Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. kṣārapākavidhyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| क्षारशब्दः पाकविधिभ्यां सह सम्बध्यते||१-२||

Adhikarana 2 (3) · Śloka 3

शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः, छेद्यभेद्यलेख्यकरणात् त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ||३||

🔊 Audio coming soon

शस्त्रानुशस्त्रेभ्य इति शस्त्राणि मण्डलाग्रादीनि, अनुशस्त्राणि त्वक्सारादीनि, तेभ्यः क्षारः प्रधानतमः, द्वे पुनरनुशस्त्रे अग्निजलौकाख्ये परिशिष्टे; तदुक्तं- ‘विधिः प्रवक्ष्यते पश्चादग्निक्षारजलौकसाम्’(सू. अ. ८)’- इति; एषां त्रयाणामपि प्राधान्यमस्ति, अत एवैषां पृथगध्यायः; अत्र जलौकसः प्रधानम्, अग्निः प्रधानतरः, क्षारः प्रधानतमः; ‘क्षारादग्निर्गरीयान्’ (सू. अ. १२) इत्यत्र यथा न विरोधस्तथा तत्रैव वक्ष्यामः| कस्मात् क्षारस्य प्राधान्यमित्यत आह- छेद्येत्यादि| छेद्यादीनि कर्माण्यग्निजलौकसोर्न सम्भवन्ति, तेन ताभ्यां सकाशात् क्षारस्य प्राधान्यं, त्रिदोषघ्नत्वं क्षारस्य नानौषधिसमवायादित्यादिना साधयिष्यति, विशेषक्रियावचारणं यथा पित्तार्शःसु विशेषेणावचारणम् ||३||

Adhikarana 3 (4) · Śloka 4

तत्र क्षरणात् क्षणनाद्वा क्षारः ||४||

🔊 Audio coming soon

क्षारस्य निरुक्तिं कुर्वन्नाह- तत्र क्षरणादित्यादि| क्षरणाद् दुष्टत्वङ्मांसादिचालनात्, शातनादित्यर्थः; अन्ये तु क्षरणाद्दोषाणां चालनात्| क्षणनात् त्वङ्मांसादिहिंसनात्| ‘क्षरणात्’ इत्यत्र ‘क्षपणात्’ इति केचित् पठन्ति; क्षपणं शोधनमभिप्रेतम्||४||

Adhikarana 4 (5) · Śloka 5

नानौषधिसमवायात्त्रिदोषघ्नः , शुक्लत्वात् सौम्यः; तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा, आग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्ता पुंस्त्वस्य चातिसेवितः ||५||

🔊 Audio coming soon

क्षारगुणकर्माह- नानौषधिसमवायादित्यादि| समवायः संयोगः; यतोऽयं क्षारोऽनेकौषधिसमवायात्त्रिदोषघ्नः, अतः पित्तार्शःस्वपि यौगिकत्वमस्य| शुक्लत्वात् सौम्य इत्यस्याग्रे केचिदपिशब्दं लुप्तनिर्दिष्टं वर्णयन्ति, व्याख्यानयन्ति च- न केवलमुष्णः सौम्योऽपीति, तेनास्य वक्ष्यमाणमुष्णत्वमपि न विरुध्यते| दहनपचनदारणशक्तिरविरुद्धा हिमानीवत्| पाचन इति द्विविधोऽपि क्षारः; अत्र व्रणशोथस्य प्रतिसारणीयः पाचनः, अन्नाजीर्णस्य पानीयः| विलयनः शोफस्य वातकफभूयिष्टस्य| शोधनो दुष्टव्रणस्य, रोपणः शुद्धव्रणस्य, अत्र योगशक्तिप्रभावात्तिलयवकल्कवत् क्षारस्य शोधनरोपणत्वं न विरुध्यते; शोधन एवायं क्षारः, शुद्धस्तु व्रणः स्वयमेव रोहतीत्यन्ये; न हि शुद्धे व्रणे रोपणार्थं क्षारोऽवचार्यते सिरादिक्षणनभयात्, तस्मात् पारम्पर्येण रोपण इति; केचिदस्य रोपणत्वं न पठन्त्येव| शोषणो व्रणक्लेदस्य| स्तम्भनः शोणितातिप्रवृत्तेः| उपहन्तृशब्दः कृम्यादिभिः सह प्रत्येकं सम्बध्यते; कृमयो बाह्याभ्यन्तराः, तेषां द्विविधः क्षार उपहन्ता; आमः अपक्वरसः, मेदसः पानीय एवोपहन्ता; पुंस्त्वस्य शुक्रस्य||५||

Adhikarana 5 (6) · Śloka 6

स द्विविधः- प्रतिसारणीयः, पानीयश्च ||६||

🔊 Audio coming soon

इदानीमुक्तगुणकर्मणः क्षारस्य द्वैविध्यं दर्शयन्नाह- स द्विविध इत्यादि| प्रतिसारणीयः प्रतिसारणार्हः; पानीयः पानार्हः, क्षारोदकमित्यर्थः; ये चान्येऽपि पाक्यसर्जिकायवक्षारा यथारोगं वक्तव्यास्तेषां चूर्णवटकावलेहादिषु प्रयोगः कर्तव्यः||६||

Adhikarana 6 (7) · Śloka 7

तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्टव्रणनाडीचर्मकील- तिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषूपदिश्यते , सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ||७||

🔊 Audio coming soon

प्रतिसारणीयस्य विषयं दर्शयन्नाह- तत्र प्रतिसारणीय इत्यादि| किटिभः कुष्ठविशेषः; तस्य पृथगविधानं नियमेन प्रतिसारणीयसाध्यत्वज्ञापनार्थं; दद्रु मण्डलं दद्रुमण्डलं; किलासं त्वग्गतं श्वित्रकुष्ठं; चर्मकीलः अर्शोनिदानपठितः; न्यच्छव्यङ्गौ क्षुद्ररोगनिदानोक्तौ; बाह्यशब्दः विद्रधिकृमिविषैः प्रत्येकं सम्बध्यते| विषादिष्वित्यादिशब्दाद्वल्मीकादीनां ग्रहणम्| ‘बाह्यकृमिविशेषादिषु’ इति केचित् पठन्ति| के ते सप्त मुखरोगा येषु क्षार उपयुज्यते, इत्याह- उपजिह्वेत्यादि|- उपजिह्वादीन् रोगान् मुखरोगनिदाने वक्ष्यति| तिसृणां रोहिणीनां ग्रहणं सन्निपातरक्तजयोरसाध्यत्वज्ञापनार्थम्| कुतः पुनरुपजिह्वादिभ्योऽन्येषु मुखरोगेषु क्षारो नोपयुज्यत इत्याह- एतेष्वेवेत्यादि| अत्रानुशस्त्रं क्षार एव| ‘एतेष्वनुशस्त्रनिपातनम्’ इति क्वचित् पाठः||७||

Adhikarana 7 (8) · Śloka 8

पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाह- शर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयुज्यते ||८||

🔊 Audio coming soon

पानीयविषयं दर्शयन्नाह- पानीयस्त्वित्यादि| गरः कृत्रिमं विषं, दूषीविषमित्यन्ये; अग्निसङ्गः इति अग्निः सज्यते लीयते यस्माद्येन यस्मिन् वा सोऽग्निसङ्गः, तेन वातश्लैष्मिकग्रहणीविसूचिकालसकविलम्बिकादिविकारा गृह्यन्ते; शर्करा वातेन भिन्नाऽश्मरी शर्करेत्युच्यते||८||

Adhikarana 8 (9) · Śloka 9

अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्रम- मदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ||९||

🔊 Audio coming soon

क्षारस्य येष्वयौगिकत्वं तानाह- अहितस्त्वित्यादि| भ्रमश्चक्रारूढस्येव भ्रमणं, मदो विषमद्यशोणितोत्थो विकारः पूगफलेनेव मत्तता, मूर्च्छा चेतनाच्युतिः, परीतशब्दो भ्रमादिभिः सह प्रत्येकं सम्बध्यते||९||

Adhikarana 9 (10) · Śloka 10

तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत्; तस्य विस्तरोऽन्यत्र ||१०||

🔊 Audio coming soon

तत्र पानीयक्षारपाकं विधिं च सङ्क्षेपेण दर्शयितुमाह- तं चेतरक्षारवदित्यादि| इतरक्षारवत् प्रतिसारणीयवत्; यथा प्रतिसारणीयस्य काष्ठदाहः षड्गुणोदकपाकस्त्रिभागावशेषानन्तरं परिस्रावणं च, तद्वत् पानीयस्यापि पाकविधिः स्रावणं च द्वितीयपाकवर्जं; पानीयक्षारोदकप्रमाणमुत्तमा मात्रा पलं, मध्यमा कर्षत्रयम्, अधमा अर्धपलम्| अन्यत्र गुल्मादिष्वध्यायेषु||१०||

Adhikarana 10 (11-12) · Śloka 12

अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च | तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् | अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च | अथानेनैव विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकारग्वधतिल्वकार्कस्नुह्यपामार्गपाटलानक्तमालवृषकदली- चित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् | ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, महति कटाहे शनैर्दर्व्याऽवघट्टयन् विपचेत् | स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् | तत एव क्षारोदकात् कुडवमध्यर्धं वाऽपनयेत् | ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीरग्निवर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसम्मितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य , सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् | स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत | अथैनमागतपाकमवतार्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ||११|| एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः ||१२||

🔊 Audio coming soon

अथेतर इत्यादि| इतरः प्रतिसारणीयः; अथेतरो मृदुरित्याद्यत्र केचिन्न पठन्ति| प्रतिसारणीयस्य पाकविधिं निर्देष्टुमाह- तं चिकीर्षुरित्यादि| तं प्रतिसारणीयं, चिकीर्षुः कर्तुमिच्छुः; तं चिकीर्षुरित्यत्र ‘अथेतरं चिकीर्षुः’ इति केचित् पठन्ति; अथशब्दो मङ्गलार्थः, इतरं प्रतिसारणीयम्| गिरिसानुजं पर्वतोपरिजातं, “गिरिसानुजमिति जाङ्गलदेशोपलक्षणम्” इत्यन्ये| ‘शुचिरुपोष्य’ इत्यत्र ‘शुचिरुपवसन्’ इति केचित् पठन्ति| अनुपहतं कृमिदवाग्निगराद्यनुपहतम्| असितमुष्ककं कृष्णपुष्पमोक्षकं, न श्वेतादिपुष्पम्| अधिवास्य मन्त्रवद्बलिकर्मोपहरेदित्यर्थः| केचिदस्याग्रे “मन्त्रेणानेनाभिमन्त्र्य- अग्निवीर्य! महावीर्य! मा ते वीर्यं प्रणश्यतु| इहैव तिष्ठ कल्याण! मम कार्यं करिष्यसि|| मम कार्ये कृते पश्चाद्देवलोकं गमिष्यसि| श्वेतरक्तपुष्पसहस्रं जुहुयात्” इति पठन्ति; अयं च निबन्धेषु न पठ्यते| अन्ये त्वत्र “प्राङ्मुखोपगतस्तत्र बलिं दत्त्वा चतुर्दिशम्| वृक्षाभ्याशे ततो ब्रूयात् प्राञ्जलिः प्रयतः शुचिः|| निवसन्तीह भूतानि यान्यस्मिन् कानिचिद्द्रुमे| अपक्रामन्त्वयं छेद्यः परार्थे श्वो मया द्रुमः| एवमामन्त्रितं वृक्षं लाजाधूपैः सुरासवैः| प्रभाते वैकृतं तत्र न पश्येच्छेदयेत्ततः| शान्ते नीहारतिमिरे युगमात्रोदिते रवौ| पूर्वाग्रमुत्तराग्रस्थं तं तरुं पात(ट)येद्द्रुतम्” “इत्यधिवासनमन्त्रं पठन्ति, भोजेऽप्येवमेव पठ्यते” इति च वदन्ति| अपरेद्युरपरस्मिन् दिने| खण्डशः प्रकल्प्य बहून् खण्डान् कृत्वा| अवपाट्य तान् खण्डान् पुनः पाटयित्वा; ‘अपरेद्युः पाटयित्वा इत्यस्य स्थाने ‘प्रभाते वैकृतमद्भुतं न पश्येत्तदोपकल्पयेत्’ इति क्वचित् पाठः| वैकृतं तरुशाखाभङ्गादि, अद्भुतं रुधिरवर्षादि, इति च तस्य व्याख्यानम्| निचितिः काष्ठानामौत्तराधर्येणावस्थितिः; केचिदत्र ‘चितिं कृत्वा’ इति पठन्ति, चितिं दाहस्थानमिति व्याख्यानयन्ति| तिलनालैरादीपयेत् तिलनालदीपनाच्छक्त्यतिशयो भवति| निचितिं कृत्वेत्यस्याग्रे केचित् ‘सुधाशर्कराः प्रक्षिप्य’ इति पठन्ति, व्याख्यानयन्ति च- सुधाशर्कराः सुधापाषाणाः| भस्मशर्कराश्चेति दह्यमानार्द्रकाष्ठरसाच्छर्करेवान्योन्यसंहतं भस्मजातं भस्मशर्करेत्युच्यते, तां च पृथक् गृह्णीयात्; पृथग्ग्रहणं भिन्नप्रयोजनार्थं; तेन भस्मनः क्षारोदककरणं, भस्मशर्करा पुनः क्षारद्रव्यसमवापिनी| अन्ये तु ‘पृथक् गृह्णीयात्’ इत्यस्याग्रे ‘कटशर्करा भस्मशर्कराश्च’ इति पठन्ति, ‘कटशर्करा अदग्धसुधापाषाणाः, भस्मशर्करास्तु क्षारद्रव्यैः सह दग्धाश्चूर्णपाषाणाः’ इति च व्याख्यानयन्ति| एष दाहकल्पः| अथानेनैवेत्यादि| अथानेनैव विधानेनेत्यनेन निवातदेशनिचितिस्तिलनालदीपनं च लभ्यते, गिरिसानुजमित्यस्य जाङ्गलदेशोपलक्षणत्वं, तेनेहापि कुटजादीन्यपि जाङ्गलानि गृह्यन्ते| मुष्ककस्य कुटजादीनां चैकदेशकल्पनत्वेऽपि पृथग्दाहविधानं कुटजादिभस्मनो मुष्ककभस्मनो भागाधिक्यख्यापनार्थं, भागाधिक्यं च ‘ततः क्षारद्रोणमुदकद्रोणैः षड्भिः’- इत्यत्र वक्ष्यामः| अन्ये तु मुष्ककेणैकेनापि क्षारो भवतीति पृथग्विधानं बोधयति| पलाशः किंशुकः; अश्वकर्णः पूर्वदेशे गन्धमुण्डः पिप्पलसदृशः , पारिभद्रको देवदारुः, अन्ये तु रक्तकुसुमः कण्टकीवृक्षविशेषः स्वनाम्ना प्रसिद्धः, तिल्वकः स्वनामप्रसिद्धः; इन्द्रवृक्षः कुटज एव, द्विविधो हि कुटजो बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान्, अणुफलवृन्ता श्यावारुणपुष्पा स्त्री; आस्फोता सारिवा; कोशातकी घोषकः; सा चतुर्विधा- बृहत्फला, अल्पफला, पीतपुष्पा, श्वेतपुष्पा, इति| समूलफलपत्रशाखा इति कुटजादिभिः सह प्रत्येकं सम्बध्यते| केचित् कुटजादिकोशातक्यन्तं समस्य पठन्ति| ततः क्षारद्रोणमित्यादि ततो मुष्कककुटजादिदाहानन्तरम्| क्षारद्रोणमिति मुष्ककभस्मनो द्वौ भागौ कुटजादिभस्मन एको भाग इति मिश्रीकृतं क्षारद्रोणमुच्यते| उदकद्रोणैः षड्भिरिति भस्मद्रव्यात् षड्गुणोदकपरिभाषेयम्, अनयैवान्यत्रापि क्षारपाकविधौ क्षारकल्पनं; पक्षान्तरं दर्शयति- मूत्रैर्वा यथोक्तैरिति दुन्दुभिस्वनीयकल्पोक्तैरित्यर्थः ; तथाहि- ‘गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्’ (क. अ. ६)- इति; अत्रापि क्षारकल्पेनेति वचनाद्भस्मद्रव्यान्मूत्रस्य षड्गुणत्वमुक्तम्| एकविंशतिकृत्वः परिस्राव्येति एकविंशतिवारान् वस्त्रेण गालयित्वा| अवघट्टयन् चालयन्, तावत् पचेत् स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्चेति| एतेऽच्छादयो गुणास्त्रिभागावशेषे क्षारोदके भवन्ति| तं क्षारक्वाथम्| आदाय गृहीत्वा| इतरं विभज्य क्षारभस्मकल्कं; ‘इतरद्विसृज्य’ इति क्वचित् पाठः, तत्रेतरत् भस्म किट्टभूतम्| अधिश्रयेत् आरोपयेत्| तत एव क्षारोदकात् कुडवमध्यर्धं वाऽपनयेदिति कुडवमष्टौ पलान्यपनयेत्; अध्यर्धमित्यत्र कुडवमिति सम्बध्यते, तेनाध्यर्धं कुडवं द्वादशपलानि वाऽपनयेत्| अन्ये त्वत्र द्वैगुण्यं न मन्यन्ते| एतच्च क्षारोदकापनयनं कटशर्करादीनां निषेकार्थं पेषणार्थं च; अन्ये तु कटशर्करादीनां भागप्रमाणज्ञापनार्थमिति वदन्ति, तेन कटशर्करादीनि द्रव्याणि प्रत्येकं कुडवप्रमाणान्यध्यर्धकुडवप्रमाणानि वा आवपेदित्यर्थः| ततः कटशर्करेत्यादि कटशर्करा गाङ्गेष्ठी, भस्मशर्करा अत्रैवाध्याये पूर्वं व्याख्याता; अन्ये तु कटशर्कराभस्मशर्करयोरन्यथा व्याख्यानं कुर्वन्ति तदप्यत्रैवाध्याये कथितम्| क्षीरपाको जलशुक्तिः| आयसे पात्रे लौहे भाजने, एते अग्निवर्णाः कृत्वा, तस्मिन्नेव क्षारोदके पूर्वोपनीते कुडवेऽध्यर्धकुडवे वा, निषिच्य प्रक्षिप्य| त्रैषां कटशर्करादीनामनिर्दिष्टप्रमाणत्वात् समा भागा इत्येके; समभागश्चात्र प्रत्येकमष्टौ पलानि; एवं च द्वात्रिंशत् पलानि भवन्ति; एतेन द्विद्रोणेऽष्टपलसम्मितमित्यपि प्रमाणमनुकूलितं भवति; द्विद्रोणे षोडशांशश्चावापभागो ज्ञापितो भवति| अन्ये त्वष्टपलसम्मितमिति कटशर्करादीनां प्रत्येकं द्वे द्वे पले इत्येवमष्टपलत्वं मन्यन्ते| तन्न, शङ्खनाभिप्रधानत्वादेव क्षारस्य; एवं च विश्वामित्रभोजोक्तभागकल्पना निरस्ता; तदुक्तभागग्रहणेऽपि शङ्खनाभेरप्राधान्यं स्यात्| द्विद्रोणग्रहणेन त्रिभागावशेषं क्षारोदकं सर्वत्र परिभाषयन्ति वृद्धाः, प्रायेण हि विमिश्रितं क्षारद्रोणमाहुः; उदकद्रोणैः षड्भिरिति षट्त्रिंशदधिकपञ्चदशशतोदकपलैः सह विपचेदित्यर्थः; ततस्तस्य पच्यमानस्य तैक्ष्ण्याच्छरक्तपिच्छिलादयो गुणाः षोडशांशावशिष्टे षण्णवतिपलप्रमाणे भवन्ति| अन्ये तु वदन्ति- न चात्र चतुर्भागाद्यवशेषणादिपरिभाषा व्याप्रियते, तस्माच्छनैः शनैस्तावद्विपचेद्यावद्रागादिगुणयुक्तः क्वाथो भवति क्षारसञ्ज्ञित इति| षण्णवतिपलप्रमाणे तु क्षारोदके कटशर्करादीनां समभागानां चतुर्थांशमावापमिच्छन्ति ||११-१२||

Adhikarana 11 (13) · Śloka 13

प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलीपूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः | स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः ||१३||

🔊 Audio coming soon

सप्रतीवापं पाक्यसञ्ज्ञं तीक्ष्णं प्रतिपादयन्नाह- प्रतीवापे यथालाभमित्यादि| प्रतीवापे इति क्षिप्ते आवापे पुनरपरद्रव्यप्रक्षेपः प्रतीवापः| द्रवन्ती दन्तीभेदः, संवरीति भादानके, लाङ्गली कलिका(हा)रिका; पूतीकप्रवालाः कण्टकिकरञ्जपल्लवाः, अन्ये तु ‘चिरिबिल्वपल्लवपत्रं च’ इति पठन्ति; तालपत्री मूषली, कनकक्षीरी सुवर्णक्षीरी , कङ्गुष्ठमित्यन्ये| शुक्तिप्रमाणाः प्रत्येकमर्धपलप्रमाणाः| स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्ण इति स एव संव्यूहिमसञ्ज्ञः क्षारो दन्त्यादिद्रव्यप्रतिवापेन सहितः पक्वः पाक्यसञ्ज्ञो भवति तीक्ष्णश्चेत्यर्थः| न चास्य तीक्ष्णदोषः, कुतः? अतितीक्ष्णः क्षारस्य दोषः| अन्ये तु ‘स एव सप्रतीवाप’ इत्यादिपाठस्थाने ‘स च पूर्ववत् पक्वस्तीक्ष्ण’ इति पठन्ति||१३||

Adhikarana 12 (14) · Śloka 14

तेषां यथाव्याधिबलमुपयोगः ||१४||

🔊 Audio coming soon

तेषां क्षाराणाम्||१४||

Adhikarana 13 (15) · Śloka 15

क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् ||१५||

🔊 Audio coming soon

कालवशाद्धीनौषधिवशाद्वा मृदौ क्षारे बलकरणायावापमाह- क्षीणबले त्वित्यादि| क्षीणबले हीनशक्तौ क्षारे क्षारोदकमावपेत्, पूर्वकल्पेन कृतं क्षारोदकं प्रक्षिपेत्, प्रक्षिप्य पुनर्विपचेदिति| बलकरणार्थं तीक्ष्णादिशक्त्युपचयार्थम्||१५||

Adhikarana 14 (16) · Śloka 16

भवतश्चात्र- नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः | अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः ||१६||

🔊 Audio coming soon

क्षारगुणदोषान् प्रतिपादयन्नाह- भवतश्चात्र नैवातीत्यादि| अतिशब्दस्तीक्ष्णमृदुशुक्लैः सह प्रत्येकं सम्बध्यते; अनतिशुक्लत्वात् प्रतिवापाल्पता सूचिता भवति; अन्ये त्वनतिशब्दं शुक्लेन सम्बध्नन्ति| श्लक्ष्णः अकर्कशः; अन्ये तु श्लक्ष्णस्थाने ‘मृत्स्न’ इति पठन्ति, मृत्स्नस्त्वगिन्द्रियसुखः| अविष्यन्दी योऽवचारितो न प्रसर्पति| शिव इति सौम्य उच्यते; शिवस्थाने केचित् ‘सम’ इति पठन्ति, तत्र नातिसान्द्रो नातिद्रव इत्यर्थः| शीघ्रः शीघ्रकारी| केचित् क्षारगुणेषु मध्ये ‘सुखनिर्ग्राह्यो दोषघ्नः’ इति गुणद्वयं पठन्ति; ‘सुखनिर्ग्राह्यः सुखनिर्वर्त्यः, दोषघ्नो दोषमात्रानुसारी; दोषशब्दोऽत्र व्याधौ वर्तते’ इति च व्याख्यानयन्ति| नैवातितीक्ष्ण इत्यादिनैवाष्टसङ्ख्या लब्धा, ‘पुनरष्टगुण’ इति यत् कृतं तत् कटुरसादिगुणातिरेकत्वनिषेधार्थम्||१६||

Adhikarana 15 (17) · Śloka 17

अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः | सान्द्रताऽपक्वता हीनद्रव्यता दोष उच्यते ||१७||

🔊 Audio coming soon

परिहारार्थं दोषानधिकृत्याह- अतिमार्दवेत्यादि| अतिशब्दो मार्दवश्वैत्यादिभिः सह प्रत्येकं सम्बध्यते| श्वैत्यं शुक्लता| केचित् क्षारदोषान् सार्धश्लोकेनाधीयते| तद्यथा- “अत्यौष्ण्यमतिपैच्छिल्यमतितैक्ष्ण्यं विसर्पिता| अत्यर्थं मार्दवं श्वैत्यमत्यर्थं सान्द्रमेव च| हीनौषधमविपक्वत्वं क्षारदोषा नव स्मृताः”- इति| अत्यर्थंशब्दः प्रत्येकं सम्बध्यते| सङ्ख्येयनिर्देशादेव सङ्ख्या प्राप्ता, पुनर्नवेति सङ्ख्याकरणं क्षारातिसेवया पुंस्त्वहन्तृत्वदोषसङ्ख्याशङ्कानिरासार्थम्| केचित् क्षारदोषान्न पठन्ति, उक्तगुणविपर्ययेणैव दोषाणां लब्धत्वादिति||१७||

Adhikarana 16 (18) · Śloka 18

तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽसम्बाधेऽग्रोपहरणीयोक्तेन विधानेनोपसम्भृतसम्भारं, ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा , शलाकया क्षारं प्रतिसारयेत्, दत्त्वा वाक्शतमात्रमुपेक्षेत ||१८||

🔊 Audio coming soon

इदानीं क्षारप्रतिसारणविधिमधिकृत्याह- तत्र क्षारसाध्येत्यादि| क्षारसाध्यव्याधिव्याधितमिति क्षारस्य साध्यो यो व्याधिस्तेन व्याधितं दुःखितम्| निवातातपे देशे इति निशब्दो वातातपाभ्यां सह प्रत्येकं सम्बध्यते| असम्बाधेऽसङ्कीर्णदेशे, अग्रोपहरणीयोक्तेन विधानेनेति ‘प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु’ (सू. अ. ५) इत्यादिकेन विधिना; अस्य च क्षारं प्रतिसारयेदित्यनया क्रियया सम्बन्धः| उपसम्भृतसम्भारमिति यन्त्रशस्त्रक्षाराग्निशलाकेत्यादिसमीपस्थापितोपकरणम्| ततः सम्भृतसम्भारानन्तरम्| अस्य व्याधितस्य, तमवकाशं तं प्रदेशं, निरीक्ष्येति व्याध्याकारविज्ञानार्थम्, अवघृष्येति पित्तदुष्टम्, अवलिख्येति वातदुष्टं सुप्तकठिनत्वचं, प्रच्छयित्वेति कफदुष्टं कण्डूश्वयथुप्रबलं, पश्चाच्छलाकया क्षारं प्रतिसारयेदित्यर्थः; ‘क्षारं प्रतिसारयेत्’ इत्यस्य स्थाने ‘क्षारं पातयित्वा’ इति केचित् पठन्ति| कालावधिं प्रतिपादयति- दत्त्वा वाक्शतमात्रमित्यादि|- वाक् लघ्वक्षरोच्चारणं ; वाक्शतमात्रमिति मात्रग्रहणेनैतद्बोधयति- एतावता कालेन यो दहति स यथोक्तगुणः क्षारः| अन्ये मात्रस्थाने एवशब्दं पठन्ति, “वाक्शतमेव नाधिकं न न्यूनं च’’ इति च व्याख्यानयन्ति| इदानीं क्षारस्य प्रतिदोषं लेपप्रमाणमवचारणकालं च नियमयन्नाह- पद्मपत्रसम इत्यादि| इमं च पाठं केचिदाचार्या न पठन्ति, स चाभावात् समग्रो न लिखित इति||१८||

Adhikarana 17 (19) · Śloka 19

तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् |१९|

🔊 Audio coming soon

सम्यग्दग्धलक्षणं वक्तुमाह- तस्मिन्निपतित इत्यादि| व्याधिशब्दोऽत्र दुष्टमांसादिषु वर्तते, नतु दुःखसञ्ज्ञिके व्याधौ; कुतः? तत्र कृष्णताभावात्| एतत्तु सामान्यं सम्यग्दग्धलक्षणम्|१९|-

Adhikarana 18 (19-21) · Śloka 21

तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः ||१९|| अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते | इदमालेपनं तत्र समग्रमवचारयेत् ||२०|| अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च | प्रपेष्य समभागानि तेनैनमनुलेपयेत् ||२१||

🔊 Audio coming soon

सम्यग्दग्धे पश्चात्कर्माह- तत्राम्लवर्ग इत्यादि| अम्लवर्गः सौवीरकतुषोदकधान्याम्लादिः| स्थिरमूलत्वात् दृढमूलत्वादित्यर्थः| न शीर्यते न शटति| इदमिति अग्रे वक्ष्यमाणम्| तत्रेति अशीर्यमाणे क्षारदग्धे| समग्रं सर्वम्| अवचारयेत् प्रयोजयेत्| तदेवालेपनमाह- अम्लेत्यादि| अम्लकाञ्जिकबीजानिति अम्लकाञ्जिकाधःस्थितं द्रव्यम्| तेनेति समभागपिष्टेनाम्लकाञ्जिकबीजादिना| एनं क्षारदग्धम्||१९-२१||

Adhikarana 19 (22) · Śloka 22

तिलकल्कः समधुको घृताक्तो व्रणरोपणः |२२|

🔊 Audio coming soon

क्षारकृतव्रणरोपणोपायमाह- तिलकल्क इत्यादि|२२|-

Adhikarana 20 (22-25) · Śloka 25

रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः ||२२|| आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति | एवं चेन्मन्यसे वत्स! प्रोच्यमानं निबोध मे ||२३|| अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत् | कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा | अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे ||२४|| माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति | माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः ||२५||

🔊 Audio coming soon

अग्नितुल्यस्य क्षारस्याग्नेयेन काञ्जिकेन कथं शमनमित्याशङ्क्याह- रसेनेत्यादि| अम्लेन तीक्ष्णेन वीर्योष्णेनाग्नेयेन रसेन योजितोऽग्नितुल्यः क्षारः कथं प्रशाम्यतीत्यर्थपिण्डः| उत्तरमाह- एवं चेन्मन्यसे वत्सेत्यादि| विभावयेत् जानीयादित्यर्थः| कटुकस्तत्र भूयिष्ठ इति तत्र पञ्चरसे क्षारे कटुकोऽनुरसः, लवणस्तु भूयिष्ठ इति योज्यं; केचित् कटुकमेव भूयिष्ठं मन्यन्ते; तन्न, यतो जना अम्लभक्षणे माधुर्यार्थं लवणमेव रसं प्रयुञ्जते, लवणवर्गे क्षारस्य पठितत्वाच्च, कटुवर्गे चापठितत्वात्; यद्येवं ‘स खल्वाग्नेयौषधिभूयिष्ठत्वात् कटुक’ इति तर्हि कथम्? उच्यते, लवणवर्गपाठादेव क्षारस्य लवणत्वे सिद्धे कटुक इति विध्यर्थमेव| स तीक्ष्णलवणो रसे इति स क्षार एवङ्गुणः| अद्भिः पानीयैः आप्लुतो ‘बोलि(डि)त’ इति लोके||२२-२५||

Adhikarana 21 (26) · Śloka 26

तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च |२६|

🔊 Audio coming soon

इदानीं चिकित्सान्तरकथनाय पुनः सम्यग्दग्धलक्षणमाह- तत्र सम्यग्दग्ध इत्यादि| तत्रेति सम्यग्दग्धादिमध्ये| लाघवमङ्गानाम्| कृते क्षारनिर्वापण एते विकारोपशमादयो लक्षणान्युत्तरकालं ज्ञेयानि; “एतद्विकारोपशमादिकं किञ्चित्तात्कालिकं लक्षणं, किञ्चिदुत्तरकालिकम्” इत्यन्ये|२६|-

Adhikarana 22 (26) · Śloka 26

हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च |२६|

🔊 Audio coming soon

हीनदग्धलक्षणमाह- हीनदग्धे इत्यादि| हीनदग्धे तोदादयो वातश्लैष्मिकाः| जाड्यं जडता| अन्ये त्वत्र ‘दुर्दग्धे तोददाहकण्डूजाड्यानि व्याधिवृद्धिश्च’ इति पठन्ति, “तस्मिन् स्थाने एतानि वातपित्तरक्तकफप्रकोपकार्याणि” इति च व्याख्यानयन्ति|२६|-

Adhikarana 23 (26) · Śloka 26

अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा ||२६||

🔊 Audio coming soon

अतिदग्धलक्षणमाह- अतिदग्धे दाहेत्यादि| अतिदग्धे दाहपाकादयः पैत्तिकाः, रागो रक्तता, अङ्गमर्दो वेदनाविशेषः, क्लमो ग्लानिः||२६||

Adhikarana 24 (27) · Śloka 27

क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् ||२७||

🔊 Audio coming soon

क्षारदग्धव्रणव्यापच्चिकित्सां वक्तुमाह- क्षारदग्धव्रणमित्यादि| अन्ये तु ‘यथाविधि यथादोषम्’ इति पठन्ति, “हेतुव्याधिप्रत्यनीकेन विधिना” इति व्याख्यानयन्ति||२७||

Adhikarana 25 (28) · Śloka 28

अथ नैते क्षारकृत्याः- तद्यथा- दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीण- तृष्णामूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः ||२८||

🔊 Audio coming soon

अतः क्षारस्य द्विविधस्यापि येषु प्रतिषेधस्तानाह- अथ नैते क्षारकृत्या इत्यादि| एषु च यथादोषं केषुचिदेव प्रतिसारणीयक्षारनिषेधः, केषुचित् पानीयनिषेधः, केषुचिदुभयनिषेधः| सर्वाङ्गशूनोदरीति सर्वाङ्गेन शूनो य उदरी तस्यैव क्षारनिषेधः कृतः; क्षत उरःक्षतः, तेन क्षीणः; तृष्णामूर्च्छोपद्रुत इति उपद्रुतशब्दस्तृष्णामूर्च्छाभ्यां सह प्रत्येकं सम्बध्यते; क्लीबः क्षीणशुक्रः, अशुक्रस्य पुनः क्षाराधिकार एव नास्ति ; उद्वृत्तापवृत्तफलयोनय इति उद्वृत्तापवृत्तशब्दौ फलयोनिभ्यां सह प्रत्येकं सम्बध्येते; फलमण्डं, योनिर्गर्भाशयः; उद्वृत्तफलः स्थानादूर्ध्वगताण्डः, अपवृत्तफलः स्थानात् स्रस्ताण्डः; उद्वृत्तयोनिः स्थानादूर्ध्वगतयोनिः, अपवृत्तयोनिः स्थानात् स्रस्तयोनिः; अन्ये तु फलयोनिशब्देन समुदितेन गर्भाशयमाचक्षते, तत्रायमर्थः- उद्वृत्तफलयोनिः स्थानादूर्ध्वगतगर्भाशया, अपवृत्तफलयोनिः स्थानात् स्रस्तगर्भाशयेत्यर्थः; अपरे तु फलशब्दं रजसि वर्तयन्ति, कुतः? गर्भस्य फलसाधनत्वात्; तेन यस्याः योनेः सकाशात् फलं रज उद्वृत्तमूर्ध्वगतं अपवृत्तमधोगतम्, सा उद्वृत्तापवृत्तफलयोनिः ||२८||

Adhikarana 26 (29) · Śloka 29

तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तःशेफःस्रोतःस्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् ||२९||

🔊 Audio coming soon

व्याधिपुरुषविशेषेण निषेधमुक्त्वा प्रदेशविशेषेण वक्तुमाह- तथेत्यादि| तरुणास्थीनि घ्राणकर्णग्रीवाक्षिपुटेषु तरुणसञ्ज्ञान्यस्थीनि; सेवन्यः सप्त, पञ्च शिरसि, एका जिह्वायाम्, एका शेफसि; धमन्यश्चतुर्विंशतिर्नाभिप्रभवाः; नाभिरिति मर्मग्रहणादेव नाभिः प्राप्ता, पुनर्नाभिग्रहणं नाभ्यां दोषातिशयसूचनार्थं; शेफो मेढ्रः| अनुक्तमुपगृह्णन्नाह- अल्पमांसेषु च प्रदेशेषु जानुपादोपरि ललाटादिषु च| अक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगादिति अन्यत्रान्यस्मिन् रोगे, वर्त्मरोगे पुनरक्ष्णोरपि क्षारं दद्यादित्यर्थः||२९||

Adhikarana 27 (30) · Śloka 30

तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति (दुर्बलबालस्थविरादीन् प्रतिसारणीय इति) ||३०||

🔊 Audio coming soon

अवस्थावशान्निषेधार्थं दर्शयन्नाह- तत्र क्षारसाध्येष्वित्यादि ||३०||

Adhikarana 28 (31) · Śloka 31

भवति चात्र- विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः | स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ||३१||

🔊 Audio coming soon

इदानीं सम्यक्प्रयुक्तस्य क्षारस्य महागुणत्वमसम्यक्प्रयुक्तस्य तु महादोषत्वं निदर्शयन्नाह- भवति चात्रेत्यादि| विषाग्निशस्त्राशनिमृत्युकल्प इति मृत्युशब्दो विषादिभिः सह प्रत्येकं सम्बध्यते, तेनायमर्थः- विषादिभिः कृत्वा यो मृत्युस्तेन मृत्युना कल्पः सदृशो भवति; तत्र विषवद्वेदनाभिः सर्वाङ्गानुसारी भूत्वा मारयति, अग्निवद्विस्फोटकादिकारणो भूत्वा, शस्त्रवत् सिरादिच्छेदी भूत्वा, अशनिवत् सद्यो मारयतीति दृष्टान्तचतुष्टयमुपन्यस्तम्||३१||

Adhikarana puShpikA · Śloka 11

इति सुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविधिर्नामैकादशोऽध्यायः ||११||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने क्षारपाकविधिर्नामैकदशोऽध्यायः||११||