Adhikarana 1 (1-2) · Śloka 2
अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इत्यादि| द्रव्यादीनां विज्ञानं विशिष्टज्ञानं तदधिकृत्य कृतोऽध्याय इत्यर्थः| द्रव्यमौषधमुच्यते, रसो मधुरादिकः, गुणाः शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुषकठिनमृदुद्रवसान्द्रस्थिरसरस्थूलसूक्ष्मा विंशतिः, वीर्यं चाष्टविधं, तद्यथा- शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णानि, विंशतिगुणानां मध्ये एतेषामष्टानां गुणानां वीर्यमिति सञ्ज्ञा| ननु, गुणाद्वीर्याणां को भेदः? उच्यते- य एव गुणा आमलक्यां त एव हरीतक्याम्, अस्ति च वीर्ये विशेषः; तथाहि- उष्णवीर्या हरीतकी, शीतवीर्यमामलकमिति; एतेनैतदुक्तं भवति- द्रव्यरसगुणविपाकैर्यत् कर्म कर्तुं न शक्यते तत् कर्म कुर्वन् प्रभावो वीर्यमुच्यते, तथाहि- “वीर्यं शक्तिरुत्पत्तिविशेषः, सामर्थ्यं प्रभाव इत्यनर्थान्तरम्”| यद्द्रव्यं परिणामकाले स्वाभाविकं रसं परित्यज्य रसान्तरं भजते तत्र ‘विपाक’ इति सञ्ज्ञा||१-२||
Adhikarana 2 (3) · Śloka 3
केचिदाचार्या ब्रुवते- द्रव्यं प्रधानं, कस्मात्? व्यवस्थितत्वात्, इह खलु द्रव्यं व्यवस्थितं न रसादयः, यथा आमे फले ये रसादयस्ते पक्वे न सन्ति; नित्यत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः, यथा कल्कादिप्रविभागः, स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति; स्वजात्यवस्थानाच्च, यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि; पञ्चेन्द्रियग्रहणाश्च, पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः; आश्रयत्वाच्च, द्रव्यमाश्रिता रसादयः; आरम्भसामर्थ्याच्च, द्रव्याश्रित आरम्भः, यथा- ‘विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेत्’ इत्येवमादिषु न रसादिष्वारम्भः; शास्त्रप्रामाण्याच्च, शास्त्रे हि द्रव्यं प्रधानमुपदेशे योगानां, यथा- ‘मातुलुङ्गाग्निमन्थौ च’ इत्यादौ न रसादय उपदिश्यन्ते; क्रमापेक्षितत्वाच्च रसादीनां, रसादयो हि द्रव्यक्रममपेक्षन्ते, यथा- तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति; एकदेशसाध्यत्वाच्च, द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते, यथा- महावृक्षक्षीरेणेति; तस्माद्द्रव्यं प्रधानं, न रसादयः, कस्मात्? निरवयवत्वात् |
द्रव्यलक्षणं तु ‘क्रियागुणवत् समवायिकारणम्’ इति ||३||
तत्र प्रत्येकं द्रव्यादिप्राधान्यमेकीयमतेन प्रतिपादयिष्यन् द्रव्यप्राधान्यं प्रथमं सकारणं प्रतिपादयन्नाह- केचिदित्यादि| व्यवस्थितत्वादिति| द्रव्यं हि व्यवतिष्ठते न रसादयः, यथा- आम्रफलमेकमेव प्रथमं कषायाम्लं पश्चादम्लं ततो मधुरमपि भवति, न तु तदेवाम्रफलमाम्रातकं कोशाम्रं वा भवति| द्रव्यप्राधान्ये द्वितीयं हेतुमाह- नित्यत्वादित्यादि|- नित्यत्वात् कियत्कालावस्थितत्वादित्यर्थः| अनित्या गुणा इति विनाशिन इत्यर्थः| कल्केत्यादि आदिग्रहणात् स्वरसशृतशीतफाण्टानामपि ग्रहणम्| स एव कल्कादिप्रविभाग एव| सम्पन्नरसगन्धो वा भवतीति संयुक्तरसः संयुक्तगन्धो वा भवतीत्यर्थः| एतेनैतदुक्तं भवति- कल्काद्यवस्थास्वपि द्रव्यं तदेव नान्यतरद्द्रव्यं, रसगन्धौ त्वन्यौ संयुक्तौ भवत इति गुणादनित्यात् द्रव्यं नित्यम्| अन्ये कल्कादिस्थाने ‘कालादिप्रविभागात्’ इति पठन्ति| तेषां मते आदिग्रहणाज्जलवातदेशसोमसूर्या गृह्यन्ते| तद्यथा- ‘ता एवौषधयो ग्रीष्मे निःसारा रूक्षा’ (सू. अ.६) इत्यादि| द्रव्यप्राधान्ये तृतीयं हेतुं दर्शयन्नाह- स्वजात्यवस्थानाच्चेति|- स्वस्यां पार्थिवादिजाताववस्थितत्वादित्यर्थः| अन्यभावं न गच्छति आप्यादिजातिं न गच्छति| चतुर्थं कारणं दर्शयन्नाह- पञ्चेत्यादि| पञ्चभिरिन्द्रियैर्द्रव्यं गृह्यते, द्रव्ये गृहीते तदाश्रया गुणा गृहीता भवन्ति; गुणाश्च शब्दस्पर्शरूपरसगन्धाः| द्रव्ये शब्दोऽप्यस्ति; यथा- पार्थिवद्रव्ये कटकटाशब्दः, आप्ये खलखलाशब्दः, तैजसे तटतटाशब्द इत्यादिकः| वायव्यद्रव्यमाकाशद्रव्यं चानुमानग्राह्यममूर्तत्वात्| न रसादय इति रसगुणवीर्यविपाकास्तु न पञ्चेन्द्रियग्राह्या इत्यर्थः| पञ्चमं हेतुं दर्शयन्नाह- आश्रयत्वादित्यादि| आश्रय इदं द्रव्यं रसादीनाम्| षष्ठं हेतुं दर्शयन्नाह- आरम्भेत्यादि| आरम्भसामर्थ्यात् उपक्रमसामर्थ्यादित्यर्थः| सङ्क्षुद्य चूर्णयित्वेत्यर्थः| सप्तमं हेतुं दर्शयन्नाह- शास्त्रेत्यादि| अष्टमं हेतुं दर्शयन्नाह- क्रमेत्यादि| तरुणे तरुणा इति अभिनवे अभिनवा इत्यर्थः| नवमं हेतुमाह- एकदेशेत्यादि| द्रव्यप्राधान्यमभिधाय द्रव्यलक्षणमाह- द्रव्यलक्षणमित्यादि| क्रियागुणवदिति क्रियागुणवद्द्रव्यमित्यर्थः; क्रिया कर्म, गुणा उक्ता विंशतिः| समवायिकारणमपि द्रव्यमेव; यथा- पटे तन्तवः, घटे मृत्पिण्ड इत्यादि; न च क्रियायां क्रिया समवेता, न गुणेषु गुणाश्च समवेता इति||३||
Adhikarana 3 (4) · Śloka 4
नेत्याहुरन्ये , रसास्तु प्रधानं; कस्मात्? आगमात्, आगमो हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृताः, यथा- रसायत्त आहार इति, तस्मिंस्तु प्राणाः; उपदेशाच्च, उपदिश्यन्ते हि रसाः, यथा- मधुराम्ललवणा वातं शमयन्ति; अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा- मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा- किञ्चिदिज्यार्थं मधुरमाहरेदिति, तस्माद्रसाः प्रधानं; रसेषु गुणसञ्ज्ञा |
रसलक्षणमन्यत्रोपदेक्ष्यामः ||४||
रसप्राधान्ये एकीयं दर्शनं निर्दिशन्नाह- नेत्यादि| नेत्याहुरन्ये द्रव्यप्राधान्यमन्ये न ब्रुवत इत्यर्थः| तस्मिंस्तु प्राणा इति आहारे सति प्राणा इत्यर्थः| रसप्राधान्ये द्वितीयं हेतुमाह- उपदेशादित्यादि| अत्रैव तृतीयं हेतुमाह- अनुमानादित्यादि| चतुर्थं हेतुमाह- ऋषिवचनादित्यादि| इज्यार्थं यागार्थं; मधुरमाहरेदिति मधुररसमाहरेत् आनयेत्, न तु द्रव्यमानयेदिति| गुणस्यापि किमिति न प्राधान्यं साधितमित्याशङ्क्याह- रसेष्वित्यादि| अत्रादिशब्दो लुप्तो द्रष्टव्यः; एतेनैतदुक्तं भवति- रसादिप्राधान्येनैव साधितेन गुणप्रधान्यं साधितं भवति| यथा द्रव्यलक्षणमुक्तं तथा रसस्यापि किमिति नोक्तमित्याह- रसलक्षणमित्यादि| अन्यत्र रसविज्ञानीये||४||
Adhikarana 4 (5) · Śloka 5
नेत्याहुरन्ये , वीर्यं प्रधानमिति |
कस्मात्? तद्वशेनौषधकर्मनिष्पत्तेः |
इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसङ्ग्राहिकाग्निदीपनपीडनलेखनबृंहण- रसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति |
तच्च वीर्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः |
केचिदष्टविधमाहुः- शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति |
एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति |
यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्; तथा कुलत्थः कषायः, कटुकः पलाण्डुः, स्नेहभावाच्च; मधुरश्चेक्षुरसो वातं वर्धयति, शीतवीर्यत्वात्; कटुका पिप्पली पित्तं शमयति, मृदुशीतवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं च; तिक्ता काकमाची पित्तं वर्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्च; कटुकं मूलकं श्लेष्माणं वर्धयति, स्निग्धवीर्यत्वात्; अम्लं कपित्थं श्लेष्माणां शमयति, रूक्षवीर्यत्वात्, मधुरं क्षौद्रं च; तदेतन्निदर्शनमात्रमुक्तम् ||५||
अपरेषां वीर्यवादिनां मतं निर्दिशन्नाह- नेत्याहुरन्ये इत्यादि|- ईदृशमन्ये न ब्रुवन्ति| तद्वशेनेति वीर्यवशेन| कानि पुनस्तान्यौषधकर्माणीत्याह- इहौषधेत्यादि|- संशोधनं व्रणादीनां; संशमनमिति वमनविरेचनादिकं विना तत्स्थमेव शमयति संशमनं, संशमनभेदा एव साङ्ग्रहिकादयः; पीडनमिति शाल्मलीत्वगादीनां व्रणे कर्मविशेषः; लेखनं पत्तलीकरणं; बृंहणं शरीरवृद्धिकरं; रसायनं वयःस्थापनादिकरणं; वाजीकरणं वाजिवद्येनाप्रतिहतः स्त्रियं याति, अन्ये तु वाजिशब्देन शुक्रमुच्यते, ततोऽवाजिनो वाजिनः क्रियन्ते येनेति वाजीकरणं, शुक्रोत्पादकमित्याहुः; श्वयथुकरविलयनेति करविलयनशब्दौ श्वयथुशब्देन सह प्रत्येकं सम्बध्येते, ‘श्वयथुहरविलयन’ इत्येके पठन्ति; दहनं क्षारादिना; दारणं गृध्रपुरीषादिना; मादनं मत्तताकरणम्, एतच्च मदिरादीनां कर्म; प्राणघ्नत्वं विषादेः; विषप्रशमनत्वमगदादीनां; विषप्रशमनादीनीत्यत्रादिशब्देन व्रणरोपणरोमसञ्जननादयो गृह्यन्ते| स्वबलगुणोत्कर्षादिति स्वबलोत्कर्षात् स्वगुणोत्कर्षाच्चेत्यर्थः| आत्मकर्म कुर्वन्ति वातादिदोषशमनं कोपनं वा कुर्वन्ति| अभिभूय निराकरणं कृत्वेत्यर्थः| स्नेहभावाच्चेत्यत्रापि वातं शमयतीति योज्यम्| मधुरश्चेक्षुरस इत्यादि न केवलं वातं शमयतीति वीर्यं रसमभिभूय प्रकोपयत्यपि वातमित्यर्थः| कटुका पिप्पलीत्यादि अत्रार्द्रा पिप्पली यदि गृह्यते तदा तस्याः स्वादुशीतत्वात् कटुकेति विशेषणं युक्तं न स्यात्, अथ शुष्का तदा तस्याः कटूष्णत्वात् पित्तं हन्तीति विशेषणमयुक्तं भवेत्; सत्यं, ‘तेषु गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा’ इत्यत्र पाठे शीता चेति चकारो द्रष्टव्यः, तेन न केवलं शीता कटुका चेत्यर्थः, ततो नार्द्रपक्षे दोषः; शुष्कपक्षे तु ‘शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी’ इत्यत्र पित्तेन सहेषद्विरोधिनीति व्याख्यानान्न दोषः; केषाञ्चिन्मते ‘पित्तप्रकोपणी’ इति पाठः, तेषां मते पित्तशमनीयत्वं पिप्पल्या वीर्यवादिनां मतं, न पुनः सत्यमेषा पित्तं शमयति; यदि वा आर्द्रा पित्तप्रशमनी शुष्का प्रकोपणीति| अम्लमामलकं लवणं सैन्धवं चैत्यत्रापि मृदुशीतवीर्यत्वात् पित्तं शमयतीति योज्यम्| तिक्ता काकमाचीत्यादि पित्तं वर्धयति केवलं न तु प्रकोपयति, तस्यास्त्रिदोषघ्नीत्वात्| अन्ये चात्रैवं वदन्ति- वीर्यवादी एवमुष्णवीर्यां काकमाचीं मन्यते, आचार्यस्तु नात्युष्णशीताम्, अत एव त्रिदोषघ्नीत्वं काकमाच्या इति| मधुरा मत्स्याश्चेत्यत्रापि पित्तं वर्धयन्तीति योज्यम्| मूलकं बृहन्मूलकं ; न पुनर्बालकं, त्रिदोषघ्नत्वात्||५||
Adhikarana 5 (6-9) · Śloka 9
भवन्ति चात्र- ये रसा वातशमना भवन्ति यदि तेषु वै |
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ||६||
ये रसाः पित्तशमना भवन्ति यदि तेषु वै |
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ||७||
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै |
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ||८||
तस्माद्वीर्यं प्रधानमिति ||९||
द्रव्याश्रितं वीर्यकर्माभिधाय रसाश्रितं वीर्यकर्माह- भवन्ति चात्रेत्यादि| ये रसा वातशमना मधुराम्ललवणाः, ये रसाः पित्तशमना मधुरतिक्तकषायाः, ये रसाः श्लेष्मशमनाः कटुतिक्तकषायाः||६-९||
Adhikarana 6 (10) · Śloka 10
नेत्याहुरन्ये , विपाकः प्रधानमिति |
कस्मात्? सम्यङ्मिथ्याविपक्वत्वात्; इह सर्वद्रवाण्यभ्यवहृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति |
तत्राहुरन्ये- प्रति रसं पाक इति |
केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति |
तत्तु न सम्यक्, भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति; पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्; यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति |
मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः; दृष्टान्तं चोपदिशन्ति- यथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति |
केचिद्वदन्ति- अबलवन्तो बलवतां वशमायान्तीति |
एवमनवस्थितिः, तस्मादसिद्धान्त एषः |
आगमे हि द्विविध एव पाको मधुरः कटुकश्च |
तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघुरिति |
तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च; पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि; तस्माद्द्विविध एव पाक इति ||१०||
अपरं विपाकवादिमतं निर्दिशन्नाह- नेत्याहुरित्यादि| नेत्याहुरन्ये वीर्यं प्रधानमिति केचिन्न ब्रुवते| तर्हि किं प्रधानं? विपाकः प्रधानमिति, विशिष्टः पाको विपाकः| सर्वद्रव्याण्यभ्यवहृतानीति इह सर्वशब्दो वामनीयद्रव्याणि वर्जयित्वा ज्ञेयः| गुणं दोषं वा जनयन्ति गुणं सम्यग्विपक्वानि, दोषं मिथ्याविपक्वानि| प्रतिरसं पाक इति रसं रसं प्रति पाक उत्पद्यत इत्यर्थः| तत्तु न सम्यक्, त्रैविध्यं न सम्यगित्यर्थः| कथं पुनस्त्रैविध्यं न सम्यगित्याह- भूतगुणादित्यादि| एतेन त्रैविध्यं निरस्तम्| प्रतिरसं पाक इति पूर्वोक्तं स्थापयन्नाह- मधुरो मधुरस्येत्यादि| अम्लो अम्लस्यैवं सर्वेषामिति केचिदाहुरिति पदच्छेदः| दृष्टान्तं चोपदिशन्तीति प्रतिरसपाके इत्यर्थः| उखागतं स्थालीगतम्| प्रकीर्णा इति भूमौ निक्षिप्ताः फलितपर्यन्ता इत्यर्थः| तद्वदिति एवं रसा अपि जठराग्निपक्वाः स्वं रूपं मधुरादिकं न त्यजन्ति| तस्मादित्यादि|- तस्मात् केचित् प्रतिरसं पाकः, केचित्त्रिविधः, अन्येऽबलवन्तो बलवतां वशमायान्तीति मतानामनियतत्वम्; तस्मादसिद्धान्त एष अनागम एष इत्यर्थः| स्वमतमिदानीं दर्शयन्नाह- आगमे इत्यादि| आगमे शास्त्रे| अन्ये ‘आगमस्त्विह’ इति पठन्ति; तत्र तुशब्दोऽप्यर्थः, अथवा विशेषार्थस्तुशब्दः, तेन प्रत्यक्षादिप्रमाणाविरुद्धोऽपि शिष्टागम इत्यर्थः; अथवा, आगमशब्दोऽयं सिद्धान्तवचनः, तेन सिद्धान्तः पुनरिहेत्यर्थः| पृथिव्यप्तेज इत्यादि| पृथिव्यादीनां गुणसाधर्म्याद् गुणसमानतया द्वैविध्यं भवतीत्यर्थः| गुणमेवाह- गुरुता लघुता चेति||१०||
Adhikarana 7 (11-12) · Śloka 12
भवन्ति चात्र- द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः |
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ||११||
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु |
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ||१२||
भवन्ति चात्रेत्यादि| निर्वर्तन्तेऽधिका इति जायन्ते उत्कटा इत्यर्थः||११-१२||
Adhikarana 8 (13) · Śloka 13
पृथक्त्वदर्शिनामेष वादिनां वादसङ्ग्रहः |
चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः ||१३||
एवं द्रव्यरसवीर्यविपाकवादिनां सविवादहेतूनि मतानि निर्दिश्य स्वमतं द्रव्यादिसामग्र्यलक्षणं निर्दिशन्नाह- पृथक्त्वदर्शिनामित्यादि| पृथक्त्वदर्शिनां भेददर्शिनाम्, एष वादसङ्ग्रह इति योज्यम्| वादसङ्ग्रहश्च द्रव्यं प्रधानं, रसाः प्रधानमित्यादिकः| स्वमतमाह- चतुर्णामित्यादि| चतुर्णां रसगुणवीर्यविपाकानाम्| अपिशब्दः समुच्चये| न केवलमेकस्य द्वयोस्त्रयाणां वा, चतुर्णामपीत्यर्थः| सामग्र्यं समुदायत्वम्| इच्छन्ति मन्यन्ते| अत्र द्रव्ये| विपश्चितः पण्डिताः||१३||
Adhikarana 9 (14) · Śloka 14
तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् |
किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ||१४||
ननु, तर्हि द्रव्यमेव क्रियाकारि न रसादय इत्याशङ्क्याह- तदित्यादि|| आत्मना स्वयमेव, द्रव्यमात्मना कृत्वा किञ्चिद्दोषं हन्ति करोति वा, किञ्चिद्द्रव्यमेव वीर्येण कृत्वा हन्ति करोति वा, किञ्चिद्धन्ति करोति वा रसविपाकाभ्यां कृत्वा, सर्वत्र द्रव्यं हनने करणे च कर्तृकारकं; तत्र द्रव्यमात्मना पार्थिवाप्यतैजसवायव्याकाशीयस्वरूपेण दोषं हन्ति, यथा- खदिरः कुष्ठं, दोषशब्दोऽत्र व्याधावपि वर्तते; वीर्येण द्विविधेनाष्टविधेन वा सेवितं द्रव्यं दोषं हन्ति, तच्च महत्पञ्चमूलादिकमेतस्मिन्नध्याये कथितमेव; रसेन कृत्वा द्रव्यं दोषं हन्ति, यथा- तिक्ता गुडूच्युष्णवीर्याऽपि पित्तं शमयति; विपाकेन कृत्वा द्रव्यं दोषं हन्ति, यथा- शुण्ठी कटुकाऽपि वातं शमयति, मधुरविपाकत्वात्||१४||
Adhikarana 10 (15) · Śloka 15
पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् |
रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठतमं स्मृतम् ||१५||
रसादीनां द्रव्यकार्यत्वाद्द्रव्यस्य प्राधान्यं दर्शयन्नाह- पाक इत्यादि| श्रेष्ठतमं प्रशस्यतमम्| एतेनाश्रयो द्रव्यम्, आश्रयिणो रसादयः||१५||
Adhikarana 11 (16-18) · Śloka 18
जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् |
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः ||१६||
वीर्यसञ्ज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः |
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः ||१७||
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः |
श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ||१८||
कार्यकारणभावेऽपि यथाऽग्नेर्धूमो जायते नैवं रसादयो द्रव्याज्जायन्ते किं तर्हि द्रव्यरसादीनां च सहैव जन्मेति दर्शयन्नाह- जन्म त्वित्यादि| अन्योन्यापेक्षिकमिति अन्योन्याश्रितमेकवेलोत्पत्तिरित्यर्थः| किमिवेत्याह- अन्योन्येत्यादि| देहः शरीरं, देही आत्मा| एवं रसं द्रव्याश्रयं प्रतिपाद्य वीर्यमपि द्रव्याश्रयं प्रतिपादयन्नाह- वीर्यसञ्ज्ञा इत्यादि| अपिशब्दादन्येऽपि स्थूलसूक्ष्मादयो गुणा द्रव्याश्रया एव| निर्गुणास्तु गुणाः स्मृता इति| एते शीतादयः स्थूलसूक्ष्मादयश्चान्ये गुणाः, रसोऽपि गुणः, अतो गुणेषु गुणा न सम्भवन्ति तस्माद्द्रव्यस्यैवैते शीतादयो गुणा इति| तथा विपाकमपि द्रव्याश्रयमेव प्रतिपादयन्नाह- द्रव्ये इत्यादि| द्रव्ये पञ्चभूतात्मकदेहे, द्रव्याणि आहारद्रव्याणि; न षड्रसाः, निरवयवत्वात्| शेषा भावा इति रसादय इत्यर्थः, तदाश्रया इति द्रव्याश्रया इत्यर्थः| अत्र पाठान्तराणि तद्व्याख्यानान्तराणि च बहूनि सन्ति, तानि विस्तरभयान्न लिखितानि||१६-१८||
Adhikarana 12 (19) · Śloka 19
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः |
आगमेनोपयोज्यानि भेषजानि विचक्षणैः ||१९||
यथोक्तभेषजानां स्वबुद्ध्या विचारनिषेधं निदर्शयन्नाह- अमीमांस्यानीत्यादि| अमीमांस्यानि न विचार्याणि, अचिन्त्यानि यान्येवाचिन्त्यानि तान्येवामीमांस्यानि| कानि पुनस्तानि? खदिरतुवरकरसाञ्जनहरिद्रादीनि कुष्ठघ्नानि, न तु सर्वाणि द्रव्याणि; अन्यथा ‘वर्गमपि वर्गेणोपसृजेत्’, तथा ‘बीजेनानेन मतिमान् कुर्याद्बस्तिशतान्यपि’(चि. अ. ३८) इत्यादि विरुद्धं भवेत्| स्वभावतो जन्मतः| अन्ये तु आगमे यानि भेषजानि प्रसिद्धानि तान्यमीमांसान्यविचारणीयानि, कुतो हेतोरविचार्याणि? यतः स्वभावतोऽचिन्त्यानि तेषां स्वभावश्चिन्तयितुं न शक्यत इत्यर्थः; यथा द्रवत्वमपामुष्णत्वमग्नेरित्यादि| कथं पुनस्तानि प्रयोज्यानीत्याह- आगमेनोपयोज्यानि; आगमेनैवैकेनोपयोगः कार्य इत्यर्थः||१९||
Adhikarana 13 (20-21) · Śloka 21
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः |
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन ||२०||
सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरचयेत् |
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ||२१||
ननु, अनुमानविरुद्धानि कथमागमैकप्रयोज्यानीत्याशङ्क्य, आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वं दर्शयन्नाह- प्रत्यक्षेत्यादि| प्रत्यक्षलक्षणफला हिताहितभेदेन| कुतः पुनर्हेतुभिर्न परीक्षणीयं भेषजं प्रसिद्धलक्षणफलमित्याह- सहस्रेणेत्यादि||२०-२१||
Adhikarana puShpikA · Śloka 40
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यगुणरसवीर्यविपाकविज्ञानीयो नाम चत्वारिंशत्तमोऽध्यायः ||४०||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने चत्वारिंशोऽध्यायः||४०||