Adhikarana 1 (1-3) · Śloka 3
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
शल्यं द्विविधमवबद्धमनवबद्धं च ||३||
अवबद्धमनवबद्धं चेति तत्रावबद्धं विशेषेणाऽऽसक्तम्; अन्ये तु “अस्थ्यादिप्रविष्टमवबद्धम् , इतरदनवबद्धम्” इति मन्यन्ते||१-३||
Adhikarana 2 (4) · Śloka 4
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः |
तद्यथा- स्वभावः, पाचनं, भेदनं, दारणं, पीडनं, प्रमार्जनं, निर्ध्मापनं, वमनं, विरेचनं, प्रक्षालनं, प्रतिमर्शः, प्रवाहणम्, आचूषणम्, अयस्कान्तो, हर्षश्चेति ||४||
तत्रानवबद्धस्यैव प्रथममङ्गीकृतस्य परिसङ्ख्याय हेतून् परिहरणे दर्शयन्नाह- तत्रेत्यादि| तत्रेति तयोर्मध्ये| स्वभावः प्रकृतिः; पाचनमिति अपक्वशल्यस्य पाचनद्रव्यैः पाकविधानं; भेदनमिति वृद्धिपत्रादिभिः शस्त्रैः स्फोटनं; दारणमिति चिरबिल्वादिभिर्मिश्रकोक्तैरौषधैर्विदारणं; पीडनमिति ‘द्रव्याणां पिच्छिलानां’(सू. अ.३७) इत्यादिमिश्रकोक्तैर्द्रव्यैः कृत्वा पीड्यते यत्; प्रमार्जनमिति बालवस्त्राभिः प्रोञ्छनं; निर्ध्मापनमिति प्रधमनम्, एतदुक्तं भवति पिप्पलीकट्फलादिचूर्णस्य नाड्या नासान्तःप्रापणं; प्रतिमर्शः अङ्गुल्यादिघर्षणं; प्रवाहणं वि(नि)कुन्थनम्; आचूषणं मुखशृङ्गैः कृत्वा यच्चूष्यते; अयस्कान्तः पाषाणविशेषः, यद्यप्ययस्कान्त इति सामान्येनोपात्तस्तथाऽप्यत्र कर्षको ग्राह्यः; हर्षस्तुष्टिः||४||
Adhikarana 3 (5) · Śloka 5
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति |
मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति |
पक्वमभिद्यमानं भेदयेद्दारयेद्वा |
भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा |
अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् |
आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् |
अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः |
विरेचनैः पक्वाशयगतानि |
व्रणदोषाशयगतानि प्रक्षालनैः |
वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् |
मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा |
अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन |
हृद्यवस्थितमनेककारणोत्पन्नं शोकशल्यं हर्षेणेति ||५||
स्वभावादिहेतोर्विषयमाह- तत्राश्रुक्षवथूद्गारेत्यादि| तत्र तेषां पञ्चदशानां मध्ये| एतैरश्रुप्रभृतिभिः स्वभावबलं स्वभावशक्तिः, ततः प्रवृत्तैरागतैर्हेतुभिर्नयनादिभ्यः शरीरप्रदेशेभ्यो रजःप्रभृति शल्यं पततीत्यर्थः| पाचनविषयमाह- मांसावगाढमित्यादि| अवगाढम् अभ्यन्तरगतम्| अविदह्यमानम् अपच्यमानम्| प्रकोथात्तस्येति पूतिभावान्मांसस्येत्यर्थः| भेदनदारणयोर्विषयमाह- पक्वमित्यादि| पीडनविषयमाह- भिन्नमित्यादि| अनिरस्यमानम् अनिष्क्रामन्तम्| प्रमार्जनविषयमाह- अणूनीत्यादि| अक्षाणि इन्द्रियाणि| परिषेचनं धाराभिषेचनम्| आध्मापनम् अक्षिषु मुखमारुतस्य प्रापणम्| निर्ध्मापनविषयमाह- आहारशेषत्यादि|- भुञ्जानस्य नासान्तरादिस्थितमन्नमाहारशेषः| हीनानां पतितानां भ्रष्टानां शल्यानामल्पावयवा हीनाणुशल्यान्युच्यन्ते| श्वसनं श्वासः, उत्कास उत्कृष्टं कासनम्| निर्धमेत् निष्कासयेत्| वमनप्रतिमर्शयोर्विषयमाह- अन्नशल्यानीत्यादि| अन्नशल्यं वमनेन पतति, अङ्गुलिप्रतिमर्शेन च; अङ्गुलिप्रतिमर्शः अङ्गुल्यादिघर्षणम्| विरेचनविषयं दर्शयन्नाह- विरेचनैः पक्वाशयगतानीति|- पक्वाशयगतानि ‘शल्यानि’ इति शेषः| प्रक्षालनविषयमाह- व्रणेत्यादि| व्रणदोषः पूयः, स एव शल्यं, व्रणाशयगतान्यन्यान्यपि शल्यानीत्यर्थः| प्रवाहणविषयमाह- वातेत्यादि| सङ्गः अप्रवृत्तिः| चूषणविषयमाह- मारुतेत्यादि| अयस्कान्तविषयमाह- अनुलोममित्यादि| हर्षविषयमाह- हृद्यवस्थितमित्यादि| केचिदनवबद्धशल्यहरणमध्ये भेदनदारणपीडनवमनविरेचनप्रक्षालनानि न मन्यन्ते, तेषां मते भेदनदारणयोरवबद्धशल्यविषयत्वं, पीडनादीनां चतुर्णां यथासम्भवमुक्तेष्वेवान्तर्भावः||५||
Adhikarana 4 (6) · Śloka 6
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः- प्रतिलोमोऽनुलोमश्च ||६||
पञ्चगतीनां शल्यानामपि सर्वेषाममार्गमार्गभेदेन द्विविधमाहरणं दर्शयन्नाह- सर्वशल्यानामित्यादि| प्रवेशमार्गेणैवाहरणं प्रतिलोमं, तद्विपरीतं चानुलोमम्||६||
Adhikarana 5 (7) · Śloka 7
तत्र प्रतिलोममर्वाचीनमानयेत् , अनुलोमं पराचीनम् ||७||
प्रतिलोमानुलोमाहरणयोर्विषयमाह- तत्रेत्यादि| तत्रेति तयोर्मध्ये| अर्वाचीनमिति नातिदूरप्रवेशात्, निविष्टशल्यद्वारापेक्षया कायस्य पूर्वार्धस्थितं शल्यमार्वाचीनमुच्यते| तत्तु शल्यं प्रतिलोममानयेत्| कोऽर्थः? पाश्चात्येऽर्वाचीनदेशे आनयेत्, प्रवेशमार्गेणैवानयेत्; अनुलोमेन परार्धेन निर्ह्रियमाणमविद्धमपि बहुतरं प्रदेशं वेधयेत्; तत्र मरणमुपद्रवा वा भवन्ति| अनुलोममित्यादि| पराचीनमिति दूरप्रविष्टं; कायस्य परार्धनिर्गतं शल्यमुच्यते| तच्छल्यमनुलोममानयेत्| कोऽर्थः? अग्रेतने पराचीने प्रदेशे आनयेत्||७||
Adhikarana 6 (8) · Śloka 8
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ||८||
यदा त्वनतिवेगाच्छल्यमग्रेतनप्रदेशेन निर्गतमुत्तुण्डितमुखं च भवति तदा तस्य शल्यस्य छेदनीयमुखस्य छेद्यप्रदेशजटितस्य पराचीनानुलोमहरणे कीदृशं विधानमिति दर्शयन्नाह- उत्तुण्डितमित्यादि| उत्तुण्डितमूर्ध्वं निःसरन्मुखमिव| निर्घातयेदिति इतस्ततश्चालयेद्धस्तेन मुद्गरादिना वा; ततश्चानुलोममाहरेत्| छेदनीयमुखमिति कण्टकखर्जूरीपत्रप्रभृतिकम्, एतेनोत्तुण्डितं छेदनीयमुखं परान्निर्गतमुखं छेद्यप्रदेशजटितं च शल्यं पराचीनानुलोमाहरणविषय इत्युक्तं भवति||८||
Adhikarana 7 (9) · Śloka 9
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावङ्क्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ||९||
किं छेदनीयमुखस्य सर्वत्रायं विधिर्नेत्याह- छेदनीयेत्यादि| वक्ष इति हृदयम्| हस्तेनाहर्तुं यच्छक्यते शल्यं तत् हस्तशक्यम्| यथामार्गेणेति प्रवेशमार्गेणेत्यर्थः| हस्तेनैवेति हस्तेनैवोद्धरेत्, न कदाचिन्मुद्गरादिभिश्चालयेत्| प्रयतेत प्रयत्नं कुर्वीत| अन्ये तु ‘अच्छेदनीयमुखानि तु’ इत्यादि पाठं पठन्ति, व्याख्यानयन्ति च- न केवलमनुत्तुण्डितान्यनिर्घात्यमुखान्यपीति समुच्चीयते तुशब्देन, तानि कुक्ष्यादिपतितानि सर्वाण्येवाच्छेद्यत्वादनिर्घात्याहरणीयानि | एतेनैतदुक्तं भवति- पराचीनानामपि शल्यानामनुलोममाहरणीयानामपि प्रतिलोममेवाहरणं कर्तव्यम्, अनुलोमाहरणे कुक्ष्यादिषु महान् छेदानुबन्धो भवेत्| पर्शुकान्तरपतितानि चेत्यस्याग्रे, “अनुत्तुण्डितशल्यानि छेदनीयमुखानि च| अनिर्घात्यानि जानीयाद्भूयश्छेदानुबन्धतः”- इति भोजसंहितोक्तं केचित् पाठं पठन्ति, स च प्रमादपाठः, निबन्धेष्वदर्शनात्||९||
Adhikarana 8 (10) · Śloka 10
हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् ||१०||
हस्तेनापहर्तुमशक्ये शल्ये किं विधानमिति दर्शयति- हस्तेनेत्यादि| विशस्य छित्त्वा शस्त्रेणेत्यर्थः| केचित् ‘हस्तेन चाहर्तुमशक्ये अविशस्य यन्त्रेणापहरेत्’ इति पाठं मन्यन्ते| तेषां मते अविशस्य अच्छित्त्वेत्यर्थः, हस्तेन चेति चकारेण यन्त्राहरणाशक्यस्य शल्यस्य विशस्येत्युपलभ्यते||१०||
Adhikarana 9 (11) · Śloka 11
भवति चात्र- शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् |
संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ||११||
शल्याहरणे उपद्रवचिकित्सासूत्रं निर्दिशन्नाह- शीतलेनेत्यादि| एनमिति शल्यातुरम्| अवसेचयेदिति सिञ्चेदित्यर्थः| आश्वासयेदिति क्षीरतर्पणादिदानेन| बाहुल्येनामुं पाठं केचिन्न पठन्ति| गयदासेन तु पठित्वाऽयं पाठोऽत्रान्तरे व्याख्यातः, युक्तश्चायं, तस्मात् पठनीय एव||११||
Adhikarana 10 (12) · Śloka 12
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः संस्वेद्यावदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽऽचारिकमुपदिशेत् |
(सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत्; श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं; दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा|) ||१२||
हृते शल्ये पश्चात्कर्म दर्शयन्नाह- तत इत्यादि| निर्लोहितमिति अरुधिरवन्तम् | संस्वेद्येति अतिनिःसृतशोणितमवेदनं सुखोष्णेन घृतेन, तदितरमग्निना संस्वेद्येति सम्बन्धः| अवदह्येति अग्निकृत्यान् व्रणान् दग्ध्वेत्यर्थः| प्रदिह्येति लेपयित्वा, अस्वेद्यमतिस्रुतशोणितं च| अत्र केचित् ‘अवदह्य’ इति न पठन्ति, ‘प्रदिह्य’ इत्यस्य स्थाने ‘तर्पयित्वा’ इति पठन्ति| अत्र केचिद्गड्डुरिकाप्रवाहेण भोजोक्तं ‘सिरास्नायुविलग्नं शलाकाभिर्विमोच्यापनयेत्, श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं, दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा’ इति पाठं पठन्ति, प्रवाहपठिता व्याख्यानयन्ति च- वारङ्गं शस्त्रनालम्, अवपीड्य श्वयथुमपनयेदिति सम्बन्धः; कुशादिभिः बध्वा ‘अपनयेत्’ इत्यत्रापि योज्यते; कुशा वंशवेत्रादिकम्बी| अयं च विधिस्तन्त्रान्तरादवसेयो न सुश्रुतसंहितायामस्ति, तन्त्रान्तरदर्शनालसैस्त्वत्रैवानीय लिखित इत्यत्र न पठनीय एव||१२||
Adhikarana 11 (13) · Śloka 13
हृदयमभितो वर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गं; दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् ||१३||
वक्षःपतितेषु विशेषविधिमाह- हृदयमित्यादि| हृदयमभितो वर्तमानमिति हृदयसमीपे स्थितमित्यर्थः| उद्वेजितस्य उद्विग्नहृदयस्य, शीतजलादुद्वेजनं च क्लमपरिहाराय| यथामार्गमिति येनैव मार्गेण प्रविष्टं तेनैवापहरेदित्यर्थः| तेनाशक्ये उपायान्तरं दर्शयन्नाह- दुरुपहरमित्यादि| दुःखेनोपह्रियते तद्दुरुपहरम्| अन्यत इति अन्यस्मिन्नपि प्रदेशे| अपबाध्यमानमिति मर्मपीडाकरं, ‘शल्यं’ इति शेषः| पाटयित्वेति दारयित्वेत्यर्थः||१३||
Adhikarana 12 (14) · Śloka 14
अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत्, अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्यवक्त्रकविके बध्नीयात्, अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति; दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् ||१४||
अवबद्धशल्यस्य हस्तेनापहर्तुमशक्यस्य निर्हरणोपायं दर्शयन्नाह- अस्थीत्यादि| अस्थिविवरप्रविष्टमिति अस्थिच्छिद्रान्तर्गतम्| विदष्टमिति अत्यासक्तम्| सुपरिगृहीतस्य आतुरस्येत्यर्थः| प्रविभुज्य वक्रीकृत्य| धनुर्गुणैरिति मुर्वार्कसूत्रमयैः| एकत एकस्मिन् प्रदेशे| अस्येति शल्यवतो नरस्य| पञ्चाङ्ग्यामिति बन्धविशेषे| उपसंयतस्य बद्धस्य| अश्वस्य घोटकस्य, वक्त्रं मुखं, तत्र कविका कटकं, तत्र बध्नीयात् शल्यमिति सम्बन्धः| एनम् अश्वं, कशया सट्टया, उन्नामयन्निति उच्चैः कुर्वन्| पक्षान्तरमाह- दृढां वा वृक्षशाखामित्यादि| अवनम्य नमयित्वा, तस्यामिति वृक्षशाखायाम्| अन्ये तु ‘दृढां’ इत्यस्य स्थाने ‘पञ्चाङ्गी’ इति मन्यन्ते; तत्र पञ्चाङ्गीं पञ्चभिः शाखान्तरैर्युतां शाखां वदन्ति| अपरे तु पञ्चाङ्गीं प्लक्षाश्वत्थोदुम्बरन्यग्रोधवेतसानामिति कथयन्ति| अन्ये त्वेवं पठन्ति ‘अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतोऽश्ववक्त्रकविके बध्नीयात्, अथैनं कशया ताडयेद्यथोन्नामयञ्छिरो वेगेन शल्यमुद्धरति, नामितायां पञ्चाङ्ग्यां वृक्षशाखायां वा पूर्ववद्बद्ध्वोद्धरेत्’ इति||१४||
Adhikarana 13 (15) · Śloka 15
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण ||१५||
कुक्ष्याद्यच्छेदनीयप्रदेशोत्तुण्डितानामस्थ्यादिविदष्टानां यथामार्गापहरणोपायं दर्शयन्नाह- अदेशेत्यादि| यथामार्गमेव यन्त्रेणेति ‘अपहरेत्’ इति शेषः| ‘अस्थिदेशोत्तुण्डितं’ इत्यन्ये पठन्ति||१५||
Adhikarana 14 (16) · Śloka 16
विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव ||१६||
कर्णवतामाहरणं च दर्शयन्नाह- विमृदितेत्यादि| कर्णवद्यच्छल्यं तदनाबाधकरप्रदेशोत्तुण्डितं यदा भवति तदा विमृदितकर्णिकं कृत्वा, कोऽर्थः? सङ्कुचितकर्णिकं कृत्वा, पुरस्तादेव कोऽर्थः? अग्रेतने प्रदेशे एव, ‘आकर्षयेत्’ इति शेषः||१६||
Adhikarana 15 (17) · Śloka 17
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां, तयाऽवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् ||१७||
जातुषशल्यस्य विधानं दर्शयन्नाह- जातुष इत्यादि| जातुषे लाक्षामये| कण्ठासक्ते गललग्ने| नाडीमिति ताम्रादिरचितनलिकां, स्थिरीभूतामुत्पन्नगाढताम्| शिशवो जातुषैः शल्यैः क्रीडन्ति, ते यदा प्रमादान्निगिलन्ति तदाऽयं विधिर्वेदितव्यः| अन्ये तु जातुषाणि सिरादिष्वेव घ(ज)टितानि मन्यन्ते||१७||
Adhikarana 16 (18) · Śloka 18
अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके ||१८||
अजातुषे कण्ठासक्ते विधिमाह- अजातुषमित्यादि| जतु लाक्षा, मधूच्छिष्टं सिक्थकम्, पूर्वकल्पेनेति शीतोदकस्थिरीभूतमित्यर्थः||१८||
Adhikarana 17 (19) · Śloka 19
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकदीर्घसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत्, वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्; मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः |
क्षतकण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्करामिश्रम् ||१९||
अस्थ्यादिशल्यस्यात्यन्तं कण्ठासक्तस्याहरणमुद्दिशन्नाह- अस्थिशल्यमित्यादि| केशोण्डुकं बालकृतं बिटुकम्| उपहितं सहितम्| सहसा त्वाक्षिपेदिति शल्यनिर्गमनार्थम्| दन्तधावनकूर्चकेनेति दन्तधावनानां करञ्जकादीनां कुट्टिताग्रं कूर्चकं, तेनापहरेदित्यर्थः| प्रणुदेद्वाऽन्तरिति बहिरनिर्गच्छदन्तः प्रणुदेत् प्रवेशयेदित्यर्थः| ‘केशोन्दुकं’ इत्यादि केचित् पाठं पठन्ति| आहृतकण्ठशल्यस्य पश्चात्कर्म दर्शयन्नाह- क्षतकण्ठायेत्यादि||१९||
Adhikarana 18 (20) · Śloka 20
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् ||२०||
उदकं यदाऽन्तर्निविष्टं जलमृतादीनामुदरे भवति तदा तस्यापहरणोपायं दर्शयन्नाह- उदकेत्यादि| अवाक्शिरसमधोमुखीकृतम्, अवपीडयेदुदरं, धुनीयात् कम्पयेत्, वामयेत् घर्षणैरवाक्शिरसमेव, निखनेत् प्रवेशयेत्, आमुखादिति मुखपर्यन्तम्||२०||
Adhikarana 19 (21) · Śloka 21
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे मुष्टिनाऽभिहन्यात्, स्नेहं मद्यं पानीयं वा पाययेत् ||२१||
कण्ठासक्तग्रासाहरणोपायमाह- ग्रासशल्ये इत्यादि| अनवबुद्धमिति अज्ञातं यथा भवति| अभिहन्यादिति प्रहारं दद्यादित्यर्थः||२१||
Adhikarana 20 (22) · Śloka 22
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि, लालास्रावं फेनागमनं सञ्ज्ञानाशं चापादयति; तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्रसं च वातघ्नं दद्यादिति ||२२||
बाहुरज्जवादिपीडितकण्ठप्रकुपितवायुश्लेष्मापहरणोपायमाह- बाह्वित्यादि| पाशशब्दो बाह्वादिभिः सह प्रत्येकं सम्बध्यते| केचिदमुं पाठं न पठन्ति||२२||
Adhikarana 21 (23-26) · Śloka 26
भवन्ति चात्र- शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् |
तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ||२३||
कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च |
आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ||२४||
एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि |
मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ||२५||
शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम् |
वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् ||२६||
शल्याकृतीनामानन्त्यादनुक्तमपि कर्तव्यं दर्शयन्नाह- शल्याकृतीत्यादि| स्थानानि शिरोऽक्षिकर्णनासाहृदयादीनि| कर्णवतां दुराहरत्वं दर्शयन्नाह- कर्णवन्तीत्यादि| आददीतेति सङ्गृह्णीयादित्यर्थः| युक्त्येति योगेन, न तु हीनयोगातियोगमिथ्यायोगैः| समाहितः सावधानः| अवश्यं निर्हरणीयस्य शल्यस्योक्तैः प्रकारैरनाहरणेऽनुक्तोपायमनुक्तयन्त्रकरणसूत्रमुद्दिशन्नाह- एतैरित्यादि| नैव निर्यात्यते यदीति नैव निष्कास्यते यदीत्यर्थः| मत्या निपुणया वैद्य इति मत्या निपुणया स्वकर्मणि प्रवीणया बुद्ध्या युक्तः| यन्त्रयोगैश्च निर्हरेदिति योगैः संयोगैः, योगैश्चेति चकारादनुक्तगुणादिबन्धनादि समुच्चीयते| शल्यस्यानाहरणे दोषं दर्शयन्नाह- शोथपाकावित्यादि| अमुं श्लोकं केचिदत्र न पठन्ति, न्यायचन्द्रिकायां तु पठितत्वादवश्यं पठनीय एव||२३-२६||
Adhikarana puShpikA · Śloka 27
इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयो नाम सप्तविंशतितमोऽध्यायः ||२७||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने सप्तविंशतितमोऽध्यायः||२७||