Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. pañcēndriyārthavipratipattyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः पञ्चेन्द्रियार्थविप्रतिपत्तिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

पञ्चेन्द्रियाणि श्रोत्रादीनि, तेषामर्थाः शब्दादयः, अर्थानां शब्दादीनां विप्रतिपत्तिर्विपरीतावबोधो हीनातियोगेनेत्यर्थः| पञ्चग्रहणं कर्मेन्द्रियाणामुभयात्मकस्य मनसश्च निषेधार्थं; कर्मेन्द्रियाणां शरीरग्रहणेनैव ग्रहणात्; मनसस्त्विन्द्रियग्रहणेनैव ग्रहणं, मनोव्यतिरेकेणेन्द्रियाणां विषयग्रहणाभावात्||१-२||

Adhikarana 2 (3) · Śloka 3

शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् | तत्त्वरिष्टं समासेन, व्यासतस्तु निबोध मे ||३||

🔊 Audio coming soon

प्रागध्याये दूतादिज्ञेयबाह्यारिष्टं प्रतिपाद्यास्मिन्नध्याये आभ्यन्तरमरिष्टमाश्रयभेदेन त्रिविधं सङ्क्षेपेण दर्शयन्नाह- शरीरशीलयोरित्यादि| शरीरं पाञ्चभौतिकं प्राणिकायः, शीलं मानसो भावः, अन्ये तु `शीलं समाधानयुक्तं मनः' इत्याचक्षते; प्रकृतिः स्वाभाविकः प्राणिनो निजो धर्मः; एतेषां शरीरशीलप्रकृतीनां त्रयाणां भावानां विकृतिर्वैपरीत्यं यद्भवेत्तदरिष्टं मरणलक्षणं भवति| समासेन सङ्क्षेपेण| अन्ये तु `शरीरशीलयोर्द्वयोर्या प्रकृतिस्तस्या या विकृतिस्तदरिष्टं मरणलक्षणं भवति' इत्याचक्षते| प्रकृतेः प्रस्तावात् किञ्चिद्विचारः क्रियते, सा हि प्रकृतिर्जात्यादीन् षडुपाधीनपेक्षते| तदुक्तं चरके- “प्रकृतिर्हि जातिप्रसक्ता च कुलप्रसक्ता च देशानुपातिनी च कालानुपातिनी च वयोनुपातिनी च प्रत्यात्मनियता च”- (च. इ. अ. १) इति| सर्वभेदेषु चकारकरणमन्योन्यसमावेशार्थं; तत्र जातिप्रसक्ता नाम तासु तासु मनुष्यादिजातिषु ते ते करचरणादयः स्वभावविशेषाः; वचनेषु च नानाविविधा एव व्यक्ताव्यक्तादयो धर्माः, मनसि च धर्माधर्ममैथुनाहारप्रभृतयोऽपि भावाः; कुलप्रसक्ता नाम द्विजकुले तपःप्रियतादयः, क्षत्रियकुले समरप्रियतादयो धर्मविशेषा भवन्ति; देशानुपातिनी नाम लाटकर्णाटादीनां काये वाचि मनसि च ते ते स्वभावविशेषा विशेषेण भवन्ति; कालानुपातिनी नाम देहादिषु दौर्बल्याद्यादानाद्यपेक्षं, गदेषु च दोषमलाद्यपेक्षिणी; वयोनुपातिनी नाम बाल्याद्यवस्थासु बालादौ सौकुमार्यादयो धर्माः; एतेषु त्रिष्वनुपातिशब्दप्रयोगात् सञ्चारित्वं स्वभावगुणानामिष्टं; प्रत्यात्मनियतेति आत्मन्यात्मनि नियता प्रतिपुरुषनियतेत्यर्थः| ते पुनः काये वाचि मनसि च स्वभावविशेषाः प्रतिपुरुषभेदभिन्ना दृश्यन्ते; एवं तावत् षोढा प्रकृतिर्भवत्येव| अन्ये तु “सप्तम्यपि भवेत् प्रायो देहे लक्षणहैतुकी| उत्तमाधममध्यायुर्लिङ्गानां कारणं हि सा”- इति मन्यन्ते| अन्ये तु प्रकृतिं सत्त्वरजस्तमोमयीं वातपित्तश्लेष्ममयीं वा मन्यन्ते| तस्या विकृतिर्वैपरीत्यमन्यथाभावः||३||

Adhikarana 3 (4-6) · Śloka 6

शृणोति विविधाञ् शब्दान् यो दिव्यानामभावतः | समुद्रपुरमेघानामसम्पत्तौ च निःस्वनान् ||४|| तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् | ग्राम्यारण्यस्वनांश्चापि विपरीताञ् शृणोति च ||५|| द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति | न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् ||६||

🔊 Audio coming soon

आतुरगतग्राह्यविरुद्धशब्दप्रतिपत्तिं निर्दिशन्नाह- शृणोतीत्यादि| विविधान् बहुप्रकारान् सञ्जल्पपाठगीतवाद्यादीन्| दिव्यानां सिद्धकिन्नरगन्धर्वादीनाम्| समुद्रपुरमेघानामित्यत्र समुद्रादिभिः सह निःस्वनशब्दः प्रत्येकं सम्बध्यते| एतेन समुद्रादीनामसम्पत्तावभावेऽपि तेषां शब्दाञ्छृणोतीत्यर्थः| पुरस्वनः पुरवासिप्राणिशब्दः; अन्ये तु पुरस्थाने `तूर्य' इति पठन्ति; अपरे `वात' इति पठन्ति| तान् स्वनानित्यादि विद्यमानेषु वा समुद्रादिस्वनेषु तान्न गृह्णाति, वाऽन्यशब्दवन्मन्यते| ग्राम्यस्वनान् ग्रामवासिप्राणिशब्दान्, आरण्यान् अरण्यवासिप्राणिध्वनीन्; विपरीतानिति ग्राम्यानारण्यानिव शृणोति, आरण्यान् ग्राम्यानिव शृणोतीत्यर्थः| द्विषच्छब्देषु शत्रुशब्देषु| सुहृन्मित्रादिः| अकस्माच्छ्रवणरोगं विना||४-६||

Adhikarana 4 (7-8) · Śloka 8

यस्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् | सञ्जातशीतपिडको यश्च दाहेन पीड्यते ||७|| उष्णगात्रोऽतिमात्रं च यः शीतेन प्रवेपते | प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ||८||

🔊 Audio coming soon

आतुरगतग्राह्यविरुद्धस्पर्शप्रतिपत्तिं दर्शयन्नाह- यस्तूष्णमित्यादि| अत्र शीतपीडका हि कफकृताः, तासां जाड्यादयो वेदनाविशेषाः प्राकृताः, दाहस्तु वैकृत इति| प्रहारो लगुडादिकृतः| अङ्गच्छेदः शस्त्रादिकृतः||७-८||

Adhikarana 5 (9) · Śloka 9

पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते | वर्णान्यता वा राज्यो वा यस्य गात्रे भवन्ति हि ||९||

🔊 Audio coming soon

आतुरगतग्राह्यविरुद्धरूपप्रतिपत्तिं दर्शयन्नाह- पांशुनेत्यादि| पांशुर्धूलिः, अवकीर्णानि व्याप्तानि| राज्यो लेखा नीललोहितादयः||९||

Adhikarana 6 (10) · Śloka 10

स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः |१०|

🔊 Audio coming soon

आतुरगतामेव विरुद्धरसप्रतिपत्तिं दर्शयन्नाह- स्नातेत्यादि| पूर्वं स्नातः पश्चादनुलिप्त इत्थम्भूतमपि सुगन्धिकायं बहिर्मलवर्जितं यदा नीलमक्षिकाः श्रयन्ते तदाऽसौ कालपक्वत्वादतिमधुरीभूतशरीरः, येन निर्मलशरीरोऽपि मक्षिकाभिः काम्यत इति| स्नातानुलिप्तमित्येतदरिष्टं वर्षावधि|१०|-

Adhikarana 7 (10) · Śloka 10

सुगन्धिर्वाऽति योऽकस्मात्तं ब्रुवन्ति गतायुषम् ||१०||

🔊 Audio coming soon

आतुरगतग्राह्यविरुद्धगन्धप्रतिपत्तिं दर्शयन्नाह- सुगन्धिरित्यादि| अति सुगन्धिर्वाऽकस्मात् `सुगन्धिप्रयोगं विना भवति' इति शेषः, इदमपि वार्षिकमरिष्टम्||१०||

Adhikarana 8 (11-12) · Śloka 12

विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् | उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये ||११|| यस्य दोषाग्निसाम्यं च कुर्युर्मिथ्योपयोजिताः | यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते ||१२||

🔊 Audio coming soon

आतुरगतपञ्चेन्द्रियार्थविप्रतिपत्तिं निर्दिश्याऽऽतुरग्राह्यपञ्चेन्द्रियार्थविप्रतिपत्तिनिर्देशाभिप्रायः, तत्र रसस्य देहमूलत्वेन प्रधानत्वात्तस्यैव विप्रतिपत्तिं दर्शयन्नाह- विपरीतेनेत्यादि| विपरीतेनेति मधुरोऽम्लः, अम्लो मधुर इत्यादि| उपयुक्ताः क्रमादिति ‘पूर्वं मधुरमश्नीयात्’ इत्यादिक्रमः| गतासुं गतप्राणम्| एतदरिष्टं मासिकम्||११-१२||

Adhikarana 9 (13) · Śloka 14

सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् | गृह्णीते वाऽन्यथा गन्धं शान्ते दीपे च नीरुजः ||१३|| यो वा गन्धं न जानाति गतासुं तं विनिर्दिशेत् |१४|

🔊 Audio coming soon

गन्धग्रहणमधिकृत्याह- सुगन्धमित्यादि| शान्ते दीपे निर्वाणे प्रदीपे, यो गन्धं न जानाति| नीरुजो नीरोगः पीनसादिरोगवर्जितः||१३||-

Adhikarana 10 (14) · Śloka 15

द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा ||१४|| विपरीतेन गृह्णाति भावानन्यांश्च यो नरः |१५|

🔊 Audio coming soon

स्पर्शग्रहणमधिकृत्याह- द्वन्द्वानीत्यादि| द्वन्द्वानि कष्टकराणि; आदिग्रहणात् स्पर्शग्राह्याणि स्निग्धादिवीर्याणि| कालावस्था प्रवातनिर्वातवर्षाद्याः| दिश इति पूर्वादिकाः| अनेन मानसः स्पर्श उक्तः| द्विविधो हि स्पर्शः- स्पर्शेन्द्रियग्राह्यः, मानसश्च| तथा च तन्त्रान्तरम्- “स्पर्शेनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च” (च. शा. १) इति| अन्यांश्च भावान् द्रव्यगुणकर्माणि, विपरीतेन गृह्णाति| द्वन्द्वान्युष्णहिमादीन्येतदरिष्टमेकमासिकमिति; दिशो वैपरीत्येन गृह्णात्येतदरिष्टं त्रिमासिकम्||१४||

Adhikarana 11 (15-23) · Śloka 23

दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ||१५|| रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् | अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् ||१६|| तडित्त्वतोऽसितान् यो वा निर्मले गगने घनान् | विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् ||१७|| यश्चानिलं मूर्तिमन्तमन्तरिक्षं च पश्यति | धूमनीहारवासोभिरावृतामिव मेदिनीम् ||१८|| प्रदीप्तमिव लोकं च यो वा प्लुतमिवाम्भसा | भूमिमष्टापदाकारां लेखाभिर्यश्च पश्यति ||१९|| न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् | ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् ||२०|| ज्योत्स्नादर्शोष्णतोयेषु छायां यश्च न पश्यति | पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्त्वजाम् ||२१|| श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् | पिशाचोरगनागानां भूतानां विकृतामपि ||२२|| यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते | आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ||२३||

🔊 Audio coming soon

रूपग्रहणमधिकृत्याह- दिवेत्यादि| ज्योतींषि तारकादीनि| चन्द्रवर्चसमिति सूर्यमेव चन्द्रतेजःसमं पश्यतीत्यर्थः| अमेघोपप्लव इत्यादि| मेघैरनावृतेऽपि नभसीन्द्रधनुर्विद्युल्लताः `पश्यति' इति शेषः| तडित्त्वतो विद्युद्युक्तान्, असितान् कृष्णान्, मेघानिति सम्बन्धः| अमेघोपप्लवे शक्रचापतडिल्लतावलोकनमित्यरिष्टं द्वित्रिमासिकम्| सङ्कुलं व्याप्तम्| अम्बरम् आकाशम्| मूर्तिमन्तं देवताकारम्; अन्ये पुरुषाकारमित्याहुः| मेदिनीं पृथिवीं, नीहारः कुहेडी, येन प्रत्यूषकाले दिनं धूमावृतमिव भाति; नेत्ररोगं विनाऽपि धूमादिभिरावृतां मेदिनीं पश्यतीत्यर्थः| लोकं जगत्, प्रदीप्तमिव ग्रीष्मकालादृतेऽपि ज्वलितमिव| आप्लुतमिव बुडितमिव, अम्भसा पानीयेन| भूमिमष्टापदाकारामिति अष्टापदशब्देन लेखाभिः कोष्ठसन्ताननिर्मितं चतुरङ्गक्रीडनार्थमुच्यते| अरुन्धतीं वसिष्ठभार्यां, ध्रुवं तारकाविशेषम्, आकाशगङ्गाशब्देन श्लक्ष्णघनतारकासन्ततिर्नद्याकारोच्यते| आदर्शः प्रतिबिम्बदर्शनार्थं सम्पूर्णचन्द्रमाकारः कांस्यमय उच्यते| उष्णो घर्मः| ज्योत्स्नातपयोस्तु प्रतिच्छायां छायापुरुषं केचिन्मन्यन्ते| विकृतां प्रकृतेरन्यथाभूताम्| अन्यसत्त्वजाम् अन्येभ्यः प्राणिभ्यो जातामन्यसत्त्वजाताम्| श्वा कुक्कुरः, कङ्कः कङ्कमल्लः; तस्य लक्षणमाह- कङ्कः स्यात् कङ्कमल्लाख्यो बाणपक्षार्हपक्षकः| लोहपृष्ठो दीर्घपादः पक्षाधःपाण्डुवर्णभाक्- इति| भूतानां देवयोनीनाम्, अथवा भूतानि प्राणिनस्तेषां; विकृतामपि विकृतां विकृतिं गतां छायां पश्यतीति सम्बन्धः| यो वा मयूरकण्ठाभमित्यादि सुदीप्तखदिराङ्गारज्वलितं धूमरहितमपि मयूरकण्ठाभं नीलं धूमसदृशं पश्यतीत्यर्थः| अत्र `दिवा ज्योतींषि' इत्यादिना `विधूमं वह्निमीक्षते' इत्येतत्पर्यन्तेन ग्रन्थेन पञ्चविधं रूपमुक्तम्| तथाहि- `दिवा ज्योतींषि' इत्यादिनाऽऽकाशस्थरूपिद्रव्यरूपमुक्तम्, आकाशरूपासम्भवात्; `यश्चानिलं' इत्यादिना वायुरूपमुक्तं; `धूमनीहार' इत्यादिना पृथ्वीरूपमुक्तं; `प्रदीप्तमिव' इत्यादिना वह्निरूपमुक्तम्, `आप्लुतमिवाम्भसा' इत्यनेनापां रूपमुक्तं, एवं पञ्चविधं रूपमुक्तम्| `भूमिमष्टापदाकाराम्' इत्यनेन भूमेर्विकृतिदर्शनमुक्तं, पूर्वं तु धूमाद्यावरणदर्शनमेवेति न पौनरुक्त्यम्| `न पश्यति सनक्षत्राम्' इत्यनेन व्योमस्थानामदर्शनमुक्तं, `दिवा ज्योतींषि' इत्यादिना तु पूर्वं दर्शनमुक्तम्, अतो न पौनरुक्त्यम्| `ज्योत्स्नादर्शोष्णतोयेषु' इत्यादिना रूपस्यायोग उक्तः, `पश्यत्येकाङ्गहीनां वा' इत्यनेन रूपहीनयोग उक्तः, `विकृतां च' इत्यनेन मिथ्यायोगो रूपस्योक्तः| अग्नेर्मिथ्याग्रहणमधिकृत्योक्तं `यो वा मयूरकण्ठाभम्' इत्यादिना| एतदरिष्टफलं दर्शयन्नाह- आतुरस्य भवेन्मृत्युरित्यादि||१५-२३||

Adhikarana puShpikA · Śloka 30

इति सुश्रुतसंहितायां सूत्रस्थाने पञ्चेन्द्रियार्थविप्रतिपत्तिर्नाम त्रिंशोऽध्यायः ||३०||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने त्रिंशत्तमोऽध्यायः||३०||