Adhikarana 1 (1-2) · Śloka 2
अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इत्यादि| व्रणविषयः प्रश्नो यस्मिन् स व्रणप्रश्नः| व्रणशब्देनात्र वातादय उच्यन्ते, व्रणकारणत्वात्; तेन वातादिविषयः प्रश्नो यस्मिन्नित्युक्तम्| अन्ये तु व्रणमाश्रित्य प्रश्नो व्रणप्रश्नः, स विद्यते यस्मिन्नित्यर्थे उत्पन्नस्य ईयप्रत्ययस्य लोपं कृत्वा व्रणप्रश्नमिति रूपं पठन्ति| तेनात्र व्रणारम्भकाणां वातादीनां सङ्ख्यास्वलक्षणकर्मादीनि व्रणस्य च निरुक्त्यादि च वक्तव्यमित्यर्थः सिद्धः||१-२||
Adhikarana 2 (3) · Śloka 3
वातपित्तश्लेष्माण एव देहसम्भवहेतवः |
तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके |
त एव च व्यापन्नाः प्रलयहेतवः |
तदेभिरेव शोणितचतुर्थैः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ||३||
व्रणकारणानि वातादीनि प्रथमं सङ्ख्यादिभिर्निर्दिशन्नाह- वातपित्तश्लेष्माण इत्यादि| देहसम्भवहेतवो देहोत्पत्तिहेतवः| ननु, शुक्रशोणिते देहोत्पत्तिहेतू ? तत् कथं वातादयो देहसम्भवहेतवः कथ्यन्ते ? उच्यते, अविकृता वातादयः शुक्रार्तवादिसहकारितया देहजनका अभिप्रेता इत्यर्थः| शरीरसम्भवे वातादीनां हेतुत्वं प्रतिपाद्य स्थितिकारणत्वं दर्शयन्नाह- तैरेवेत्यादि|- तैरेव वातपित्तश्लेष्मभिः, अव्यापन्नैः प्रकृतिस्थैरित्यर्थः| अधोमध्योर्ध्वसन्निविष्टैरिति यथाक्रमेण वातपित्तकफैः| दृष्टान्तमाह- अगारमिवेत्यादि|- अगारं गृहम्| एकीयमतमाह- अतश्च त्रिस्थूणमाहुरेके| चकारोऽयं त्रिस्थूणमित्यत्र योज्यः, तेनायमर्थः- त्रिस्थूणमिति च अत एव हेतोरेको आचार्या आहुः| देहविनाशहेतुत्वमपि वातादीनां निर्दिशन्नाह- त एव व्यापन्ना इत्यादि| चकारोऽत्र भिन्नक्रमे, तेनायमर्थः- त एव वातादयः, व्यापन्नाश्च विकृतिस्थाः प्रलयहेतवो विनाशहेतवो ‘भवन्ति’ इत्यध्याहारः| अन्ये तु ‘प्रलयेऽपि’ इत्यपिशब्दं पठन्ति| शल्यशास्त्रे व्रणारम्भाधिष्ठानभूतत्वात् कस्यचिद्दूष्यस्य प्राधान्यं दर्शयन्नाह- तदित्यादि|- एभिरेव वातपित्तकफैः| शोणितचतुर्थैरिति ननु, पूर्वं शोणितमनुपात्तं, तत्कथमिह सम्भवादिषु शोणितस्याविरहितत्वमुक्तं? सत्यं, परमिह शोणितोपादानं कुर्वन्नेकीयमतमिदमिति दर्शयति, तेन व्रणपाके दर्शनद्वयं भवति; तथाहि- ‘नर्तेऽनिलादस्ति रुजा’ (सू. अ. १७) इत्यादिना व्रणपाके दोषा एव व्याप्रियन्त इति दर्शितं, ‘कालान्तरेणाभ्युदितं तु पित्तं’ (सू. अ. १७) इत्यादिना पुनः शोणितचतुर्था एव व्रणपाके व्याप्रियन्त इति| अविरहितं संयुक्तमित्यर्थः||३||
Adhikarana 3 (4) · Śloka 4
भवति चात्र- नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् |
शोणितादपि वा नित्यं देह एतैस्तु धार्यते ||४||
एतदेव द्वितीयदर्शनं श्लोकेनापि दर्शयन्नाह- नर्ते इत्यादि| ननु, वातादिक्रमं परित्यज्य कफादिक्रमेण सूत्रणं कस्मादिह कृतम्? उच्यते- देहस्योर्ध्वमूलत्वमधःशाखत्वं प्रतिपादितम्, ऊर्ध्वभागे च कफाधिष्ठानमस्ति, तेनेह कफ एव प्रथमं दर्शितः| तदुक्तं- “ऊर्ध्वमूलमधःशाखं त्रिस्थूणं पञ्चदैवतम्| क्षेत्रज्ञाधिष्ठितं विद्वान् यो वै वेद स वेदवित्”- इति| न केवलं कफादीन् विना देहो न भवति, अपि तु धारणमप्येतैरेव क्रियत इत्याह- देह एतैस्तु धार्यत इति| तुशब्दश्चार्थो भिन्नक्रमश्च| तेनायमर्थः- धार्यते चैतैरेवाव्यापन्नैः कफपित्तवातरक्तैरित्यर्थः; नर्ते देहः कफादित्येतस्यादौ ‘अतो गद्योक्तस्यार्थस्य सङ्ग्रहश्लोक’ इत्यपातनिकां केचिदाचार्याः पठन्ति||४||
Adhikarana 4 (5) · Śloka 5
तत्र ‘वा’ गतिगन्धनयोः, इति धातुः, ‘तप’ सन्तापे, ‘श्लिष’ आलिङ्गने, एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ||५||
वातादीनां चिकित्सोपयोगि स्वलक्षणं दर्शयितुं निरुक्तिं कुर्वन्नाह- तत्रेत्यादि| गतिगन्धोपादानार्थस्य ‘वा’ धातोः ‘हसिभृग्रिण्वाऽमिदमिलूपूधुर्विभ्यस्तन्’ (उ.३/८६) इति सूत्रोत्पन्ने ‘तन्’ प्रत्यये वात इति रूपम्; एतेन च तत्स्वरूपत्वं वातस्य दर्शितम्| सन्तापार्थस्य ‘तप’ धातोरचिप्रत्यये अकारस्येत्वे वर्णविपर्यये तस्य च द्वित्वे कृते पित्तमिति रूपम्; एतेन पित्तस्य स्वाभाविकं सन्तापलक्षणं दर्शितम्| आलिङ्गनार्थस्य ‘श्लिष’ धातोर्मनिन्प्रत्यये (‘सर्वधातुभ्यो मनिन्’ उ.४/१४५) गुणे च कृते श्लेष्मेति रूपम्| एतेन श्लेष्मणः सन्ध्यादियोजकत्वं दर्शितम्||५||
Adhikarana 5 (6) · Śloka 6
दोषस्थानान्यत ऊर्ध्वं वक्ष्यामः- तत्र समासेन वातः श्रोणिगुदसंश्रयः; तदुपर्यधो नाभेः पक्वाशयः, पक्वामाशयमध्यं पित्तस्य; आमाशयः श्लेष्मणः ||६||
तत्र कस्य दोषस्य किं स्थानं तदाह- दोषेत्यादि| ‘दोषस्थानानि’ इत्येतस्य स्थाने ‘तेषां स्थानानि’ इति केचित् पठन्ति, तत्रापि स एवार्थः| तत्रेति दोषेषु मध्ये, समासेन सङ्क्षेपेण; विस्तरेण तु स्थानानि वातस्य नाभिमध्यहृदयकण्ठसर्वाङ्गसन्धयोऽपि वातव्याधौ वक्ष्यन्ते| श्रोणिः कटिः, श्रोणिश्च गुदं च श्रोणिगुदं, तत् संश्रयः स्थानं यस्य स तथा| पक्वामाशययोर्मध्यं पित्तस्थानं वक्ष्यति; अतः पक्वाशयमेव प्राग्दर्शयन्नाह- तदुपर्यधो नाभेः पक्वाशय इति|- तदुपरि श्रोणिगुदयोरुपरीत्यर्थः| पित्तस्थानं दर्शयन्नाह- पक्वामाशयमध्यं पित्तस्येति| समासेनेत्यत्रापि सम्बध्यते| तेनायमर्थः- पक्वामाशयमध्यं पित्तस्थानं सङ्क्षेपेण, विस्तरेण तु यकृत्प्लीहाहृदयदृष्टित्वगिन्द्रियाण्यपि पित्तस्य स्थानानीति| कफस्थानं निर्देष्टुमाह- आमाशयः श्लेष्मण इति|- ‘स्थानम्’ इति शेषः| यत्राशितपीतादिकं पच्यते स आमाशयः| तथा च मुनिः- “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” ( च. वि. अ. २)- इति| अत्रापि समासेनेति सम्बध्यते; तेन विस्तरेणोरःशिरःकण्ठसन्धयोऽपि श्लेष्मस्थानम्||६||
Adhikarana 6 (7) · Śloka 7
अतः परं पञ्चधा विभज्यन्ते |
तत्र वातस्य वातव्याधौ वक्ष्यामः; पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च; श्लेष्मण उरः शिरः कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च; एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ||७||
वातादीनां प्रधानानि स्थानानि निर्दिश्याप्रधानानि निर्देष्टुमाह- अतः परमित्यादि| विभज्यन्ते प्रकटीक्रियन्ते वातादीनां स्थानानीत्यर्थः| कानि पुनर्वातस्य स्थानानीति पृष्ट आह- तत्र वातस्येत्यादि| वातव्याधाविति ‘निदाने’ इति शेषः| पित्तस्य पञ्चस्थानान्याह- पित्तस्येत्यादि| यकृत् कालखण्डं, प्लीहा वामपार्श्वाश्रयं मांसखण्डं; हृदयं कमलमुकुलाकारमधोमुखं, दृष्टिः कृष्णतारकान्तर्वर्तिनी मसूरदलमात्रा| चकारात् परतन्त्रोक्तं लसीकाद्यनुक्तं समुच्चीयते| पित्तेन स्विन्नमांसात् स्रवदुदकं ‘लसीका’ इत्युच्यते| कफस्य पञ्चस्थानानि निर्दिशन्नाह- श्लेष्मण इत्यादि| उरःस्तनयोरन्तरालं, पूर्वोक्तं चेत्यामाशयः| चकारात् परतन्त्रोक्तं मेदः समुच्चीयते| एतानि स्थानानि प्रायेण प्रकृतिस्थानामेव दोषाणां भवन्तीत्याह- एतानित्यादि| अव्यापन्नानाम् अकुपितानाम्||७||
Adhikarana 7 (8) · Śloka 8
भवति चात्र- विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा |
धारयन्ति जगद्देहं कफपित्तानिलास्तथा ||८||
विसर्गादानेत्यादि| विसर्गादानविक्षेपैः कर्मभिर्यथासङ्ख्येन चन्द्रादित्यवाता यथा जगद्धारयन्ति, तथा कफादयस्त्रयो यथासङ्ख्येन विसर्गादिभिः कर्मभिर्देहं धारयन्तीति समुदायार्थः| विसर्गः सर्जनं ‘बलस्य’ इति शेषः; आदानं ग्रहणं बलस्यैव; विक्षेपः शीतोष्णादीनां विविधप्रकारेण प्रेरणम्||८||
Adhikarana 8 (9) · Śloka 9
तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्निः? आहोस्वित् पित्तमेवाग्निरिति? |
अत्रोच्यते- न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते, आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेऽग्निवदुपचारः क्रियतेऽन्तरग्निरिति; क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगात् , अतिवृद्धे शीतक्रियोपयोगात् , आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ||९||
इदानीमग्निपित्तयोर्भेदविचारप्रतिपादकं ग्रन्थं निर्देष्टुमाह- तत्रेत्यादि| तत्रेति पित्ताग्न्योर्भेदाभेदविचारे; ‘तत्रेति तेषु मध्ये’ इत्यन्ये; ‘तत्रेत्यादानकर्मणि विसर्गादानविक्षेपैरित्यादिश्लोकेनादानं कर्म यदुक्तं तत् किं पित्तस्याग्नेर्वेति जिज्ञास्यम्’ इत्यपरे| जिज्ञास्यं ज्ञातुमेषणीयम्| आहोस्वित अथवार्थे| इति संशये| उत्तरमाह- अत्रोच्यते इत्यादि| दहनं दाहः, पचनं पाक आहारादेः, आदिशब्दाद्रञ्जनदर्शनादीनि गृह्यन्ते| अग्निवदुपचारः अग्निवद्व्यवहारः क्रियते- अन्तरग्निरिति, पित्तमन्तरग्निरित्युपचर्यत इत्यर्थः| न खल्वित्यादिसूत्रेण प्रत्यक्षेणैव पित्तमग्निरित्युक्तम्, अनुमानेनापि पित्तस्याग्नित्वं साधयन्नाह- क्षीणे ह्यग्निगुण इति|- अग्नेर्गुणो यस्य तदग्निगुणं पित्तं, तस्मिन् क्षीणे; हि यस्मादर्थे| तत्समानद्रव्योपयोगात् अग्निसमोष्णतीक्ष्णद्रव्योपयोगादित्यर्थः| ‘अग्निगुणशब्देनोष्मा कथ्यते’ इत्यन्ये; तत्र तत्समानद्रव्योपयोगात् पित्तसमानद्रव्योपयोगादित्यर्थः| अतिप्रवृद्धे शीतक्रियोपयोगादिति ‘पित्तमेवाग्निः’ इति शेषः| प्रत्यक्षानुमानाभ्यां पित्तस्याग्नित्वं प्रसाध्यागमेनापि प्रसाधयन्नाह- आगमाच्चेति|- आगमात् समस्तायुर्वेदशास्त्रतः| ननु, यदि पित्ताग्न्योरभेदस्तत् कथं घृतं पित्तप्रशमनमग्निदीपनम्, अजापयश्च; मत्स्यादयश्च पित्तवृद्धिं कुर्वन्ति नचाग्निदीप्तिकराः, दिवास्वप्नश्च पित्तप्रकोपणोऽप्यग्निशमनः; तथेदमपि कथं स्यात्- विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणेति; ‘समदोषः समाग्निश्च’ (सू. अ.१५) इत्यादिकमपि कथं स्यादिति| नैष दोषः, येनायमग्निः परमार्थतः पित्ताद्भिन्न एव सुश्रुतादिभिरङ्गीकृतः| तदुक्तं- “क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः| पित्तं च केशान् पचति पलितं तेन जायते” (नि. अ.१७) इति| शरीरोष्मा अग्निः, स चात्र पित्ताद्भिन्न एवोक्तः| तथाऽन्यदपि पित्ताग्न्योर्भेदप्रतिपादकतन्त्रमुच्यते- “द्रवं स्निग्धमधोगं च पित्तं वह्निरतोऽन्यथा”- इति| अन्यान्यपि पित्ताग्निभेदप्रतिपादकानि वाक्यानि सन्ति, तानीह विस्तरभयान्न दर्शितानि | यत् पुनरिहाग्निपित्तयोरभेदकथनं कृतं, तद्रसवीर्यादिगुणोपाधियुक्तस्य पित्तस्य चिकित्साद्वारेणाग्नेश्चिकित्सा कार्येति दर्शनार्थम्; अन्यथा रसादिगुणोपाधिरहितस्य वह्नेश्चिकित्सा कर्तुं न पार्यते इति||९||
Adhikarana 9 (10) · Śloka 10
तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति, विवेचयति च दोषरसमूत्रपुरीषाणि; तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते पाचकोऽग्निरिति सञ्ज्ञा; यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति सञ्ज्ञा, स रसस्य रागकृदुक्तः; यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति सञ्ज्ञा, सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः; यद्दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति सञ्ज्ञा, स रूपग्रहणाऽधिकृतः; यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति सञ्ज्ञा, सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च प्रकाशकः ||१०||
अदृष्टहेतुकेन विशेषेणेति विशेषेण भेदेन; किंविशिष्टेन ?अदृष्टहेतुकेन प्राक्तनकर्महेतुकेनेत्यर्थः| पक्वामाशयमध्यस्थमिति नाभिस्थम्| चतुर्विधमन्नपानं पचतीति अशितं खादितं लीढं पीतं च पचतीत्यर्थः| विवेचयति च पृथक्करोति दोषरसमूत्रपुरीषाणि| अत्र केचित् ‘अन्नरसमूत्रपुरीषाणि’ इति पठन्ति, ‘वातमूत्रपुरीषाणि’ इत्यपरे| अनुग्रहं करोति उपकारं करोति| यत् पित्तं हृदयेत्यादि| सोऽभिप्रार्थितमनोरथसाधनकृदिति धर्मार्थकाममोक्षलक्षणपुरुषार्थस्य साधक इत्यर्थः; कस्मात्? हृदयस्थकफतमोऽपनोदविस्पष्टीकृतमनःप्रागुण्यात्| यद्दृष्ट्यां पित्तमित्यादि आलोचको दर्शकः| त्वचीति अवभासिनीनामधेयायां बाह्यत्वचीत्यर्थः| अभ्यङ्गेत्यादि| अभ्यङ्गादीनां क्रियाद्रव्याणां क्रियानिमित्तानां कर्मनिमित्तानामित्यर्थः| छायानां च प्रकाशक इति छायानां पाञ्चभौतिकीनां नीलादीनां, प्रकाशक उत्पादकः; चकारात् प्रभाणां च पाञ्चभौतिकीनां प्रकाशकः| ननु, छायाप्रभयोः को भेदः? उच्यते- “आसन्ना लक्ष्यते च्छाया प्रभा दूरात् प्रकाशते| वर्णमाक्रमति च्छाया प्रभा वर्णप्रकाशिनी” (च. इ. अ. ७)- इति||१०||
Adhikarana 10 (11) · Śloka 11
भवति चात्र- पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च |
उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ||११||
इदानीं पित्तस्य चिकित्सोपयोगि स्वलक्षणं दर्शयन्नाह- पित्तमित्यादि| तीक्ष्णं राजिकामरिचादिवत्| पूति विस्रगन्धि| नीलं सामावस्थायाम्| पीतं निरामावस्थायाम्| कटुरसं प्रकृतिस्थं पित्तम्| विदग्धं चाम्लमेवेति विरुद्धपाकोपपन्नं पुनरम्लरसं भवति, ‘विदग्धाजीर्णसंसृष्टमम्लरसं भवति’ इत्यन्ये, विदग्धं पित्तमम्लपित्तमिति रोगविशेषं केचिन्मन्यन्ते| ‘द्रव’- स्थाने केचित् ‘सरम्’ इति पठन्ति||११||
Adhikarana 11 (12) · Śloka 12
अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः |
तत्र, आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः, चन्द्र इव आदित्यस्य , चतुर्विधस्याहारस्याधारः; स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखजरो भवति ||१२||
अत ऊर्ध्वमित्यादि| अनुव्याख्यास्यामः अनु क्रमेण व्याख्यास्यामः; येनैव क्रमेण पित्तस्थानान्युक्तानि तेनैव कर्मणेत्यर्थः| प्रागामाशयः श्लेष्मस्थानमुक्तः, तमेव प्रथमं दर्शयन्नाह- तत्रामाशय इत्यादि|- तत्रेति श्लेष्मस्थानेषु पञ्चसु मध्ये, उपरिष्टात् उपरि| कस्मात् कारणात् पित्ताशयोपरीत्याह- तत्प्रत्यनीकत्वादिति|- तस्य पित्तस्य प्रत्यनीकत्वात् प्रतिपक्षत्वाद्, विकूलत्वादित्यर्थः| द्वितीयं हेतुमाह- ऊर्ध्वगतित्वाच्च तेजस इति| एतेनैतदुक्तं भवति- यदि हि पार्श्वयोरधो वाऽऽमाशयो भवेत्तदोदकस्याधोगामित्वान्निष्प्रत्यनीकत्वं, ततश्च निष्प्रत्यनीकोऽग्निः शरीरमेव दहेदिति| प्रत्यक्षेण पित्ताशयस्योपरि कफाशयं साधयित्वा, उपमानेनापि साधयन्नाह- चन्द्र इवादित्यस्येति| प्रत्यक्षोपमानाभ्यां पित्ताशयस्योपर्यामाशयं प्रसाध्यानुमानेनापि साधयन्नाह- चतुर्विधस्याहारस्याधारः; चतुर्विधस्याशितपीतलीढखादितस्य, आधारः स्थानम्| तेजस्तावदूर्ध्वगामि, यदि चाध आमाशयो भवेत्तदा चतुर्विधमाहारं न पचेत्, पचति च; तेनानुमीयते- आमाशयः पित्ताशयस्योपर्येवेति| स चेति चतुर्विधाहारः| औदकैर्गुणैरिति द्रवस्नेहादिभिः; द्रवगुणैर्भिन्नसङ्घातः, स्नेहेन प्रक्लिन्न इति बोद्धव्यम्| सुखजरो भवति सुखेन परिणामं गच्छतीत्यर्थः||१२||
Adhikarana 12 (13) · Śloka 13
माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च |
आमाशये सम्भवति श्लेष्मा मधुरशीतलः ||१३||
अथ के औदका गुणा इत्याह- माधुर्यादित्यादि| माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव चेति ‘आहारस्य’ इति शेषः| चकारद्वयेन द्रवस्नेहादयो गुणा अनुक्ता अपि समुच्चीयन्ते| सम्भवतीति इति प्रकुप्यति, न पुनरभूतप्रादुर्भावेण, कफस्य रसधातुत एवोत्पन्नत्वात्||१३||
Adhikarana 13 (14) · Śloka 14
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति; उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति; जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते; शिरःस्थः स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोत्; सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ||१४||
स तत्रस्थ एवेत्यादि| सः श्लेष्मा| तत्रस्थ आमाशयस्थः| स्वशक्तया आत्मवीर्येण| उदककर्मणेति क्लेदनपूरणादिना| द्वितीयस्थानस्य कर्म दर्शयन्नाह- उरःस्थ इत्यादि| त्रिकसन्धारणमिति त्रिकं शिरोबाहुद्वयसन्धानस्थानम्| आत्मवीर्येणेति प्राकृतगुणेन| हृदयावलम्बनं हृदयस्य स्वकार्यसामार्थ्यं करोति| स्नेहसन्तर्पणाधिकृतत्वात् स्नेहने सन्तर्पणे चाधिकृतत्वात्; अथवा स्नेहेन सन्तर्पणं तत्राधिकृतत्वात्| अन्ये तु व्याख्यानयन्ति- ‘स्नेहो मस्तकमज्जा, तस्य सन्तर्पणं, तत्राधिकृतत्वात्’| इन्द्रियाणां श्रोत्रत्वक्चिक्षुर्जिह्वाघ्राणानाम्| अनुग्रहं करोति स्वकार्यसामर्थ्यं जनयति| सन्धिस्थः श्लेष्मेत्यादि स्पष्टम्||१४||
Adhikarana 14 (15) · Śloka 15
भवति चात्र- श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च |
मधुरस्त्वविदग्धः स्याद्विदग्धो लवण स्मृतः ||१५||
इदानीं कफलिङ्गज्ञानार्थं चिकित्सार्थं च लक्षणं दर्शयन्नाह- श्लेष्मा श्वेत इत्यादि| शीत एव चेति चकारो मृदुस्थिरादिगुणसमुच्चयार्थः| अविदग्धः अपक्वो मधुररसो भवति| विदग्धः पक्वो लवण इति| अन्ये त्वन्यथा व्याख्यानयन्ति- अविदग्धः प्रकृतिस्थोऽप्रदुष्टो मधुररसः श्लेष्मा भवति, विदग्धो विकृतिस्थः प्रदुष्टो लवणरसः; अथवा विदग्धान्नपाकाल्लवण इति||१५||
Adhikarana 15 (16) · Śloka 16
शोणितस्य स्थानं यकृत्प्लीहानौ, तच्च प्रागभिहितं; तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति ||१६||
तदेवं दोषान् प्रथमदर्शनोक्तानभिधाय ‘शोणितचतुर्थैः’ इत्यस्य दर्शनस्याभिप्रेतं शोणितस्थानं दर्शयन्नाह- शोणितस्येत्यदि| प्रागभिहितं शोणितवर्णनीय उक्तम्||१६||
Adhikarana 16 (17) · Śloka 17
भवति चात्र- अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः |
शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् ||१७||
शोणितस्य निदानलिङ्गचिकित्साज्ञानार्थं स्वलक्षणं दर्शयन्नाह,-अनुष्णेत्यादि| अनुष्णशीतमिति साधारणमित्यर्थः| विस्रम् आमगन्धि| विदाहश्चास्य पित्तवदिति पित्तस्येव; पित्तस्य येन वस्तुना यथा च विदाहस्तेन वस्तुना तथा च विदाहः शोणितस्यापीत्युक्तम्||१७||
Adhikarana 17 (18) · Śloka 18
एतानि खलु दोषस्थानानि; एषु सञ्चीयन्ते दोषाः |
प्राक् सञ्चयहेतुरुक्तः |
तत्र सञ्चितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति |
तत्र प्रथमः क्रियाकालः ||१८||
प्रतिपादितं नियममन्नाह- एतानित्यादि|- एषु सञ्चीयन्ते दोषा इति एषु स्थानेषु दोषाः सञ्चयं यान्तीत्यर्थः| कः पुनर्दोषाणां सञ्चये हेतुरित्याह- प्राक् सञ्चयहेतुरिति|- प्रागिति ऋतुचर्याध्याये| सञ्चितानां वातादीनां यथासङ्ख्यं लिङ्गं दर्शयन्नाह- तत्र सञ्चितानामित्यादि| संहतीरूपा वृद्धिश्चयः, विलयनरूपा वृद्धिः प्रकोपः| स्तब्धपूर्णकोष्ठतेति कोष्ठताशब्दः स्तब्धपूर्णाभ्यां प्रत्येकं सम्बध्यते, तेन स्तब्धकोष्ठतापूर्णकोष्ठते वायोर्लिङ्गं, पीतावभासता मन्दोष्णता च पित्तस्य, गौरवमालस्यं च श्लेष्मणः| एतानि स्तब्धपूर्णकोष्ठतादिलिङ्गानि सामान्येन सर्वेषामेव सञ्चितानामित्यपि केचिन्मन्यन्ते| चयकारणविद्वेषश्चेति सामान्येन सर्वेषां वातादीनामिदं लिङ्गम्| ‘चयकारणविद्वेषश्च’ इति वाक्यं केचिन्न पठन्ति| केचिदाचार्या अस्याग्रे चयप्रकोपयोर्लक्षणं श्लोकेन पठन्ति ‘स्वस्थानवृद्धिर्दोषाणाम्’ इत्यादि| अयं श्लोकोऽभावात् समग्रो न लिखित इति| तत्रेति तत्र वातादीनां सञ्चये| प्रथमः क्रियाकालः आद्यः कर्मावसरः||१८||
Adhikarana 18 (19) · Śloka 19
अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः |
तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघातलङ्घनप्लवनतरणरात्रिजागरणभारहरण- गजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूषश्यामाकनीवार- मुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते ||१९||
कानि पुनस्तानीत्याह- तत्र बलवद्विग्रहेत्यादि| बलवद्भिर्विग्रहो बलवद्विग्रहः, मल्लादिभिः सह बाहुयुद्धादिः| अतिशब्दो व्यायामादिभिस्त्रिभिः सम्बध्यते| व्यवायः स्त्रीसेवा| अभिघातो लगुडादिप्रहारः| लङ्घनं रवेण गर्ताद्युत्क्रमणम्| प्लवनम् उत्प्लुत्योत्प्लुत्य गमनम्| प्रतरणं नद्यादीनां बाहुभ्यां तरणम्| अतिचर्या अत्यटनं, सा च गजादिभिः पदात्यन्तैः प्रत्येकं सम्बध्यते| वल्लूरं शुष्कमांसम्| वरकः वरटीका कुधान्यविशेषः| उद्दालकः अरण्यकोद्रवः| नीवारः प्रसातिका, धान्यमध्ये रक्तशूको भवति; ‘उलजीधान्यम्’ इति लोके| आढकी तुवरी| हरेणुः वर्तुलकलायः| कलायः त्रिपुटकः| निष्पावकः राजशिम्बिः| अनशनम् अल्पभोजनमुपवासश्च| विषमाशनं बह्वल्पाकालभोजनम्| अध्यशनं साजीर्णभोजनम्| वेगविघातो वेगावरोधः, स च वातमूत्रादिभिः प्रत्येकं सम्बध्यते| क्षवथुः छिक्का| बाष्पशब्देन रोदनजलं कथ्यते| आदिशब्दात् क्षुदादिवेगविघातादयो गृह्यन्ते||१९||
Adhikarana 19 (20) · Śloka 20
स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः |
प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ||२०||
वातस्य प्रकोपहेतुं पृथङ्निर्दिशन्नाह- स शीतेत्यादि| सः वायुः| शीते शीतकाले| अभ्रे मेघोपलक्षितकाले| प्रवाते प्रकृष्टवाते काले| घर्मान्ते वर्षाकाले| विशेषतः अतिशयेन| आर्तवं कालमुक्त्वाऽऽह्निकमाह- प्रत्यूषस्यपराह्णे चेति| भुक्तापेक्षं कालमाह- जीर्णेऽन्ने च प्रकुप्यतीति||२०||
Adhikarana 20 (21) · Śloka 21
क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवण- तीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाक- गोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते ||२१||
पित्तप्रकोपणानि दर्शयन्नाह- क्रोधशोकभयेत्यादि| आयासः शरीरपीडा| विदग्धं विदाहः, स च शोथारागाहारादिकृतः| विदाहीति यदम्लोद्गारदाहतृष्णाप्रभृतीनुदीर्य कृच्छ्रात् पाकमुपगच्छति तद्विदाहि| हरितशाकमिति “कुठेरशिग्रुसुरससुमुखासुरिभूस्तृणाः| चुक्राकश्चुक्रिका चेति वर्गं हरितकं विदुः”- इति| दधि सस्नेहं गव्यं दधि| कूर्चिका विग्रथितं तक्रम्| मस्तु दधिमस्तु| सौवीरकं निस्तुषयवत्रिवृदादिकृतं सन्धानं धान्याम्लं वा| सुराविकाराः पैष्टिकादयः| अम्लफलानि आम्रातकादीनि| कट्वरमिति अस्नेहं दधि| अन्ये भाषन्ते- “सौवीराम्लमथात्यम्लं काञ्जिकं कट्वरं विदुः| अन्ये तु तदधोभागं तक्रं चात्यम्लताङ्गतम्|| सस्नेहं दधिजं तक्रमाहुरन्ये तु कट्वरम्”- इति| प्रभृतिशब्दाच्चुक्रादीनां ग्रहणम्||२१||
Adhikarana 21 (22) · Śloka 22
तदुष्णैरुष्णकाले च घनान्ते च विशेषतः |
मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ||२२||
पित्तप्रकोपस्य कालं दर्शयन्नाह- तदुष्णैरित्यादि| तदिति पित्तम्| उष्णैरिति उष्णत्वमत्र घर्मादिकृतम्| उष्णकाले ग्रीष्मे| घनान्ते शरदि| आह्निकं पित्तप्रकोपस्य कालमाह- मध्याह्ने इत्यादि| भुक्तापेक्षं पित्तप्रकोपस्य कालमाह- जीर्यत्यन्ने च कुप्यतीति| ‘पित्तप्रकोपणेषु मध्ये शोकभययोर्वातप्रकोपणयोः पाठोऽनार्षः’ इति जैज्झटः; स चान्यैर्निबन्धकारैरनुपहृतत्वादस्माभिरपि गृहीता इति||२२||
Adhikarana 22 (23) · Śloka 23
दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कट- माषमहामाषगोधूमतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपौदकमांसवसाबिसमृणाल- कसेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते ||२३||
कफप्रकोपणानि निर्दिशन्नाह- दिवास्वप्नाव्यायामेत्यादि| अभिष्यन्दि दोषधातुमलस्रोतसामतिशयक्लेदप्राप्तिजननम्| हायनको घोटकपुच्छः, स च शालिविशेषः| यवकः शूकधान्यविशेषः, तस्य च यवाकारास्तण्डुलाः| नैषधः ‘कोरक’ इत्याख्यायते, स च धान्यविशेषः| इत्कटः खग्गली| पिष्टं तण्डुलपिष्टम्| कृशरा तिलतण्डुलमाषैः कृता यवागूः| पायसः क्षीरसिद्धास्तण्डुलाः| बिसं पद्ममूलं ‘बिसाण्ड’ इति लोके| मृणालं पद्ममूलात् स्थूलः प्ररोहाङ्कुरः| शृङ्गाटकं जलमध्ये त्रिकण्टकम्| मधुरवल्लीफलमिति मधुरफलं तालनारिकेलादि; वल्लीफलम् अलाबूप्रभृति, अन्ये कूष्माण्डकादीनि||२३||
Adhikarana 23 (24) · Śloka 24
स शीतैः शीतकाले च वसन्ते च विशेषतः |
पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ||२४||
कफस्य कोपकालविशेषं निर्दिशन्नाह- स शीतैरित्यादि| शीतैः शीतलद्रव्यैः| पूर्वाह्णे प्रथमप्रहरे| प्रदोषे रजनीमुखे||२४||
Adhikarana 24 (25) · Śloka 25
पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते ||२५||
द्वितीये दर्शने ‘शोणितचतुर्थैः’ इत्युक्तेः शोणितस्य चतुर्थस्य कोपनानि दर्शयन्नाह- पित्तेत्यादि|- पित्तप्रकोपणैरेव चेति पित्तस्य शोणितसमानत्वात्| तस्यैव विशिष्टमपि हेतुं दर्शयन्नाह- अभीक्ष्णं द्रवेत्यादि| अभीक्ष्णं पुनः पुनः ‘सेवितैः’ इति शेषः||२५||
Adhikarana 25 (26) · Śloka 26
यस्माद्रक्तं विना दोषैर्न कदाचित् प्रकुप्यति |
तस्मात्तस्य यथादोषं कालं विद्यत् प्रकोपणे ||२६||
न च स्वातन्त्र्येणास्य प्रकोपः, किन्तु सर्वदा परतन्त्रेणैव, तत्प्रतिपादयन्नाह- यस्मादित्यादि| तत्र वातदुष्टं वातप्रकोपकाले कुप्यति; एवं पित्तकफदुष्टस्य रक्तस्य पित्तकफकाला इति||२६||
Adhikarana 26 (27) · Śloka 27
तेषां प्रकोपात् कोष्ठतोदसञ्चरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते |
तत्र द्वितीयः क्रियाकालः ||२७||
तेषां प्रकोपलिङ्गानि दर्शयन्नाह- तेषां प्रकोपादित्यादि कोष्ठतोदसञ्चरणे द्वे वातस्य; सञ्चरणमिति कोष्ठे वातपरिभ्रमणमित्यर्थः| अम्लीकापिपासापरिदाहाः पित्तस्य; अम्लीका अम्लोद्गारः, परिदाहः सर्वतोदाहः, अन्येऽपरिदाह इत्यकारप्रश्लेषं मन्यन्ते, तत्र ‘नञ्’ ईषदर्थे, यथा ‘अनुदरा कन्या’ इति, तेनेषद्दाह इति व्याख्यानयन्ति| अन्नद्वेषहृदयोत्क्लेदौ कफस्य, हृदयोत्क्लेदो हृल्लासः| द्वितीयः क्रियाकाल इति द्वितीयश्चिकित्सावसरः||२७||
Adhikarana 27 (28) · Śloka 28
अत ऊर्ध्वं प्रसरं वक्ष्यामः- तेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति |
तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये |
स हि रजोभूयिष्ठः; रजश्च प्रवर्तकं सर्वभावानाम् |
यथा- महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति, एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वाऽनेकधा प्रसरन्ति |
तद्यथा- वातः, पित्तं, श्लेष्मा, शोणितं, वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणौ, वातशोणिते, पित्तशोणिते, श्लेष्मशोणिते, वातपित्तशोणितानि, वातश्लेष्मशोणितानि, पित्तश्लेष्मशोणितानि, वातपित्तकफाः, वातपित्तकफशोणितानीति; एवं पञ्चदशधा प्रसरन्ति ||२८||
अत ऊर्ध्वं प्रकोपविशेषमेव प्रसराख्यं दर्शयन्नाह- अत ऊर्ध्वमित्यादि| तेषां वातपित्तश्लेष्मणाम्| एभिरातङ्कविशेषैः प्रकुपितानामिति पूर्वोक्तैर्बलवद्विग्रहादिभिः, कोष्ठतोदसञ्चरणादिभिर्वा| कथं ते प्रसरन्तीत्यत आह- किण्वोदकपिष्टेत्यादि| अन्योन्यगुणानुप्रवेशाद्यथा किण्वोदकपिष्टानामुद्रेकः, एवं दुष्टिहेतूनां समवाये वातादीनामुद्रेको भवति; किण्वं सुराबीजं, पिष्टं तण्डुलपिष्टं, समवायः संयोगः| कुतो दोषाणां मध्ये वायुरेव प्रसरणहेतुरित्याह- तेषां वायुर्गतिमत्त्वादित्यादि| स हि रजोभूयिष्ठ इति सः वायुः, हि यस्मादर्थे, रजोभूयिष्ठः ‘रजोबहुलो वायुः’ (शा. अ. १) इत्युक्तत्वात्| सर्वभावानां सर्वपदार्थानाम्| एतेन वायोर्गतिमत्त्वे हेतुरुक्तः| प्रसरस्य पुनर्दृष्टान्तमाह- यथा महानुदकसञ्चयोऽतिप्रवृद्ध इत्यादि| सेतुमवदार्येति पालीं भित्त्वा| तमेव संयोगिनां संयोगसङ्ख्यया दर्शयन्नाह- तद्यथा- वातः, पित्तमित्यादि||२८||
Adhikarana 28 (29-30) · Śloka 30
कृत्स्नेऽर्धेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम् |
दोषो विकारं नभसि मेघवत्तत्र वर्षति ||२९||
नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति |
निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ||३०||
तेषामेकदेशप्रसरणेन दृष्टान्तेनैकदेशे विकारं दर्शयन्नाह- कृत्स्ने इत्यादि| यत्राङ्गे इति अत्राङ्गशब्देन शिरोबाहुजङ्घाः कथ्यन्ते| किंविशिष्टेऽङ्गे? इत्याह- कृत्स्न इत्यादि|- कृत्स्ने समस्ते, अर्धे इति प्रसिद्धम्, अवयवे चिबुकचरणादौ| प्रसृतोऽपि कोऽपि कोपाल्पत्वान्न सहसा विकारकारीति दर्शयन्नाह- नात्यर्थमित्यादि| लीन एकदेशस्थितः| निष्प्रत्यनीका निष्प्रतिक्रियः||२९-३०||
Adhikarana 29 (31) · Śloka 31
तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः, पित्तस्य च कफस्थानगतस्य कफवत्, कफस्य च वातस्थानगतस्य वातवत् ; एष क्रियाविभागः ||३१||
तत्र प्रसरेणान्यदोषस्थानगतस्य दोषस्य स्थानिवत् प्रतीकारातिदेशं दर्शयन्नाह- तत्र वायोः पित्तस्थानेत्यादि||३१||
Adhikarana 30 (32) · Śloka 32
एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ, ओषचोषपरिदाहधूमायनानि पित्तस्य, अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति; तत्र तृतीयः क्रियाकालः ||३२||
तेषां प्रसरणलिङ्गानि दर्शयन्नाह- एवं प्रकुपितानामित्यादि| प्रसरप्रस्तावेऽत्र प्रकुपितानामिति यत् कृतं तत् प्रकोपविशेष एव प्रसर इति ज्ञापनार्थम्| प्रकोपप्रसरयोश्च को भेदः? उच्यते- स्त्यानस्य सर्पिषः क्वाथ्यमानस्य प्रथमं सञ्चलनमात्रमेव प्रकोपः, तस्यैव चातिक्वाथ्यमानस्य फेनमण्डलेनोत्सर्पता देशान्तरसरणमिव प्रसरः| वायोर्विमार्गगमनेत्यादि| विमार्गगमनाटोपौ वायोः; वायोः; प्रकृतवायुमार्गादन्यो विमार्गः, आटोपो रुजापूर्वक उदरक्षोभः| ओषादीनि पित्तस्य; ओष एकदेशिको दाहः, चोषः चूष्यत इव वेदनाविशेषः, धूमायनं धूमोद्वमनमिव| केचिदोषचोषौ न पठन्ति, ‘दाहो धूमायनं पित्तस्य’ इति च पठन्ति| अरोचकादयः कफस्य; अङ्गसादः अङ्गग्लानिः| अविपाकाङ्गसादौ केचिन्न पठन्ति, ‘अरोचकश्छर्दिश्च’ इत्येतदेव च पठन्ति| तत्र प्रसरं यावद्दोषाणामेव हेतुलिङ्गचिकित्सा, तदनन्तरं व्याधेरिति||३२||
Adhikarana 31 (33) · Śloka 33
अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः |
एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति |
ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति; बस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन्; मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन्; गुदगता भगन्दरार्शःप्रभृतीन्; वृषणगता वृद्धीः; ऊर्ध्वजत्रुगतास्तूर्ध्वजान्; त्वङ्मंसशोणितस्थाः क्षुद्ररोगान् कुष्ठानि विसर्पांश्च; मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन्; अस्थिगता विद्रध्यनुशयीप्रभृतीन्; पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीन्; सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन्; तेषामेवमभिसन्निविष्टानां पूर्वरूपप्रादुर्भावः ; तं प्रतिरोगं वक्ष्यामः |
तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ||३३||
प्रसृतानां पुनर्दोषाणां स्रोतोवैगुण्याद्यत्र सङ्गः स स्थानसंश्रयः, तं निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| तत्र स्रोतोवैगुण्याद्यत्र सक्ता यान् यान् रोगान् कुर्विन्ति तांस्तान् निर्देष्टुमाह- ते यदोदरसन्निवेशमित्यादि| सन्निवेशं सम्यक्स्थितिम्| प्रभृतिग्रहणात् प्रवाहिकाविलम्बिकाप्रभृतयः| जत्रु ग्रीवामूलम्| त्वङ्मांसशोणितस्था इति त्वक्शब्देनात्र रसो विवक्षितः| मेदोगतदोषव्याधिपाठानन्तरं ‘अस्थिगता विद्रध्यादिन्’ इति पाठो युक्तः, सूत्रे चादर्शनात् समग्रो न लिखितः| मज्जशुक्रगतानां दोषाणां व्याधयो न निर्दिष्टाः, स्वल्पत्वात् कादाचित्कत्वाच्चेति| सर्वाङ्गगता इत्यादि सर्वाङ्गरोगः सर्वाङ्गवातव्याधिः, प्रमेहपाण्डुरोगशोषादयो वा| सूक्ष्मत्वात् स्थानसंश्रयस्य न पृथगुक्तं लक्षणं, नापि क्रियाकाल इति| अभिसन्निविष्टानाम् अत्यर्थं सन्निवेशं कृतवताम्| पूर्वरूपप्रादुर्भाव इति ‘व्याधेः’ इति शेषः| किं तत् पूर्वरूपमिति पृष्टो व्याधिभेदबाहुल्येन पूर्वरूपभेदबाहुल्यात् साक्षान्निर्देशेन दर्शयितुमशक्यमित्यतिदेशेन दर्शयन्नाह- तं प्रतिरोगं वक्ष्यामः; तं पूर्वरूपप्रादुर्भावं, रोगे रोगे प्रतिवक्ष्याम इत्यर्थः, न प्रतिदोषं चयादिलिङ्गवदित्यर्थः| पूर्वरूपगतेष्विति गतेषु ज्ञातेषु; ‘पूर्वरूपेषु वर्तमानेषु’ इति केचित् पठन्ति| चतुर्थः क्रियाकाल इति चतुर्थश्चिकित्सावसरः| चिकित्सा चात्र दोषस्य दूष्यस्य चेत्युभयाश्रिता||३३||
Adhikarana 32 (34) · Śloka 34
अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामः- शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च |
तत्र पञ्चमः क्रियाकालः ||३४||
व्याधेः प्रव्यक्तं रूपं व्यक्तिः, तां दर्शयन्नाह- अत ऊर्ध्वमित्यादि| व्याधेर्दर्शनं व्याध्युपलब्धिः, शोफादीनां ज्वरादीनां च प्रव्यक्तलक्षणता व्यक्तिः; प्रव्यक्तलक्षणता च व्याधिजातिलक्षणकथनं; तद्यथा- शोफार्बुदादीनां त्वङ्मांसस्थानस्य दोषस्य सङ्घातता, तथा सन्तापलक्षणो ज्वरः, सरणलक्षणोऽतीसारः, पूरणलक्षणमुदरमिति| अत्र व्याधेः प्रत्यनीकैव चिकित्सा||३४||
Adhikarana 33 (35) · Śloka 35
अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः, ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः |
तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ||३५||
व्यक्तिमभिधाय भेदं कथयन्नाह- अत ऊर्ध्वमित्यादि| एतेषां शोफादीनामित्यर्थः| अवदीर्णानां विदरणङ्गतानां भिन्नानामित्यर्थः| अवदीर्णत्वं च शोफादीनां विशेषलक्षणं, तच्च भेदः| व्रणभावमापन्नानामिति यत एव विदीर्णा अत एव व्रणत्वं गता इत्यर्थः| ज्वरातीसारप्रभृतीनां च दीर्घकालानुबन्ध इति यथा व्यक्तिप्रस्तावे ज्वरादीनां सन्तापसरणपूरणादिकं सामान्यलक्षणमुक्तं, तथाऽत्र भेदप्रस्तावाद्विशेषलक्षणं दीर्घकालानुबन्धो ज्वरादिजातिषु भेद इति ज्ञातव्यः| केचिदत्र ‘दीर्घकालानुबन्धो न प्रतिव्याधिजातिषु सम्भवतीति वातादिलक्षणभेदाद्भिन्नत्वं भेदः’ इत्याचक्षते, यथा- अष्टानां ज्वराणामित्यादि| अत्र पक्षे दीर्घकालानुबन्ध इति स्वरूपकथनम्, एतेन सञ्चयादिष्वप्रतीकाराद्दीर्घकालानुबन्धोऽसाध्यता च भवतीत्युक्तम्| पूर्वासु गतिष्वप्रतीकारेऽपि प्रतीकारावसरोऽस्त्येव, अत्र तूत्तरगत्यभावात् पश्चात् प्रतीकाराशा नास्त्येवेति दर्शयन्नाह- तत्राप्रतिक्रियमाण इत्यादि|- तत्रेति भेदे इत्यर्थः||३५||
Adhikarana 34 (36) · Śloka 36
भवन्ति चात्र- सञ्चयं च प्रकोपं च प्रसरं स्थानसंश्रयम् |
व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ||३६||
अतीतं सङ्क्षिप्य सङ्ग्रहं प्रतिपादयन्नाह- सञ्चयं च प्रकोपं चेत्यादि| चकारेण सञ्चयादिहेतुस्थानाद्यनुक्तं सर्वं समुच्चीयते||३६||
Adhikarana 35 (37) · Śloka 37
सञ्चयेऽपहृता दोषा लभन्ते नोत्तरा गतीः |
ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ||३७||
यथापूर्वं प्रतीकाराल्पत्वं यथोत्तरं प्रतिकारबाहुल्यं दर्शयन्नाह- सञ्चयेऽपहृता दोषा इत्यादि| तेषामपहरणं च बहुदोषे शोधनं, मध्यदोषे लङ्घनपाचनम्, अल्पदोषे संशमनमिति||३७||
Adhikarana 36 (38) · Śloka 38
सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः |
संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ||३८||
इदानीं संसर्गे सन्निपाते च प्रसराभिहितेंऽशांशबलविकल्पेनानुबन्धानुबन्धिभावं चिकित्सार्थं दर्शयन्नाह- सर्वैर्भावैस्त्रिभिर्वेत्यादि| अनुधावति अनुलग्नो भवति| कोऽसौ? दोषः, किंविशिष्टः? कुपितः, कैः कृत्वा? भावैः, कोऽर्थः? स्वभावैः रूक्षोष्णस्निग्धादिभिः, कतिसङ्ख्योपेतैः? त्रिभिः, न केवलं त्रिभिः द्वाभ्यामेकेन वा; एतेन त्र्यादिस्वभावकुपितोऽप्रधानोऽनुबन्धभूतः प्रधानदोषमर्गानुलग्नो भवतीत्युक्तम्| कमनुधावति? इत्याह- दोषं, किंविशिष्टं? क्रुद्धं प्रकोपं गतं, कैः कृत्वा? भावैः, कतिसङ्ख्यैः? इत्याह- सर्वैः, कोऽर्थः? समस्तैः रूक्षोष्णस्निग्धादिभिः, एतेन सर्वभावक्रुद्धः प्रधानभूतो व्यक्तलिङ्गोऽनुबन्ध्यो दोष उक्तः| क्व? संसर्गे, कोऽर्थः? दोषद्वयसंयोगे| अत्राप्येवमुक्तं भवति- यदा किल दोषद्वयसंसर्गो भवति तदा प्रधानस्यानुबन्ध्यभूतस्य दोषस्य चिकित्सा कर्तव्या, तत्प्रशमादेवाप्रधानस्यानुबन्धभूतस्य प्रशमो भविष्यतीति; यदा तु सर्वैर्भावैः कुप्यन्ति तदा सर्वे प्रधानभूताः परस्परमनुबन्ध्यभूताश्च भवन्ति, एवं च समसन्निपातो भवति, तदा पित्तमुपचरणीयम्| अन्ये तु सर्वैर्भावैरित्यत्र ‘भावा व्याधिहेतवः; ते चाहारविहारदेशकालाश्चत्वारः’ इति वर्णयन्ति| अपरे तु रसगुणवीर्यविपाकांश्चतुरो भावान् कथयन्ति| द्रव्यगुणकर्माणि भावा इति चरकव्याख्यातारो भट्टारकहरिचन्द्रप्रभृतयः प्रतिपादयन्ति| अन्ये तु ‘सर्वैर्भागैः’ इति पठन्ति| तत्र, वातस्य रूक्षलघुविशदविष्टम्भा भागाः, पित्तस्य तीक्ष्णद्रवपूतिनीलपीता भागाः, श्लेष्मणः शीतगुरुपिच्छिलस्निग्धादयो भागाः; तत्र वातादयो यदा सर्वैस्त्रिभिर्द्वाभ्यामेकेन वा भागेन कुप्यन्ति तदा तावद्भिस्तद्विपरीतैर्भागैश्चिकित्सा कर्तव्या| तत्र श्लेष्मणः क्षये बलवद्विग्रहादिभिः क्रियमाणे यदा रूक्षो भागो वातस्य कुप्यति तदा स्निग्धेनैकेन भागेन तद्विपरीतेन प्रतिकर्तव्यः; यदा तु रूक्षशीतौ द्वौ भागौ कुप्यतस्तदा स्निग्धोष्णाभ्यां द्वाभ्यां भागाभ्यां चिकित्स्य इत्यादि| सर्वैर्वेति स्वयमूह्यम्| संसर्गे दोषद्वयसंयोगे इत्यर्थः| एतेनैतदुक्तं भवति- यदा क्रुद्धं दोषं कुपितोऽनुगच्छति तदा संसर्गो भवति; स च संसर्गो द्विधा भवति- प्रकृतिसमसमवेततया, विकृतिविषमसमवेततया च; तत्र यदा वायुपित्तयोः संसर्गस्तदा शोषणात्मकतया स्वभावसदृशेन पित्तेन वायुः समवेत इति प्रकृतिसमसमवेत उच्यते, यदा तु पित्तश्लेष्मणोः संयोगस्तदा पित्तमुष्णं शीतेन श्लेष्मणा युक्तमतः स्वभावविपरीतेन समवेत इति विकृतिविषमसमवेत उच्यते||३८||
Adhikarana 37 (39) · Śloka 39
संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत् |
शेषदोषाविरोधेन सन्निपाते तथैव च ||३९||
संसर्गसन्निपातयोश्चिकित्सासूत्रमाह- संसर्गे इत्यादि| गरियानिति गुरुतरः| कथमुपक्रमणीय इत्याह- शेषदोषाविरोधेनेति|- यथा न कुप्यतीत्यर्थः| संसर्गक्रियां सन्निपातेऽप्यतिदेष्टुमाह- सन्निपाते तथैव चेति| ननु, यदि शेषदोषाविरोधेन संसर्गे यो गरीयान् सोपक्रम्यस्तर्हि कथमिदमुच्यते- “शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु| दुर्निवारतमं तद्धि ज्वरार्तेषु विशेषतः” (उ.३९); तथा- “समवाये हि दोषाणां पूर्वं पित्तमुपाचरेत्| ज्वरे चैवातिसारे च, सर्वत्रान्यत्र मारुतम्”- (उ.४०) इति| सत्यं, समसन्निपातमाश्रित्य तत्रोक्तं, न पुनरन्यान् द्वादशेति न दोषः||३९||
Adhikarana 38 (40) · Śloka 40
वृणोति यस्माद्रूढेऽपि व्रणवस्तु न नश्यति |
आदेहधारणात्तस्माद्व्रण इत्युच्यते बुधैः ||४०||
कथं पुनरयं शरीरैकदेशोत्थो दोषसङ्घातो व्रण इत्युच्यत इत्याह- वृणोतीत्यादि| स वृणोति आच्छादयति यस्मात् तस्मात् ‘व्रण’ इति; अथवा व्रणवस्तु व्रणचिह्नं, रूढेऽपि न नश्यति तथैवास्ते आदेहधारणात् यावज्जीवं, तस्मात् ‘व्रण’ इति||४०||
Adhikarana puShpikA · Śloka 21
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायो नामैकविंशोध्यायः ||२१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकविंशोऽध्यायः||२१||