Adhikarana 1 (1-2) · Śloka 2
अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथात इति| योग्या सम्यक्कर्माभ्यासः, योग्यायाः सूत्रं, तद्विद्यते यस्मिन् स तथा; अन्ये तु योग्याख्यापकं सूत्रं योग्यासूत्रं, तदधिकृत्य कृतोऽध्यायो योग्यासूत्रीयः, तं तथा||१-२||
Adhikarana 2 (3) · Śloka 3
अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत् |
स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत् |
सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ||३||
अधिगतेत्यादि| स्नेहादिष्विति आदिशब्दात् स्वेदवमनविरेचनास्थापनानुवासनादीनां ग्रहणं, छेद्यादिष्विति आदिशब्दाद्भेद्यादीनां सप्तानां ग्रहणं; यद्यप्यस्मिन् तन्त्रे छेद्यादिकर्मणां प्राधान्यं तथापि छेद्यादिष्वपि प्राक् स्नेहादि प्रयुज्यत इति प्राक् स्नेहादिग्रहणम्; अन्ये ‘छेद्यादिषु स्नेहादिषु च’ इति पठन्ति| कर्मपथं क्रियामार्गम्| कुतोऽधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेदित्याह- सुबहुश्रुतोऽपीत्यादि| अकृतयोग्यः अकृतकर्माभ्यासः| कर्मसु क्रियासु||३||
Adhikarana 3 (4) · Śloka 4
तत्र, पुष्पफलालाबूकालिन्दकत्रपुसै(सो)र्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत्, उत्कर्तनापकर्तनानि चोपदिशेत्; दृतिबस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां; सरोम्णि चर्मण्यातते लेख्यस्य; मृतपशुसिरासूत्पलनालेषु च वेध्यस्य; घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य; पनसबिम्बीबिल्वफलमज्जमृतपशुदन्तेष्वाहार्यस्य; मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य; सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य; पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां; मृदुषु मांसखण्डेष्वग्निक्षारयोग्यां; मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम्; उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानबस्तिव्रणबस्तिपीडनयोग्यामिति ||४||
शल्यतन्त्रस्य छेद्यादिकर्मप्राधान्यात् प्राक् छेद्यादियोग्यामुपदर्शयन्नाह- तत्र पुष्पफलेत्यादि| पुष्पफलं कूष्माण्डः, कालिन्दको जोन्नालः कूष्माण्डभेदः, त्रपुसादयः कर्कटीभेदाः, प्रभृतिग्रहणाच्छीर्णवृन्तादीनां ग्रहणम्| छेद्यविशेषानिति गोतीर्थार्धलाङ्गलकप्रभृतीन्| उत्कर्तनम् ऊर्ध्वकर्तनम्, अपरकर्तनम् अधश्छेदः| दृतिबस्तीत्यादि दृतिः चर्मपुटकं , बस्तिः मूत्रपुटकं, प्रसेवकः चर्मखल्लपुटः , उदकपङ्कमिति उदकमिश्रः पङ्कः उदकपङ्कः| सरोम्णीत्यादि| आतते प्रसारिते| मृतपशुसिरास्विति मृताः पशवोऽजादयस्तेषां सिरासु| पनसेत्यादि पनसो बहिःकण्टकी महाफलः ‘कटहल’ इति लोके; पनसादीनां फलानि तेषां मज्जा| मधूच्छिष्टेत्यादि मधूच्छिष्टं मधुसिक्थकम्| शाल्मलीफलके शाल्मलीपट्टके| पुस्तमयेत्यादि पुस्तमयः पुरुषो वस्त्रादिरचितो मनुष्यः| मृदुचर्मेत्यादि मांसपेशी मांसवर्तिः| उदकेत्यादि| नेत्रप्रणिधानं नेत्रप्रवेशनं, बस्तिव्रणबस्तिपीडनं च, अनयोर्योग्यां कारयेत्; क्व कारयेत्? उदकपूर्णघटपार्श्वस्रोतसि; न केवलं जलपूर्णघटपार्श्वच्छिद्रे अलाबूमुखादिषु चेत्यर्थः||४||
Adhikarana 4 (5) · Śloka 5
भवतश्चात्र- एवमादिषु मेधावी योग्यार्हेषु यथाविधि |
द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ||५||
भवतश्चात्रेत्यादि| एवमादिष्विति आदिशब्दः प्रकारे, एवम्प्रकारेषु योग्यार्हेषु पुष्पफलादिषु||५||
Adhikarana 5 (6) · Śloka 6
तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु |
यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ||६||
तस्मादित्यादि| यस्य कर्मणः, यत्र यस्मिन् द्रव्ये, साधर्म्यं साम्यं, तस्य तत्र योग्यां समाचरेदिति| केचिदेवमादिषु मेधावीत्यादिश्लोकस्याग्रे आपातनिकापूर्वं श्लोकमेकं पठन्ति; तद्यथा- अनुक्तं योग्याविषयमुपग्रहीतुमाह- ‘दृष्टान्तमात्रमुद्दिष्टं’- इत्यादि, स च वर्तमानेषु पुस्तकेषु न पठ्यत इत्यस्माभिरुपेक्षितः||६||
Adhikarana puShpikA · Śloka 9
इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः ||९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः|