Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. hitāhitīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो हिताहितीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| हिताहितान्यधिकृत्य कृतोऽध्यायो हिताहितानि वाऽस्मिन् विद्यन्त इति हिताहितीयः||१-२||

Adhikarana 2 (3) · Śloka 3

यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किञ्चिद्द्रव्यमेकान्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते | तत्तु न सम्यक्; इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ||३||

🔊 Audio coming soon

प्रथमं परमतमेव दर्शयन्नाह- यद्वायोः पथ्यमित्यादि| यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति तैलकाञ्जिकमित्यादि| इतिशब्दोऽयमाद्यर्थः| एकान्तेन सातत्येन किञ्चिदपि द्रव्यं हितं नास्ति, पित्तस्यापथ्यत्वात्; तथैकान्तेनाहितमपि नास्ति, वायोः पथ्यत्वात्| वाशब्दोऽत्र समुच्चयार्थः| परमतनिषेधार्थं स्वमतमाह- तत्त्वित्यादि| इहेति सौश्रुते तन्त्रे| खलु निश्चयेन| स्वभावतः प्रकृतितः; या सर्वावस्थास्वपरित्याज्या सा द्रव्यस्य प्रकृतिः; यथा- वह्नेरुष्णत्वम्, अपां द्रवत्वमित्यादि| संयोगत इति संयोगः एकद्वित्र्यादिद्रव्येण संहतीभावः| चकारेण संयोगेष्वपि स्वभावोऽपि हेतुत्वेन समुच्चीयते, तथा देशकालमात्रासंस्काराश्च स्वभावानुसम्बद्धाः समुच्चीयन्ते||३||

Adhikarana 3 (4) · Śloka 4

तत्र ,एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि; एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यनलक्षारविषादीनि, संयोगादपराणि विषतुल्यानि भवन्ति; हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ||४||

🔊 Audio coming soon

एकान्तहितान्येव प्रथमं दर्शयन्नाह- तत्रैकान्तहितानीत्यादि| तत्रेति हिताहितद्रव्येषु मध्ये| जातिसात्म्यादिति मनुष्यजातिसात्म्यात्| आत्मना देहेन सह स्थितं द्रव्यमविकारि सात्म्यं; यदुक्तं- “आत्मा यह्यभिमतो देह आत्मना सह यत् स्थितम्| न कुर्याद्विकृतिं द्रव्यमुपयुक्तं कथञ्चन|| सात्म्यमित्युच्यते तत्तु” इति| प्रभृतिग्रहणाद्यवगोधूमादयः| एकान्ताहितानि दर्शयन्नाह- एकान्ताहितानीत्यादि| एतान्यग्निक्षारविषादीन्येकान्ताहितानि स्वस्थानां, रोगिणां तु रोगमात्राद्यपेक्षया हितान्येवेति| संयोगादित्यादि| अन्ये त्वेवं पठन्ति- ‘तेषामेव संयोगतस्त्वपराणि’ इति, व्याख्यानयन्ति च- एकान्ताहितानीति सम्बध्यते, तुशब्दश्चार्थः; तेन स्वभावसंयोगानुषक्तैर्देशादिभिरप्येकान्ताहितानि भवन्ति| हिताहितानि दर्शयन्नाह- हिताहितानि त्वित्यादि| अस्यार्थः प्रागेवात्रैवाध्याये व्याख्यातः||४||

Adhikarana 4 (5) · Śloka 5

अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते; तद्यथा- रक्तशालिषष्टिककङ्गुक्रमुकुन्दकपाण्डुकपीतकप्रमोदककालकासनकपुष्पककर्दमकशकुनाहृतसुगन्धककलम- नीवारकोद्रवोद्दालकश्यामाकगोधूमयववैणवैणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्तिका मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाश्चिल्लिवास्तुकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः, गव्यं घृतं, सैन्धवं, दाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ||५||

🔊 Audio coming soon

अत इत्यादि| रक्तशालिः स्वनाम्ना प्रसिद्धः| षष्टिको गौरषष्टिकः| कङ्गुको गौरकृष्णषष्टिकः| मुकुन्दकः कृष्णषष्टिकः| पाण्डुकः पाण्डुकशालिः, स च पाण्डुतुषयुक्तः| सुगन्धको देवशालिः| कलमः शालिविशेषः, ‘कलाविः’ इति लोके प्रसिद्धः| एते षष्टिकादयः शूकधान्येषु| नीवारः प्रसादि(ति)काधान्यमध्ये रक्तशूको भवति, ‘तुलजीधान्यम्’ इति लोके प्रसिद्धः| उद्दालक आरण्यकोद्रवः| वैणवो वेणुयवः| नीवारादयस्तु कुधान्येषु| एणः कृष्णमृगः| हरिणस्ताम्रवर्णो मृगः| कुरङ्गः ‘चतुरङ्ग’ इति लोके प्रसिद्धः| मृगमातृका स्वल्पा पृथूदरा चतुरङ्गस्त्री| श्वदंष्ट्रा चतुर्दंष्ट्रोऽतिदुष्टः, ‘कर्कटक’ इति लोके| करालः कस्तूरीमृगः| तित्तिरिः कृष्णतित्तिरिः| कपिञ्जलो गौरतित्तिरिः| वर्तीरः ‘घर्घर’ इति लोके; वर्तिका तद्भेदः| एणादयो जाङ्गलमृगमांसेषु| लावादयो जाङ्गलपक्षिषु| मङ्गल्याः पाण्डुवर्णा मसूराः| हरेणुः सतीनभेदो वर्तुलकलायः| आढकी तुवरी| सतीनो वर्तुलकः| मुद्गादयो वैदलसूप्येषु| चिल्ली क्षेत्रवास्तुकः| वास्तुकः टङ्कवास्तुकः| सुनिषण्णकः शिरिवालिका, चतुष्पर्णीत्यपरे| जीवन्ती डोडिका| मण्डूकपर्णी ब्राह्मी| चिल्लीप्रभृतीनि शाकेषु| गव्यं घृतं स्नेहेषु| सैन्धवं लवणेषु| आमलकदाडिमौ फलेषु| ननु, नीवारकोद्रवोद्दालकादीनां वातकरत्वाद्वाताहितत्वं स्यात्, तत् कथं हितानीत्युच्यन्ते? नैवम्; अल्पवातकरत्वाददोषकरत्वव्यपदेश इति||५||

Adhikarana 5 (6) · Śloka 6

तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ||६||

🔊 Audio coming soon

आहारमैकान्तिकं निर्दिश्य विहारं निर्दिशन्नाह- तथेत्यादि| ब्रह्मचर्यं स्त्रीसेवानिवृत्तिः| व्यायामः स्वस्थस्य मात्रया काले च पथ्यतमः| व्यायामाश्चेति चकाराद्वेगाविधारणादीनां ग्रहणम्||६||

Adhikarana 6 (7) · Śloka 7

एकान्तहितान्येकान्ताहितानि तु प्रागुपदिष्टानि, हिताहितानि तु यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति ||७||

🔊 Audio coming soon

एकान्तेत्यादि|- एकान्तहितानि सलिलादीनि| एकान्ताहितानि अग्न्यादीनि; एतानि पूर्वं कथितानि| हिताहितानि त्विति तुशब्दश्चार्थे, तेन हिताहितानि च प्रागुपदिष्टानि| कानि पुनस्तानि हिताहितानि प्रागुपदिष्टानीत्याह- यद्वायोः पथ्यं तत् पित्तस्यापथ्यमिति||७||

Adhikarana 7 (8) · Śloka 8

संयोगतस्त्वपराणि विषतुल्यानि भवन्ति | तद्यथा- वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा ||८||

🔊 Audio coming soon

संयोगतस्त्वित्यादि| विषतुल्यानीति विषतुल्यत्वेनैकान्ताहितत्वमुक्तम्| कुतः? स्वस्थे विषस्येकान्ताहितत्वात्| तान्येव दर्शयन्नाह- तद्यथेत्यादि| वल्लीफलं कूष्माण्डादिवल्लीजम्, अन्ये शिम्ब्यादिमाहुः; कवकं छत्रकं, ‘छत्रकभेदं सुखण्डकसञ्ज्ञम्’ इत्यन्ये; करीरो वंशाङ्कुर; अम्लफलानि आम्रातकादीनि; विरोहि विगतरोहं चणकादिकमङ्कुरितं च; पिष्टं तण्डुलपिष्टं; जाम्बवं जम्बूफलं; चिलिचिममत्स्यः शकली लोहिताक्षः सर्वतो लोहितराजिः प्रायो भूमौ चरति स्थलमीनसञ्ज्ञकः | नैकध्यं नैकस्मिन् काले| एतानि वल्लीफलादीनि वराहान्तानि समस्तव्यस्तान्यपि पयसा सह नाश्नीयात्| केचिदेतस्य वर्गस्यान्ते ‘अजाङ्गलं मांसं स्वस्थानामन्यत्र रोगोपसृष्टेभ्यः’ इति पठन्ति, व्याख्यानयन्ति च- अजाङ्गलं मांसं जलेशयानूपादिभेदेन पञ्चप्रकारम्||८||

Adhikarana 8 (9) · Śloka 9

रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान् | अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ||९||

🔊 Audio coming soon

विरुद्धस्यापि क्वचित् प्रयोगं दर्शयन्नाह- रोगमित्यादि| रोगम् उदरादिकम्| सात्म्यम् अष्टविधं जात्यातुरौषधान्नरसदेशर्तूदकमेदतः | देशमानूपादिकम्| कालं शीतोष्णवर्षलक्षणम्| देहं स्थूलकृशमध्यभेदभिन्नम्| अग्न्यादिकान् भावानिति अग्न्यादिकान् पदार्थान्| आदिशब्दात् प्रकृतिवयोबलसत्त्वादि गृह्यते| रोगवृत्तेः रोगिण इत्यर्थः| एतेन बुद्धिमानूहापोहवितर्कानुगतधीयुक्तो वैद्यो रोगादीनवेक्ष्यैकान्ताहितमपि रोगिणः प्रयोजयेदिति| तद्यथा- उदरिणस्तिलमात्रविषभक्षणं कृष्णसर्पदष्टेक्षुकाण्डभक्षणं चेत्यादिकं बोद्धव्यम्||९||

Adhikarana 9 (10-12) · Śloka 12

अवस्थान्तरबाहुल्याद्रोगादीनां व्यवस्थितम् | द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ||१०|| द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः | दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ||११|| एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु | एकान्तहिततां विद्धि वत्स सुश्रुत नान्यथा ||१२||

🔊 Audio coming soon

तस्माद्धिताहितत्वेन व्यवस्थितं द्रव्यं नास्तीत्याह- अवस्थान्तरबाहुल्यादित्यादि| अवस्थान्तरबाहुल्यात् अवस्थाविशेषाणां प्राचुर्यात्| केषामवस्थाविशेषा इत्याह- रोगादीनाम्| आदिशब्दात् सात्म्यदेशादीनां ग्रहणम्| व्यवस्थितं द्रव्यं नेच्छन्तीति हितमेवेदमहितमेवेदमिति वैद्या नेच्छन्ति, अवस्थाविशेषबाहुल्यात्| किं सर्वत्रैव व्यवस्थितं द्रव्यं नेच्छन्तीत्याह- इच्छन्ति स्वस्थरक्षण इति|- स्वस्थरक्षणे पुनर्व्यवस्थितं द्रव्यं वैद्या इच्छन्त्येवेति| अमुमेवार्थं दर्शयन्नाह- द्वयोरित्यादि| द्वयोः स्वस्थरोगिणोः| अन्यतरादान इति सामान्योक्तावपि स्वस्थस्यैव ग्रहणम्| तेन विषदुग्धयोर्मध्ये स्वस्थे दुग्धस्यैकान्तहिततां भिषजो वदन्ति, विषं पुनरेकान्ततोऽहितमिति वदन्ति| एवं युक्तरसेष्वेष्विति एवमनेन स्वस्थोपयोगप्रकारेण| विद्धि जानीहि| नान्यथेति नास्वस्थोपयोगप्रकारेण||१०-१२||

Adhikarana 10 (13) · Śloka 13

अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः- नवविरूढधान्यैर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत्; न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वाऽश्नीयात्, बलाकां वारुणीकुल्माषाभ्यां, काकमाचीं पिप्पलीमरिचाभ्यां; नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यं; मधु चोष्णोदकानुपानं; पित्तेन चाममांसानि; सुराकृशरापायसांश्च नैकध्यं; सौवीरकेण सह तिलशष्कुलीं; मत्स्यैः सहेक्षुविकारान्; गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं मधुना च सह विरुद्धं; क्षीरेण मूलकम्, आम्रजाम्बवश्वाविच्छूकरगोधाश्च; सर्वांश्च मत्स्यान् पयसा, विशेषेण चिलिचिमं; कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा; लकुचफलं पयसा दध्ना माषसूपेन वा, प्राक् पयसः पयसोऽन्ते वा ||१३||

🔊 Audio coming soon

अतोऽन्यान्यपीत्यादि| नवविरूढधान्यैरिति नवविरूढधान्यादिभिः सह ग्राम्यादीनां मांसादीनि नाश्नीयादित्यर्थः| नवधान्यादिभिः समस्तैर्व्यस्तैरपि ग्राम्यादीनां पिशितादीनि विरुद्धानीति| विरूढं विगताङ्कुरमङ्कुरितं च| रोहिणीशाकं कटुकाशाकम्| जातुकशाकं पौष्करशाकम्| बलाकां वारुणीकुल्माषाभ्यामिति बलाका बकभेदः; वारुणी मद्यापरपर्यायः, कुल्माष उत्स्विन्नमाषादिः; आभ्यां सह बलाकां नाश्नीयादिति योज्यम्| काकमाचीमित्यादि पिप्पलीमरिचाभ्यां सह काकमाचीं नाश्नीयादिति योजनीयम्| नाडीभङ्गशाकं नाडीपल्लवशाकं, कुक्कुटस्ताम्रचूडः; एतानि द्विशस्त्रिशोऽपि वा नाश्नीयात्| मधु चेति न हितमित्यर्थः| पित्तं कालखण्डलग्नम्| सुरा मद्यभेदः, कृशरा तिलतण्डुलमाषैः कृता यवागूः, पायसं क्षीरसिद्धास्तण्डुलाः अमून्यपि त्रिशो द्विशो वाऽपि विरुद्धानि| सौवीरकेणेति सौवीरकं काञ्जिकविशेषो विरेचनाधिकारे वक्ष्यते| इक्षुविकारान् गुडादीन्| गुडेन काकमाचीमित्यादि| अन्ये त्वेवं पठन्ति- ‘गुडेन काकमाचीं, मधुना मूलकं, वाराहं क्षीरेण मूलकं च’ अपरे त्वेवं पठन्ति- ‘गुडेन काकमाचीं, मधुना मूलकं, वाराहं च’; चकारात् ‘मधुन’ इति पदं वाराहेण काकमाच्या च सह सम्बध्नन्ति| आम्रजाम्बवेत्यादि ‘नैकध्यमश्नीयात्’ इति वाक्यशेषः| श्वावित् सेहिका| सर्वांश्च मत्स्यानित्यादि, ननु सर्वांश्च मत्स्यान् पयसा’ इत्यनेनैव चिलिचिममत्स्यविरोधः सिद्धः तत् किमर्थं वल्लीफलादिषु चिलिचिमत्स्यस्य पयसा विरोधपाठ इत्याह- विशेषेण चिलिचिममिति| कदलीफलमित्यादि तालादिभिः सह कदलीफलं नाश्नीयादित्यर्थः| लकुचेत्यादि दध्यादिभिः सह लकुचफलं नाश्नीयादित्यर्थः| केचिदत्र ‘मधुना घृतेन च’ इति पठन्ति, लकुचफलं नाश्नीयादिति च व्याख्यानयन्ति| अयं पाठो वर्तमानासु बहुषु प्रतिषु पठ्यते, न तु निबन्धेषु, तस्मान्न पठनीय इति| प्राक् पयसः पयसोऽन्ते वेति ‘लकुचफलं नाश्नीयात्’ इति शेषः||१३||

Adhikarana 11 (14) · Śloka 14

अतः कर्मविरुद्धान् वक्ष्यामः- कपोतान् सर्षपतैलभृष्टान्नाद्यात्; कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्; कांस्यभाजने दशरात्रपर्युषितं सर्पिः; मधु चोष्णैरुष्णे वा; मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीं; तिलकल्कसिद्धमुपोदिकाशाकं; नारिकेलेन वराहवसापरिभृष्टां बलाकां; भासमङ्गारशूल्यं नाश्नीयादिति ||१४||

🔊 Audio coming soon

संयोगविरुद्धानभिधाय कर्मविरुद्धान् वक्तुमाह- अत इत्यादि| कर्मशब्देनात्र संस्कारोऽभिप्रेतः| एरण्डदार्व्यग्निसिद्धा इति एरण्डदारुहरिद्राग्निसिद्धाः; ‘एरण्डदार्वग्निसिद्धा’ इत्यन्ये पठन्ति, ‘एरण्डकाष्ठवह्निना सिद्धाः’ इति च व्याख्यानयन्ति| नाद्यात् न खादेत्| दशरात्रपर्युषितमिति दशनिशादिनानि निवासितम्| मधु चोष्णैरिति उष्णैरुष्णस्पर्शद्रव्यैः, उष्णस्पर्शत्वं चाग्न्यादिजनितं ज्ञेयम्| उष्णे उष्णकाले ग्रीष्मे शरदि चेत्यर्थः| मत्स्यपरिपचन इति परिपचनं पात्रमुच्यते| नारिकेलेनेत्यादि वराहवसापरिभृष्टां बलाकां नारिकेलेण सह नाश्नीयादित्यर्थः| भासमिति भासो गृध्रविशेषः स्वल्पतुण्डो धूसरवर्णः| यच्छूलेन विद्ध्वा अङ्गारेषु पक्वं तदङ्गारशूल्यम्||१४||

Adhikarana 12 (15) · Śloka 15

अतो मानविरुद्धान् वक्ष्यामः- मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात्; स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ ||१५||

🔊 Audio coming soon

जलस्नेहावित्यादि आन्तरीक्षोदकानुपानौ विशेषतो मधुस्नेहौ जलस्नेहौ वा नाश्नीयात्| तदेवं स्वभावापथ्यसंयोगकालसंस्कारमानैः पञ्चप्रकाराणि विरुद्धानि निर्दिष्टानि||१५||

Adhikarana 13 (16) · Śloka 16

अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः- तत्र मधुराम्लौ रसवीर्यविरुद्धौ, मधुरलवणौ च, मधुरकटुकौ च सर्वतः, मधुरतिक्तौ रसविपाकाभ्यां, मधुरकषायौ च, अम्ललवणौ रसतः, अम्लकटुकौ रसविपाकाभ्याम्, अम्लतिक्तावम्लकषायौ च सर्वतः, लवणकटुकौ रसविपाकाभ्यां, लवणतिक्तौ लवणकषायौ च सर्वतः, कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च, तिक्तकषायौ रसतः ||१६||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| मधुरलवणौ चेति चकारेण रसवीर्यविरुद्धाविति समुच्चीयते| सर्वत इति रसवीर्यविपाकतः; एवं सर्वत्र रसद्वन्द्वप्रकरणे सर्वतःशब्दो व्याख्यातव्यः| मधुरकषायौ चेति चकारेण इमावपि रसविपाकाभ्यां विरुद्धाविति समुच्चीयते| कटुकषायौ चेति चकारादेतावपि रसवीर्याभ्यां विरुद्धाविति| मधुराम्लावित्यादिपाठेन दधिशर्करादिद्वन्द्वेषूपयोगार्हेषु न विरोधः, अन्येषु चानूपयोगार्हेषु विरोध इति सूचितम्| श्रीगयदासादय आचार्या अमुं पाठमनार्षं वर्णयन्ति; कस्मात्? ‘आदौ मधुरमश्र्नीयात्’ (सू. अ.४६) इत्यादिना सर्वरसाभ्यवहारस्य स्वस्थानामुक्तत्वात्, ‘न चैकरससेवायां’ इत्यादिना चैकरससेवाया निषिद्धत्वात्; तस्मान्न पठनीय एवायं ग्रन्थ इति| श्रीब्रह्मदेवस्त्वार्षानार्षचिन्तामकुर्वन्नमुं ग्रन्थं पठति व्याख्यानयति च| तत्पठितव्याख्यात्वात् सर्वमतदर्शिभिरस्माभिरपि लिखितः क्वचिद्व्याख्यातश्चेति||१६||

Adhikarana 14 (17) · Śloka 17

तरतमयोगयुक्तांश्च भावानतिस्निग्धानतिरूक्षानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् ||१७||

🔊 Audio coming soon

अतिशयगुणयोगयुक्ता माहिषक्षीरादिपदार्था हिता अपि स्वस्थानामेकान्ताहिता भवन्तीति दर्शयन्नाह- तरतमेत्यादि| तरतमयोगयुक्तांश्च भावानिति अतिशयस्नेहादिगुणसहितानि द्रव्याणीत्यर्थः| तानेवातिशयगुणयुक्तान् विवृण्वन्नाह- अतिस्निग्धानित्यादि| तस्मान्माहिषं दुग्धं गव्यादतिशयस्निग्धं स्वस्थस्य समाग्नेर्वर्ज्यम्, अस्वस्थस्य च तीक्ष्णाग्नेः सेव्यमित्यादि द्रष्टव्यम्| युक्तांश्चेति चकारोऽतिशयगुणयुक्तानामपि पथ्यतमायुष्यतमवृष्यतमानां सेवनं समुच्चिनोति, एषामेकान्तहितत्वात्; एभ्योऽन्येऽतिशयगुणयुक्ताः स्वाभावादेवैकान्ताहिता इति| एवमादीनित्यादिशब्दादन्येऽपि वीर्यसञ्ज्ञका गुणाः पिच्छिलविशदतीक्ष्णमृदवो गृह्यन्ते, तथा गुरुलघुवीर्यं च| अन्ये तु ‘आदिशब्दादुक्तेभ्योऽन्येऽपि सर्वे गुणा गृह्यन्ते’ इति वदन्ति||१७||

Adhikarana 15 (18) · Śloka 18

भवन्ति चात्र- विरुद्धान्येवमादीनि वीर्यतो यानि कानिचित् | तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् ||१८||

🔊 Audio coming soon

अमुमेवार्थं सुखबोधार्थं सङ्गृह्याह- विरुद्धानीत्यादि| वीर्यत इति वीर्यशब्देनात्र स्निग्धादयोऽष्टौ गुणा उच्यन्ते; अथवा विंशतिगुणाः षड्रसा अप्युच्यन्ते, ‘येन कुर्वन्ति तद्वीर्यम्’ (सू. अ.४१) इति वचनात्| एवमादीनीत्युक्ते यानि कानिचिदिति यत् कृतं तत्तन्त्रान्तरोक्ताशेषविरुद्धोपग्रहार्थम्| अन्ये त्वादिशब्दात्तन्त्रान्तरोक्तानि देशकालमात्रादिविरुद्धानि लभ्यन्त इति मन्यन्ते| शेषम् अतोऽन्यन्माषादि हिताहितं जानीयात्, कस्यचिद्दोषस्य प्रकोपत्वात् कस्यचिद्दोषस्य हरत्वादिति||१८||

Adhikarana 16 (19) · Śloka 19

व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति | विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः ||१९||

🔊 Audio coming soon

किं पुनर्विरुद्धं भुक्तं करोतीत्याह- व्याधिमित्यादि| व्याधिमिति षाण्ड्यान्ध्यविसर्पदकोदरविस्फोटकोन्मादभगन्दरादिकम , इन्द्रियदौर्बल्यम् इन्द्रियाधिष्ठानदौर्बल्यमिन्द्रियशक्तिदौर्बल्यं वा, अधिगच्छति प्राप्नोति| विरुद्धरसवीर्याणि भुञ्जान इति रसग्रहणं द्रव्यवीर्यपरिहारार्थं, तेनोष्णस्यापि दुग्धस्य प्रयोगो भवति; क्षीरद्रव्यस्य ह्युष्णत्वं तद्गतमधुररसशैत्येन विरोधिनाऽपि न दुष्यति, एवमुष्णपानीयस्यापीति| अनात्मवान् अबुद्धिमान्| अन्ये ‘रसवीर्यादीन्’ इति पठन्ति| तेषां मते विपाकयोरपि गुरुलघुसञ्ज्ञयोर्विरोधो वर्जनीय इति| पूर्वप्रतिपादिताध्यायार्थपिण्डदर्शनपरः श्लोकोऽयं; तेनास्मिन्नध्याय एव यानि विरुद्धानि द्रव्याण्युक्तानि तेष्वेव रसवीर्यविरोधो ज्ञेयो, न पुनरिहानुक्तानि यानि तेष्विति||१९||

Adhikarana 17 (20) · Śloka 20

यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् | रसादिष्वयथार्थं वा तद्विकाराय कल्पते ||२०||

🔊 Audio coming soon

न केवलं विरुद्धभोजनमेव व्याधिहेतुः, अपि तु हिताहितादीन्यपीति दर्शयन्नाह- यदित्यादि| यत्किञ्चिदित्यनेन अशेषमेवाहितं सङ्गृहीतम्| दोषं वातादिकम्| उत्क्लेश्य प्रकोप्य| न निर्हरेदिति मदनफलत्रिवृतादिवदूर्ध्वमधो वा नाकर्षेत्, तद्विकाराय कल्पत इति सम्बन्धनीयम्; कल्पते सम्पद्यते| न केवलं दोषकरमेव व्याधये भवति, अपि तु रसादिधातुदुष्टिकरमपि व्याधये भवतीत्याह- रसादिष्वित्यादि| रसादिष्वयथार्थं वेति रसादिधातुष्वयथार्थं प्रयोजनविरुद्धं रसादीनां जीवनादिप्रयोजनविरोधि रसादिधातुदूषणकरमित्यर्थः| दोषदुष्टिकारित्वेन धातुदूषणकरत्वं न लभ्यते, विशिष्टशक्तित्वाद्द्रव्याणां; तथाहि- कानिचिद्दोषदुष्टिकराणि, कानिचिद्धातुदुष्टिकराणीति; तानि चात्र न कथयिष्यामो विस्तरभयात्| अन्ये तु व्याख्यानयन्ति- रसादिष्विति आदिशब्दाद्वीर्यविपाकयोर्ग्रहणं; तेन रसवीर्यविपाकेषु यद्भुक्तं सदयथार्थमनर्थकरं वा भवति, तद्विकारस्य कल्पते| जैज्झटाचार्यस्त्वमुं श्लोकमनार्षं कथयति, गयदासाचार्येण चायमङ्गीकृतः, अतोऽस्माभिरपि लिखितो व्याख्यातश्च||२०||

Adhikarana 18 (21) · Śloka 21

विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् | वमनं शमनं वाऽपि पूर्वं वा हितसेवनम् ||२१||

🔊 Audio coming soon

विरुद्धाशनादुत्पन्नानां रोगाणां चिकित्सासूत्रमुद्दिशन्नाह- विरुद्धाशनजानित्यादि| प्रतिहन्ति विरेचनमिति विरुद्धाशनजव्याधिप्रत्यनीकं विरेचनं प्रतिशब्देन द्योत्यते; तेन कुष्ठव्याधिप्रत्यनीकं विरेचनं विरुद्धाशनजं कुष्ठं हन्ति, एवमन्यत्रापि योजनीयम्| वमनं शमनं वाऽपीति तत्र विरेकवमने बहुदोषाणां प्राणवतां च, इतरेषां तु शमनमिति| शमनलक्षणमुच्यते- “न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते”- इति| पूर्वं वा हितसेवनमिति सुवर्णलोहादिविरोधिरोगहरं पूर्वमेव सेवेत| तदुक्तं “न सज्जते हेमपाङ्गे विषं पद्मदलेऽम्बुवत्” (च. चि. अ. २३)| ‘पूर्वं वा हितभोजनम्’ इत्यन्ये पठन्ति||२१||

Adhikarana 19 (22) · Śloka 22

सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च | स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ||२२||

🔊 Audio coming soon

विरुद्धाशनं कुर्वतोऽपि कस्यचित् कुतो विरुद्धाशनजा दोषा न भवन्तीत्याह- सात्म्यत इत्यादि| सात्म्यादिभिर्हेतुभिर्विरुद्धं वितथं निष्फलं भवतीति पिण्डार्थः| स्निग्धव्यायामबलिनामिति स्निग्धव्यायामाभ्यां बलिनामिति सम्बध्यते| तेनायमर्थः- स्निग्धद्रव्याभ्यवहारबलिनां बलवदग्नित्वाद्विरुद्धं निष्फलं भवति| केचित् ‘बलिनाम्’ इति पदं भिन्नं मन्यन्ते| तेनायमर्थः- स्निग्धानां व्यायामिनां बलिनां च विरुद्धं वितथं भवेदिति| सात्म्यतोऽल्पतयेत्यादिश्लोकस्याग्रे केचिदमुं श्लोकं पठन्ति- “व्यायामशीलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि महाशनश्च| आप्नोति रोगान्न विरुद्धजातानभ्यासतो वाऽल्पतया च जन्तुः” इति; अयं च न पठनीयः, सर्वनिबन्धकारैरपठितत्वात्||२२||

Adhikarana 20 (23-29) · Śloka 29

अथ वातगुणान् वक्ष्यामः- पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः | गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः ||२३|| क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ये | तेषामेव विशेषेण सदा रोगविवर्धनः ||२४|| वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् | मधुरश्चाविदाही च कषायानुरसो लघुः | दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः ||२५|| रक्तपित्तप्रशमनो न च वातप्रकोपणः | विशदो रूक्षपरुषः खरः स्नेहबलापहः ||२६|| पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः | सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् ||२७|| उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च | कषायानुरसः शीतो दोषाणां चाप्रकोपणः ||२८|| तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः | क्षीणक्षयविषार्तानां विशेषेण तु पूजितः ||२९||

🔊 Audio coming soon

हितस्यापि वातस्य दिक्संयोगादहितत्वं स्यादिति वातगुणान् निर्दिशन्नाह- अथ वातगुणान् वक्ष्याम इत्यादि| “वातस्य दक्षिणोत्तरगतस्य दोषहरत्वेन हितत्वं, पूर्वपश्चिमवातस्याहितत्वम्, अतो हिताहितीयाध्यायपरिसमाप्तौ वातस्य गुणोपवर्णनं निर्देष्टुमाह- अथ वातगुणानित्यादि” इत्यन्ये| ‘तेषामेव विशेषेण व्रणक्लेदविवर्धनः’ इत्यन्ये पठन्ति| खरः प्रचण्डवेगः| अन्ये त्वाहारद्रव्यप्रकरणादितरसंयोगोऽप्रस्तुत इत्यमुं वातगुणोपवर्णनग्रन्थं न पठन्त्येव| गयदासाचार्यस्त्वस्मिन् हिताहितीयाध्यायपाठे पूर्वोक्तं पाठं कियन्तं परित्यज्यान्यं च पाठं कियन्तं निक्षिप्य पूर्वोक्तपाठक्रमव्यतिक्रमेण च पठति| यावता पाठेन व्यतिक्रमस्तावन्तं दर्शयन्नाह- “वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितिलतैलविरोधि- शुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा, प्राक् पयसोऽन्ते वा| कपोतांश्च सर्षपतैलभृष्टान्नाद्यात्| कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्य(र्व)ग्निसिद्धा एरण्डतैलसिद्धा वा| मधुघृते समधृते| मधु चान्तरीक्षोदकानुपानम्| कांस्यभाजने दशरात्रपर्युषितं सर्पिः| मधु चोष्णमुष्णेन वा| दधि मद्यं वा| पित्तेन सह मांसानि पक्वानि, आमानि च केवलान्यपि| सुराकृशरापायसांश्च नैकध्यमश्नीयात्| सौवीरकेण सह तिलशष्कुलीः| तक्रेण सह मधुघृतमत्स्यगोधापृषतमांसानि | मधुना गोधाम्| मत्स्यान् क्षौद्रासवेन, पृषतमांसं वा तेनैव| तथा मैरेयमाध्वीकाभ्यां बालोपोदक्या वा मत्स्यान्| नेक्षुविकृतीः सर्वा मत्स्यैः सह| सर्पिर्गुडकाकमाचीमधुमूलकानि नैकध्यम् | मधुना वाराहं, दध्ना कौक्कुटं, मद्येन बलाकां, तिलकल्केन चोपोदिकां सिद्धाम्| न पिप्पलीं मत्स्यवसया, प्रियङ्ग्वनुलिप्तो न पायसमश्नीयात् इति| अस्याग्रे च ‘तरतमयोगयुक्तांश्च भावान्’ इत्यादिसूत्राणि पठति, तानि च पूर्वसूत्रैरेव समानानीति नेह प्रदर्शितानि||२३-२९||

Adhikarana puShpikA · Śloka 20

इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्यायः ||२०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने विंशतितमोऽध्यायः||२०||