Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

31. chāyāvipratipattyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातश्छायाविप्रतिपत्तिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अत्र छायाशब्दानन्तरं लुप्तादिशब्दनिर्देशाद्ध्रीश्रीतुष्ट्यादिविप्रतिपत्तयो ग्राह्याः| वर्णप्रभाश्रिता या भवति सा छायाशब्देनोच्यते| छायाप्रभयोस्तु भेदः शास्त्रकारैरुक्तः; तथा च- “वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिनी| आसन्ना लक्ष्यते च्छाया प्रभा दूराच्च लक्ष्यते” (च. इ. अ. ७)- इति| न केवलं वर्णप्रभाच्छायानां लक्षणभेदः, सङ्ख्याभेदोऽप्यस्ति; तथाहि- चतुर्विधो वर्णः- गौरः, कृष्णः, श्यामः, गौरश्याम इति; प्रभा सप्तविधा- रक्ता, पीता, सिता, श्यावा, हरिता, पाण्डुरा, असिता, इति; छाया पञ्चविधा- स्निग्धा, विमला, रूक्षा, मलिना, सङ्क्षिप्ता, इति||१-२||

Adhikarana 2 (3) · Śloka 3

श्यावा लोहितिका नीला पीतिका वाऽपि मानवम् | अभिद्रवन्ति यं छायाः स परासुरसंशयम् ||३||

🔊 Audio coming soon

छायाविरुद्धप्रतिपत्तिं दर्शयन्नाह- श्यावेत्यादि| अत्र यद्यपि श्यावा लोहितिका नीलेत्यादयः प्राकृताश्छायाः, तथाऽप्यभूतपूर्वा आकस्मिका विपर्ययेण या पुरुषमभिद्रवन्ति ता इह गृह्यन्ते; अभिद्रवन्ति अनुसरन्ति उपतिष्ठन्तीत्यर्थः| परासुर्गतप्राणः||३||

Adhikarana 3 (4) · Śloka 4

ह्रीरपक्रमते यस्य प्रभास्मृतिधृतिश्रियः | अकस्माद्यं भजन्ते वा स गतासुरसंशयम् ||४||

🔊 Audio coming soon

पूर्वाध्यायनिर्दिष्टशीलविकृतीः, तथा छायासदृशीं प्रभां निर्दिशन्नाह- ह्रीरित्यादि| ह्रीर्लज्जा, प्रभा पूर्वोक्तलक्षणा, स्मृतिः पूर्वानुभूतस्मरणं, धृतिः नियमात्मिका तुष्टिः सन्तोष इत्यर्थः, श्रीः कमनीयता| प्रभाविकृतिं विहायापराः शीलविकृतयो ज्ञेयाः| केचित् पठन्ति- ‘ह्रीश्रियौ नश्यतो यस्य तेज ओजः स्मृतिः प्रभाः’ इति; शेषं समं पठन्ति, व्याख्यानयन्ति च- श्रीर्धनं; तेजोऽत्र चेष्टालक्षणं बलमभिधीयते; ओजस्तु शुक्लं हृदयस्थं धातुधाम; शोभाधनतेजसां वैपरीत्यं वार्षिकमरिष्टं, स्मृतिबलादिविपर्ययः षाण्मासिकमरिष्टम्||४||

Adhikarana 4 (5-10) · Śloka 10

यस्याधरौष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः | उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ||५|| आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा | खञ्जनप्रतिमा वाऽपि तं गतायुषमादिशेत् ||६|| कृष्णा स्तब्धाऽवलिप्ता वा जिह्वा शूना च यस्य वै | कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ||७|| कुटिला स्फुटिता वाऽपि शुष्का वा यस्य नासिका | अवस्फूर्जति मग्ना वा न स जीवति मानवः ||८|| सङ्क्षिप्ते विषमे स्तब्धे रक्ते स्रस्ते च लोचने | स्यातां वा प्रस्रुते यस्य स गतायुर्नरो ध्रुवम् ||९|| केशाः सीमन्तिनो यस्य सङ्क्षिप्ते विनते भ्रुवौ | लुण्डन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ||१०||

🔊 Audio coming soon

छायादिविप्रतिपत्त्यनन्तरं वैपरीत्यसामान्यादोष्ठादीनामप्यवयवानां विकृतिं दर्शयन्नाह- यस्येत्यादि| अधरौष्ठः अधस्तन ओष्ठः| पतितः लम्बायमानः| उत्तर उपरितन ओष्ठः| ऊर्ध्वं क्षिप्तः ऊर्ध्वं चढि(लि)त इत्यर्थः| जाम्बवाभासाविति पक्वजम्बूफलसदृशवर्णौ| ओष्ठारिष्टेन दन्तारिष्टेन च सान्निपातिककालप्रमाणेन म्रियते| आरक्ता इत्यादि| अत्र श्यावदन्तत्वमरिष्टं सामान्यविषयं, न पुनर्विसूचीविषयमेव| खञ्जनप्रतिमा इति मर्दनादिना आमागारधूमानुरचितमुपस्तरणं खञ्जनमुच्यते, यं खरजिमित्याहुर्मृदङ्गवादकाः; अन्ये खञ्जरीटमाहुः, तद्वर्णः शुक्लकृष्ण इत्यर्थः| कृष्णेत्यादि| विशेषतस्तु जिह्वा अवलिप्तेवावलिप्ता, न पुनर्मलोत्पत्त्यादिना; प्रमेहपूर्वरूपे तु मलोत्पत्त्याऽनुलेपो लक्ष्यनिमित्तत्वादरिष्टं न भवति| शूना श्वयथुयुक्ता| विजहाति विशेषेण त्यजति| असून् प्राणान्| एतदरिष्टं पाक्षिकम्| कुटिलेत्यादि|- कुटिला वक्रा| स्फुटिता विकसिता| अवस्फूर्जति शब्दायते| मग्ना बुडिता| एतदरिष्टं चक्षुररिष्टं च सप्तरात्रिकम्| सङ्क्षिप्ते सङ्कुचिते| विषमे निम्नोन्नते| स्तब्धेऽत्र निश्चेष्टे| स्रस्ते अधःपतिते| स्यातां भवेताम्| केशा इत्यादि| सीमन्तः केशमार्गः| सङ्क्षिप्ते सङ्कुचिते, विनते अधःपतिते| लुण्डन्ति अनवरतं चलन्तीत्यर्थः| पक्ष्माणि चक्षुराच्छादनरोमाणि | भ्रुवावपि सीमन्तिन्याविति सम्बध्नन्ति केचित्| एतदरिष्टं स्वस्थस्य षड्रात्रादातुरस्य त्रिरात्रान्मरणाय| केचिदत्र सीमन्तारिष्टं तथा जिह्वानेत्रविकारारिष्टं च ज्वरविषयमेवाचक्षते, ज्वर एवैषां तेषु प्रदेशेषूक्तत्वात्; नैतदित्यन्ये, पुनर्वचनात्; तेषां ज्वर एवोक्तत्वात् पुनरिह तद्वचनमनर्थकमेव स्यात्||५-१०||

Adhikarana 5 (11-16) · Śloka 16

नाहरत्यन्नमास्यस्थं न धारयति यः शिरः | एकाग्रदृष्टिर्मूढात्मा सद्यः प्राणान् जहाति सः ||११|| बलवान् दुर्बलो वाऽपि सम्मोहं योऽधिगच्छति | उत्थाप्यमानो बहुशस्तं पक्वं भिषगादिशेत् ||१२|| उत्तानः सर्वदा शेते पादौ विकुरुते च यः | विप्रसारणशीलो वा न स जीवति मानवः ||१३|| शीतपादकरोच्छ्वासश्छिन्नोच्छ्वासश्च यो भवेत् | काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत् ||१४|| निद्रा न छिद्यते यस्य यो वा जागर्ति सर्वदा | मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः स जानता ||१५|| उत्तरौष्ठं च यो लिह्यादुत्कारांश्च करोति यः | प्रेतैर्वा भाषते सार्धं प्रेतरूपं तमादिशेत् ||१६||

🔊 Audio coming soon

कायावयवक्रियाविप्रतिपत्तिमधिकृत्याह- नाहरतीत्यादि|- नाहरति न गिलति, आस्यस्थं मुखस्थम्| मूढात्मा विस्मृतिशीलः| सद्य इति तस्मिन्नेवाहनि प्राणपरिक्षय इत्यवगन्तव्यम्| बलवानित्यादि| अत्र सम्मोहं मूर्च्छाम्| बहुशो वारंवारम्| पक्वं कालपक्वं मृत्युग्रस्तमित्यर्थः| अस्मिन्नरिष्टे सप्तरात्रं जीवितावधिः| उत्तान इत्यादि| शेते स्वपिति| विकुरुते मुहुर्मुहुस्तत्प्रसारणसङ्कोचौ करोति| विप्रसारणशीलः पादसङ्कोचनशीलः| एतदरिष्टं सद्योमरणकरम्| शीतपादेत्यादि पादौ करावुच्छ्वासश्च त्रयमेतद्यदैकदैव शीतं भवति तदैतदरिष्टं ज्ञेयम्| छिन्नोच्छ्वासश्च छित्वा च्छित्वा ऊर्ध्वं श्वसितीत्यर्थः| काकोच्छ्वास इति काकवद्व्यात्ताननः श्वसितीत्यर्थः| एतदरिष्टं सद्योमरणकरम्| निद्रेत्यादि| लिह्यात् स्वादयेत्| उत्कारान् उद्गारानित्यर्थः| प्रेतैः मृतैः| सार्धं सहेत्यर्थः||११-१६||

Adhikarana 6 (17-29) · Śloka 29

खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते | पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् ||१७|| वाताष्ठीला तु हृदये यस्योर्ध्वमनुयायिनी | रुजान्नविद्वेषकरी स परासुरसंशयम् ||१८|| अनन्योपद्रवकृतः शोफः पादसमुत्थितः | पुरुषं हन्ति, नारीं तु मुखजो गुह्यजो द्वयम् ||१९|| अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ्रता | श्वासिनः कासिनो वाऽपि यस्य तं क्षीणमादिशेत् ||२०|| स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम् | बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयः ||२१|| श्यावा जिह्वा भवेद्यस्य सव्यं चाक्षि निमज्जति | मुखं च जायते पूति यस्य तं परिवर्जयेत् ||२२|| वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्चरणावुभौ | चक्षुश्चाकुलतां याति यमराष्ट्रं गमिष्यतः ||२३|| अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि वा | यस्याकस्मात् स विज्ञेयो गन्ता वैवस्वतालयम् ||२४|| पङ्कमत्स्यवसातैलघृतगन्धांश्च ये नराः | मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम् ||२५|| यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः | येषां चापि रतिर्नास्ति यातारस्ते यमालयम् ||२६|| ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः | प्रक्षीणबलमांसस्य नासौ शक्यश्चिकित्सितम् ||२७|| क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा | न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ||२८|| प्रवाहिका शिरःशूलं कोष्ठशूलं च दारुणम् | पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ||२९||

🔊 Audio coming soon

शरीरदेशविशेषाश्रितव्याधिविशेषानरिष्टकृतान् दर्शयन्नाह- खेभ्य इत्यादि| खेभ्यः स्रोतोभ्यः| जह्यात् त्यजेत्| वाताष्ठीलेत्यादि|- वाताष्ठीलेव वाताष्ठीला, न तु वातव्याधिपठिता वाताष्ठीलेह गृह्यते; अथ सैव हृदयमागत्यैवंलक्षणा यदा भवति तदाऽरिष्टमिति| रुजान्नविद्वेषकरी चेति रुजाकरी अन्नविद्वेषकरी चेत्यर्थः| अनन्येत्यादि अनन्योपद्रवैः कृतः, कोऽर्थः? शोफस्यैवोपद्रवैः श्वासपिपासादौर्बल्यादिभिः कृत इत्यर्थः; इत्थम्भूतः शोफः पादसमुत्थितः पुरुषं हन्ति, इत्थम्भूतः श्वयथुर्मुखजो नारीम्, इत्थम्भूत एव शोफो गुह्यजो द्वयं पुरुषं नारीं च हन्तीति सम्बन्धः| अन्ये तु “अन्यैरुपद्रवैः पाण्डुरोगादिभिः कृतोऽन्योपद्रवकृतः, नान्योपद्रवैः कृतोऽनन्योपद्रवकृतः; पाण्डुरोगोदरार्शःप्रभृति श्वयथुकारणं विहायान्यकारणसमुत्थः पादशोफोऽसाध्यः, पाण्डुरोगादिकृतस्तु साध्य” इति मन्यते| अपरे तु ‘अनन्योपद्रवगत’ इति पठन्ति, अत्रानन्यः स्वकीयोपद्रव उच्यते, तमनन्योपद्रवं स्वकीयोपद्रवं श्वासपिपासादौर्बल्यादिकं गतः प्राप्त इत्यर्थः, स्वकीयोपद्रवं विहायान्योपद्रवपाण्डुरोगादिगतो नारिष्टमिति भावः| अपरे ‘आननोपद्रवगत’ इति मन्यन्ते, तत्र ‘पादाच्छोफ आननं मुखमुपद्रवैः सह गतः प्राप्तः’ इत्यर्थः| अतिसार इत्यादि| कासवतः श्वासवतो वा पुरुषस्य यदाऽतिसारादयो भवन्ति तदा तं पुरुषं, क्षीणं मृतमादिशेत् कथयेदित्यर्थः| एतदरिष्टं सप्तरात्रिकम्| स्वेद इत्यादि| बलवान् अतिशयेन| वियुञ्जन्ति प्राणैः सह वियोगं कुर्वन्ति मारयन्तीत्यर्थः| एतदरिष्टं त्रिरात्रिकम्| श्यावेत्यादि| सव्यं चाक्षि निमज्जति वाममक्षि बुडतीत्यर्थः| यस्य मुखं च जायते पूति मुखं शटितं भवतीत्यर्थः; एतत्त्रितयमपि समुदायेनैवारिष्टं; केचिदिदमरिष्टं सान्निपातिकमाहुः; अत एव मरणमर्यादाऽपि तत्प्रमाणेनैव| वक्त्रमित्यादि| आपूर्यते भ्रियते, अश्रूणां चक्षुरम्भसाम्| स्विद्यत इति स्वेदयुक्तौ भवतः| आकुलतां यातीति ओदनमण्डादिनेव पूर्णे अक्षिणीत्यर्थः| गमिष्यतो गन्तुमिच्छतः पुरुषस्य| चरणाविति द्विवचनेन द्वित्वे लब्धे उभशब्दो यौगपद्यज्ञापनार्थः| एतदरिष्टं मौहूर्तिकं प्राहरिकं च| अतिमात्रमित्यादि| अत्र गात्राणि परिचारकैः संवाहकैश्चोत्थाप्यमानान्यकस्मात् कारणं विना लघूनि लघुतराणि, गुरूणि भारवन्ति; अथवा गुरूणि स्थूलानि, लघूनि कृशानि; स्युर्भवेयुः| वैवस्वतो यमः, आलयं गृहं, गन्ताः गमिष्यतीत्यर्थः| पङ्केत्यादि| मृष्टान् गन्धान् ये पुरुषा वान्ति शोभनगन्धान् मुञ्चन्तीत्यर्थः| एतदरिष्टं वार्षिकम्| यूकेत्यादि| बलिं काकबलिम्| यस्य रतिर्नास्ति यस्य सुखं नास्ति, न रमते क्वापीत्यर्थः, परलोके बद्धरतित्वात्; एतदरिष्टं वार्षिकम्| ज्वरेत्यादि| अन्योन्यावसादिन इति परस्परोपद्रविणः| बलमुत्साहलक्षणम्| प्रवाहिका अतिसारभेदः| उपस्थितः समीपस्थित इत्यर्थः||१७-२९||

Adhikarana 7 (30) · Śloka 30

विषमेणोपचारेण कर्मभिश्च पुराकृतैः | अनित्यत्वाच्च जन्तूनां जीवितं निधनं व्रजेत् ||३०||

🔊 Audio coming soon

कस्मादेतान्यरिष्टान्युत्पद्यन्ते येभ्यो जीवितं निधनं यातीत्याह- विषमेणेत्यादि| प्रकृतेर्बलादीन् भावानवेक्ष्य कृत उपचारः समोपचारः, तद्विपरीतो विषमोपचारः| पुराकृतैः पूर्वजन्मार्जितैः, कर्मभिः शरीरस्थापकैः, ‘क्षीणैः’ इत्यध्याहारः| अनित्यत्वादिति विनाशित्वादित्यर्थः| निधनं विनाशः| अन्ये, अरिष्टादन्यतोऽपि मरणमुत्पद्यत इत्याहुः| तथाहि- युक्तिव्यपाश्रयं मरणमुक्तं ‘विषमेणोपचारेण’ इत्यनेन, दैवव्यपाश्रयं तु मरणं ‘कर्मभिश्च पुराकृतैः’ इत्यनेनोक्तं, स्वभावादप्यनित्यं जीवितं भवतीति ‘अनित्यत्वाच्च’ इत्यनेनोच्यते, एतेन त्रिहेतुकं मरणमुक्तम्| ननु, सर्वत्रारिष्टमन्ते मरणायोत्पद्यते, तत् कथं मरणे हेत्वन्तराण्युक्तानि? सत्यम्, उल्लङ्घितचिकित्सामार्गैर्दोषैर्जन्यते मरणं, रिष्टमपि च तथाविधैरेव दोषैर्जन्यते, अत एकसामग्रीजनितमेवारिष्टमिति न दोष इति मन्यन्ते||३०||

Adhikarana 8 (31-32) · Śloka 32

प्रेता भूताः पिशाचाश्च रक्षांसि विविधानि च | मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ||३१|| तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया | तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ||३२||

🔊 Audio coming soon

कस्मात् पुनर्मरणमप्रतिसाधनमित्यत आह- प्रेता इत्यादि| प्रेताः प्राणिनो विगतिं प्राप्ताः, भूता यमानुचराः, पिशाचाः पिशिताशना देवयोनयः, रक्षांसि रावणानुचरादीनि, उपसर्पन्ति समीपं गच्छन्ति, प्रतिघ्नन्ति विनाशयन्ति, जिघांसया हन्तुमिच्छया, मोघा निष्फलाः| अन्ये व्याख्यानयन्ति- शारीरव्याधिषु क्रियावैफल्यहेतवः प्रागुक्ताः; तथाहि- “स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च| निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा”- (सू. अ. २३) इति| आगन्तुषु पुनरत्र भूतानुबन्धाच्च क्रियावैफल्यं दर्शयति- प्रेता इत्यादिना| तत्र प्रेता अकृतैकोद्दिष्टा भविष्यत्पितृभेदाः, भूताः पिशाचभेदाः, रक्षांसि विविधानि चेति ब्रह्मराक्षसादिभेदाद्विविधानि नानाप्रकाराणीत्यर्थः| चकारद्वयमौषधवीर्योपघाते तुल्यसामर्थ्यं समुच्चिनोति| तथाहि- यथा ‘स स्थिरत्वात्’ इत्यादौ शारीरव्याधिक्रियाप्रतिघातसामर्थ्यमुक्तं, तथाऽऽगन्तुव्याधिक्रियाप्रतिघातसामर्थ्यमप्यत्र ‘प्रेता’ इत्यादौ||३१-३२||

Adhikarana puShpikA · Śloka 31

इति सुश्रुतसंहितायां सूत्रस्थाने छायाविप्रतिपत्तिर्नामैकत्रिंशत्तमोऽध्यायः ||३१||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकत्रिंशत्तमोऽध्यायः||३१||