Adhikarana 1 (1-2) · Śloka 2
अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| द्रव्यस्य विशेषो भेदः पार्थिवादिकः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| द्रव्यस्य विशेषो भेदः पार्थिवादिकः||१-२||
Adhikarana 2 (3) · Śloka 3
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिः, उत्कर्षस्त्वभिव्यञ्जको भवति- इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ||३||
🔊 Audio coming soon
तत्र सर्वेषामेव द्रव्याणां पञ्चभूताभिनिर्वृत्तत्वात् पृथग्द्रव्याणां पृथिव्याद्यारब्धानां परमार्थभेदो नास्तीत्युत्कर्षोपाधिभेदं दर्शयन्नाह- तत्रेत्यादि| समुदायात् समवायात्| द्रव्याभिनिर्वृत्तिर्द्रव्यजन्म| अभिव्यञ्जको ज्ञापकः||३||
Adhikarana 3 (4(1)) · Śloka 4
तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं; तत् स्थैर्यबलगौरवसङ्घातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति(१) |४|
🔊 Audio coming soon
तत्र प्रभूतं द्रव्याभिव्यक्तिकारणं पृथिव्यादिभूतगुणोत्कर्षं निर्दिशन्नाह- तत्र स्थूलेत्यादि| स्थूलः सूक्ष्मविपरीतः, सान्द्रस्तनुविपर्ययः, मन्दस्तीक्ष्णविपर्ययः, सरविपरीतः स्थिरः, गुरुश्चिरपाकी, कठिनो मृदुविपरीतः| पार्थिवस्य लक्षणाभिधानेन गुणवत्त्वमभिधाय क्रियावत्त्वं दर्शयन्नाह- तत्र स्थैर्येत्यादि| स्थैर्यमचलत्वं, सङ्घातः काठिन्यम्, उपचयो बृंहणम्||४(१)||
Adhikarana 4 (4 (2)) · Śloka 4
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं; तत् स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति;(२) |४|
🔊 Audio coming soon
इदानीमाप्यद्रव्यमब्गुणोत्कर्षेण भिन्नं दर्शयन्नाह- शीतमित्यादि| स्तिमितमार्द्रं, जडमित्यन्ये| आप्यस्य लक्षणाभिधानेन गुणवत्त्वमभिधाय क्रियावत्त्वं दर्शयन्नाह- तत् स्नेहनेत्यादि| ह्लादनं सुखोत्पादनं, क्लेदनमार्द्रभावः, बन्धनं संहत्यापादनं, विष्यन्दनं द्रवस्रुतिः||४ (२)||
Adhikarana 5 (4(3)) · Śloka 4
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं; तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति;(३) |४|
🔊 Audio coming soon
आग्नेयद्रव्यलक्षणं तद्भूतगुणोत्कर्षेण दर्शयन्नाह- उष्णेत्यादि| तीक्ष्णं राजिकामरिचादिवत्, सूक्ष्मं स्रोतोनुसरणशीलं, विशदं पिच्छिलविपरीतम्| तस्य क्रियावत्त्वं दर्शयन्नाह- दहनेत्यादि| दहनं भस्मसात्करणं, पचनमाहारादिपाकः, दारणं व्रणादेः, तापनं शरीरादिसन्तापनं, प्रकाशनमभिव्यक्तिः, प्रभा तेजः, वर्णो गौरादिः||४(३)||
Adhikarana 6 (4(4)) · Śloka 4
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं; तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति;(४) |४|
🔊 Audio coming soon
वायुगुणोत्कर्षाद्वायव्यं द्रव्यविशेषं दर्शयन्नाह- सूक्ष्मेत्यादि| खरं कर्कोटकफलवत्, शिशिरं शीतं, विशदं धूलिवत्| तस्यैव कर्म दर्शयन्नाह- तद्वैशद्येत्यादि| ग्लपनमवृष्यत्वं, विचारणं मनसोऽनेकविकल्पकारणं; ‘विचरणकरम्’ इत्यन्ये पठन्ति, तत्र गतिविशेषकरमित्यर्थः; ‘विधारणम्’ इत्यन्ये||४(४)||
Adhikarana 7 (4(5)) · Śloka 4
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं; तन्मार्दवशौषिर्यलाघवकरमिति(५) ||४||
🔊 Audio coming soon
आकाशगुणोत्कर्षेणाकाशीयं द्रव्यविशेषं दर्शयन्नाह- श्लक्ष्णेत्यादि| श्लक्ष्णं मसृणं, मृदु कोमलं, व्यवायीति समस्तदेहं व्याप्य पश्चात् पाकं गच्छति विषमद्यवत्, विविक्तं पृथग्भूतम्, अवयवद्वारेण शून्यमित्यन्ये, अव्यक्तरसं मधुरादिरसविशेषानुपलब्धेः| तस्य कर्माणि निर्दिशन्नाह- तन्मार्दवेत्यादि| शौषिर्यं छिद्रभावः ||४(५)||
Adhikarana 8 (5) · Śloka 5
अनेन निदर्शनेन नानौषधीभूतं जगति किञ्चिद्द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति | तानि यदा कुर्वन्ति स कालः, यत् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्वीर्यं, यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत् फलमिति ||५||
🔊 Audio coming soon
इदानीं सर्वस्यैव जगतः स्थावरजङ्गमाख्यस्य पाञ्चभौतिकत्वेन सर्वमौषधं क्रियागुणयोगादिभिर्दर्शयन्नाह- अनेनेत्यादि| नानौषधिभूतमिति अनौषधिभूतं द्रव्यं नास्तीति सम्बन्धः| युक्तिविशेषमिति युक्तिविशेषो योजनाविशेषस्तोयाग्निसंस्कारवासनभावनामात्राकालाद्यपेक्षः| अर्थं चेति| अर्थः प्रयोजनं नानाव्याधिनिर्घातनं, वीर्यं शक्तिः शीतोष्णादयो वाऽष्टौ शक्तिमन्तो गुणाः, गुणा गुर्वादयः, अन्ये तु वीर्यप्रधाना गुणा वीर्यगुणास्ते पुनः सरत्वादयः| कार्मुकाणि कार्यकराणि| तानि द्रव्याणि यदा यस्मिन् काले, क्रियां कुर्वन्ति स कालः; कालश्च संवत्सरात्मा ऋत्वाख्यः शीतोष्णवर्षलक्षणश्चातुरावस्थिकश्चाभिप्रेतः| यदित्यादि कर्मशब्देनात्र भेषजद्रव्यव्यापारः शोधनादिरुक्तः| येनेत्यादि| वीर्यमिति शक्तिः| यत्रेत्यादि| अधिकरणमिति पञ्चमहाभूतशरीरिसमवायिलक्षणः पुरुषोऽधिकरणम्| यथेत्यादि| येन स्वरसकल्कशृतशीतफाण्टघृततैललेहमोदकोत्कारिकादिप्रकारेण कुर्वन्ति स उपायः| यदिति स्वास्थ्यमस्वास्थ्यं वा||५||
Adhikarana 9 (6-9) · Śloka 9
तत्र, विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यः, तानि गुरुत्वादधो गच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् ; वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायु हि लघू, लघुत्वाच्च तान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम्; उभयगुणभूयिष्ठमुभयतोभागम्; आकाशगुणभूयिष्ठं संशमनं; साङ्ग्राहिकमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात्; दीपनमग्निगुणभूयिष्ठं, तत्समानत्वात्; लेखनमनिलानलगुणभूयिष्ठं; बृंहणं पृथिव्यम्बुगुणभूयिष्ठम्; एवमौषधकर्माण्यनुमानात् साधयेत् ||६|| भवन्ति चात्र- भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः | भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ||७|| खतेजोऽनिलजैः श्लेष्मा शममेति शरीरिणाम् | वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ||८|| आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्यते | वसुधाजलजाताभ्यां बलासः परिवर्धते ||९||
🔊 Audio coming soon
तत्रेत्यादि| गुरुत्वादिति गुरुत्वलघुत्वे चेह प्रभावविशेषाधिष्ठिते त्रिवृतादिमदनफलादिद्रव्यसमवेते ग्राह्ये, न तु गुरुत्वलघुत्वमात्रे; अन्यथा मत्स्यपिष्टान्नमसूरादीनां विरेचकत्वं कपिञ्जललावादीनां च वामनीयत्वं स्यात्| अधो गच्छन्ति उपलादिवत्| अधोगुणभूयिष्ठं पृथिव्यम्बुगुणभूयिष्ठमित्यर्थः| वमनेत्यादि ऊर्ध्वमुत्तिष्ठन्तीति धूमवज्ज्वालावच्च| वमनद्रव्यमूर्ध्वगुणभूयिष्ठम् अग्निवायुगुणभूयिष्ठमित्यर्थः| उभयगुणभूयिष्ठमिति विरेचनवमननिर्दिष्टभूतचतुष्टयगुणभूयिष्ठमित्यर्थः| संशमनमिति “न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते” इति| लेखनं कफमेदसोः| निर्वृतिः शान्तिः||६-९||
Adhikarana 10 (10) · Śloka 10
एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् | द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् ||१०||
🔊 Audio coming soon
एवमित्यादि| एवमनेन प्रकारेण| एतत् पूर्वोक्तम्| द्विश इति द्वयोर्द्वयोर्दोषयोः| बहुश इति बहूनां दोषाणामित्यर्थः| दोषेषु चाचरेदिति चकाराद्रोगेष्वप्येवमाचरेदिति समुच्चीयते||१०||
Adhikarana 11 (11) · Śloka 11
तत्र य इमे गुणा वीर्यसञ्ज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ, शीतपिच्छिलावम्बुगुणभूयिष्ठौ , पृथिव्यम्बुगुणभूयिष्ठः स्नेहः, तोयाकाशगुणभूयिष्ठं मृदुत्वं, वायुगुणभूयिष्ठं रौक्ष्यं, क्षितिसमीरणगुणभूयिष्ठं वैशद्यं; विपाकावुक्तगुणौ | तत्र, उष्णस्निग्धौ वातघ्नौ, शीतमृदुपिच्छिलाः पित्तघ्नाः, तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः | तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां, स्निग्धरूक्षौ चक्षुषा, तीक्ष्णो मुखे दुःखोत्पादनात् | गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च, लघुर्बद्धविण्मूत्रतया मारुतकोपेन च | तत्र तुल्यगुणेषु भूतेषु रसवैशेष्यमुपलक्षयेत् | तद्यथा- मधुरो गुरुश्च पार्थिवः, मधुरः स्निग्धश्चाप्य इति ||११||
🔊 Audio coming soon
तत्रेत्यादि| इमे वक्ष्यमाणाः| विपाकयोर्मधुरकटुकयोः प्रागुक्ता गुणाः| तत्रोष्णेत्यादि उष्णस्निग्धौ वीर्यसञ्ज्ञौ गुणौ| तेषामष्टानां वीर्याणां मध्ये| मुखे दुःखोत्पादनादिति अत्र चार्थो द्रष्टव्यः, तेन घ्राणदुःखोत्पादनाच्चेति द्रष्टव्यम्| स्निग्धश्चेति चाकाराद्गुरुश्च||११||
Adhikarana 12 (12) · Śloka 12
भवति चात्र- गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा | स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः ||१२||
🔊 Audio coming soon
गुणा इत्यादि| गुणा विंशतिरधिका वा| स्थानं दोषधातुमलसाम्येनावस्थानं, वृद्धिर्दोषादेराधिक्यं, क्षयः ह्रासो दोषादीनाम्| द्रव्यहेतुकाः पाञ्चभौतिकद्रव्यहेतुकाः||१२||
Adhikarana puShpikA · Śloka 41
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमोऽध्यायः ||४१||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकचत्वारिंशत्तमोऽध्यायः||४१||