Adhikarana 1 (1-2) · Śloka 2
अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इत्यादि| अग्निना कृत्वा यत् कर्म, अग्नेः सम्बन्धि वा यत् कर्म, तदग्निकर्म; तस्य विधिर्विधानं; तद्यस्मिन्नध्याये विद्यते तं व्याख्यास्यामः| ‘अग्निकर्मीयम्’ इत्यन्ये पठन्ति, “अग्निकर्माधिकृत्य कृतोऽग्निकर्मीयः” इति व्याख्यानयन्ति च||१-२||
Adhikarana 2 (3) · Śloka 3
क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः, तद्दग्धानां रोगाणामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ||३||
अग्निकर्ममाहात्म्यमाह- क्षारादित्यादि|- क्षाराद्गुरोः सकाशादग्निर्गरीयान् गुरुतरः| कुत्र पुनः क्षारादग्निर्गरीयानित्याह- क्रियासु कर्मसु, न तु गुणेषु; गुणेषु पुनस्त्रिदोषघ्नच्छेद्यभेद्यलेख्यकरणादिषु क्षार एव प्रधानः; एतेन स्वे स्वे कृत्ये द्वयोरपि प्राधान्यमित्युक्तं; यथा- दृढप्रहारित्वेनार्जुनात् कर्णः, कर्णाद्दूरपातित्वेनार्जुनः प्रधानमिति| व्याख्यात इति कथित इत्यर्थः| प्रतिज्ञातस्य गरीयस्त्वस्य साधकं हेतुमाह- तद्दग्धानामिति|- अग्निदग्धानाम्; अपुनर्भावादिति अपुनर्भावस्तु साध्यानां सम्यग्दग्धानाम्, एतद्विपर्यये त्वग्निदग्धस्यापि पुनरुद्भवः; अन्ये त्वन्यथा समादधति- अर्बुदादयोऽग्निना समूलमुन्मूलिता मिथ्याहारादिभिः पुनर्दोषप्रकोपात्तत्स्थान एवान्ये जायमानास्तद्वदुपलभ्यन्ते| हेत्वन्तरं समुच्चिन्वन्नाह- भेषजेत्यादि| तत्साध्यत्वात् अग्निसाध्यत्वादित्यर्थः| अन्ये तु ‘स्वेदशस्त्रक्षारैः’ इति पठन्ति, तत्रायमर्थः- भगन्दरार्शसादयः पूर्वं स्विद्यन्ते, पश्चात्तेषु शस्त्रमवचार्यते; अथवा स्वेदग्रहणं भेषजोपलक्षणं, भेषजाशक्तौ शस्त्रावचारणं, शस्त्राशक्तावशेषव्याधिशमनाय क्षारः, क्षाराशक्येऽवगाढमूले व्याधावग्निरिति||३||
Adhikarana 3 (4) · Śloka 4
अथेमानि दहनोपकरणानि भवन्ति- तद्यथा- पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश्च |
तत्र, पिप्पल्यजाशकृद्गोदन्तशरशलाकास्त्वग्गतानां, जाम्बवौष्ठेतरलौहा मांसगतानां, क्षौद्रगुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ||४||
अग्न्यवचारणोपकरणानि निदर्शयन्नाह- अथेमानीत्यादि| अजाशकृत् छागपुरीषं; जाम्बवौष्टं जम्बूफलसदृशमुखाग्रा कृष्णपाषाणरचिता वर्तिः; इतरलोहास्ताम्ररजतादयः, तेषां विकारा लौहाः; क्षौद्रगुडस्नेहाश्चेति चकारात् सर्जरसमधूच्छिष्टादयः| अग्न्युपकरणराशित्रयस्य प्रत्येकं विषयं दर्शयन्नाह- तत्रेत्यादि| त्वग्गतानामिति वातकफकृतानां सुप्त्यादिविकाराणाम्| मांसगतानां वातकफजविकाराणाम्| क्षौद्रगुडस्नेहा इत्यत्रापि वातकफसम्भूतानामिति बोद्धव्यम्| ननु, काश्यपेन मुनिना सिरादिष्वग्निकर्म प्रतिषिद्धं; तथा च तद्वचनं- “न सिरास्नायुसन्ध्यस्थिमर्मस्वपि कथञ्चन| दंशस्योत्कर्तनं कार्यं दाहो वा भिषजाऽग्निना|”- इति; इह तु सिरादिष्वप्यग्निकर्मोक्तम्, इत्थं च शास्त्रान्तरविरोधः; तन्न, अत्रापि सिरास्नायुसन्ध्यस्थिच्छेदाद्रक्तातिप्रवृत्तौ व्यापत्प्रतीकारायाग्निकर्मोक्तं, न पुनः सिरादिगतरोगोच्छेदनाय, यतो मांसदाहादेव सिरादिगतरोगोच्छेदो जायत एव; तथा च भद्रशौनकः- “त्वङ्मांससंश्रितो वायुस्त्वग्दाहेनैव शाम्यति| मांसे दग्धे हि शाम्यन्ति सिरास्नाय्वस्थिसन्धिजाः”- इति||४||
Adhikarana 4 (5) · Śloka 5
तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां; तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ||५||
तस्य कालं सापवादं निर्दिशन्नाह- तत्राग्नीत्यादि| तत्राग्निकर्म सर्वर्तुषु कुर्यादित्युत्सर्गः, अन्यत्र शरद्ग्रीष्माभ्यामित्यपवादः| शरद्ग्रीष्मयोरप्यवस्थायां प्रवृत्तिमाह- तत्रापीत्यादि| तत्रापीति शरद्ग्रीष्मयोरपि, आत्ययिके आशुप्राणविनाशके, तत्प्रत्यनीकविधिं कृत्वेति तस्याग्निसमानस्य शरद्ग्रीष्माभिधानस्यर्तोः, प्रत्यनीकविधिं विपरीतविधानं शीताच्छादनभोजनप्रदेहादिकं कृत्वा; ‘अग्निकर्म कुर्यात्’ इत्यनुवर्तते| अत्र पाठे केचिद्विधिशब्दं न पठन्ति||५||
Adhikarana 5 (6) · Śloka 6
सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः; मूढगर्भाश्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||६||
सर्वाग्निकर्माङ्गविधिमाह- सर्वव्याधिष्वित्यादि| अत्रापि ‘अग्निकर्म कुर्यात्’ इति प्रत्येकं सम्बध्यते| पिच्छिलमन्नं पिच्छिलवीर्यमन्नं; शीतमृदुपिच्छिलानां वीर्याणां पित्तघ्नत्वात्| तत्र प्रदेशेषु भोजनस्य प्रतिषेधमाह- मूढगर्भाश्मरीत्यादि| एषु भोजने कृते ऊर्ध्वाधोवेगाभ्यां कर्मविघातः स्यात् क्वचिदुदरानवकाशत्वात्| केचिदत्र ‘मूढगर्भाश्मरी’ इत्यादिपाठं न पठन्ति||६||
Adhikarana 6 (7) · Śloka 7
तत्र द्विविधमग्निकर्माहुरेके- त्वग्दग्धं, मांसदग्धं च; इह तु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्निः ||७||
अग्निकर्मण्येकीयमतं दर्शयन्नाह- तत्र द्विविधमित्यादि| स्वतन्त्रसिद्धान्तं दर्शयन्नाह- इह तु सिरेत्यादि| सिरादिष्वप्यग्निकर्म कर्तव्यमित्यर्थः पूर्वं व्याख्यातः; “सिरादिष्वप्यग्निकर्मविधिरात्ययिके व्याधावेव, नान्यत्र” इत्यन्ये व्याख्यानयन्ति||७||
Adhikarana 7 (8) · Śloka 8
तत्र, शब्दप्रादुर्भावो दुर्गन्धता त्वक्सङ्कोचश्च त्वग्दग्धे, कपोतवर्णताऽल्पश्वयथुवेदना शुष्कसङ्कुचितव्रणता च मांसदग्धे; कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे, रूक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ||८||
त्वगादिषु कर्मणि कृते प्रतिविषयं भेदलक्षणं दर्शयन्नाह- तत्र शब्देत्यादि| स्थिरव्रणता कठिनव्रणता||८||
Adhikarana 8 (9) · Śloka 9
तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्, वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ||९||
रोगभेदाच्छरीरावयवविशेषेष्वग्न्यवचारणं दर्शयन्नाह- तत्र शिरोरोगेत्यादि| अधिमन्थः अक्षिरोगोऽभिष्यन्दपूर्वकः| भ्रुवौ अक्षिकूटोपरि रोमराजी, शङ्खौ भ्रूकर्णयोर्मध्यम्| वर्त्मदेशे यथाऽग्न्यवचारणं तथा दर्शयन्नाह- वर्त्मरोगेष्वित्यादि| ‘दहेत्’ इत्यनुवर्तते| वर्त्म नेत्रच्छादनम्| आर्द्रालक्तक आर्द्रकर्पटः||९||
Adhikarana 9 (10) · Śloka 10
त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिनसुप्तमांसे व्रणे ग्रन्थ्यर्शोऽर्बुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ||१०||
शेषविषयमवस्थाभेदेन दर्शयन्नाह- त्वङ्मांसेत्यादि| अत्युग्ररुजे वायौ इति उग्रशूले वायौ| उच्छ्रितकठिनसुप्तमांसे इति उच्छ्रितमुत्सेधवत्, सुप्तमचेतनम्| नाडीति व्रणविशेषः||१०||
Adhikarana 10 (11) · Śloka 11
तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दहनविशेषाः ||११||
प्रणिधानाकारविशेषमाह- तत्र वलयेत्यादि| व्याधिमूले वलयमिव वलयं, शलाकाग्रनिर्मितो, बिन्दुरिव बिन्दुः, तिर्यगृजुवक्रा विविधा लेखा विलेखा, तप्तशलाकाप्रभृतिभिरवघर्षणं प्रतिसारणं; विशेषा इति आश्रयव्याधिवशेनाकृतिभेदाः| तत्र वलयेत्यादिगद्यस्यादौ केचित् ‘रोगाकृतिमवेक्ष्य’ इति पठन्ति; स च निबन्धकारैर्न पठितः, कुतः? तस्यार्थस्याग्रिमश्लोकेनैवोक्तत्वात्||११||
Adhikarana 11 (12) · Śloka 12
भवति चात्र- रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च |
व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततोऽव्यवस्येद्भिषगग्निकर्म ||१२||
वलयादिदहनविशेषारम्भहेतुं परिहार्याणि च दर्शयितुमाह- भवति चात्रेत्यादि| रोगस्य ग्रन्थ्यादेः| संस्थानम् आयताद्याकारम्| एतेन वलयाद्यारम्भहेतुः कथितः| परिहार्याणि च कथयन्नाह- नरस्य मर्माणीत्यादि| बलाबलमिति ‘आतुरस्य’ इति शेषः, बलवत्यातुरे कर्माधिकारः, अबलवति परिहारः| व्याधिं वातकफात्मकं, तत्राग्निकर्माधिकारः, परिहारस्तु रक्तपित्तादौ| ऋतुमिति हेमन्तादिप्रवृत्तिविषयम्, अप्रवृत्तिस्तु शरद्ग्रीष्मयोः| अवेक्ष्य सम्यगिति अत्रैकस्मिन्नेव श्लोके एकार्थशब्दद्वयकरणं प्रवृत्तिनिवृत्तिविषययोरुभयोरप्यवेक्षणे यत्नः कार्य इति प्रतिपादनार्थम्| अध्यवस्येत् कुर्यादित्यर्थः| प्रथमस्य ‘अवेक्ष्य सम्यक्’ इत्येतस्य स्थाने ‘अथो विदित्वा’ इति केचित् पठन्ति, विदित्वा ज्ञात्वा||१२||
Adhikarana 12 (13) · Śloka 13
तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ||१३||
इदानीं सम्यग्दग्धं चिकित्सन्नाह- तत्र सम्यग्दग्धे इत्यादि| अग्निकर्मदूषितरक्तपित्तयोः प्रसादाय वेदनोपशमाय च||१३||
Adhikarana 13 (14) · Śloka 14
अथेमानग्निना परिहरेत्- पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति ||१४||
अग्नेर्निवृत्तिविषयं दर्शयन्नाह- अथेमानित्यादि| अन्तःशोणितं भिन्नकोष्ठमिति इत्थम्भूतस्य पुरुषस्य शोणितनिरोधेन दाहपाकादिसम्भवात्| ‘अनेकव्रणपीडितम्’ इत्यस्य स्थाने केचित् ‘अनेकव्याधिपरिपीडितम्’ इति पठन्ति| अस्वेद्याः ‘पाण्डुर्मेही रक्तपित्ती तृषार्तः’ (चि. अ. ३२) इत्यादयः||१४||
Adhikarana 14 (15) · Śloka 15
अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः |
तत्र, स्निग्धं रूक्षं वाऽऽ(चा)श्रित्य द्रव्यमग्निर्दहति; अग्निसन्तप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति; तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति ||१५||
वलयादिप्रकारात् प्रकारान्तरेणाग्निदग्धलक्षणं वक्तुमाह- अत ऊर्ध्वमित्यादि| इतरथा दग्धमिति प्रकारान्तरेण वैद्यादृते प्रमादाद्दग्धम्| तत्रेत्यादि द्रव्यं स्निग्धं सर्पिरादि, रूक्षं द्रव्यं काष्ठपाषाणलोष्टादि||१५||
Adhikarana 15 (16) · Śloka 16
तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् |
तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं; यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं; सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च; अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति, व्रणश्चास्य चिरेण रोहति, रूढश्च विवर्णो भवति |
तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति ||१६||
तत्राग्निदग्धं वैद्यदोषात् प्रमादाद्वा चतुर्विधं दर्शयन्नाह- तत्र प्लुष्टमित्यादि| प्लुष्टदुर्दग्धयोर्हीनदग्धत्वेऽपि पृथक्करणं लक्षणचिकित्साभेदात्| ‘तत्र प्लुष्टम्’ इत्यादिगणनयैव चतुःसङ्ख्या लब्धा, पुनः ‘चतुर्विधम्’ इतिकरणं प्लुष्टदुर्दग्धाभ्यां भेदाभ्यां हीनदग्धस्य त्रिप्रकारदाहशङ्कानिरासार्थम्| एषां लक्षणमाह- तत्र यद्विवर्णमित्यादि| तत्र तेषु मध्ये| विवर्णं प्राकृतवर्णादन्यवर्णम्| प्लुष्यतेऽतिमात्रम् अत्यर्थं दह्यते न च स्फोटोत्पत्तिः स्यात्| अन्ये त्वत्र ‘प्लुष्टमतिमात्रं विवर्णं यत् प्लुष्यते’ इति पठन्ति व्याख्यानयन्ति च- अतिमात्रं विवर्णं यत् प्लुष्यत इति अग्नितापेनोत्स्विन्नमिव भवति; विवर्णमत्र पाण्डुवर्णम्| यत्रेत्यादि| चोष आकृष्यत इव वेदनाविशेषः, दाहो भस्मसाद्भवतीव, रागो रक्तता, वेदना ओषादयः| सम्यग्दग्धमित्यादि| अनवगाढम् अतिदग्धलक्षणरहितम्| तालवर्णं पक्वतालफलवर्णमित्यर्थः; ‘पक्वतालवर्णं’ इत्येके पठन्ति, अपरे तु ‘तालपक्वफलवर्णं’ इति| सुसंस्थितम् अत्युन्नतावनतादिदोषवर्जितम्| पूर्वलक्षणयुक्तं चेति त्वङ्मांससिरास्नायुसन्ध्यस्थिदाहलिङ्गयुक्तम्| अतिदग्धे इत्यादि| गात्रविश्लेषो विषटनं, व्यापादनं हिंसनम्| अतिमात्रशब्दो ज्वरादिभिः सह प्रत्येकं सम्बध्यते| मूर्च्छाश्चेति चकाराच्छोणितस्रावादयश्च| तदेतदित्यादि| प्लुष्टादिभेदेन चतुर्विधमप्यग्निकर्म वैद्यस्य यदात्मकर्म चिकित्सारूपं तस्य प्रसाधकं भवतीत्यर्थः| ननु, सम्यग्दग्धलक्षणमेव वैद्यस्यात्मकर्मप्रसाधकं भवति, न पुनः प्लुष्टदुर्दग्धातिदग्धलक्षणं, सत्यं, सम्यग्दग्धलक्षणं वैद्यकर्मप्रसाधकमुपादेयत्वेन, प्लुष्टदुर्दग्धातिदग्धलक्षणं परिहार्यत्वेनेति न दोषः| अन्ये चान्यथा पठन्ति- ‘तदेतच्चतुर्विधमग्निदग्धलक्षणं पूर्वोक्तकर्मप्रसाधकं भवति’- इति, व्याख्यानयन्ति च- “पूर्वोक्तं त्वङ्मांसाश्रितं यदग्निकर्म तल्लक्षणप्रसाधकं द्योतकं भवति; अथवा पूर्वोक्तेष्वग्निसाध्येषु शिरोरोगाधिमन्थादिषु यदग्निकर्म तत्प्रसाधकं हेयोपादेयरूपतयेत्यर्थः” इति| अपरे तु ‘तदेतच्चतुर्विधमग्निदग्धलक्षणं पूर्वोक्तकर्मप्रसाधनं च भवति’ इति चकारं पठन्ति व्याख्यानयन्ति च; तेषां मते यदेतच्चतुर्विधमग्निकर्म तत्कथं चिकित्सनीयमित्याह- पूर्वोक्तकर्मप्रसाधनं; पूर्वप्रतिपादिता या क्रिया तत्प्रतीकारं तच्चिकित्सितमित्यर्थः| पूर्वप्रतिपादितक्रिया तु ‘सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्ग’ इत्यादिका| चकाराद्वक्ष्यमाणापराग्निप्लुष्टप्रतपनादिकर्मप्रसाधकमिति ज्ञेयम्||१६||
Adhikarana 16 (17-18) · Śloka 19
भवन्ति चात्र- अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति |
ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते ||१७||
तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा |
तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते ||१८||
स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते |१९|
इदानीं सर्वाग्निदग्धेषु चिकित्सार्थं विशिष्टदूष्यदोषयोर्दुष्टिं दर्शयन्नाह- भवन्ति चात्रेत्यादि| ततस्तदनन्तरं; तेनैवाग्निना रक्तेन चेत्यर्थः| कुतः पुनः प्राधान्येनाग्निदग्धे पित्तमेवोदीर्यत इत्याह- तुल्यवीर्ये इत्यादि| हि यस्मात् कारणात्, एते द्वे अप्यग्निपित्ते, तुल्यवीर्ये उष्णवीर्ये, रसतो रसात् द्वे अपि कटुके, द्रव्यतो द्रव्यादपि तुल्ये; तथाहि- सदृश एवाधारो वह्नेः पित्तस्यापि, द्रव्यं चात्र रसाद्याधार उच्यते; ततः कारणात्तेनाग्निनाऽस्य पित्तस्य कोपितस्य वेदना दाहादिका ‘भवन्ति’ इति वाक्यशेषः| प्रकृत्या च विदह्यत इति प्रकृत्या स्वभावेन, विदह्यते विदाहमुपयाति| ताभ्यामेव रक्तपित्ताभ्यां स्फोटा ज्वरादयश्च शीघ्रं प्रजायन्त इति| अन्ये तु ‘उभे’ इत्यत्र ‘रक्तपित्ते’ इति व्याख्यानयन्ति| उष्णवीर्यत्वं च मधुररसस्यापि रक्तपित्तस्य यान्त्रिकेक्षुरसवद्विदाहित्वात्| द्रव्यत इति एते द्वे अपि रक्तपित्ते द्रव्यादपि तुल्ये, द्रव्यशब्देनात्र हेत्वाधारौ कथ्येते; तद्यथा- रक्तपित्तयोर्द्वयोरपि तेजो हेतुः, आधारश्च द्वयोरपि तेज एवेति||१७-१८||-
Adhikarana 17 (19-21) · Śloka 21
दग्धस्योपशमार्थाय चिकित्सा सम्प्रवक्ष्यते ||१९||
प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् |
शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ||२०||
प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् |
तस्मात् सुखयति ह्युष्णं ननु शीतं कथञ्चन ||२१||
दग्धस्येत्यादि| अग्निप्रतपनं स्वेदनम्| उष्णं तथौषधमिति आलेपनान्नपानादिकम्| कुतः कारणादत्र शरीरमुपचर्यते नाग्निकोपितं रक्तपित्तमित्याह- शरीरे इत्यादि| स्विन्नभूयिष्ठे अत्यर्थं स्विन्ने| स्वल्पमपि रक्तं यद्यस्विन्नं भवति तदा रक्तपित्तोपशमनेन शीतोपचारेण दुःखमुत्पादयतीति दर्शयन्नाह- प्रकृत्येत्यादि| स्कन्दयत्यतिशोणितमिति रक्तमत्यर्थं स्त्यानतां नयतीत्यर्थः; स्त्यानेन रक्तेन च रुद्धमार्गो वायुरूष्माऽप्यनिर्गच्छन् प्लुष्टे शूलशोफरागादिकां वेदनां करोति, अतः शीतक्रिया न सुखं करोति; उष्णक्रिया पुना रक्तविलयनकरी भवति, अत ऊष्मनिःसरणवातानुलोमहेतुः साऽतिसुखयति||१९-२१||
Adhikarana 18 (22) · Śloka 22
शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः |
घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ||२२||
दुर्दग्धक्रियां निर्दिशन्नाह- शीतामित्यादि| दुर्दग्धेऽवगाढमूलदग्धभागस्य स्विन्नरक्तस्य निर्वापणार्थं शीतां क्रियां कुर्यात्, अनवगाढमूलदग्धभागस्यास्विन्नरक्तस्य विलयनार्थमुष्णां क्रियां कुर्यात्; अन्ये तु शीतां दाहातिशये, नातिदाहे उष्णामिति| पुनः किं कुर्यादित्याह- घृतालेपनादीनपि शीतानेव कारयेदिति| एवं सुखीभवति व्रणरोहणं च||२२||
Adhikarana 19 (23-24) · Śloka 24
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः |
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ||२३||
ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत् |
पित्तविद्रधिवच्चैनं सन्ततोष्माणमाचरेत् ||२४||
सम्यग्दग्धे चिकित्सामाह- सम्यग्दग्ध इत्यादि| तुगाक्षीरी वंशरोचना, अन्ये तु वंशरोचनानुकारि पार्थिवं द्रव्यं, प्लक्षः पर्कटी, चन्दनं रक्तचन्दनं, सामृतैरिति गुडूचीसहितैः; एतैस्तुगाक्षीर्यादिद्रव्यैर्घृतस्निग्धीकृतैः पित्तप्रत्यनीकमविशोषिणं लेपं सम्यग्दग्धे कारयेदित्यर्थः| वातशान्त्यर्थं प्रलेपमाह- ग्राम्येत्यादि| ग्राम्या अश्वादयः, आनूपा वराहमहिषादयः, औदकाः कूर्मादयः| पित्तविद्रधिवदित्यादि एनं सम्यग्दग्धं, सन्ततोष्माणं बलवत्तरोष्माणम्||२३-२४||
Adhikarana 20 (25-26) · Śloka 27
अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् |
क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ||२५||
तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत् |
व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः ||२६||
क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत् |२७|
अतिदग्धे चिकित्सामाह- अतिदग्धे इत्यादि| विशीर्णानि अवलम्बितानि| शालितण्डुलकण्डनैरिति शालितण्डुलकण्डनोद्भवैर्गुण्डनैः कणैरित्यर्थः; कणैश्च चूर्णप्रयोगकाले ‘अवचूर्णयेत्’ इत्यध्याहारः| तिन्दुकीत्वक्कपालैर्वेति तिन्दुकीवल्कलकर्परैः; ‘तिन्दुकीत्वचा तिन्दुकीवल्कलेन, कपालैर्मृत्खर्परैः’ इत्यन्ये| ‘तिन्दुकीत्वक्कषायैर्वा’ इति केचित् पठन्ति; तिन्दुक्या या त्वक् तया प्रलेपयेत्, कषायाः कषायवृक्षाश्च ये तैरपीत्यर्थः| अन्ये तु कषायशब्देन चूर्णमाहुः; तत्र तिन्दुकीवल्कलचूर्णैरित्यर्थः| औदकैः पद्मोत्पलादिपत्रैः; पित्तरक्तोपद्रुतो व्रणो गुडूच्यादिपत्रच्छादनेनोष्माणं त्यक्त्वा सुखं संरोहति||२५-२६||-
Adhikarana 21 (27-28) · Śloka 28
मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ||२७||
मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् |
सर्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ||२८||
सर्वेष्वग्निदग्धेषु रोपणार्थं चिकित्सां दर्शयन्नाह- मधूच्छिष्टमित्यादि| इदं च सामान्यं रोपणं घृतं केचित् पठन्ति, न तु निबन्धकारा इति; सूपयोगित्वान्मयाऽपि लिखितम्||२७-२८||
Adhikarana 22 (29) · Śloka 29
स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् |२९|
स्नेहदग्धे चिकित्सामाह- स्नेहदग्धे इत्यादि| रूक्षदग्धे पुनरनुक्तामपि स्निग्धां क्रियामवचारयेत्|२९|-
Adhikarana 23 (29-37) · Śloka 37
अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ||२९||
श्वसिति क्षौति चात्यर्थमप्याधमति कासते |
चक्षुषोः परिदाहश्च रागश्चैवोपजायते ||३०||
सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च |
तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ||३१||
तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति |
धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ||३२||
सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा |
मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ||३३||
वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति |
विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ||३४||
दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः |
मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ||३५||
सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति |
शिरोविरेचनं चास्मै दद्याद्योगेन शास्त्रवित् ||३६||
दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः |
अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ||३७||
इदानीं कण्ठनासादिषु कर्मणि कृते धूमोपघातलक्षणं चिकित्सां च दर्शयन्नाह- अत ऊर्ध्वमित्यादि| श्वसिति श्वासं करोति| क्षौति चात्यर्थमिति अतिशयेन छिक्कति | आधमति आध्मानयुक्तो भवति| रागः पीतलोहितता अक्ष्णोः| घ्रेयमन्यत्र वेत्ति चेति नासागतदोषेण धूमादन्यद् घ्रेयं न वेत्ति, ‘घ्रेयं तावन्न वेत्ति अन्यत् स्पृश्यं दृश्यं च न वेत्ति’ इत्यन्ये| रसान् सर्वानित्यत्र ‘न वेत्ति’ इति सम्बध्यते| श्रुतिश्चास्योपहन्यत इति न शृणोतीत्यर्थः; श्रोत्रगतदोषेण| तृष्णादाहज्वरयुत इति स्पर्शदोषेण| सीदति क्रियास्वसमर्थो भवतीत्यर्थः| शृणु तस्येत्यादि| सर्पिरिक्षुरसमित्येको योगः, द्राक्षां पयो वेति द्वितीयः, शर्कराम्बु वेति तृतीयः, मधुराम्लौ रसौ वाऽपीति चतुर्थः| सदनम् अङ्गग्लानिः| योगेन मात्रया||२९-३७||
Adhikarana 24 (38-39) · Śloka 39
उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा |
शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ||३८||
तथाऽतितेजसा दग्धे सिद्धर्नास्ति कथञ्चन |
इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् |
स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ||३९||
इदानीं दग्धचिकित्साप्रसङ्गेन दग्धसदृशस्य चिकित्सां दर्शयन्नाह- उष्णेत्यादि| उष्णवातो ग्रैष्मिकः शारदो वा; उष्णवातेनातपेन च दग्ध इव दग्धः; उष्णवातातपाभ्यामिति द्विवचने प्राप्ते बहुवचनमनुक्तोष्णप्रापणार्थम्| सदास्थाने केचिद् ‘व्रणे’ इति पठन्ति व्याख्यानयन्ति च- व्रणे इति त्वगादिव्रणवस्तुनि| शीतवर्षानिलैर्दग्धे इति शीतं हिमं, हिमदग्धस्तुषारदग्ध इति लोकोक्त्या हिमदग्धेऽपि दाहसादृश्यमस्ति; वर्षानिल इति वृष्टिसंयुक्तो वातः, अत्रापि बहुवचनमनुक्तशीतप्रापणार्थम्| ‘दग्धे’ इत्यस्य स्थाने केचित् ‘हते’ इति पठन्ति| तथाऽतितेजसा दग्धे इति अतितेजसा वज्राग्निना | ‘तथाऽतितेजसा दग्धे न सिध्यति कथञ्चन’ इति यत् कृतं तत् किञ्चिद्दग्धे सिद्धिरपि भवतीति ज्ञापनार्थम्| तत्र च पूर्वोक्तेन विधिना शीतोष्णादिना प्रतिकर्तव्यमिति| अस्याग्रे केचित् “इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत्| स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक्”- इति पठन्ति; तं च निबन्धकारा न पठन्ति||३८-३९||
Adhikarana puShpikA · Śloka 12
इति सुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः ||१२||
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने द्वादशोऽध्यायः||१२||