Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

32. svabhāvavipratipattyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः स्वभावविप्रतिपत्तिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

स्वभावशब्दानन्तरमादिशब्दो लुप्तो द्रष्टव्यः, तेन स्वभावादिविप्रतिपत्तिरित्यर्थः| स्वभावशब्देनात्र प्रकृतिरुच्यते||१-२||

Adhikarana 2 (3) · Śloka 3

स्वभावसिद्धानां शरीरैकदेशानामन्यभावित्वं मरणाय | तद्यथा- शुक्लानां कृष्णत्वं, कृष्णानां शुक्लता, रक्तानामन्यवर्णत्वं, स्थिराणां मृदुत्वं , मृदूनां स्थिरता, चलानामचलत्वं, अचलानां चलता, पृथूनां सङ्क्षिप्तत्वं, सङ्क्षिप्तानां पृथुता, दीर्घाणां ह्रस्वत्वं, ह्रस्वानां दीर्घता, अपतनधर्मिणां पतनधर्मित्वं , पतनधर्मिणामपतनधर्मित्वमकस्मात्, शैत्यौष्ण्यस्नैग्ध्यरौक्ष्यप्रस्तम्भवैवर्ण्यावसादनं चाङ्गानाम् ||३||

🔊 Audio coming soon

तां स्वभावविप्रतिपत्तिं सङ्क्षेपेण तावन्निर्दिष्टुमाह- स्वभावसिद्धानामित्यादि| अन्यभावित्वं गुणकर्मभ्यां कृत्वा, तथा विशिष्टद्रव्यान्तरसंयोगाच्च; विशिष्टद्रव्यान्तरसंयोगश्च ‘सिराणां दर्शनं ललाटे, नासावंशे वा पिडकोत्पत्तिः’ इत्यादिना वक्ष्यमाणः| तत्र स्वभावसिद्धानां शरीरैकदेशानामन्यथाभावित्वं विस्तरेणोपदर्शयन्नाह- तद्यथेत्यादि| अकस्माच्च शुक्लानां नेत्रैकदेशानां निर्निमित्तं कार्ष्ण्यं मरणाय| कृष्णानां लोचनमध्यस्य तारुण्ये केशश्मश्रुलोम्नां च शुक्लत्वमरिष्टम्| रक्तानां नेत्रान्तपादकरतलताल्वोष्ठजिह्वानामाकस्मिकमन्यवर्णत्वं श्वेतपीतकृष्णनीलत्वमरिष्टमिति| स्थिराणां कठिनानां केशश्मश्रुनखदन्तशिरास्नायुस्रोतःप्रभृतीनां मृदुत्वं कोमलत्वमरिष्टमिति| मृदूनां मांसशोणितमेदोमज्जशुक्रनाभिहृदययकृत्प्लीहप्रभृतीनां स्थिरत्वं काठिन्यं विकृतिरिति| केचित ‘मृदूनाम्’ इत्यत्र ‘अदृढानाम्’ इति पठन्ति| चलानां वाताशयशिरासन्धिजिह्वादीनामस्पन्दनत्वमरिष्टमिति| सिरा दशैव चला भवन्ति, तास्तु शारीरे वक्ष्यति| अचला मांसमेदोऽस्थिनाभयस्तेषां चलत्वमरिष्टम्, अन्ये तु नासाकर्णमांसादीनामित्याहुः| पृथूनां सङ्क्षिप्तत्वमिति विस्तीर्णानां स्वल्पत्वं; तत्र विस्तीर्णानि शिरोललाटवक्त्रांसोरःपृष्ठादीनि, तेषां सङ्क्षिप्तत्वमरिष्टम्| सङ्क्षिप्तानां दृष्टिमण्डलनखरोमगुल्फादीनां पृथुत्वमरिष्टम्| दीर्घाणां नयनभुजाङ्गुलिपर्वोच्छ्वासादीनां ह्रस्वत्वमरिष्टम्| ह्रस्वानां जङ्घामेढ्रग्रीवादीनां दीर्घत्वमरिष्टम्| अपतनधर्मिणां पतनधर्मित्वमिति अपतनस्वभावानां पतनस्वभावत्वमित्यर्थः| तत्रापतनधर्मिणः केशश्मश्रुलोमनखादयः, तेषां पतनधर्मित्वमरिष्टम्| पतनधर्मिणामपतनधर्मित्वमिति पतनधर्मिणां स्वेदमूत्रपुरीषादीनामपतनधर्मित्वमरिष्टम्| अकस्मादिति अनिमित्तमित्यर्थः| अकस्मादित्येतदुक्तैः शुक्लानां कृष्णत्वमित्यादिभिर्वक्ष्यमाणैश्च शैत्यौष्ण्यादिभिः सह प्रत्येकं सम्बध्यते| शैत्येत्यादि| हस्तपादोच्छ्वासादिषु स्वभावोष्णतायुक्तेषु शैत्यं, शीतत्वयुक्तेषु फूत्कारादिषु चौष्ण्यं, स्निग्धतायुक्तेषु नयनतारकादिषु रौक्ष्यम्, अनभ्यक्तकेशत्वगादिषु रूक्षेषु स्निग्धत्वम्| प्रस्तम्भः प्रकर्षेण स्तब्धता| नेत्रयोरङ्गावयवानां च वैवर्ण्यं गौरश्यामादिवर्णानां वैपरीत्यम्| अवसादोऽप्रवृत्तिर्वैकल्यमित्यर्थः| केचित् ‘वैवर्ण्योपसर्जनं चाङ्गानाम्’ इति पठन्ति, व्याख्यानयन्ति च- उपसर्जनं तद्भावापत्तिरित्यर्थः||३||

Adhikarana 3 (4) · Śloka 4

स्वेभ्यः स्थानेभ्यः शरीरैकदेशानामवस्त्रस्तोत्क्षिप्तभ्रान्तावक्षिप्तपतितविमुक्तनिर्गतान्तर्गतगुरुलघुत्वानि, प्रवालवर्णव्यङ्गप्रादुर्भावो वाऽप्यकस्मात्, सिराणां च दर्शनं ललाटे, नासावंशे वा पिडकोत्पत्तिः , ललाटे वा प्रभातकाले स्वेदः, नेत्ररोगाद्विना वाऽश्रुप्रवृत्तिः, गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे निलयनं वा कपोतकङ्ककाकप्रभृतीनां, मूत्रपुरीषवृद्धिरभुञ्जानानां, तत्प्रणाशो वा भुञ्जानानां, स्तनमूलहृदयोरःसु च शूलोत्पत्तयः, मध्ये शूनत्वमन्तेषु परिम्लायित्वं विपर्ययो वा, तथाऽर्धाङ्गे श्वयथुः शोषोऽङ्गपक्षयोर्वा, नष्टहीनविकलविकृतस्वरता वा, विवर्णपुष्पप्रादुर्भावो वा दन्तमुखनखशरीरेषु, यस्य वाऽप्सु कफपुरीषरेतांसि निमज्जन्ति, यस्य वा दृष्टिमण्डले भिन्नविकृतानि रूपाण्यालोक्यन्ते, स्नेहाभ्यक्तकेशाङ्ग इव यो भाति, यश्च दुर्बलो भक्तद्वेषातिसाराभ्यां पीड्यते, कासमानश्च तृष्णाभिभूतः, क्षीणश्छर्दिभक्तद्वेषयुक्तः सफेनपूयरुधिरोद्वामी हतस्वरः शूलाभिपन्नश्च मनुष्यः, शूनकरचरणवदनःक्षीणोऽन्नद्वेषी स्रस्तपिण्डिकांसपाणिपादो ज्वरकासाभिभूतः, यस्तु पूर्वाह्णे भुक्तमपराह्णे छर्दयत्यविदग्धमतिसार्यते वा स श्वासान्म्रियते, बस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्कः, स्तब्धमेढ्रो भग्नग्रीवः प्रनष्टमेहनश्च मनुष्यः, प्राग्विशुष्यमाणाहृदय आर्द्रशरीरः, यश्च लोष्टं लोष्टेनाभिहन्ति काष्ठं काष्ठेन, तृणानि वा छिनत्ति, अधरोष्ठं दशति, उत्तरोष्ठं वा लेढि, आलुञ्चति वा कर्णौ केशांश्च; देवद्विजगुरुसुहृद्वैद्यांश्च द्वेष्टि, यस्य वक्रानुवक्रगा ग्रहा गर्हितस्थानगताः पीडयन्ति, जन्मर्क्षं वा, यस्योल्काशनिभ्यामभिहन्यते होरा वा, गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावो वेति ||४||

🔊 Audio coming soon

स्वेभ्य इत्यादि| अवस्त्रस्तत्वं भ्रूपक्ष्मप्रभृतीनां स्थानादधः प्रलम्बनम्, उत्क्षिप्तत्वं तेषामेवोर्ध्वगमनं, भ्रान्तत्वं चक्षुरादीनां भ्रमणम्, अवक्षिप्तत्वं तेषामेव तिर्यक्क्षिप्तत्वं, पतितत्वं शिरोग्रीवादीनामधार्यमाणता, विमुक्तत्वं सन्धीनां मोक्षः, निर्गतत्वं बहिर्निःसरणं जिह्वानेत्रप्रभृतीनाम्, अन्तर्गतत्वं जिह्वानेत्रनासादीनामन्तःप्रवेशः, ‘अनिर्गतत्वम्’ इति केचित् पठन्ति तत्रापि स एवार्थः; गुरुलघुत्वानि गुरूणि बाहुशिरःसक्थ्यादीनि, लघून्यक्षिपक्ष्मादीनि, तेषां विपरीतत्वमरिष्टम्; ‘अवक्षिप्तत्वम्’ इत्यत्र ‘अवक्षिप्तम्’ इति केचित् पठन्ति, तत्रापि स एवार्थः| प्रवालवर्णेत्यादि व्यङ्गानां क्षुद्ररोगविशेषाणामकस्मादनिमित्तं प्रवालसदृशवर्णताप्रादुर्भावो भवतीत्यर्थः; प्रवालो विद्रुमः, स च समुद्रजातोऽत्यन्तरक्तो वल्लीविशेषः; व्यङ्गरोगस्य श्यावत्वं प्राकृतं, रक्तत्वं वैकृतम्| सिराणामिति प्रवालवर्णानामिति अत्रापि चकारात् सम्बन्धनीयम्; अथवाऽप्राकृतसिराणां दर्शनमरिष्टमिति| नासेत्यादि ‘पिडकायाः प्रवालवर्णायाः’ इत्यत्रापि ज्ञेयं, नासावंशो नासास्थिदण्डः, अन्ये तु नासावंशे ललाटे च पिडकाया उत्पत्तिं वाशब्दान्मन्यन्ते| ललाटे इति अत्र ‘लेपज्वरिण ’ इति शेषो ज्ञेयस्तन्त्रान्तरदर्शनात्| नेत्ररोगादित्यादि- अयं पाठो निबन्धेषु न पठितः, वृद्धैः पठितत्वादस्माभिरपि पठितः| गोमयेत्यादि|- गोमयं गोपुरीषं, तस्य रजःप्रकाशस्येत्यादि प्रथमं मासिकमरिष्टं; निलयनं वेत्यादि द्वितीयम्, ‘उत्तमाङ्गे’ इत्यत्रापि सम्बध्यते, निलयनमिति उपविशनम्| स्तनमूलेत्यादि|- अत्रापि भुञ्जानानामेवेति बोद्धव्यम्, एतच्च मलप्रणाशेन सह यदा समुदितं भवति तदाऽरिष्टमिति ज्ञेयम्| मध्य इत्यादि|- मध्ये शूनत्वं, अन्तेषु हस्तपादादिषु परिम्लायित्वं शुष्कता, विपर्ययो वेति अन्ते शूनत्वं मध्ये च परिम्लायित्वमित्यर्थः| एतदरिष्टं मासिकम्| तथेत्यादि|- अर्धाङ्गे श्वयथौ सत्यर्धे परिम्लायित्वमिति योज्यम्| अङ्गपक्षयोरिति पक्षः शरीरार्धम्| नष्टेत्यादि|- नष्टस्वरता अत्यन्तस्वराभावः, हीनस्वरता शब्दह्रस्वत्वं, विकलस्वरता गद्गदादिस्वरत्वं, विकृतस्वरता स्वाभाविकस्वरस्य वैपरीत्यम्| विवर्णेत्यादि|- विवर्णपुष्पप्रादुर्भावः अनुज्ज्वलवर्णबिन्दुप्रादुर्भावो दन्तादिष्वरिष्टम्| यस्येत्यादि|- यस्य पुरुषस्य, अप्सु पानीयेषु, निमज्जन्ति बुडन्ति; एतदरिष्टं तु यदा त्रयाणामपि निमज्जनं भवति तदा रिष्टमिति ज्ञेयं, मासिकं चैतदरिष्टम्| यस्येत्यादि| भिन्नानि नानाविधानि गवाश्वप्रभृतीनां, विकृतानि बीभत्सानि त्रिभुजत्रिशिरआदित्वेनाधिकाङ्गानि, एकाक्ष्येकभुजैककर्णादित्वेन वा न्यूनाङ्गानि; यस्य पुरुषस्य दृष्टिमण्डलाभ्यन्तर एवंविधानि रूपाण्यालोक्यन्ते दृश्यन्ते तस्यारिष्टम्| अन्ये तु “यस्य वा दृष्टिमण्डलेऽभिन्ने इति दृष्टिमण्डलविशेषणं ‘अभिन्ने’ इति कुर्वन्ति; तत्राऽभिन्न इत्यत्राभिघातजो भेद आध्यात्मिकदोषेभ्यो वा भेदोऽभिप्रेतः| तत्र विकृतरूपावलोकनं सद्योऽरिष्टं पाञ्चवार्षिकं वा” इति व्याख्यानयन्ति| स्नेहेत्यादि|- सर्वदा यद्येवं भवति तदेदमरिष्टम्| यश्चेत्यादि|- यः पुमान् दुर्बलो बलहीनो मांसहीनो वा; तत्र कासतृष्णारुच्यतीसारा इति समुदितमरिष्टं दुर्बले नरे| क्षीणेत्यादि क्षीणे नरे यदा छर्द्यादय उपद्रवाः समुदिता भवन्ति तदाऽरिष्टम्| शूनेत्यादि|- ज्वरकासाभिभूते क्षीणे नरे यदा शूनकरचरणाद्युपद्रवा भवन्ति तदाऽरिष्टम्| स्रस्तपिण्डिकः शिथिलजानुगुल्फान्तरालस्थितमांसपिण्डः; स्रस्तशब्दः पिण्डिकादिभिः सह प्रत्येकं सम्बध्यते| अंसः स्कन्धः| यस्त्वित्यादि|- यथा शौनिकेन व्यापाद्यमानो बस्तश्छगलकः, विलपन् शब्दं कुर्वन्, भूमौ पतति तद्वन्मनुष्योऽप्यरिष्टयुक्त इति| स्रस्तमुष्क इति स्थानाच्च्युताण्डः, स्तब्धमेढ्रः स्तब्धलिङ्ग; भग्नग्रीव इति नतग्रीवः, प्रनष्टमेहनश्चेति अन्तःप्रविष्टलिङ्ग इत्यर्थः; अत्र चकारो वाशब्दार्थः, तेन स्तब्धमेढ्रो भवति प्रनष्टमेहनो वा भवतीत्यर्थः| अत्रापि श्वासान्म्रियत इति योज्यम्| प्रागित्यादि| यस्य मनुष्यस्य शरीरमार्द्रमेवावतिष्ठते हृदयं प्रथममेव शुष्यति तस्यारिष्टं, एतदरिष्टं पाक्षिकम्| यश्चेत्यादि|- तृणानि छिनत्ति ‘नखैः’ इति शेषः| अधरौष्ठं दशतीति अधस्तनमोष्ठं दन्तैर्गृह्णातीत्यर्थः| उत्तरौष्ठं वा लेढीति उपरितनौष्ठं जिह्वया स्पृशतीत्यर्थः| अयं पाठो निबन्धेषु न दृश्यते, वृद्धैः पठितत्वादस्माभिः पठितः| आलुञ्चतीत्यादि| आलुञ्चति उत्पाटयतीत्यर्थः| देवेत्यादि| सुहृन्मित्रम्| द्वेष्टि अप्रीतो भवति| एतदरिष्टं वार्षिकम्| यस्येत्यादि| समाक्रान्तं राशिं मुक्त्वा पुनः पूर्वमेव भुक्तराशिं नक्षत्रं वा याति सः वक्रगः, पुनश्चानुगत एवोत्तरे स्थानेऽनुवक्रगः; गर्हितस्थानगता इति ‘ग्रहा’ इति सम्बध्यते, तच्च गर्हितं निन्दितं स्थानं ज्योतिःशास्त्रादेवावगन्तव्यम्| जन्मर्क्षं जन्मनक्षत्रम्| तेजःपिण्डनिपतनमुल्का, अशनिर्विद्युदग्निभेदः, एताभ्यां यदा आकाशे उदितं जन्मनक्षत्रं जन्मनक्षत्रवेला वा अभिहन्यते तदाऽरिष्टमित्यर्थः| होरा जन्मलग्नं, तदपि यदोल्काशनिभ्यां हन्यत इत्यर्थः| गृहेत्यादि|- गृहादीनां यानि गर्हितलक्षणानि वास्तुविद्यादिषूक्तानि तन्निमित्तस्तत्कारणः प्रादुर्भाव उत्पत्तिररिष्टस्येत्यर्थः; दारा भार्या, यानं शिबिकारथादि, वाहनं हस्त्यादि, मणयः स्फटिकादयः| रत्नशब्दो गृहादिभिः सह प्रत्येकं सम्बध्यते| उपकरणानि घटपिठरसूर्पादीनि||४||

Adhikarana 4 (5-6) · Śloka 6

भवन्ति चात्र- चिकित्स्यमानः सम्यक् च विकारो योऽभिवर्धते | प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ||५|| निवर्तते महाव्याधिः सहसा यस्य देहिनः | न चाहारफलं यस्य दृश्यते स विनश्यति ||६||

🔊 Audio coming soon

सर्वविकाराणामनुक्तमरिष्टमभिनिर्दिशन्नाह- चिकित्स्यमान इत्यादि| महाव्याधिर्वातव्याधिप्रमेहादिरष्टविधः; शोषादिः कायचिकित्सापठितो वा| सहसा वेगेनेत्यर्थः||५-६||

Adhikarana 5 (7) · Śloka 7

एतान्यरिष्टरूपाणि सम्यग् बुध्येत यो भिषक् | साध्यासाध्यपरीक्षायां स राज्ञः सम्मतो भवेत् ||७||

🔊 Audio coming soon

अरिष्टज्ञानफलं दर्शयन्नाह- एतानीत्यादि| साध्यासाध्येत्यादि स वैद्यः साध्यासाध्ययोः परीक्षायां नृपतेः श्लाघ्यो भवेत्||७||

Adhikarana puShpikA · Śloka 32

इति सुश्रुतसंहितायां सूत्रस्थाने स्वभावविप्रतिपत्तिर्नाम द्वात्रिंशोऽध्यायः ||३२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने द्वात्रिंशत्तमोऽध्यायः||३२||