Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. karṇavyadhabandhavidhyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते | तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनैः शनैर्दक्षिणहस्तेनर्जु विध्येत्, प्रतनुकं सूच्या, बहलमारया, पूर्वं दक्षिणं कुमारस्य, वामं कुमार्याः; ततः पिचुवर्तिं प्रवेशयेत् ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात्, निरुपद्रवतया तद्देशविद्धमिति ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति | तत्र, कालिकायां ज्वरो दाहः श्वयथुर्वेदना च भवति; मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च; लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति | तेषु यथास्वं प्रतिकुर्वीत ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति; सुरूढं चैनं पुनर्विध्येत्; विधानं तु पूर्वोक्तमेव ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्, त्र्यहात्त्र्यहाच्च वर्तिं स्थूलतरां दद्यात्, परिषेकं च तमेव ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

एवं विवर्धितः कर्णश्छिद्यते तु द्विधा नृणाम् | दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

तत्र समासेन पञ्चदशकर्णबन्धाकृतयः | तद्यथा- नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्धकपाटसन्धिकः सङ्क्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्णः काकौष्ठक इति | तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानकः, वृत्तायतसमोभयपालिरुत्पलभेद्यकः; ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः; अभ्यन्तरदीर्घैकपालिरासङ्गिमः; बाह्यदीर्घैकपालिर्गण्डकर्णः; अपालिरुभयतोऽप्याहार्यः; पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्वेधिमः, स्थूलाणुसमविषमपालिर्व्यायोजिमः; अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः; बाह्यदीर्घैकपालिरितराल्पपालिरर्धकपाटसन्धिकः | तत्र दशैते कर्णबन्धविकल्पाः साध्याः ; तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः सङ्क्षिप्तादयः पञ्चासाध्याः | तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः सङ्क्षिप्तः ; अनधिष्ठानपालिः पर्यन्तयोः क्षीणमांसो हीनकर्णः; तनुविषमाल्पपालिर्वल्लीकर्णः; ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्णः; निर्मांससङ्क्षिप्ताग्राल्पशोणितपालिः काकौष्ठक इति | बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

भवन्ति चात्र- यस्य पालिद्वयमपि कर्णस्य न भवेदिह | कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् | आभ्यन्तरायां दीर्घायां बाह्यसन्घिरुदाहृतः ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च या | तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ||१३||

🔊 Audio coming soon

Adhikarana 13 (14) · Śloka 14

गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता | कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ||१४||

🔊 Audio coming soon

Adhikarana 14 (15) · Śloka 15

अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसम्भृतसम्भारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णं चेति | ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतं च कृत्वा, बन्धमुपधार्य, छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य, कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति; तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ, पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य, स्थितरक्तं सन्दध्यात् | ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णेनावकीर्याचारिकमुपदिशेत्, द्विव्रणीयोक्तेन च विधानेनोपचरेत् ||१५||

🔊 Audio coming soon

Adhikarana 15 (16) · Śloka 16

भवति चात्र- विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् | व्यवायमग्निसन्तापं वाक्श्रमं च विवर्जयेत् ||१६||

🔊 Audio coming soon

Adhikarana 16 (17) · Śloka 17

न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा सन्दध्यात् | स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवेदनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्, अतिप्रवृत्तरक्ते श्यावशोफवान्, क्षीणोऽल्पमांसो न वृद्धिमुपैति ||१७||

🔊 Audio coming soon

Adhikarana 17 (18-19) · Śloka 19

(आमतैलेन त्रिरात्रं परिषेचयेत्, त्रिरात्राच्च पिचुं परिवर्तयेत्) | स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैः शनैरभिवर्धयेत् | अतोऽन्यथा संरम्भदाहपाकरागवेदनावान्, पुनश्छिद्यते वा ||१८|| अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्गः | तद्यथा- गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयः सर्पिस्तैलं गौरसर्षपजं च यथालाभं सम्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् ||१९||

🔊 Audio coming soon

Adhikarana 18 (20) · Śloka 20

स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् | अथानुपद्रवः सम्यग्बलवांश्च विवर्धते ||२०||

🔊 Audio coming soon

Adhikarana 19 (21) · Śloka 21

यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्तनं हितम् |२१|

🔊 Audio coming soon

Adhikarana 20 (21) · Śloka 22

शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः ||२१|| तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् |२२|

🔊 Audio coming soon

Adhikarana 21 (22-23) · Śloka 23

ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिताः ||२२|| तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु | बाह्यच्छेदं न कुर्वीत व्यापदः स्युस्ततोध्रुवाः ||२३||

🔊 Audio coming soon

Adhikarana 22 (24) · Śloka 24

बद्धमात्रं तु यः कर्णं सहसैवाभिवर्धयेत् | आमकोशी समाध्मातः क्षिप्रमेव विमुच्यते ||२४||

🔊 Audio coming soon

Adhikarana 23 (25) · Śloka 25

जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः | सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनैः ||२५||

🔊 Audio coming soon

Adhikarana 24 (26) · Śloka 26

अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह | यो यथा सुविशिष्टः स्यात्तं तथा विनियोजयेत् | (कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत! | कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः(१) ||२६|| द्विधा वाऽप्यथ संसृष्टाः कुर्वन्ति विविधा रुजः | विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके(२) ||२६|| दाहविस्फोटजननं शोफः पाकश्च पैत्तिके | कण्डूः सश्वयथुः स्तम्भो गुरुत्वं च कफात्मके(३) ||२६|| यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् | स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः(४) ||२६|| मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा | य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति(५) ||२६|| अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् | उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम्(६) ||२६|| अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा | स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्(७) ||२६|| अपामार्गः सर्जरसः पाटलालकुचत्वचौ | उत्पाटके प्रलेपः स्यात्तैलमेभिश्च पाचयेत्(८) ||२६|| शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम् | वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत्(९) ||२६|| लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् | गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम्(१०) ||२६|| श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् | पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम्(११) ||२६|| दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् | व्रणीभूतस्य देयं स्यादिदं तैलं विजानता(१२) ||२६|| मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम् | गोधावराहसर्पाणां वसाः स्युः कृतबृंहणे(१३) ||२६|| प्रलेपनमिदं दद्यादवसिच्यावमन्थके | प्रपौण्डरीकं मधुकं समङ्गां धवमेव च(१४) ||२६|| तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् | सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् | एतैरालेपनं दद्यात्तैलमेभिश्च साधितम्(१५) ||२६|| ग्रन्थिके गुटिकां पूर्वं स्रावयेदवपाट्य तु | ततः सैन्धवचूर्णं तु घृष्ट्वा लेपं प्रदापयेत्(१६) ||२६|| लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले | क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्ततः(१७) ||२६|| मधुपर्णी मधूकं च मधुकं मधुना सह | लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम्(१८) ||२६|| पञ्चवल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः | जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत्)(१९) ||२६||

🔊 Audio coming soon

Adhikarana 25 (27-31) · Śloka 31

विश्लेषितायास्त्वथ नासिकाया वक्ष्यामि सन्धानविधिं यथावत् | नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्बि तस्य ||२७|| तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् | विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिषगप्रमत्तः ||२८|| सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा | प्रोन्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ||२९|| सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् | घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ||३०|| रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् | हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ||३१||

🔊 Audio coming soon

Adhikarana 26 (32) · Śloka 32

नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् | य एवमेव जानीयात् स राज्ञः कर्तुमर्हति ||३२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 16

इति सुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्यायः ||१६||

🔊 Audio coming soon