Adhikarana 1 (1-2) · Śloka 2
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| रसविशेषो मधुरादिः, तस्य विज्ञानं विशिष्टं ज्ञानम्||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| रसविशेषो मधुरादिः, तस्य विज्ञानं विशिष्टं ज्ञानम्||१-२||
Adhikarana 2 (3) · Śloka 3
आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः, तस्मादाप्यो रसः | परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्ति, उत्कर्षापकर्षात्तु ग्रहणम् | स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते; तद्यथा- मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति | ते च भूयः परस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते | तत्र, भूम्यम्बुगुणबाहुल्यान्मधुरः, भूम्यग्निगुणबाहुल्यादम्लः, तोयाग्निगुणबाहुल्याल्लवणः , वाय्वग्निगुणबाहुल्यात् कटुकः, वाय्वाकाशगुणबाहुल्यात्तिक्तः, पृथिव्यनिलगुणबाहुल्यात् कषाय इति ||३||
🔊 Audio coming soon
रससामान्यस्य प्रथमं कारणसम्भवं दर्शयन्नाह- आकाशेत्यादि| आकाशपवनदहनतोयभूमिषु यथासङ्ख्यं शब्दस्पर्शरूपरसगन्धा ‘जायन्ते’ इति शेषः| किंविशिष्टास्ते? एकोत्तरपरिवृद्धा इति; तथाहि- शब्दगुणमाकाशं, शब्दस्पर्शगुणो वायुः, शब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपरसगुणा आपः, शब्दस्पर्शरूपरसगन्धगुणा पृथ्वी; परस्परं भूतानुप्रवेशादित्थमेकोत्तरा वृद्धिर्ज्ञेया| आप्यो जलसम्भवः| तत्र सर्वेष्वेव भूतेषु सर्वभूतानां सान्निध्यमस्तीति दर्शयन्नाह- परस्परसंसर्गादित्यादि| परस्परसंसर्गात् अन्योन्यसंयोगात्, परस्परानुग्रहात् अन्योन्योपकारात्, परस्परानुप्रवेशात् अनुप्रवेशादेकात्मीभावात्, सर्वेषु भूतेषु, सर्वेषामाकाशादीनां, सर्वेषु द्रव्येष्वित्यन्ये| सर्वेषु भूतेषु सर्वभूतानां सान्निध्यमस्तीति सर्व एव गुणाः सर्वेषां भूतानां प्राप्नुवन्तीत्याह- उत्कर्षापकर्षादित्यादि|- उत्कर्षो वृद्धिः, अपकर्षो ह्रासः; आकाशाधिके द्रव्ये शब्दोऽधिकः, वाताधिके द्रव्ये स्पर्शोऽधिकः, एवं शेषेषु भूतेषु शेषगुणाः; तेन सर्वेषामेव भूतानां सर्वात्मकत्वेऽप्युत्कर्षेणाभिधानादाप्य एव रसः| यदि पुनरसौ रस आप्य एव नान्यभूतजः, स एवमपां स्वभावेनाव्यक्तरसत्वात्तेनाप्यव्यक्तरसेन भवितव्यमित्याह- शेषेत्यादि| पानीयादन्यानि भूतानि शेषभूतानि, तेषां संसर्गो मिलनं, ततो हेतोराप्यो रसोऽव्यक्तोऽपि कालसहायभूमिवियदनिलानलसंसर्गेण परिपाकान्तरं गतः, षोढा विभज्यते षट् प्रकारो भवति| तत्र यस्य यस्य शेषभूतस्य संसर्गाद्यो यो रस उत्पद्यते तं तं रसं दर्शयन्नाह- तत्रेत्यादि| ननु च, शेषभूतसंसर्गः प्रतिपादनीयः, तत् कथमुदकोपादनम्? उच्यते- निष्पत्तावेव तोयप्राधान्यमुक्तं; विशेषे तु न प्राप्नोतीति विशेषेऽपि तोयस्य प्राधान्यप्रतिपादनाय पृथिव्यम्बुगुणबाहुल्यादित्युक्तं, ‘तोयाग्निगुणबाहुल्यादम्ल’ इत्येके पठन्ति||३||
Adhikarana 3 (4) · Śloka 4
तत्र, मधुराम्ललवणा वातघ्नाः, मधुरतिक्तकषायाः पित्तघ्नाः, कटुतिक्तकषायाः श्लेष्मघ्नाः ||४||
🔊 Audio coming soon
षण्णां रसानां क्रियाविशेषं दर्शयन्नाह- तत्रेत्यादि||४||
Adhikarana 4 (5) · Śloka 5
तत्र वायोरात्मैवात्मा, पित्तमाग्नेयं, श्लेष्मा सौम्य इति ||५||
🔊 Audio coming soon
दोषाणामुत्पत्तिकारणमाह- तत्रेत्यादि| आत्मैवात्मेति आत्मैव योनिः, वायुतो वातोत्पत्तिरित्यर्थः; पित्तमाग्नेयमिति अनलः पित्तस्य योनिरित्यर्थः; श्लेष्मा सौम्य इति सोमादुत्पद्यत इत्यर्थः||५||
Adhikarana 5 (6) · Śloka 6
त एते रसाः स्वयोनिवर्धना, अन्ययोनिप्रशमनाश्च ||६||
🔊 Audio coming soon
त एते इत्यादि| स्वयोनिवर्धना इति येभ्यः कारणेभ्यो मधुरादयो रसा उत्पद्यन्ते तानि वर्धयन्तीत्यर्थः||६||
Adhikarana 6 (7) · Śloka 7
केचिदाहुः- अग्नीषोमीयत्वाज्जगतो रसा द्विविधाः- सौम्या आग्नेयाश्च | मधुरतिक्तकषायाः सौम्याः; कट्वम्ललवणा आग्नेयाः | तत्र मधुराम्ललवणाः स्निग्धा गुरवश्च, कटुतिक्तकषाया रूक्षा लघवश्च; सौम्याः शीताः, आग्नेया उष्णाः ||७||
🔊 Audio coming soon
केचिदित्यादि| अग्नीषोमीयत्वादिति अग्निश्च सोमश्च योनिर्जगत इत्यर्थः|सौम्याश्चाग्नेयाश्चेति चकारद्वयात् स्नेहरूक्षगुरुत्वलघुत्वैरपि द्वैविध्यं सूचयति||७||
Adhikarana 7 (8(1)) · Śloka 8
तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टम्भ्यगुणलक्षणो वायुः, तस्य समानयोनिः कषायो रसः; सोऽस्य शैत्याच्छैत्यं वर्धयति, रौक्ष्याद्रौक्ष्यं, लाघवाल्लाघवं, वैशद्याद्वैशद्यं, वैष्टम्भ्याद्वैष्टम्भ्यमिति; (१) |८|
🔊 Audio coming soon
मधुरेत्यादि| समानयोनिः तुल्ययोनिरित्यर्थः||८(१)||
Adhikarana 8 (8(2)) · Śloka 8
औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं, तस्य समानयोनिः कटुको रसः; सोऽस्य औष्ण्यादौष्ण्यं वर्धयति, तैक्ष्ण्यात्तैक्ष्ण्यं, रौक्ष्याद्रौक्ष्यं, लाघवाल्लाघवं, वैशद्याद्वैशद्यमिति(२) |८|
🔊 Audio coming soon
औष्ण्येत्यादि||८(२)||
Adhikarana 9 (8(3-4)) · Śloka 8
माधुर्यस्नेहगौरवशैत्यपैच्छिल्यगुणलक्षणः श्लेष्मा; तस्य समानयोनिर्मधुरो रसः, सोऽस्य माधुर्यान्माधुर्यं वर्धयति, स्नेहात् स्नेहं, गौरवाद्गौरवं, शैत्याच्छैत्यं, पैच्छिल्यात्पैच्छिल्यमिति (३) ||८|| तस्य पुनरन्ययोनिः कटुको रसः; स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्यमभिभवति, रौक्ष्यात् स्नेहं, लाघवाद्गौरवम्, औष्ण्याच्छैत्यं, वैशद्यात् पैच्छिल्यमिति | तदेतन्निदर्शनमात्रमुक्तं भवति (४) ||८||
🔊 Audio coming soon
माधुर्येत्यादि| तस्य श्लेष्मणः| प्रत्यनीकत्वात् विरुद्धत्वात्| निदर्शनमात्रमुक्तमिति दृष्टान्तमात्रमुक्तम्||८(३-४)||
Adhikarana 10 (9) · Śloka 9
रसलक्षणमत ऊर्ध्वं वक्ष्यामः- तत्र, यः परितोषमुत्पादयति प्रह्लादयति तर्पयति जीवयति मुखोपलेपं जनयति श्लेष्माणं चाभिवर्धयति स मधुरः; यो दन्तहर्षमुत्पादयति मुखास्रावं जनयति श्रद्धां चोत्पादयति सोऽम्लः; यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्दवं चापादयति स लवणः; यो जिह्वाग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकां स्रावयति स कटुकः; यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षं च स तिक्तः; यो वक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कर्षति पीडयति च स कषाय इति ||९||
🔊 Audio coming soon
रसलक्षणमित्यादि| परितोषः परितुष्टिः| प्रह्लादयति सुखमुत्पादयति| तर्पयति तृप्तिं करोति| जीवयति प्राणान् धारयति| उपलेपो मलवृद्धिः| दन्तहर्षो दन्तकुण्ठता| कफप्रसेकः श्लेष्मास्रावः| शिरो गृह्णीते उद्वेजकत्वेन, न तु कफवातवेदनाभिः| चोष आकर्षणम्| हर्षो रोमहर्षः||९||
Adhikarana 11 (10(1)) · Śloka 10
रसगुणानत ऊर्ध्वं वक्ष्यामः- तत्र, मधुरो रसो रसरक्तमांसमेदोऽस्थिमज्जौजःशुक्रस्तन्यवर्धनश्चक्षुष्यः केश्यो वर्ण्यो बलकृत्सन्धानः शोणितरसप्रसादनो बालवृद्धक्षतक्षीणहितः षट्पदपिपीलिकानामिष्टतमस्तृष्णामूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः कृमिकफकरश्चेति; स एवङ्गुणोऽप्येक एवात्यर्थमासेव्यमानः कासश्वासालसकवमथुवदनमाधुर्यस्वरोपघातकृमिगलगण्डानापादयति तथाऽर्बुदश्लीपदबस्तिगुदोपलेपाभिष्यन्दप्रभृतीञ्जनयति(१) |१०|
🔊 Audio coming soon
रसगुणानित्यादि| षष्ठमिन्द्रियं मनः| तस्येदानीमतिसेव्यमानस्यातिसेवां दोषकरीं निदर्शयन्नाह- स एवङ्गुण इत्यादि||१०(१)||
Adhikarana 12 (10(2)) · Śloka 10
अम्लो जरणः पाचनो दीपनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही बहिःशीतः क्लेदनः प्रायशो ह्यद्यश्चेति; स एवङ्गुणोऽप्येक एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसम्मीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापादयति, तथा क्षताभिहतदग्धदष्टभग्नरुग्णशूनप्रच्युतावमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं चेति(२) |१०|
🔊 Audio coming soon
अम्लस्य सेवितस्य गुणान् दर्शयन्नाह- अम्ल इत्यादि| जरण आहारस्य| पाचनो दोषामयोः शोथस्य वा| अनुलोमनो वातमूत्रपुरीषाणाम्| तस्यैकस्यातिसेवितस्य दोषं निर्दिशन्नाह- स एवङ्गुण इत्यादि| रोमसंवेजनं रोमाञ्चः| अभिहतमभिघातः, दष्टं व्याडादिभिः, भग्नं काण्डभग्नाद्यनेकधा, रुग्णं वक्रीभूतं, प्रच्युतं भ्रष्टं स्वस्थानात्, अवमूत्रितं मूत्रविषाणां जन्तूनां मूत्रसङ्गः, विसर्पितं स्पर्शविषाणां जन्तूनां विसर्पितसङ्गः, छिन्नं निःशेषतः, भिन्नं कोष्ठादि, विद्धं सिरादि, उत्पिष्टं प्रहारचूर्णितादि||१०(२)||
Adhikarana 13 (10(3)) · Śloka 10
लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्वरसप्रत्यनीको मार्गविशोधनः सर्वशरीरावयवमार्दवकरश्चेति; स एवङ्गुणोऽप्येक एवात्यर्थमासेव्यमानो गात्रकण्डूकोठशोफवैवर्ण्यपुंस्त्वोपघातेन्द्रियोपतापमुखाक्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति(३) |१०|
🔊 Audio coming soon
लवणरसगुणकर्माणि दर्शयन्नाह- लवण इत्यादि| संशोधनो वमनविरेचनाभ्यां, व्रणस्य च दुष्टस्य| विश्लेषण इति पृथक्करणः प्रत्यवयवानां, छेदित्वात्| क्लेदनो व्रणस्य| सर्वरसानां प्रत्यनीको विपक्ष उच्छेदक इत्यर्थः| मार्गविशोधनो मूत्रनाडीव्रणादिमार्गविशोधनः| तस्यातिसेव्यमानस्य दोषं दर्शयन्नाह- स एवङ्गुण इत्यादि| कोठः पीडकाः, पुंस्त्वोपघातः शुक्रक्षयः, इन्द्रियोपतापः चक्षुरादीनां स्वकर्मगुणहानिः, अम्लीकेति अम्लोद्गारः| आपादयति करोति||१०(३)||
Adhikarana 14 (10(4)) · Śloka 10
कटुको दीपनः पाचनो रोचनः शोधनः स्थौल्यालस्यकफकृमिविषकुष्ठकण्डूप्रशमनः सन्धिबन्धविच्छेदनोऽवसादनः स्तन्यशुक्रमेदसामुपहन्ता चेति; स एवङ्गुणोऽप्येक एवात्यर्थमुपसेव्यमानो भ्रममदगलताल्वोष्ठशोषदाहसन्तापबलविघातकम्पतोदभेदकृत् करचरणपार्श्वपृष्ठप्रभृतिषु च वातशूलानापादयति(४) |१०|
🔊 Audio coming soon
कटुकस्य प्रकृतिकर्म निर्दिशन्नाह- कटुक इत्यादि| अवसादन अनुत्साहकृत्| तस्यैवातिसेवितस्य दोषं निर्दिशन्नाह- स एवङ्गुण इत्यादि| भ्रमश्चक्रारूढस्येव; मद उन्मादपूर्वरूपं, हर्षक्षयो वा||१०(४)||
Adhikarana 15 (10(5)) · Śloka 10
तिक्तश्छेदनो रोचनो दीपनः शोधनः कण्डूकोठतृष्णामूर्च्छाज्वरप्रशमनः स्तन्यशोधनो विण्मूत्रक्लेदमेदोवसापूयोपशोषणश्चेति; स एवङ्गुणोऽप्येक एवात्यर्थमुपसेव्यमानो गात्रमन्यास्तम्भाक्षेपकार्दितशिरःशूलभ्रमतोदभेदच्छेदास्यवैरस्यान्यापादयति(५) |१०|
🔊 Audio coming soon
तिक्तस्य प्रकृतिकर्म निर्दिशन्नाह- तिक्त इत्यादि| रोचन इति इतरभक्ष्यवस्तूनां, न पुनः स्वयमेव| तस्याप्यतिसेवितस्य दोषं निर्दिशन्नाह- मन्यास्तम्भेत्यादि| मन्ये द्वे, तयोः स्तम्भ इति||१०(५)||
Adhikarana 16 (10) · Śloka 10
कषायः सङ्ग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति; स एवङ्गुणोऽप्येक एवात्यर्थमुपसेव्यमानो हृत्पीडास्यशोषोदराध्मानवाक्यग्रहमन्यास्तम्भ- गात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेपणप्रभृतीञ्जनयति ||१०||
🔊 Audio coming soon
कषायस्य प्रकृतिकर्म निर्दिशन्नाह- कषाय इत्यादि| रोपणो व्रणस्य| स्तम्भनो गात्राणां, मृदूनां वा दृढीकरणः| शोधनो व्रणस्य| लेखनो व्रणाद्युत्सन्नमांसस्य| शोषणो द्रवधातोः, व्रणमेहादीनां वा| पीडनो व्रणस्य हृदयस्य वा, वातकारित्वात्| तस्याप्यतिसेवया दोषमाह- स एवङ्गुण इत्यादि| चुमचुमायनं राजिकालिप्तस्येव त्वक्पीडा, आक्षेपणमतिशयेन कम्पनम्| प्रभृतिग्रहणादन्यानपि वातविकारानर्दितादीन् करोति||१०||
Adhikarana 17 (11) · Śloka 11
अतः सर्वेषामेव द्रव्याण्युपदेक्ष्यामः | तद्यथा- काकोल्यादिः क्षीरघृतवसामज्जशालिषष्टिकयवगोधूममाषशृङ्गाटककसेरुकत्रपुसैर्वारुकर्कारुकालाबूकालिन्दकतक- गिलोड्यप्रियालपुष्करबीजकाश्मर्यमधूकद्राक्षाखर्जूरराजादनतालनालिकेरेक्षुविकारबलातिबलात्मगुप्ता- विदारीपयस्यागोक्षुरकक्षीरमोरटमधूलिकाकूष्माण्डप्रभृतीनि समासेन मधुरो वर्गः; दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्दबदरकोलप्राचीनामलकतिन्तिडीककोशाम्रकभव्यपारावत- वेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समासेनाम्लो वर्गः; सैन्धवसौवर्चलविडपाक्यरोमकसामुद्रकपक्त्रिमयवक्षारोषरप्रसूतसुवर्चिकाप्रभृतीनि समासेन लवणो वर्गः; पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिवकुष्ठदेवदारुहरेणुकावाल्गुजफल- चण्डागुग्गुलुमुस्तलाङ्गलकीशुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुको वर्गः; आरग्वधादिर्गुडूच्यादिर्मण्डूकपर्णीवेत्रकरीरहरिद्राद्वयेन्द्रयववरुणस्वादुकण्टकसप्तपर्णबृहतीद्वयशङ्खिनीद्रवन्ती- त्रिवृत्कृतवेधनकर्कोटककारवेल्लवार्ताककरीरकरवीरसुमनःशङ्खपुष्प्यपामार्गत्रायमाणाशोकरोहिणीवैजयन्ती- सुवर्चलापुनर्नवावृश्चिकालीज्योतिष्मतीप्रभृतीनि समासेन तिक्तो वर्गः; न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादी रोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दुकफलानि कतकशाकफलपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरुवककोविदारकजीवन्तीचिल्लीपालङ्क्यासुनिषण्णकप्रभृतीनि वरकादयो मुद्गादयश्च समासेन कषायो वर्गः ||११||
🔊 Audio coming soon
अत इत्यादि| अतोऽनन्तरं, सर्वेषां रसानां द्रव्याण्युपदेक्ष्यामः| क्षीरेत्यादि| शृङगाटकं द्विविधं स्थूलाल्पभेदेन; त्रपुसं ‘तिरसी ’ इति लोके; एर्वारुः रोमशा कर्कटी; गिलोड्यः कालङ्कतकः शितोड्यकन्दः प्रावृड्जातः शणपत्रिकाकारवल्लीयुक्तो ‘गिल्लोठी ’ इति लोके; ‘अङ्ग(ङ्क)लोड्य’ इत्यन्ये पठन्ति, चिच्चो(ञ्चो)टकमिति च व्याख्यानयन्ति; प्रियालश्चारः; पुष्करबीजं पद्मबीजं; राजादनः क्षीरिकः; पयस्या विदारीभेदः; क्षीरमोरटः किलाटमस्तु, ‘पीलुपर्णी’ इत्येके; मधुलिका मर्कटकः| दाडिमेत्यादि प्राचीनामलकः ‘पानीयामलक’ इति लोके; भव्यफलं ‘कर्मरङ्ग’ इत्येके, ‘तालफलसदृशमहावल्कलं कषायाम्लमधुरं’ इत्यन्ये; पारावतः कामरूपे मधुराम्लरसफलं; दन्तशठो जम्बीरः; शुक्तं सन्धानकविशेषश्चुक्रमिति लोके; सौवीरकतुषोदके निस्तुषसतुषयवकृते त्रिवृत्कषायसहिते सन्धाने; धान्याम्लं काञ्जिकं; प्रभृतिग्रहणाच्छाण्डाक्यादीनामवबोधः| सैन्धवेत्यादि पाक्यमुद्भिदं; रोमकं शाकम्भरीदेशोत्थं, श्वेतलवणमित्यन्ये; सामुद्रं समुद्रसमीपभवं गुर्जरराष्ट्रे प्रचुरं भवति; पक्रिमं पाकाभिनिर्वृत्तं, ‘फुल्लालवणम्’ इत्युच्यते; ऊषरप्रसूतमूषरलवणं; प्रभृतिग्रहणाट्टङ्कणक्षारादीनामवबोधः| पिप्पल्यादिरित्यादि| शीतशिवं कर्पूरम्, अवल्गुजफलं बाकुचीबीजं, चण्डा अजमोदाकारा सुगन्धिद्रव्यं, लाङ्गलकी कलिकारिका, शुकनासा स्योनाकः| आरग्वधादिरित्यादि मण्डूकपर्णी ब्राह्मी, वेत्रकरीरो वेत्राङ्कुरः, स्वादुकण्टको विकङ्कतः ‘वृक्षकण्टकारिका’ इति प्रसिद्धः, शङ्खिनी यवतिक्ताभेदः, कृतवेधनः कोशातकी, सुमना जाती, अशोकरोहिणी कटुका, वैजयन्ती तर्कारी, सुवर्चला सूर्यावर्तः, वृश्चिकाली वृश्चिकपत्री, ज्योतिष्मती काकमर्दनिका| न्यग्रोधादिरित्यादि| कतकः तोयप्रसादनफलः, शाकः खरमसृणपत्रपृष्ठोदरः, तयोः फलम्; वनस्पतयो न्यग्रोधादयः, तेषां फलानि| सालसारादेस्तिक्तानुसरत्वात् कथं कषायवर्गेऽस्य पाठ इत्याह- प्रायशः; ‘कषाय’ इति शेषः| कुरुवकः कण्टसेलयाकः, कोविदारः काञ्चनारकः (‘कोविदारमपि काञ्चनारकं मल्लिकां विचकिलं विदुर्बुधाः’- इति हलायुधः |), जीवन्ती डोडी, चिल्ली क्षेत्रवास्तुकः, पालङ्क्या शाकविशेषः ‘पालङ्क’ इति लोके, सुनिषण्णकः सिरिवालिका, ‘चतुष्पर्णी’ इत्यपरे, वरकादयः कुधान्यानि, मुद्गादयो वैदलाः||११||
Adhikarana 18 (12) · Śloka 12
तत्रैतेषां रसानां संयोगास्त्रिषष्टिर्भवन्ति | तद्यथा- पञ्चदश द्विकाः, विंशतिस्त्रिकाः, पञ्चदश चतुष्काः, षट् पञ्चकाः, एकशः षड्रसाः, एकः षट्क इति | तेषामन्यत्र प्रयोजनानि वक्ष्यामः ||१२||
🔊 Audio coming soon
तत्रेत्यादि| एषां तु विवरणमुत्तरमन्त्रे स्वयमेवाचार्यः करिष्यति, अस्माभिस्तु ग्रन्थबाहुल्यभयाद्विवरणं न कृतम्| द्विषष्टिदोषभेदेषु द्विषष्टी रसभेदा योज्याः, स्वस्थे तु षडेव समुदिताः||१२||
Adhikarana 19 (13) · Śloka 13
भवति चात्र- जग्धाः षडधिगच्छन्ति बलिनो वश्यतां रसाः | यथा प्रकुपिता दोषा वशं यान्ति बलीयसः ||१३||
🔊 Audio coming soon
इदानीं रसानामेकैकानामनभ्यासप्रतिपादितबहुतरदोषाणां विशिष्टविषये दोषा न भवन्तीति निर्दिशन्नाह- भवति चात्र जग्धा इत्यादि| जग्धाः भक्षिताः, षड्रसा एकैकशः कृत्वा अभ्यस्ता अपि बलिनः शक्त्युपचयबलयुक्तस्य पुरुषस्य, वश्यतां वशभावं, यान्ति गच्छन्ति, दोषकारिणो न भवन्तीत्यर्थः; यथा दोषा एव बलीयसो बलयुक्तस्य पुरुषस्य कार्यकरणक्षमा न भवन्ति एवं रसा अपीत्यर्थः| ‘बलिनो रसस्य’ इति केचित्||१३||
Adhikarana puShpikA · Śloka 42
इति सुश्रुतसंहितायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम द्विचत्वारिंशत्तमोऽध्यायः ||४२||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ण)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने रसविशेषविज्ञानीयो नाम द्विचत्वारिंशत्तमोऽध्यायः||४२||