Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

29. viparītāviparītadūtaśakunasvapnanidarśanīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| स्वप्नशब्दानन्तरं लुप्तादिशब्दनिर्देशान्नक्षत्रवेलातिथिनिमित्तशकुनानिलदेशवैद्यवाग्देहमनश्चेष्टा अपि गृह्यन्ते||१-२||

Adhikarana 2 (3-4) · Śloka 4

दूतदर्शनसम्भाषा वेषाश्चेष्टितमेव च | ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ||३|| देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् | कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ||४||

🔊 Audio coming soon

अत्राध्याये निर्देश्यान् दूतादीनुपदर्शयन्नाह- दूतेत्यादि| दूतशब्दोऽत्र दर्शनसम्भाषवेशचेष्टितैः सह सम्बध्यते| गमनाय प्रश्नाय वाऽऽगतः पुरुषो दूतः| चेष्टा चात्र कायकृतो व्यापारः, ऋक्षाणि आर्द्रादीनि, वेला मध्याह्नादिकाः, तिथयः चतुर्थ्यादयः, निमित्तं सर्पादिदर्शनं , देशो वैद्यस्य भूमिभागः, वाग्देहमनसां च विचेष्टितमपि वैद्यस्यैव| आतुरगतमिति आतुराश्रितमित्यर्थः| स्वप्नाः पश्चान्निर्देश्याः||३-४||

Adhikarana 3 (5-6) · Śloka 7

पाख(ष)ण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये | त एव विपरीताः स्युर्दूताः कर्मविपत्तये ||५|| नपुंसकं स्त्री बहवो नैककार्या असूयकाः | गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ||६|| वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः |७|

🔊 Audio coming soon

प्रथमं दूतदर्शनमधिकृत्याह- पाखण्डेत्यादि| पाख(ष)ण्डाः कापालिकादयः, आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयः, वर्णा ब्राह्मणादयः| सपक्षा इति तद्यथा- कापाली कापालिकस्य, ब्रह्मचारी ब्रह्मचारिणः, विप्रो विप्रस्येत्यादयः| कर्मसिद्धये कार्यसिद्ध्यर्थम्| | त एव विपरीता इति कापालिकस्य ब्रह्मचारी, ब्रह्मचारिणः कापालीत्यादि| कर्मविपत्तये इति चिकित्सितनाशाय| नपुंसकमिति न पुमान् न च स्त्री| स्त्रीति योषिदित्यर्थः| बहव इति प्रभूता इत्यर्थः| नैककार्या इति नैकस्मिन् कार्ये ये दूताः समागता इत्यर्थः| असूयका इति परस्परं कलहं कुर्वाणाः| गर्दभोष्ट्ररथप्राप्ता इति गर्दभोष्ट्रयुक्तेन रथेनागता इत्यर्थः| प्राप्ता वा स्युः परम्परा इति आगता वा भवेयुः, परम्परा पङ्क्तिः, एतेन पङ्क्तिं कृत्वा यदाऽऽगच्छन्तो भवन्तीत्युक्तम्| वैद्यं य उपसर्पन्तीत्यादि ये दूता एवङ्गुणविशिष्टा वैद्यमुपसर्पन्ति समीपमागच्छन्ति , ते गर्हिता एवेति सम्भावनीयाः| अत्र चशब्द एवकारार्थः, अपिशब्दः सम्भावनायाम्||५-६||-

Adhikarana 4 (7-8) · Śloka 8

पाशदण्डायुधधराः पाण्डुरेतरवाससः ||७|| आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवाससः | न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ||८||

🔊 Audio coming soon

वेषमधिकृत्याह- पाशेत्यादि| पाशो दीर्घः पशूनां बन्धनो रज्जुवलयः, दण्डो लौहादिवलयैर्निबद्धो दीर्घनिष्ठुरकाष्ठयष्टिः, आयुधानि खड्गशक्त्यादीनि| पाण्डुरेतरवासस इति कृष्णपीतरक्तवस्त्राः| आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवासस इति आर्द्रं स्तिमितं, जीर्णं पुरातनम्, अपसव्यं दक्षिणाश्रितमुत्तरीयवासः, एकम् एकवस्त्रधारिणं, मलिनमधौतं, उद्ध्वस्तं पाटितं वस्त्रम्| न्यूनाधिकाङ्गा इति न्यूना हस्ताद्यवयवैर्हीनाः; अधिकाङ्गा इति एकविंशत्यङ्गुल्यादियुक्ताः| उद्विग्ना इति भीताः| विकृता इति पङ्गुकुब्जवामनादयः| रौद्ररूपिण इति भैरवोद्धतकर्कशाः (भयावहरूपिणः )||७-८||

Adhikarana 5 (9) · Śloka 9

रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः |९|

🔊 Audio coming soon

दूतसम्भाषामधिकुर्वन्नाह- रूक्षेत्यादि| रूक्षं मैत्रीरहितं वचः, निष्ठुरं कठोरवचनम्| अमङ्गल्याभिधायिन इति गतभृतनष्टरुदितेत्यादिवचनममङ्गलम्|९|-

Adhikarana 6 (9-14) · Śloka 15

छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ||९|| वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः | स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः ||१०|| कपालोपलभस्मास्थितुषाङ्गारकराश्च ये | विलिखन्तो महीं किञ्चिन्मुञ्चन्तो लोष्टभेदिनः ||११|| तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः | फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् ||१२|| नखैर्नखान्तरं वाऽपि करेण चरणं तथा | उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः ||१३|| वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः | याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः ||१४|| वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः |१५|

🔊 Audio coming soon

चेष्टितमधिकृत्याह- छिन्दन्त इत्यादि| वस्त्रान्तो दशाहीनस्य वस्त्रस्यान्तम्, अनामिका पवित्राङ्गुलिः, केशा मस्तकवालाः, रोमाणि शरीरोद्भवा वालाः, दशाः सदशस्य वस्त्रस्य प्रान्ताः| स्रोतोवरोधेत्यादि स्रोतोवरोधादिषु निक्षिप्तपाणयः; स्रोतः कर्णादिछिद्रम्, अवरोधः स्कन्धदेशः, हृत् कमलमुकुलाकारमधोमुखं, गण्डो गल्लः, मूर्धा मस्तकम्, उरः कण्ठहृदयान्तरालः, कुक्षिर्वङ्क्षणपार्श्वान्तरालः| कपालोपलेत्यादि| करशब्दः कपालादिभिः प्रत्येकं सम्बध्यते, तेन कपालादिकरा इत्यादि बोद्धव्यं; कपालो मृद्भाण्डखण्डः, उपलः पाषाणः, भस्मेति दग्धकाष्ठादिक्षारः, अस्थि हड्डं, तुषा धान्यादित्वचः, अङ्गारोऽभस्मसात्कृतो दग्धकाष्ठखण्डः| विलिखन्तो महीमिति विलिखन्तो नखादिना विदारयन्तः पृथिवीमित्यर्थः| किञ्चिन्मुञ्चन्त इति किञ्चिद्वस्तु हस्तेन गृहीतं मुञ्चन्तः| लोष्टभेदिन इति मृत्पिण्डस्फोटनशीला इत्यर्थः| दिग्धाङ्गा इति लिप्ताङ्गा इत्यर्थः| रक्तस्रगनुलेपना रक्तमालाधारिणो रक्तविलेपनाश्चेत्यर्थः| फलमित्यादि| असारमिति अभ्यन्तरसारवर्जितम्| अन्यच्च तद्विधमिति अन्यदपि वस्तु पक्वमसारं च| नखैर्नखान्तरं वाऽपि करेण चरणं तथेत्यत्र 'गृहीत्वा' इति सम्बन्धः| उपानदित्यादि|- उपानत् पादहिता, चर्महस्ता वेति चर्ममयसट्टादिधारिणः| विकृतव्याधिपीडिता इति गलत्कुष्ठादिविकृतव्याधिपीडिताः| वामाचारा इति विपरीतव्यवहाराः| श्वासिन इति श्रमजनितश्वासयुक्ताः | विकृतेक्षणा इति पुष्पितनेत्रादयः| याम्यां दिशि दक्षिणस्यां दिशि, प्राञ्जलयः प्रसारिताञ्जलयः| विषमैकपदे स्थिता इति विषमे एकस्मिन् स्थाने ऊर्ध्वीभूताः| उपसर्पन्ति समीपं गच्छन्ति||९-१४||

Adhikarana 7 (15-16) · Śloka 17

दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् | ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् ||१५|| नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् | प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा ||१६|| वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः |१७|

🔊 Audio coming soon

चेष्टितमेव चेति चकारेणानुक्ताऽपि वैद्यचेष्टा समुच्चीयते, तां दूतदर्शने निर्दिशन्नाह- दक्षिणेत्यादि|- दक्षिणाभिमुखमिति दक्षिणदिङ्मुखम्| देशे पदेशे| अशुचौ अपवित्रे| हुताशनं ज्वलयन्तम् अग्निं ज्वालयन्तम्| पचन्तमिति पाकं कुर्वाणम्| क्रूरकर्मणि पशुवधादिके| उद्यन्तमुद्यमं कुर्वाणम्| 'क्षुरकर्मणि' इत्येके पठन्ति, तत्र मुण्डनादिकर्मण्युद्यमं कुर्वाणमित्यर्थः| वेगोत्सर्गेष्विति मूत्रपुरीषोत्सर्गेषु| अशुचिमिति अपवित्रम्| प्रकीर्णकेशं विमुक्तकेशम्| अभ्यक्तं तैलादिना| स्विन्नं प्रस्वेदसहितम्| विक्लवं विह्वलम्| वैद्यं य उपसर्पन्तीत्यादि इत्थम्भूतं वैद्यं ये दूता उपसर्पन्ति ते गर्हिता निन्दिता भवन्तीत्यर्थः||१५-१६||-

Adhikarana 8 (17) · Śloka 18

वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने ||१७|| मध्याह्ने चार्धरात्रे वा सन्ध्ययोः ... |१८|

🔊 Audio coming soon

वेलामधिकृत्याह- वैद्यस्येत्यादि| पैत्र्ये पितृकार्ये| दैवे देवकार्ये| उत्पातदर्शन इति उत्पातानां भूमिदिव्यान्तरीक्षाणां दर्शने||१७||-

Adhikarana 9 (18) · Śloka 18

... कृत्तिकासु च | आर्द्राश्लेषामघामूलपूर्वासु भरणीषु च ||१८||

🔊 Audio coming soon

नक्षत्रमधिकृत्याह- कृत्तिकास्वित्यादि||१८||

Adhikarana 10 (19) · Śloka 19

चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च | वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ||१९||

🔊 Audio coming soon

तिथिमधिकृत्याह- चतुर्थ्यामित्यादि| सन्धिदिनानि देवप्रेतकार्याहाणि||१९||

Adhikarana 11 (20-22) · Śloka 23

स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः | गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ||२०|| त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः | एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ||२१|| रक्तपित्तातिसारेषु प्रमेहेषु तथैव च | प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ||२२|| विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः |२३|

🔊 Audio coming soon

विशिष्टरोगेषु विशिष्टवेलादि दर्शयन्नाह- स्विन्नेत्यादि| स्विन्नाभितप्ता दूता ज्वलनस्य समीपतः सन्निधानाद्यदा वैद्यं मध्याह्न उपसर्पन्ति तदा गर्हिता इति सम्बन्धः| एतेन शेषमित्यादि शेषं वातरोगे शीतप्रवातादिष्विति ज्ञेयम्, अशुभमित्यर्थः| रक्तपित्तेत्यादि| जलरोधेषु जलनिरोधयुक्तप्रदेशेषु| विज्ञायेत्यादि| शेषं बुध्येतेति उदावर्तमूत्रकृच्छ्रादौ जलवेगदर्शनादिकं प्रशस्तमिति जानीयात्||२०-२२||-

Adhikarana 12 (23-26) · Śloka 26

शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः ||२३|| स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः | गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ||२४|| स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् | अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः ||२५|| स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम् | उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ||२६||

🔊 Audio coming soon

अथाविपरीतदूतदर्शनादिकं निर्दिशन्नाह- शुक्लवासा इत्यादि| गोयानेनेति वृषभारूढो वृषभयुक्तयानारूढो वेत्यर्थः; अन्ये तु 'गोयानेन पशुयानेन' इत्यर्थमाहुः, गोशब्दस्य पशुवाचित्वात्; एतेन याम्यादियानखरोष्ट्रादिकवर्जमश्वादियानमुक्तम्| स्वतन्त्रः स्वप्रधानः| प्रतिपत्तिमानिति प्रतिपत्तिरत्र ज्ञानं प्रगल्भता वा| शुक्लवासाः शुचिर्गौर इत्यादिदर्शनमुक्तम्| शुभचेष्टित इत्यनेन चेष्टोक्ता| अलङ्कृत इति वेष उक्तः| सम्भाषश्वात्र विपरीतसम्भाषविपर्ययादनुक्तोऽपि ज्ञेयः| तथाहि, तत्र 'रूक्षनिष्ठुरवक्तार' इत्युक्तम्, अत्र तु तद्विपर्ययेण 'स्निग्धकोमलाभिधायिन' इत्यविपरीतसम्भाषो ज्ञेयः| तथा वेलानक्षत्रतिथीनामुक्तानामेव विपरीतत्वं, ततोऽन्यदविपरीतत्वमिति| कथम्भूतं वैद्यमुपसर्पन् दूतः कार्यकारी भवतीत्याह- स्वस्थमित्यादि| स्वस्थम् आधिव्याधिवर्जितम्, आसीनमुपविष्टं, शुचौ पवित्रे देशे, शुचिं वैद्यम्, इत्थम्भूतं वैद्यं यो दूत उपसर्पति स कार्यकारी भवति| केचिन्निबन्धकारा अमुं पाठं न पठन्ति||२३-२६||

Adhikarana 13 (27-31) · Śloka 32

मांसोदकुम्भातपत्रविप्रवारणगोवृषाः | शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ||२७|| स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता | कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ||२८|| हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः | अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा ||२९|| ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः | सिंहगोवृषनादाश्च ह्रे(हे)षितं गजबृंहितम् ||३०|| शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः | प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः |३२|

🔊 Audio coming soon

अथाविपरीतलक्षणान्याह- मांसेत्यादि| मांसमाममत्र| उदकुम्भ इति अत्रोदकुम्भशब्देन पूर्णो रिक्तश्च घटो गृह्यते; तत्रातुरगृहे प्रविशन् पूर्णः, आतुरगृहान्निःसरन् रिक्त इति गृह्यते| आतपत्रं छत्रम्| वृषो वृषभः| शुक्लवर्णाः पदार्थाः कार्पासास्थितक्रभस्मक्षारादिव्यतिरिक्ताः सुमनोदध्यक्षतमौक्तिकादयः| पूज्यन्ते श्लाघ्यन्ते| गताः प्राप्ताः| वर्धमानं शरावः, अन्ये तु विशिष्टमेव दर्पणं मङ्गल्यार्थं चषकं वा वर्धमानमाचक्षते | अलङ्कृता कन्या भूषणवती कन्या| केचित् ‘वर्धमानाः स्वलङ्कृता' इति पठन्ति, व्याख्यानयन्ति च- आलेपनधवलत्वादिस्वलङ्कृताः शरावा वर्धमाना इति| स्वस्तिकं मुक्तादामविशेषः, अन्ये स्वस्तिकं स्वस्तिकाकारं दूर्वाशकलमण्डितं धवलं दर्पणसक्तं मृन्मयं गोमयकृतं वा मङ्गल्यमवतारणकार्थं कुर्वते माङ्गलिककृत्स्त्रियः| मोदका लड्डुकाः| हिरण्यं स्वर्णम्, अन्ये कपर्दकान्याहुः; अक्षता लाजाः, अन्येऽक्षतानि यवधान्यान्याहुः; पात्रं तण्डुलभृतशरावादिकम्| अन्ये तु ‘अक्षतपात्रम्' इत्येकमेव तण्डुलभृतशरावमिच्छन्ति| रत्नानि माणिक्यादीनि| सुमन इति शोभनमानसमित्यर्थः, ‘वैद्यस्य' इति शेषः| नृपः पृथ्वीपतिः, अन्ये तु ‘शोभनचित्तो राजा' इत्याहुः| अप्रशान्तोऽनलः प्रज्वलितवैश्वानरः| वाजी घोटकः| चाषः करटासः| शिखी मयूरः| ब्रह्मदुन्दुभीत्यादि|- ब्रह्मेति वेदः, दुन्दुभिः निःस्वानः, जीमूतो मेघः, एतेषां स्वनाः शब्दाः शस्ताः| सिंहेत्यादि| ह्रेषितं वाजिध्वनिः| गजबृंहितं हस्तिस्वनः| रुतं शब्दः| रुतशब्दः कौशिकं चेत्यत्रापि सम्बन्धनीयः, तेनोलूकस्य रुतमित्यर्थः| यायिन इति गच्छन्तः पुरुषाः; विपरीतं निमित्तं पश्चाद्दर्शनीयम्||२७-३१||

Adhikarana 14 (32-40) · Śloka 40

पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् | आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ||३२|| दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः | वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ||३३|| शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके | वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ||३४|| चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः | पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ||३५|| पुन्नामानः खगा वामाः स्त्रीसञ्ज्ञा दक्षिणाः शुभाः | दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः | वामं नकुलचाषाणां नोभयं शशसर्पयोः ||३६|| भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् | दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ||३७|| दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् | कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ||३८|| पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम् | प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ||३९|| शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः | नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ||४०||

🔊 Audio coming soon

शकुनान् निर्दिशन्नाह- पत्रेत्यादि| नीरुज इति कृमिदावाग्न्याद्यनुपहतान्| आश्रितशब्दो नभःप्रभृतिभिः सह प्रत्येकं सम्बध्यते| नभ आकाशं, वेश्म गृहं, ध्वजा पताका देवादीनां, तोरणमार्द्रवंशादिरचितं प्रतोल्याकारं, वेदिका इति विवाहादिनिमित्तमामेष्टकादिरचितश्चतुरकः| दिक्षु शान्तास्विति पूर्वासूत्तरासु चेत्यर्थः; अन्ये तु आलिङ्गिताऽवधूमितदीप्तवर्जितास्वित्याचक्षते| वक्तार इति शब्दायमानाः| पृष्ठतोऽनुगा इति पृष्ठप्रदेशानुगता इत्यर्थः| विपरीताञ् शकुनान्निर्दिशन्नाह- शुष्के इत्यादि| अशनिहते वज्रहते| अपत्रे पत्ररहिते| वल्लिनद्धे लतावेष्टिते| सकण्टके कण्टकसहिते| इत्थम्भूते वृक्षे ‘आश्रिता' इत्यध्याहारः| अश्मा पाषाणः| भस्म रक्षा| विट् विष्ठा| तुषा धान्यत्वचः| पांशुः धूलिः| चैत्यं श्मशानवृक्षः| दीप्तस्वराः कुस्वराः चिचीचीकारादयः, खरस्वराः उत्कटशब्दाः| दिक्षु दीप्तास्विति आग्नेययाम्यनैरृतीषु| पुन्नामानः खगा वामा इति पुन्नामधेयाः पक्षिणो वामपार्श्वे वक्तारः शुभाः; तद्यथा- हंसकारण्डवचक्रवाकादयः| स्त्रीसञ्ज्ञा दक्षिणाः शुभा इति कोकिलाबलाकादयः स्त्रीसञ्ज्ञा दक्षिणपार्श्ववर्तिनः शुभाः| एतेन स्त्रीपुंसञ्ज्ञाः पक्षिण इत्थमेव शुभाः, अन्यथा अशुभाः, इति परमार्थतो विपरीतशकुनमेव कथितं भवति| पूर्वानुक्तविपरीतनिमित्तं निर्दिशन्नाह- दक्षिणादित्यादि| अत्रापि तद्विपर्ययेण दक्षिणगमनं प्रशस्तमित्युक्तं भवति| नोभयमिति उभयमपि वामदक्षिणमपि गमनं न प्रशस्तमित्यर्थः| भासेत्यादि भासो गोकुलचारी गृध्रविशेषः| उभयमिति वामदक्षिणमिति| दर्शनं वा रुतमित्यादि| कृकलासः ‘कण्टिकाया' इति लोके; पूर्वदेशीयास्तु गिरिगिटमाचक्षते| गोधाकृकलासयोर्दर्शनं रुतं वामतो दक्षिणतः पुरतः पृष्ठतो वा न प्रशस्तमिति| दूतैरनिष्टैरित्यादि| अनिष्टैरिति नपुंसकगर्दभोष्ट्ररथप्राप्तादिभिस्तुल्यानां समानानामन्येषामपि नृणां दर्शनं प्रस्थाने न प्रशस्तम्| कुलत्थेत्यादि| कुलत्थादीनां पात्रमङ्गारादिपूरितं च नेष्टं न प्रशस्तमित्यर्थः| प्रसन्नेतरमद्यानामित्यादि| प्रसन्ना मद्यस्योपर्यच्छो भागः; तदितरेषां मद्यानां पूर्णमप्रशस्तं, तथा रक्तसर्षपपूर्णं च न प्रशस्तम्| शवकाष्ठेत्यादि शवादीनां पथि मार्गे सङ्गमाः संयोगा न प्रशस्ताः| शवो मृतकः| काष्ठं दारु, पलाशं पर्णम्| ‘शुष्काणां' इत्यत्र स्थाने केचित् ‘रूढानां' इति पठन्ति| तेषां मते रूढानां पुराणानामित्यर्थः| नेष्यन्ते न प्रशस्यन्ते| पतिताः पञ्च महापातकिनः| अन्तःस्थाः चण्डालादयः| दीनो निरुत्साहः||३२-४०||

Adhikarana 15 (41) · Śloka 41

मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः | खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ||४१||

🔊 Audio coming soon

अनिलं निर्दिशन्नाह- मृदुरित्यादि| अनुकूलः पृष्टानुगामी| प्रतिलोमः अभिमुखः||४१||

Adhikarana 16 (42-43) · Śloka 43

ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः | विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ||४२|| रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते | एवं व्याधिविशेषेण निमित्तमुपधारयेत् ||४३||

🔊 Audio coming soon

रोगविशेषादपि निमित्तविशेषमनुक्तं निर्दिशन्नाह- ग्रन्थीत्यादि| व्याधिविशेषेण अनुक्तेन व्याधिभेदेनेत्यर्थः| निमित्तमिति शुभाशुभसूचकम्| अन्ये तु- "एवं व्याधिविशेषेण निमित्तमुपधारयेत्" इत्यमुं पाठमन्यथा पठन्ति व्याख्यानयन्ति च, स चाभावान्न लिखितः||४२-४३||

Adhikarana 17 (44) · Śloka 44

तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः | छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ||४४||

🔊 Audio coming soon

सामान्यं शब्दनिमित्तं दर्शयन्नाह- तथैवेत्यादि| आक्रुष्टमाक्रोशः आक्रुष्टादिभिः स्वनशब्दः प्रत्येकं सम्बध्यते| हाकष्टंशब्दः खेदार्थः| आक्रन्द आक्रोशस्वनः| अमुं श्लोकं बाहुल्येन न पठन्ति| पञ्जिकाकारगयदासेन तु विशिष्टपाठशुद्धिकारेण लिखितो व्याख्यातश्चेत्यत्रापि लिखितः||४४||

Adhikarana 18 (45) · Śloka 45

प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् | दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ||४५||

🔊 Audio coming soon

वैद्यस्यापि गेहे वागादिचेष्टितं दर्शयन्नाह- प्रतीत्यादि| प्रतिषिद्धमिति निषेधवचनं ‘मागच्छ' इत्यादिकं, भग्नं कीलकादिभङ्गवचनं, क्षुतं छिक्कितं; त्रयमेतद्वाग्विचेष्टितम्| ‘भग्नं' इत्यस्य स्थाने केचित् ‘लग्नं' इति पठन्ति, व्याख्यानयन्ति च- लग्नं वस्त्रादिसङ्गः| स्खलितमाहतमेतत् कायविचेष्टितम्| स्खलितं लुण्ठनं पादादेः, आहतमिति आहननम्| दौर्मनस्यं चित्तविचेष्टितम्||४५||

Adhikarana 19 (46) · Śloka 46

प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽऽतुरे | प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ||४६||

🔊 Audio coming soon

वैद्यगृहविधिमातुरगृहेऽप्यतिदिशन्नाह- प्रवेशे इत्यादि| एतत् पूर्वोक्तं शुभाशुभनिमित्तं, प्रवेशेऽप्यवेक्ष्यं द्रष्टव्यम्| उद्देशात् सङ्क्षेपात्| आतुरे आतुरगृहे| प्रतिद्वारं द्वारं प्रति| गृहे गृहाभ्यन्तरे, अस्य आतुरस्य, एतत् पूर्वोक्तं निमित्तं, न गण्यते न मन्यत इत्यर्थः| केचित् ‘प्रतिद्वारं गृहं चास्य' इत्यादि पाठं मन्यन्ते| प्रतिशब्दो लक्षणा(णेऽ)र्थे; तेन द्वारं लक्षीकृत्य, गृहं च लक्षीकृत्येति| अत्रोद्देशात् सङ्क्षेपादातुरेऽप्यवेक्ष्यमिति सम्बन्धः||४६||

Adhikarana 20 (47-48) · Śloka 48

केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः | खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ||४७|| नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः | प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ||४८||

🔊 Audio coming soon

आतुरगृहे गतस्य यात्रोन्मुखस्य च वैद्यस्य विपरीतनिमित्तं दर्शयन्नाह- केशभस्मेत्यादि| मुण्डा मुण्डितमुण्डाः| असिताम्बरा रक्तवस्त्राः||४७-४८||

Adhikarana 21 (49-52) · Śloka 53

भाण्डानां सङ्करस्थानां स्थानात् सञ्चारणं तथा | निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ||४९|| वैद्यासनावसादो वा रोगी वा स्यादधोमुखः | वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा ||५०|| प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा | हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ||५१|| यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः | न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ||५२|| भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति |५३|

🔊 Audio coming soon

एतत्पुनरातुरगृहेऽपि गण्यत इत्याह- भाण्डानामित्यादि| भाण्डानाम् उपकरणद्रव्याणाम्| सङ्करस्थानां मिलितानाम्| सञ्चारणम् इतस्ततो नयनम्| निखातस्य भाण्डस्योत्पाटनमुद्धरणमित्यर्थः| भङ्गः स्फुटनम्| पतनं हस्तादेरधोभ्रंशः| निर्गमो गृहाभ्यन्तराद्बाह्यतो गमनम्| अवसादो भङ्गः| वैद्यं सम्भाषमाणो वैद्येन सहालापं कुर्वाणोऽङ्गं प्रमृज्यात्, कुड्यं भित्तिं वा आस्तरणानि प्रच्छादनवस्त्राणि वा प्रमृज्यात् प्रोञ्छयेदित्यर्थः| धुनीयात् कम्पयेत्| कानित्याह- करौ पृष्ठं शिरस्तथा| न्यसेत् निक्षिपेत्| उन्मुखः इति ऊर्ध्वमुखः| उन्मार्ष्टि ऊर्ध्वं प्रोच्छति| केचिद्वृद्धाः पठन्ति- न स सिध्यतीत्यादि||४९-५२||-

Adhikarana 22 (53) · Śloka 54

शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ||५३|| आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक् |५४|

🔊 Audio coming soon

दूतादेः शुभाशुभस्य यथासङ्ख्यं शुभाशुभमेव फलं निर्दिशन्नाह- शुभमित्यादि||५३||-

Adhikarana 23 (54-66) · Śloka 66

स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ||५४|| सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा | स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ||५५|| वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः | रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ||५६|| यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् | अन्तावसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः ||५७|| परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजिता(न)स्तथा | मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ||५८|| पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति | पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ||५९|| निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम् | यस्य वंशो नलो वाऽपि तालो वोरसि जायते ||६०|| यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः | पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽऽवृते ||६१|| ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् | पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ||६२|| पतनं तारकादीनां प्रणाशं दीपचक्षुषोः | यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ||६३|| यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा | शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ||६४|| पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति | कार्पासतैलपिण्याकलोहानि लवणं तिलान् ||६५|| लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम् | स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ||६६||

🔊 Audio coming soon

दूतादिशेषं स्वप्नं दर्शयन्नाह- स्वप्नानित्यादि| निद्रोपप्लुतेन रजोयुक्तेन मनसा विषयग्रहणं स्वप्नः| सुहृद्दृष्टाः स्वप्ना निमित्तमात्रमेव; स्वयं दृष्टास्तु प्रकृत्यादिवर्जं गुरुतराः| अशुभस्वप्नान्निदर्शयन्नाह- स्नेहेत्यादि| करभादिष्वारुह्य तैलाभ्यक्तशरीरः सन् यो यायाद्गच्छेत्; अनेन दुःस्वप्नेन षण्मासैर्म्रियते परं राजयक्ष्मणा रोगेण| अन्तावसायिभिः चाण्डालैः| परिष्वजेरन् आलिङ्गेयुः| प्रव्रजिताः शैवपाशुपतादयः| मुहुर्वारंवारम्| आघ्रायते चुम्ब्यते, ‘भक्ष्यते' इत्यन्ते| श्वापदैः व्याघ्रादिभिः| पिबेन्मधु च तैलं चेति मधु पुष्परसः| चकारद्वयादेकैकशः पानमत्र ज्ञेयम्; केचिदत्र मधु मद्यमित्याहुः; तन्न, केवलस्य मद्यस्य पानं प्रशस्तं स्वप्नाध्यायशास्त्रेषु कथितं; यत्र तु सुरापानमशोभनमित्युक्तं, तत्र सुरा पिष्टमयी ग्राह्या| पङ्केऽवसीदतीति पङ्के कर्दमे, अवसीदति ब्रुडतीत्यर्थः, पङ्कावसादस्तु सद्योमृत्युकरः| रक्तां स्रजं रक्तपुष्पमालाम्| ग्रसेदिति गिलतीत्यर्थः| जननीं प्रविशेदिति मातुरुदरे प्रविशतीत्यर्थः| श्वभ्रे विवरे| तमसाऽऽवृते अन्धकारवेष्टिते| ह्रियेत नीयेत, स्रोतसा नाड्या| मौण्ड्यं कृत्तकेशता| पराजीयेत पराजितो भवतीत्यर्थः| बध्येत बन्धनं प्राप्नुयादित्यर्थः| तारकादीनामिति आदिग्रहणाच्चन्द्रादिग्रहणम्| प्रणाशं दीपचक्षुषोरिति स्वप्नेऽकस्माद्दीपं नष्टं पश्यति, स्वचक्षुषी विगलिते पश्यतीत्यर्थः| देवतानां प्रकम्पमिति देवतानां देवताप्रतिमानां कम्पमित्यर्थः| अवनेः पृथिव्याः| यूपो यज्ञपशुबन्धनकाष्ठं , पारिभद्रको निम्बवृक्षः, कोविदारः काञ्चनारः| लौहानि लोहमयानि वस्तूनि| पक्वमन्नं सिद्धमित्यर्थः; केचिदन्नस्थाने ‘मांसं' इति पठन्ति| सुरा पिष्टमयी न तु मद्यं, तस्य शोभनत्वात्| ऋच्छति प्राप्नोतीत्यर्थः||५४-६६||

Adhikarana 24 (67) · Śloka 67

यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा | चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ||६७||

🔊 Audio coming soon

विफलान् स्वप्नाननरिष्टभूतान् दर्शयन्नाह- यथास्वमित्यादि| स्वस्याः प्रकृतेरनतिक्रमेण यथास्वं, यथा- वातप्रकृतौ ‘वियति गच्छति सम्भ्रमेण च; (शा. अ. ४), पित्तप्रकृतौ ‘सम्पश्येदपि च हुताशविद्युदुल्काः' (शा. अ. ४), श्लेष्मप्रकृतौ ‘प्रसुप्तः सन् कमलहंसचक्रवाकान् सम्पश्येदपि च जलाशयान् मनोज्ञान्' (शा. अ. ४)| विस्मृतोऽतिशयेन न स्मृतः| विहतः पूर्वं विरूपो दृष्टः स चानन्तरं विशिष्टेन स्वप्नेन हतः| उक्तं च- “अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः| सौम्यं पश्येच्छुभाकारं तस्य विद्याच्छुभं फलम्”- (च. इ. अ. ५) इति| तथाग्रहणात् सुस्वप्नं दृष्ट्वाऽस्वपतां सद्यःफलत्वं महाफलत्वं च सूच्यते| अन्ये तु ‘विहितश्च यः' इति पठन्ति| दिवादृष्ट इति 'स्वप्नः' इति शेषः| भवन्त्यफलदास्तु ते इति तुशब्दश्चकारार्थः, तेनातिह्रस्वातिदीर्घप्रथमयामदृष्टाश्चाफलाः समुच्चीयन्ते| ‘भवत्यफल एव स' इति केचित् पठन्ति||६७||

Adhikarana 25 (68-70) · Śloka 71

ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् | उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ||६८|| मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् | गुल्मेषु स्थावरोत्पत्तिः कोष्ठे, मूर्ध्नि शिरोरुजि ||६९|| शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः | हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ||७०|| रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति |७१|

🔊 Audio coming soon

उत्तरतन्त्रपठितविशिष्टव्याधिषु विशिष्टमेव स्वप्नदर्शनारिष्टं दर्शयन्नाह- ज्वरितानामित्यादि| शुना सख्यमिति कुक्कुरेण सह मैत्र्यं, कपिसख्यमिति वानरमैत्र्यम्| प्रवर्तनशब्द उन्मादापस्माराभ्यां सह प्रत्येकं सम्बध्यते| गुल्मेषु गुल्मरोगेषु, स्थावरोत्पत्तिर्वृक्षोत्पत्तिः, कोष्ठे उदरे| मूर्ध्नि मस्तके स्थावरोत्पत्तिः, शिरोरुजि मस्तकव्यथायाम्| छर्द्यां ‘चणकादिपिष्टकृता सतिला तैलभृष्टा शष्कुलीत्युच्यते, तस्या भक्षणम्| अध्वा मार्गः, तत्र गमनं, श्वासपिपासयोः| हारिद्रमिति हरिद्रारक्तभोजनभक्षणमित्यर्थः||६८-७०||

Adhikarana 26 (71-74) · Śloka 74

स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ||७१|| दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा | जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ||७२|| दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् | जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ||७३|| न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम् | देवतायतने चैव वसेद्रात्रित्रयं तथा | विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ||७४||

🔊 Audio coming soon

अशुभस्वप्नदर्शने किञ्चिच्चिकित्सितमाह- स्वप्नानित्यादि| प्रथमे यामे प्रथमप्रहरे| दृष्ट्वा विलोक्य दुःस्वप्नम्| स्वप्यात् शयीत| किं कृत्वा? ध्यात्वा शुभं कल्याणमित्यर्थः| यद्यपि प्रथमयामलक्ष्य(दृष्ट) स्वप्नस्य निष्फलत्वं कथितं, तथाऽपि दुःस्वप्नभयादयं विधिः कर्तव्यः| अन्यतमम् एकतमम्| समाहितः सावधानः| न चाचक्षीत न च कथयेत्||७१-७४||

Adhikarana 27 (75-81) · Śloka 81

अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् | देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ||७५|| समिद्धमग्निं साधूंश्च निर्मलानि जलानि च | पश्येत् कल्याणलाभाय व्याधेरपगमाय च ||७६|| मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च | लभेत धनलाभाय व्याधेरपगमाय च ||७७|| महाप्रासादसफलवृक्षवारणपर्वतान् | आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ||७८|| नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् | तरेत् कल्याणलाभाय व्याधेरपगमाय च ||७९|| उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत् | आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ||८०|| एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः | स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ||८१||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| सुहृदो मित्राणि| समिद्धमग्निं प्रज्वलितं वह्निम्| कल्याणलाभायेति शुभवस्तुप्राप्तय इत्यर्थः| अपगमो निवृत्तिः| नद्यो गङ्गाद्याः, नदाः शोणाद्याः प्रसिद्धाः, क्षुभितान् प्रचलितान् वृद्धिं गतानित्यर्थः, कलुषोदकान् यत एव क्षुभितानत एवाप्रशस्तोदकानित्यर्थः| उरगः सर्पः, दशेद्भक्षयेत्||७५-८१||

Adhikarana puShpikA · Śloka 29

इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो नामैकोनत्रिंशत्तमोऽध्यायः ||२९||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकोनत्रिंशत्तमोऽध्यायः||२९||