलन्यूनाया औषधमात्राया दाने दोषमाह- हीनेत्यादि| अकिञ्चित्करं न किञ्चित् करोति अनर्थकमित्यर्थः; अन्येऽकिञ्चित्करमल्पार्थकरमित्याहुः; नञ् ईषदर्थे| सिद्धिहेतुमुपाधिं दर्शयन्नाह- तस्मादित्यादि| सममेव रोगादिसमबलमित्यर्थः||१०||
Adhikarana 10 (11) · Śloka 11
भवन्ति चात्र- रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः | तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावानं मृदु ||११||
🔊 Audio coming soon
दुर्बलस्य बलवच्छोधनं न कर्तव्यमित्याह- रोग इत्यादि| यो भवेद्दोषदुर्बलः यः पुरुषो दौषैर्दुर्बलो न तूपवासादिभिः; यस्माद्दोषदुर्बले दोषहरणादेव बलं भवति, उपवासादिकृशे त्वपहृतेऽपि दोषे बलं न भवति| दोषप्रच्यावनं विरेचनम्| मृद्विति मृदुवीर्यं चतुरङ्गुलविरेकादि||११||
Adhikarana 11 (12-13) · Śloka 13
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् | अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ||१२|| स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् | भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ||१३||
🔊 Audio coming soon
अवस्थाविशेषेणाव्याधिदुर्बलेऽपि शोधनं दर्शयन्नाह- चल इत्यादि| चले इति स्वस्थानाच्चलित इत्यर्थः| अत्रेति चले दोषे| मृदौ कोष्ठ इत्यस्यामवस्थायामित्यर्थः| अव्याधिदुर्बलस्यापि उपवासादिदुर्बलस्यापि, हि यस्मादर्थे, तदा भवेत् ‘हितम्’ इत्यध्याहारः| ‘अव्याधिदुर्बलस्यापी’ इत्यत्र केचित् ‘अव्यापद्दुर्बलस्यापि’ इति पठन्ति| अव्यापच्छोधनं हितं तदा भवतीत्यर्थः; अव्यापच्छोधनं तदुच्यते शूलादीनि यन्न करोति| अत्रान्तरे केचित् पठन्ति- स्वयमित्यादि| न चायं सर्वनिबन्धेषु दृश्यत इति||१२-१३||
Adhikarana 12 (15) · Śloka 14
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते | बिडालपदकं चूर्णं देयः कल्कोऽक्षसम्मितः ||१४||
🔊 Audio coming soon
व्याध्यग्निपुरुषेषु मध्यमबलेषु कियन्मात्रमौषधं दद्यादित्याह- व्याध्यादिष्वित्यादि| मध्येषु मध्यमबलेषु| क्वाथस्याञ्जलिरिष्यत इति क्वाथग्रहणाच्छृतशीतफाण्टानां, न तु स्वरसक्षीरयोः, ते हि गुरुत्वादल्पप्रमाणे प्रयोक्तव्ये| अञ्जलिश्चत्वारि पलानि| बिडालपदकं कर्ष इत्यर्थः| अक्षसम्मित इति कर्षप्रमाण इत्यर्थः, कल्को द्रवपिष्टः| एतेन व्याध्यादिषु हीनबलेष्वञ्जल्यादयोऽप्यपकर्षणीयाः, तेषामेवाधिके बले तूत्कर्षणीया इति| अनुवासनास्थापनशिरोविरेचनादीनामन्यत्र मात्रोद्देशः कार्य इति||१५||
Adhikarana puShpikA · Śloka 39
इति सुश्रुतसंहितायां सूत्रस्थाने संशोधनसंशमनीयो नामैकोनचत्वारिंशोऽध्यायः ||३९||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकोनचत्वारिंशत्तमोऽध्यायः||३९||