Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. viśikhānupravēśanīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| विशिखाऽत्र कर्ममार्गः, विशिखाया(यां) अनुप्रवेशनं तदधिकृत्य कृतोऽध्यायो विशिखानुप्रवेशनीयः; तं व्याख्यास्यामः||१-२||

Adhikarana 2 (3) · Śloka 3

अधिगततन्त्रेणोपासिततन्त्रार्थेन दृष्टकर्मणा कृतयोग्येन शास्त्रं निगदता राजानुज्ञातेन नीचनखरोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्डहस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्याणाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुसहायवता वैद्येन विशिखाऽनुप्रवेष्टव्या ||३||

🔊 Audio coming soon

यादृशस्य वैद्यस्य कर्ममार्गप्रवेशाधिकारस्तादृशं वक्तुमाह- अधिगततन्त्रेणेत्यादि| अधिगततन्त्रेण पठितशास्त्रेण| उपासिततन्त्रार्थेन गुरुपार्श्वादभ्यस्तशास्त्रार्थेन, दृष्टकर्मणा दृष्टच्छेद्यादिस्नेहादिकर्मणा, कृतयोग्येन कृतकर्माभ्यासेन, शास्त्रं निगदता पाठार्थाभ्यां नियमेनादेशेन शास्त्रं वदता, एतेन स्वावर्तितशास्त्रता उक्ता भवति; अन्ये तु ‘शास्त्रार्थं निगदता’ इति पठन्ति, ‘शास्त्राणि निगदता’ इत्यपरे| राजानुज्ञातेन राज्ञा अभिमतेन, राजा हि प्रजापालनतत्परः, तत्प्रमादाद्वैद्यप्रतिरूपका राष्ट्रं चरन्ति कण्टकभूता लोकस्य, तस्माद्राज्ञा परीक्ष्यानुज्ञातेन विशिखाऽनुप्रवेष्टव्येति| कर्मज्ञतां शास्त्रज्ञतां च वैद्यस्याभिधाय बाह्यवेशमधिकृत्याह- नीचनखरोम्णेत्यादि| क्लृप्तत्वान्नीचमल्पं नखं रोम च यस्य तेन; नीचनखत्वाच्छुचिता कर्मसौकर्यं च, नीचरोमत्वादार्जवं, रसवत्यामबाध इत्यपरे| शुचिनेति बाह्यस्नानादिशौचयुक्तेन, कुतः? बाह्यवेशाधिकारात्; बाह्यशौचायोगाल्लोके विगर्हणीयः, अन्तःशौचं तु सुमनसेत्यनेनैव बोद्धव्यम्| शुक्लवस्त्रपरिधानं मङ्गलार्थं शौचार्जवार्थं वा| छत्रवता आतपरजोवर्षापन्नगादिनिषेधार्थं छत्रयुक्तेन| दण्डहस्तेन दण्डोऽवलम्बनदण्डः, तस्य धारणं स्खलितादिनिषेधार्थम्| सोपानत्केन प्राणिहितासहितेन, प्राणिहिताधारणं कण्टकादिनिषेधार्थम्| अनुद्धतवेशेन साधुजनवेशेन, एतेनायुक्तकायवेशनिषेधः; अन्ये तु नानावस्त्राङ्गरागमाल्यानुलेपनविचित्रभूषणादिभिरुद्धतो वेशः, अतो विपर्ययेणानुद्धत इति मन्यन्ते | कायं नियम्य मनो नियमयन्नाह- सुमनसा शोभनमनसा, अक्रौर्यादिगुणयुक्तमनसेत्यर्थः; दौर्मनस्यं तु यात्रायां न प्रशस्यत इति सुमनसा भवितव्यम्| वाचं नियमयन्नाह- कल्याणाभिव्याहारेणेति|- कल्याणं मङ्गलम्, अभिव्याहारो भाषितं, यस्य स तथा; तच्च सर्वजनहृदयग्रहणार्थम्| कायवाङ्मनःसु त्रिष्वपि नियमयन्नाह- अकुहकेनेति; कुहकः शास्त्रहीनः परमविश्वासकारको मायावी, न कुहकोऽकुहकः; अन्ये त्वकुहकेन अविस्मापकेन, दम्भाद्ययोगादविस्मापककायादिवेशेनेत्यर्थः| सुसहायवता साधुसहायेन, अन्यथाऽन्तःपुरचारिणो वैद्यस्य सहायदोषेण दोषः स्यात्; सहायश्चात्मरक्षार्थमातुरपरिचर्यार्थं च| ननु, प्राणिनां जीवतामेव सद्यस्करुधिरोपदेशात् कथं ‘बन्धुभूतेन भूतानाम्’ इत्युक्तं? सत्यं, विधिप्रापितत्वाददोषः, आलम्भयोगे पशुहननवत्||३||

Adhikarana 3 (4) · Śloka 4

ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृहमभिगम्य, उपविश्य, आतुरमभिपश्येत् स्पृशेत् पृच्छेच्च | त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो वेदितव्या इत्येके; तत्तु न सम्यक्, षड्विधो हि रोगाणां विज्ञानोपायः, तद्यथा- पञ्चभिः श्रोत्रादिभिः प्रश्नेन चेति ||४||

🔊 Audio coming soon

ततो दूतनिमित्तेत्यादि| गमनाय प्रश्नाय वा आगतः पुरुषो दूतः, निमित्तमनुकूलं सुरभिवातादि, शकुनं पक्षिविशेषप्रशस्तवाक्यादि, मङ्गलं स्वस्तिकपूर्णकुम्भादि, एषामनुलोम्येन प्रशस्ततयेत्यर्थः| त्रिभिरेतैरित्यादि त्रिभिरेतैर्विज्ञानोपायैरनन्तरोक्तैर्दर्शनस्पर्शनप्रश्नैः| हिशब्दो यस्मादर्थे| श्रोत्रादिभिरिति आदिशब्दात्त्वङ्नेत्ररसनघ्राणानि गृह्यन्ते||४||

Adhikarana 4 (5) · Śloka 5

तत्र श्रोत्रेन्द्रियविज्ञेया विशेषा रोगेषु व्रणास्रावविज्ञानीयादिषु वक्ष्यन्ते- ‘तत्र सफेनं रक्तमीरयन्ननिलः सशब्दो निर्गच्छति’(सू. अ.२६) इत्येवमादयः, स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कशमृदुकठिनत्वादयः (स्पर्शविशेषा ) ज्वरशोफादिषु, चक्षुरिन्द्रियविज्ञेयाः शरीरोपचयापचयायुर्लक्षणबलवर्णविकारादयः, रसनेन्द्रियविज्ञेयाः प्रमेहादिषु रसविशेषाः, घ्राणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व्रणानामव्रणानां च गन्धविशेषाः, प्रश्नेन च विजानीयाद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्तिमप्रवृत्तिं कालप्रकर्षादींश्च विशेषान् | आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् ||५||

🔊 Audio coming soon

तत्र श्रोत्रेत्यादि| शब्देन्द्रियविज्ञेया विशेषाः सन्ति रोगेषु, ते व्रणास्रावविज्ञानीयादिषु वक्ष्यन्ते इति सम्बन्धः| शरीरोपचयेत्यादि उपचयः स्थौल्यम्, अपचयः कार्श्यं, बलमत्रोत्साहः| ननु प्रमेहादिषु रसा मधुरादयो मक्षिकापिपीलिकाद्युपसर्पणेन भिषग्भिरनुमेयाः, तत् कथं रसनेन्द्रियविज्ञेया इति? उच्यते, नात्र भिषजां रसनेन्द्रियं किन्तु पिपीलिकादीनामित्यदोषः| अरिष्टलिङ्गादिषु ये व्रणानामव्रणानां च गन्धविशेषास्ते घ्राणेन्द्रियविज्ञेया इति सम्बन्धः| देशस्त्रिविधो जाङ्गलानूपसाधारणभेदात्| जातिशब्दो ब्राह्मणादिषु वर्तते| कालो द्विविधो नित्यग आवस्थिकश्च; नित्यगः ऋतुलक्षणः; आवस्थिको द्विविधः- स्वस्थस्य बाल्यादिभेदेन, व्याधितस्य ज्वरारम्भादिकालावस्थया च| सात्म्यमिति यद्यस्य सेवितं सत् सुखाय सम्पद्यते तत्तस्य सात्म्यं; तच्च द्विविधं चेष्टाख्यमाहाराख्यं च; चेष्टाख्यं कायवाङ्मनोभेदात्त्रिविधम्, आहाराख्यं रसभेदात् षड्विधम्| आतङ्कसमुत्पत्तिमिति समुत्पत्तिः कारणमुच्यते, तच्च बलवद्विग्रहादि| वेदनासमुच्छ्रायमिति वेदना वातादिवेदनास्तोदादयः, तासां समुच्छ्राय उद्गतिः| बलं व्यायामगम्या शक्तिः| अन्तरग्निमिति कीदृशोऽन्तरग्निः? समो विषमो मन्दो वा| वातमूत्रपुरीषाणामित्यत्रादिशब्दो लुप्तो ज्ञेयः, तेनार्तवाधोगतरक्तपित्तादीनां ग्रहणम्| कालप्रकर्षादींश्च विशेषानिति कियान् कलोऽस्मिन् व्याधावुत्पन्न इत्यादीन् भेदान्, चकाराद्गुह्यदेशप्रवृत्तपूयादीनां ग्रहणम्| अन्ये तु ‘देशकालजातिसात्म्यं’ इति समासान्तं पठन्ति, सात्म्यशब्दो देशादिभिः सह प्रत्येकं सम्बध्यते; देशस्त्रिविधो जाङ्गलादिभेदेन, तद्वैपरीत्येन देशसात्म्यमित्यादि व्याख्यानयन्ति| अपरे तु ‘देशकालजातं’ इति पठन्ति, व्याख्यानयन्ति च- जातशब्दो देशकालाभ्यां सह प्रत्येकं सम्बध्यते; देशो भूमिरातुरश्च; कस्मिन् देशे जाङ्गलेऽनूपे साधारणे वाऽयं दोषः सञ्चितः? कस्मिन् प्रकुपितः? कस्मिन्नयं व्याधिरुत्पन्न? इति; तथा, आतुरेऽपि गलादौ कस्मिन्नवयवे श्लेष्मस्थाने पित्तस्थाने वा?| आत्मसदृशेषु दोषसदृशेषु, विज्ञानाभ्युपायेषु षड्विधेषु श्रोत्रत्वक्चक्षूरसनघ्राणप्रश्नेषु| तत्र वातसदृशेषु विज्ञानाभ्युपायेषु पञ्चेन्द्रियप्रश्नेषु व्रणे सशब्दफेनरक्तानिलादिनिर्गमनं श्रवणेन्द्रियग्राह्यं, पारुष्यरौक्ष्यादिकं त्वगिन्द्रियग्राह्यं, भस्मकपोतास्थिसवर्णत्वं चक्षुरिन्द्रियग्राह्यं, कटुगन्धलाजगन्धादित्वं घ्राणेन्द्रियग्राह्यं, कषायरसत्वं रसनेन्द्रियग्राह्यं, तोदनभेदनच्छेदनादिवेदनाविशेषाः प्रश्नग्राह्याः; पित्तसदृशेषु विज्ञानाभ्युपायेषु श्वयथुव्रणादीनामौष्ण्यं त्वगिन्द्रियग्राह्यं, नीलपीतवर्णत्वं चक्षुरिन्द्रियग्राह्यं, कट्वम्लरसत्वं रसनेन्द्रियग्राह्यं, तीक्ष्णातसीगन्धत्वं घ्राणेन्द्रियग्राह्यम्, ओषचोषपरिदाहादिका वेदनाविशेषाः प्रश्नग्राह्याः; श्लेष्मसदृशेषु विज्ञानाभ्युपायेषु स्निग्धपैच्छिल्यादिकं त्वगिन्द्रियग्राह्यं, श्वेतत्वं चक्षुरिन्द्रियग्राह्यं, माधुर्यादि रसनेन्द्रियग्राह्यं, विस्रगन्धादित्वं घ्राणेन्द्रियग्राह्यं, कण्डूगुरुत्वादिवेदनाविशेषाः प्रश्नग्राह्या इति| वैद्यो जानीयादिति कान्? व्याधीन्; अधिकारवशादक्षरैरनुक्तानपि; केषु सत्सु? षड्विधेष्वपि विज्ञानाभ्युपायेष्वात्मसदृशेषु वातपित्तश्लेष्मसदृशेषु; कैर्जानीयात्? तत्स्थानीयैः तेषां शब्दादीनां स्थानानि श्रोत्रादीनि, तेष्वधिकृतैः शब्दस्पर्शरूपरसगन्धैः तत्स्थानीयैः; एतेनैतदुक्तं- वातादिलिङ्गैरायुर्वेदेष्वनिर्दिष्टनामधेयानपि व्याधीन् कुशाग्रमतिर्वैद्यो जानीयादिति| पञ्जिकाकारस्तु दर्शनादिपरीक्षां त्रिविधामेव पठति| ‘मिथ्यादृष्टा विकारा हि’ इत्यादिश्लोकान्ते “तस्मात् परीक्ष्याः सततं भिषजा सिद्धिमिच्छता| युक्त्यैव व्याधयः सर्वैः(र्वे) प्रमाणैर्दर्शनादिभिः”- इति श्लोकमधीते, व्याख्यानयति च- दर्शनादिभिरित्येवं कर्तव्ये यत् ‘प्रमाणैः’ इत्यधिकं करोति, तदधिकप्रमाणप्राप्त्यर्थं, तेन गन्धरसशब्दानामप्यवरोधः; ये त्वत्राक्षरैः षड्विधामपि परीक्षां पठन्ति, तेषां सम्यक् शास्त्रावबोधो नास्तीति भाषते| ‘आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात्’ इत्यपि न पञ्जिकाकारः पठति||५||

Adhikarana 5 (6) · Śloka 6

एवमभिसमीक्ष्य साध्यान् साधयेत्, याप्यान् यापयेत्, असाध्यान्नैवोपक्रमेत, परिसंवत्सरोत्थितांश्च विकारान् प्रायशो वर्जयेत् ||६||

🔊 Audio coming soon

एवमित्यादि| साध्यं द्विविधं- सुसाध्यं, दुःसाध्यं च; असाध्यं द्विविधं- याप्यं, प्रत्याख्येयं च| परिसंवत्सरेत्यादि परिसंवत्सरोत्थिताः संवत्सरातीताः सर्वर्तु च महाबला ये तान् परिवर्जयेदिति; यदि ह्येकदोषजास्ते भवेयुरेवं तेषां तद्दोषप्रशमनर्तुषु प्रशमो भवेदल्पता वा, स च न भवति, तेन तेषां त्रिदोषजत्वाधिगमः, अतस्तान् परिवर्जयेत्; अथवा संवत्सरेणोत्तरोत्तरधात्वनुक्रमादसाध्यत्वं प्रायशः| प्रायशो बाहुल्येन, नावश्यतया; तेन केचिद्रक्तगुल्मादयः संवत्सरानन्तरमुपक्रमयोग्या भवन्ति, अर्दितस्तु त्रिभिर्वर्षैः साध्य इति||६||

Adhikarana 6 (7) · Śloka 7

भवति चात्र- मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च | तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ||७||

🔊 Audio coming soon

मिथ्यादृष्टा इति रोगिणो विकारा ये मिथ्यादृष्टा असम्यग्दृष्टाः, तथा दुराख्याता रोगिणा न याथातथ्येनोक्ताः, तथा दुष्परिमृष्टाः दुष्परिमर्शिताः , ते चिकित्सकं मोहयेयुः, एवमविज्ञाता ये रोगास्तान् परिवर्जयेत्||७||

Adhikarana 7 (8) · Śloka 8

तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकित्स्यतमा भवन्ति | तद्यथा- श्रोत्रियनृपतिस्त्रीबालवृद्धभीरुराजसेवककितवदुर्बलवैद्यविदग्धव्याधिगोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानां च; एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि प्राप्नोति ||८||

🔊 Audio coming soon

तत्र साध्या इत्यादि| श्रोत्रियस्य वेदार्थपरिपालनपरस्य नित्यं स्नानादिभिर्व्याधिपरिवृद्धिः; नृपतेरपि स्वातन्त्र्याद्यत्किञ्चनकारित्वात्, अन्ये तु सौकुमार्यात् क्रियाऽसहत्वात्; स्त्रीणां लज्जया वेगाद्युपरोधाद्गुह्यव्याधेरप्रकाशनाच्च; बालवृद्धयोर्विरेचनादिक्रियायोग्यत्वेनाल्पक्रियत्वात्, अन्ये तु बालवृद्धवनिताः सुकुमारशरीरत्वाद्भेषजासहिष्णवः; भीरुरल्पसत्त्वत्वान्न शक्नोति सोढुं क्रियां; राजसेवकस्य राजायत्तत्वात्; कितवस्य व्यसनित्वात्, कितवो द्यूतकारः; दुर्बलस्य बालवृद्धयोरिव; वैद्यविदग्धस्याभिमानेन निर्दिष्टान्यथाकारित्वात्, वैद्यविदग्धो वैद्याभिमानी, पल्लवग्राहीत्यर्थः; व्याधिगोपकस्य व्याधेरकथनादेव; दरिद्रस्य द्रव्याभावत्वे औषधाभावात्; कृपणस्य लोभेन भैषज्यानुपादानात्; क्रोधनस्य कोपेन रोगपरिवृद्धेः; अनात्मवतोऽपथ्याचरणत्वात्, अनात्मवान् अजितेन्द्रियः; अनाथानां परिचारकाभावात्, अनाथा एकाकिनः||८||

Adhikarana 8 (9) · Śloka 9

भवति चात्र- स्त्रीभिः सहास्यां संवासं परिहासं च वर्जयेत् | दत्तं च ताभ्यो नादेयमन्नादन्यद्भिषग्वरैः ||९||

🔊 Audio coming soon

इदानीं वैद्यस्य विशिखायामन्तःपुरचारिणः प्रमाददोषद्वारं नियमयन्नाह,- भवति चात्रेत्यादि| सहास्यामेकत्र स्थितिं, संवासं प्रतिवेशवासितां, परिहासं हास्यम्| अन्नादन्यदिति अन्नमन्नपानद्रव्यं गृह्णीयात्, तस्य वृत्तिहेतुत्वात्; राज्ञाऽनुमतं तु सर्वमेव गृह्णीयादिति| संवासमित्यत्र केचित् संवादमिति पठन्ति||९||

Adhikarana puShpikA · Śloka 10

इति सुश्रुतसंहितायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमोऽध्यायः ||१०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने विशिखानुप्रवेशनीयो नाम दशमोऽध्यायः समाप्तः||१०||