Adhikarana 1 (1-2) · Śloka 2
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः ||३||
🔊 Audio coming soon
जलौकसां विषयं निर्दिशन्नाह- नृपाढ्येत्यादि| अनुग्रहार्थमिति उपकारार्थम्| परमसुकुमारोऽयमिति प्रधानमृदुरित्यर्थः; शृङ्गालाबू सुकुमारोपायौ, जलौकसस्तु परमसुकुमारोपायः; असुकुमारोपायस्तु प्रच्छन्नं सिराव्यधनं च||३||
Adhikarana 3 (4) · Śloka 4
तत्र वातपित्तकफदुष्टशोणितं यथासङ्ख्यं शृङ्गजलौकालाबुभिरवसेचयेत्, सर्वाणि सर्वैर्वा (विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात्) ||४||
🔊 Audio coming soon
दोषविशेषेणापि जलौकसां तत्प्रसङ्गेनागतस्य शृङ्गस्यालाब्वाश्च विषयं दर्शयितुमाह- तत्र वातेत्यादि| अस्याग्रे केचित् ‘स्निग्धशीतरूक्षत्वात्’ इति हेतुमुदाहरन्ति, अमुं च निबन्धकारा न पठन्ति| पक्षान्तरं दर्शयन्नाह- सर्वाणीत्यादि| सर्वाणि वातपित्तकफदुष्टानि शोणितानि, सर्वैरिति शृङ्गादिभिर्यथालाभम्| ननु यथासङ्ख्यमित्यभिधाय सर्वाणि सर्वैर्वेत्युक्तमनियतं वचनं स्यादित्यभिप्रायेणाह- विशेषतस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयादिति; अतिशयेन विस्रावणार्हं यद्भवति शोणितमतिप्रबलतया तच्छृङ्गादिभिर्गृह्णीयान्निर्हरेदित्यर्थः| विशेषतस्त्वित्यादि पाठस्तु कैश्चिदेव निबन्धकारैः कथञ्चिदेव व्याख्यातः, बहुभिस्तु जेज्झटादिभिः परिहृत एव||४||
Adhikarana 4 (5-7) · Śloka 7
भवन्ति चात्र श्लोकाः- उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् | तस्माद्वातोपसृष्टे तु हितं तदवसेचने ||५|| शीताधिवासा मधुरा जलौका वारिसम्भवा | तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ||६|| अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् | तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ||७||
🔊 Audio coming soon
तत्र वातादिदुष्टे सहेतुशृङ्गाद्यवचारणं दर्शयन्नाह- भवन्ति चात्रेत्यादि| समधुरम् ईषत्स्निग्धं; केचित् ‘स्निग्धं श्लक्ष्णं समधुरं’ इति पठन्ति| शीताधिवासा शीतगृहा||५-७||
Adhikarana 5 (8) · Śloka 8
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्, सान्तर्दीपयाऽलाब्वा (जलायुका वक्ष्यन्ते) ||८||
🔊 Audio coming soon
वातादिदोषदुष्टरुधिरास्रावणप्रसङ्गागतयोः शृङ्गालाबुकयोरवचारणं दर्शयन्नाह- तत्र प्रच्छिते इत्यादि| बस्तिरत्र मूत्राशयः, पटलं घनं शुभ्रं मर्कटिकाजालकं, तनुशब्दस्तु द्वयोरपि सम्बध्यते| अन्ये तु ‘तनुवस्त्रपटलावनद्धेन’ इति पठन्ति, व्याख्यानयन्ति च- सूक्ष्मवस्त्रावरणपिहितेन| सान्तर्दीपया मध्यदीपसहितया, शोणितमवसेचयेदिति सम्बन्धः| केचिदलाब्वा अवचारणमन्यथा पठन्ति; तथाहि- भूर्जपत्रशणतुलानामित्यादि| अयं पाठोऽभावात् समग्रो न लिखितः| शृङ्गलाबुप्रमाणं भालुकिसकाशादवगन्तव्यम्| तथाच तद्वचः- “विषाणं श्वेतगोरिन्दुवक्रं सप्ताङ्गुलायतम् | क्षिप्तान्तः पिचुपेशीकं योज्यं वातयुतेऽसृजि|| अङ्गुष्ठमूलवन्मूले छिद्रमग्रेऽस्य मुद्गवत्”- इति; “अष्टाङ्गुलपरिणाहा चतुरङ्गुलनालसम्मिता सुमुखी| कृष्णमृदालिप्ततनुः श्रेष्ठा रक्तावसेचनेऽलाबुः”- इति| अन्ये तु शृङ्गालाबुप्रमाणमत्रैव पठन्ति, तथा वातादिदुष्टरक्तलक्षणं च, स च पाठोऽस्माभिरभावान्न लिखितः||८||
Adhikarana 6 (9) · Śloka 9
जलमासामायुरिति जलायुकाः, जलमासामोक इति जलौकसः ||९||
🔊 Audio coming soon
जलौकसां निरुक्तिमाह- जलमासामायुरित्यादि|- आसां जलौकसां जलमायुरिति जलायुकाः, ‘कथ्यन्ते’ इत्यध्याहारः| निरुक्तिपक्षान्तरमाह- जलमासामोक इति जलौकसः||९||
Adhikarana 7 (10) · Śloka 10
ता द्वादश; तासां सविषाः षट्, तावत्य एव निर्विषाः ||१०||
🔊 Audio coming soon
इदानीं चिकित्सोपयोगिनीं जलौकसां सङ्ख्यां निर्देष्टुमाह- ता द्वादशेत्यादि| तासामेव सविषनिर्विषभेदाद्द्विविधत्वमाह- तासामित्यादि| एवशब्दोऽत्र परतन्त्रोक्तसविषाष्टजलौकाशङ्कानिरासार्थम्||१०||
Adhikarana 8 (11) · Śloka 11
तत्र सविषाः- कृष्णा, कर्बुरा, अलगर्दा, इन्द्रायुधा, सामुद्रिका, गोचन्दना चेति | तासु, अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा; वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा; रोमशा महापार्श्वा कृष्णमुखी अलगर्दा; इन्द्रायुधवदूर्ध्वराजिभिश्चित्रा इन्द्रायुधा; ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः; गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति | ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति | तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः | इन्द्रायुधादष्टमसाध्यम् | इत्येताः सविषाः सचिकित्सिता व्याख्याताः ||११||
🔊 Audio coming soon
सविषाणां पोषणावचारणनिषेधार्थं प्रमादतस्त्वचारितानां स्वयं वा लग्नानां व्यापच्चिकित्सार्थं नाम्ना निर्देशं कुर्वन्नाह- तत्र सविषा इत्यादि| तासामाकृतिं निर्देष्टुमाह- तास्वञ्जनेत्यादि| अञ्जनं कज्जलं, पृथुशिरा महामस्तका| वर्मिमत्स्यः सर्पाकारः, अन्ये रोहितमत्स्यमाहुः; छिन्नोन्नतकुक्षिरिति क्वचिच्छिन्नकुक्षिः क्वचिदुन्नतकुक्षिः| रोमशेति वलियुक्तत्वाद्रोमावततेव प्रतिभाति| इन्द्रायुधं शक्रधनुः; चित्रा चित्रिता मण्डितेत्यर्थः| विचित्रपुष्पाकृतिचित्रेति नानासंस्थानधवलबिन्दुचित्रा| गोवृषणवदधोभागे द्विधाभूताकृतिरिति वृषभाण्ड इवाधोभागे द्विप्रकारभूताकृतिः| तासां दंशे विषोपद्रवं निर्दिशन्नाह;- ताभिर्दष्टे इत्यादि| अतिमात्रशब्दः कण्ड्वादिभिः सह प्रत्येकं सम्बध्यते| मदः पूगफलेनेव मत्तता| सदनमङ्गग्लानिः| तासां दंशविषे चिकित्सां वक्तुमाह- तत्र महागद इत्यादि| तत्र तस्मिन् विषे महागदः ‘त्रिवृद्विशल्ये मधुकं हरिद्रे’(क. अ. ५) इत्यादिना कल्पस्थानोक्तः| नस्यकर्मादिष्वित्यत्रादिशब्दात् परिषेकावगाहादिषु योज्यः| इन्द्रायुधेत्यादि असाध्यम् असाधनार्हम्| तद्दंशलिङ्गं त्वसाध्यसर्पदष्टविषवेगविज्ञानवद्वेदितव्यम्; अन्ये तु श्वयथ्वादीनां सम्पूर्णलिङ्गत्वादरिष्टाद्युपपत्तेर्महागदावचारणेनाप्यनुपशान्तेस्तल्लिङ्गज्ञानमित्याहुः||११||
Adhikarana 9 (12) · Śloka 12
अथ निर्विषाः- कपिला, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति | तत्र, मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला; किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी; मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका; मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी; स्निग्धा पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा सावरिका, सा च पश्वर्थे; इत्येता अविषा व्याख्याताः ||१२||
🔊 Audio coming soon
उपादानार्थं निर्विषाणां नामानि निर्दिशन्नाह- अथेत्यादि| ता एव लक्षणैर्निर्दिशन्नाह- तत्रेत्यादि| मुद्गवर्णा हरितमुद्गवर्णा| पिङ्गला कपिला| आशुगा शीघ्रगामिनी| यकृद्वर्णा नीललोहितवर्णा| मूषिकाकृतिवर्णेति मूषिकाकृतिर्मूषिकवर्णा चेत्यर्थः| पुण्डरीकतुल्यवक्त्रेति पद्मवद्विस्तीर्णमुखी| सावरिकाया विषयमाह- सा चेत्यादि| पश्वर्थे हस्त्यश्वादीनामर्थे, न पुनर्मनुष्याणाम्||१२||
Adhikarana 10 (13) · Śloka 13
तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि; तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ||१३||
🔊 Audio coming soon
निर्विषाणां प्रशस्तानि क्षेत्राण्याह- तासामित्यादि| यवनः तुरुष्कदेशः, पाण्ड्यो दक्षिणदिग्विभागीयो देशः, सह्यो नर्मदायाः पारे पर्वतविशेषः, पौतनो मथुराप्रदेशः| यवनादिक्षेत्रेषु कीदृशा जलौका भवन्तीत्याह- तेष्वित्यादि| केचिद्यवनादीनि क्षेत्राणि न पठन्ति; कुतः? सविषाणां सविषकीटादिकोथस्य क्षेत्रत्वात्, निर्विषाणां तु पद्मोत्पलादिकोथस्य क्षेत्रत्वादयुक्तं यवनादिक्षेत्रकथनमिति वदन्ति||१३||
Adhikarana 11 (14-15) · Śloka 15
तत्र, सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भसु च सविषाः; पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलकोथजाता विमलेष्वम्भःसु च निर्विषाः ||१४|| भवति चात्र- क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु | न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ||१५||
🔊 Audio coming soon
इदानीं सविषनिर्विषकोथकलुषनिर्मलजलोत्पन्नानां जलौकसां सविषनिर्विषत्वं दर्शयन्नाह- तत्र सविषेत्यादि| कोथः पूतिभावः| कलुषेषु मलिनेषु| पद्मोत्पलेत्यादि पद्ममीषच्छुक्लम्, उत्पलमीषन्नीलं, नलिनमीषद्रक्तं, कुमुदं ‘कुइआ’ इति लोके, सौगन्धिकं गर्दभपुष्पाभिधानमत्यन्तसुरभि चन्द्रोदयविकाशि, कुवलयं रक्तोत्पलं, पुण्डरीकम् अतिश्वेतपद्मं, शैवलं शैवालं, कोथजाता इति एषां पूतिभावजाताः| इदानीं क्षेत्रसङ्ग्रहश्लोकमाह- भवति चात्रेत्यादि| एता इति पूर्वोक्ता निर्विषा जलौकाः, सुगन्धिषु शोभनगन्धिषु| न च सङ्कीर्णचारिण्य इति न विषादिविरुद्धाहारभुजः शैवलाद्यशनत्वात्| न च पङ्के स्वपन्ति, तृणोदकपत्रशयनत्वात्| सुखा इति सुखहेतुत्वात्, सुखकारिण्य इत्यर्थः||१४-१५||
Adhikarana 12 (16) · Śloka 16
तासां ग्रहणमार्द्रचर्मणा, अन्यैर्वा प्रयोगैर्गृह्णीयात् ||१६||
🔊 Audio coming soon
तासां ग्रहणोपायं दर्शयन्नाह- तासां ग्रहणमित्यादि| ग्रहणं चासां शरत्काले, तन्त्रान्तरवचनात्| अन्यैर्वा प्रयोगैरिति सद्योहतजन्तुमांसपेशीनवनीतघृतक्षीराद्यभ्यक्तजङ्घाद्यवयवैर्वा||१६||
Adhikarana 13 (17) · Śloka 17
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्; भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य; शय्यार्थं तृणमौदकानि च पत्राणि; त्र्यहात्त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात्; सप्तरात्रात् सप्तरात्राच्च घटमन्यं सङ्क्रामयेत् ||१७||
🔊 Audio coming soon
पोषणं दर्शयन्नाह- अथैनामित्यादि| आवाप्य प्रक्षिप्य| निदध्यात् स्थापयेत्| वल्लूरं शुष्कमांसम्| सङ्क्रामयेत् सञ्चारयेत्||१७||
Adhikarana 14 (18) · Śloka 18
भवति चात्र- स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः | अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ||१८||
🔊 Audio coming soon
तास्वयोग्या निदर्शयन्नाह- भवति चात्रेत्यादि| परिक्लिष्टा अमनोज्ञदर्शनाः, पृथ्व्यो विस्तीर्णाः, मन्दविचेष्टिता मन्दगामिन्यः, न पूजिता न श्लाघिताः||१८||
Adhikarana 15 (19) · Śloka 19
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् | गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् | श्लणशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वा दद्यात्, शस्त्रपदानि वा कुर्वीत; यद्येवमपि न गृह्णीयात्तदाऽन्यां ग्राहयेत् ||१९||
🔊 Audio coming soon
तासामवचारणमुद्दिशन्नाह- अथेत्यादि| संवेश्य शाययित्वा| अरुजमव्रणं, सव्रणे तु गन्धक्लेदाभ्यामेव गृह्णन्तिः; अथवा रुजावति विरुक्षणेन रुजातिवृद्धिः| सलिलसरकं जलपात्रं; केचित् सलिलसरकस्थाने ‘सरकमध्ये चारिण्यः’ इति पठन्ति, सरकं जलपूर्णपात्रम्| रोगोऽत्र रोगाधिष्ठानं दोषाधिष्ठानं वा| श्लक्ष्णेत्यादि| पिचुः तूलं बीजहीनः कार्पासः, प्रोतं वस्त्रम्| अपावृणुयात् आच्छादयेत्||१९||
Adhikarana 16 (20) · Śloka 20
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति; गृह्णन्तीं चार्द्रवस्त्रावच्छन्नां कृत्वा धारयेत् ||२०||
🔊 Audio coming soon
रोगाधिष्ठाने तासां ग्रहणलक्षणमाह- यदेत्यादि| निविशते लगतीत्यर्थः, गृह्णाति विध्यतीत्यर्थः| गृह्णन्तीं शोणितमाददानामित्यर्थः| आर्द्रवस्त्रावच्छन्नामिति इत्थं सुखिता शीघ्रं रक्तं पिबति; जलौकास्त्वात्मप्रभावेण प्राग्दुष्टमेव रक्तं पिबन्ति, यथा दुग्धमिश्रितोदकाद्धंसो दुग्धमेव पिबतीत्यर्थः||२०||
Adhikarana 17 (21) · Śloka 21
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति; शुद्धमाददानामपनयेतः अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ||२१||
🔊 Audio coming soon
तासां विशुद्धरक्तादाने विज्ञानोपायं दर्शन्नाह- तोदेत्यादि| तोदो व्यथा, स धातुक्षयोत्पन्नेन वायुना| शुद्धरक्तक्षयात् श्लेष्मकार्यं कण्डूरिह न स्यादिति केचित् कण्डूग्रहणं न कुर्वन्ति; अन्ये तु वदन्ति- आग्नेयरक्तधातुक्षयात् कफधातोः सौम्यस्य जलौकामुखक्लेदवर्धितस्य वृद्धेः कण्डूसम्भव इति; अन्ये तु ‘दंशतोदकण्डूप्रादुर्भावैः’ इति पठन्ति, व्याख्यानयन्ति च- दंशो वनमक्षिका, दंशेन कृतो यस्तोदो व्यथा, तस्मिन् तोदे यादृशी कण्डूस्तादृशी कण्डूर्यदा स्यात्, तदा शुद्धरक्तादानं जानीयात्| तत्र किं कुर्यादित्याह- शुद्धमित्यादि| अवकिरेत् अवचूर्णयेत्| अन्ये तु ‘शोणितगर्धेन’ इति पठन्ति, गर्धेनाभिकाङ्क्षया, वदन्ति च- ‘गन्धेन’ इत्ययुक्त्तः पाठः, कुतः? यस्माज्जलौकसां गन्धेन्द्रियं नास्तीति||२१||
Adhikarana 18 (22) · Śloka 22
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात्, वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति | सम्यग्वान्ता सलिलसरके न्यस्ता भोक्तुकामा सती चरेत् | या सीदती न चेष्टते सा दुर्वान्ता, तां पुनः सम्यग्वामयेत् | दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति | अथ सुवान्तां पूर्ववत् सन्निदध्यात् ||२२||
🔊 Audio coming soon
पातिताया रुधिरापहरणविधानायाह- अथ पतितामित्यादि| तण्डुलकण्डनं गुण्डनं ‘कणा’ इत्यर्थः| अनुलोमम् अनुकूलम्, अनुमार्जयेत् प्रोञ्छयेत्, आमुखादिति मुखं यावदित्यर्थः| सम्यग्वान्तलिङ्गान्याह- सम्यगित्यादि सलिलसरकन्यस्ता जलपूर्णशरावेऽर्पिता| चरेत् गच्छेत्| दुर्वान्ताया लिङ्गान्याह- या सीदतीत्यादि| सीदति निमज्जति| दुर्वान्तावचाराद्व्याधिविशेषमाह- दुर्वान्ताया इत्यादि| “अस्य तु व्याधेः शास्त्रे लक्षणानिर्देशान्न पठनीयः” इत्येके| अथ सुवान्ता किं कार्येत्याह- सुवान्तामिति| पूर्ववदिति यथा- ‘नवे महति घटे’ इत्यादौ||२२||
Adhikarana 19 (23) · Śloka 23
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः, तत्पिचुधारणं वा; जलौकोव्रणान् मधुनाऽवघट्टयेत्, शीताभिरद्भिः परिषेचयेद्बध्नीत वा, कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति ||२३||
🔊 Audio coming soon
शोणितावसेचने उत्तरकर्माणि निर्दिशन्नाह- शोणितस्येत्यादि| योगः सम्यक्स्रुति; अयोगो योगादन्यः, स त्रिविधो हीनातिमिथ्यायोगभेदात्| तत्र योगे शतधौतघृताभ्यङ्गः, शतधौतघृताक्तपिचुधारणं वा| हीनयोगे किं कुर्यादित्याह- जलौकोव्रणान् मधुना अवघट्टयेत् चालयेत् स्रावणार्थम्| अतियोगे किं कुर्यादित्याह- शीताभिरद्भिश्च परिषेचयेद्बध्नीत वेति; शीतलजलपरिषेचनं बन्धनं च जलौकोमुखपदस्य रक्तस्थित्यर्थम्| मिथ्यायोगे उपक्रममाह- कषायेत्यादि| प्रदिह्यात् लिम्पेत्| अत्र कषायप्रदेहः शेषदुष्टरक्तप्रसादार्थं, मधुरैः प्रदेहः स्रुतादुष्टरक्तवर्धनार्थं; अन्ये तु “मूर्च्छाद्युपद्रवपरिहारार्थं शीतलजलसेकः, मधुनाऽवघट्टनं कषायादिलेपनं च सन्धानार्थम्” इति व्याख्यानयन्ति| शोणितस्रावणमपि पुरुषबलप्रमाणाद्दोषबलप्रमाणाद्वा वातादिजनितव्याधिबलप्रमाणाद्वा यावच्छोणितस्य सम्यक्शुद्धिर्भवति तावद्वा रोगाशयं वा समीक्ष्य| तद्यथा- अल्पीयसि रोगाशयेऽल्पं रक्तमाहरणीयं, महति पुनर्बह्विति| रक्तमोक्षणं च पलादिमानेन, पलं चात्र पक्वसप्तगुञ्जाफलप्रमाणमाषकेण, तान्यपि चार्धत्रयोदशपलानि प्रस्थः; रक्तप्रस्थश्चैकैकस्यां सिरायां मोक्षणीयः; तदपि द्वाभ्यां दिवसाभ्यां; प्रस्थश्चात्रोत्तममात्रा; मध्यमा मात्राऽर्धप्रस्थः, अर्धप्रस्थश्चात्र कर्षाधिकषट्पलानि, एतदपि द्वाभ्यामहोभ्यां स्रावणीयम्; अधममात्रा कुडवं, कुडवश्चात्राष्टमाषाधिकानि त्रीणि पलानि; इदमपि दिनद्वयेन मोक्षणीयम्; इति प्रसिद्धः कर्ममार्गः||२३||
Adhikarana 20 (24) · Śloka 24
भवति चात्र- क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् | जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ||२४||
🔊 Audio coming soon
इदानीं सङ्ग्रहश्लोकमाह- भवति चात्रेत्यादि| क्षेत्राणीति सविषाणां क्षेत्राणि ‘तत्र सविषकीट’ इत्यादि, निर्विषाणां ‘पद्मोत्पलपत्र’ इत्यादि| ग्रहणमिति ‘तासां ग्रहणमार्द्रचर्मणा’ इत्यादि| जातयः सविषाणां ‘कृष्णा कर्बुरा’ इत्यादि; निर्विषाणां ‘कपिला पिङ्गला’ इत्यादि| पोषणमिति ‘नवे महति घटे’ इत्यादि| अवचारणमिति ‘अथ जलौकोऽवसेकसाध्य’ इत्यादि, चकारात् पश्चात्कर्मादि||२४||
Adhikarana puShpikA · Śloka 12
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः ||१२||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः||१२||