Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

33. avāraṇīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽवारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अवारणीयमिति वारणं चिकित्सा, न विद्यते वारणं येषां ते अवारणा व्याधयः, तानधिकृत्य कृतोऽध्यायोऽवारणीयः; एतेनासाध्यव्याधीनधिकृत्य कृतोऽध्यायोऽवारणीय इत्यर्थः||१-२||

Adhikarana 2 (3) · Śloka 3

उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् | रसायनाद्विना वत्स! तान् शृण्वेकमना मम ||३||

🔊 Audio coming soon

उपद्रवैरिति यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसञ्ज्ञः; जघन्यकालजात इति पश्चात्कालजात इत्यर्थः| उपद्रवैस्त्विति तुशब्दोऽत्रावधारणार्थः, तेनेदमवधारयति- पूर्वाध्यायेऽरिष्टैर्मरणमभिहितम्, अत्र तूपद्रवैरिति| केचित् ‘उपद्रवैश्च’ इति तुशब्दस्थाने चकारं पठन्ति, चकारस्तु लक्षणेऽर्थे, तेनोपद्रवैर्लक्षणैर्जुष्टा इत्यर्थः; जुष्टाः सहिताः| रसायनाद्विनेति रसायनेन ह्यसाध्यो व्याधिरपि प्रायः साध्यते| एकमनाः सावधानः| ममेति मम पार्श्वात्| ‘व्याधयो यान्त्यसाध्यताम्’ इति केचित् पठन्ति||३||

Adhikarana 3 (4) · Śloka 5

वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् | अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ||४|| अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः |५|

🔊 Audio coming soon

प्रथमं मूलव्याधयो भवन्ति पश्चादुपद्रवा इति मूलव्याधीन् दर्शयति- वातव्याधिरित्यादि|- वातव्याधिरत्र महावातव्याधिरभिप्रेतो महच्छब्दलोपात्| अष्टावेत इत्यत्र द्वितीयं पुनरष्टग्रहणं सर्वेषां तुल्यत्वख्यापनार्थम्; अन्ये त्वन्यथा समादधति, तत्तु विस्तरभयान्न लिखितम्| प्रकृत्यैव स्वभावेनैव| महागदा इति मारणात्मकत्वादसाध्यत्वाच्च महत्त्वमेषामिति| ‘अष्टावेते महान्तस्तु व्याधयो दुस्तराः सदा’- इति केचित् पठन्ति||४||-

Adhikarana 4 (5-6) · Śloka 6

प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ||५|| अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च | एतैरुपद्रवैर्जुष्टान् सर्वानेव विवर्जयेत् ||६||

🔊 Audio coming soon

यैरुपद्रवैर्जुष्टा असाध्या भवन्ति वातव्याध्यादयो रोगास्तानुपद्रवानाह- प्राणमांसक्षय इत्यादि|- उत्साहोपचयक्षय इत्यर्थः| चकारत्रयं वक्ष्यमाणशोफत्वक्स्वापादीनां समुच्चयार्थम्| एतैरुपद्रवैर्जुष्टा इत्यत्र बहुवचनं त्रिभिर्वा जुष्टा इति ख्यापनार्थम्| अन्ये ‘प्राणमांसक्षयश्वासतृष्णाशोषवमीज्वरैः| मूर्च्छातिसारहिक्काभिः पुनश्चैतैरुपद्रवैः|| वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता’- इति पठन्ति||५-६||

Adhikarana 5 (7) · Śloka 7

शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् | नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ||७||

🔊 Audio coming soon

प्रतिव्याधिनियतं विशिष्टमरिष्टं दर्शयन्नाह- शूनमित्यादि| शूनाद्युपद्रवसहितं पुरुषं वातव्याधिर्विनाशयेदिति सम्बन्धः| सुप्तत्वचं बधिरत्वचम्, भग्नं वातेन त्रुटितम्| रुजार्तमन्तश्चेति अन्तर्मध्ये रुजार्तं गम्भीरवेदनापीडितं; केचित् ‘नरं रुजार्तिमन्तं च’ इति पठन्ति; तत्र रुजा तोदादिलक्षणा, अर्तिः शूलः||७||

Adhikarana 6 (8) · Śloka 8

यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा | पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ||८||

🔊 Audio coming soon

यथोक्तोपद्रवाविष्टमिति मक्षिकोपसर्पणादयः श्लैष्मिकाणां, वृषणावदरणादयः पैत्तिकानां, हृद्ग्रहादयो वातिकानां, तैराविष्टं संयुक्तं मानवं प्रमेहो हन्ति| अतिप्रस्रुतमिति सुष्ठु स्रवन्मूत्रम्| पिडकापीडितमिति पिडकाः शराविकाकच्छपिकादयः| गाढम् अतिशयेन||८||

Adhikarana 7 (9) · Śloka 9

प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् | पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ||९||

🔊 Audio coming soon

प्रभिन्नमित्यादि|- प्रभिन्नप्रस्रुताभ्यां सहाङ्गशब्दः प्रत्येकं सम्बध्यते| हतस्वरमिति नष्टस्वरम्| पञ्चकर्मगुणातीतमिति अत्र वमनादीनां पञ्चकर्मणामप्राप्तफलमित्येके; तत्तु न सम्यक्, यतः पञ्चशब्देन पञ्चमधात्ववस्थितं कुष्ठमुक्तं; तत्र कर्माणि संशोधनसंशमनाभ्यङ्गगुग्गुलुशिलाजतुप्रभृतीनि, तेषां गुणाः फलानि, तेभ्योऽतीतम्; एतदुक्तं भवति- अस्थिगतकुष्ठं संशोधनादिभिरप्यप्राप्तविशेषं कुष्ठिनं हन्ति| अन्ये तु ‘पूर्वरूपक्रियया सह रसादिधातूनां चतुर्णां क्रियासमूहः पञ्चकर्माणि’ इति मन्यन्ते| तद्यथा- पूर्वरूपेषु संशोधनमुभयतः सेवेत; त्वक्प्राप्ते शोधनालेपनानि, अत्र त्वक्शब्देन रसोऽभिधीयते; एवं शोणितमांसमेदसामपि चिकित्सितं निर्दिष्टं दर्शनीयमिति| इहेति अस्मिन् शास्त्रे||९||

Adhikarana 8 (10) · Śloka 10

तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम् | शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ||१०||

🔊 Audio coming soon

तृष्णेत्यादि| तृष्णारोचकाद्युपद्रवसहितं पुरुषमर्शोव्याधिर्विनाशयेदिति सम्बन्धः||१०||

Adhikarana 9 (11) · Śloka 11

वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च | भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ||११||

🔊 Audio coming soon

वातेत्यादि||११||

Adhikarana 10 (12) · Śloka 12

प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् | अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१२||

🔊 Audio coming soon

प्रशूननाभीत्याद्युपद्रवसहितं पुरुषमश्मरी क्षपयति विनाशयति| आशु शीघ्रम्| सिकताशर्करान्वितेति सिकता वालुका, तत्सदृशा या शर्करा तया सहिताऽश्मरीत्यर्थः||१२||

Adhikarana 11 (13) · Śloka 13

गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः | हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ||१३||

🔊 Audio coming soon

गर्भेत्यादि| गर्भकोषपरासङ्गप्रभृत्युपद्रवाः स्त्रियं हन्युर्विनाशयेयुः, कस्मिन् सति? मूढगर्भे; गर्भकोषपरासङ्ग इति गर्भाशयस्य परः श्रेष्ठ आसङ्गोऽतिशयेन निरोध इत्यर्थः; अन्ये तु स्वस्थानात् परस्थानं गत्वा गर्भस्य सङ्गो निरोध उत्पद्यते, अनेन प्रकारेण ‘परासङ्ग’ इति कथयन्ति | मक्कल्ल इति गर्भिणीव्याकरणोक्तो ज्ञेयः; तत्राप्रजातायाश्चेति चकारान्न केवलं प्रजातायाः, अप्रजाताया अपि मक्कल्लो भवति, तथा गर्भाशयाच्च्युतगर्भाया योनिद्वारसक्तगर्भाशयाश्च रक्तं स्रुतमन्तःस्थितं पच्यमानं मक्कल्लसञ्ज्ञं भवतीति ज्ञेयम्| योनिसंवृतिः योनिसङ्कोचनम्| यथोक्ताश्चाप्युपद्रवा इति आक्षेपककासश्वासभ्रमादयो मूढगर्भनिदाने पठिताः| ‘हन्युः स्त्रियं मूढगर्भां’ इति केचित् पठन्ति| मूढगर्भां मूढगर्भसहिताम्||१३||

Adhikarana 12 (14) · Śloka 14

पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् | विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ||१४||

🔊 Audio coming soon

पार्श्वेत्यादि| पार्श्वो भज्यतेऽनेनेति पार्श्वभङ्गो वेदनाविशेषः| विरिक्तं पूर्यमाणं चेति विरेचनद्रव्यैर्बहुशो विरिक्तं पुनः पूर्यमाणमुदरार्दितं वर्जयेदिति||१४||

Adhikarana 13 (15-18) · Śloka 18

यस्ताम्यति विसञ्ज्ञश्च शेते निपतितोऽपि वा | शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ||१५|| यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् | नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ||१६|| हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् | सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ||१७|| आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च | क्षीणशोणितमांसं च नरं नाशयति ज्वरः ||१८||

🔊 Audio coming soon

कायचिकित्साव्याधीनुपद्रवैरसाध्यान् निर्दिशन्नाह- यस्ताम्यतीत्यादि| यस्ताम्यति मुहुर्मुहुर्मूर्च्छां गच्छति| विसञ्ज्ञः शेते सञ्ज्ञारहितः स्वपितीत्यर्थः| निपतितोऽपि वेति ‘सञ्ज्ञारहितः’ इति शेषः| शीतार्दितो ‘बहिः’ इति शेषः| अन्तरुष्णश्चेति अन्तर्दाहयुक्तः| हृष्टरोमा उद्धर्षितरोमा| हृदि सङ्घातशूलवानिति अष्ठीलावत्संहतवस्तुशूलवानित्यर्थः; अन्ये तु महाशूलवानिति मन्यन्ते| नित्यं वक्त्रेण चोच्छ्वस्यादिति सर्वदा मुखेनोर्ध्वं श्वासं कुर्यादित्यर्थः| तं ज्वरो हन्ति मानवमिति तं मानवं ज्वरो हन्ति विनाशयतीत्यर्थः| हिक्केत्यादि| मूढं व्यामोहयुक्तमनसम्| विभ्रान्तलोचनमुच्चलिताक्षम् | क्षपयति ज्वर इति ‘तत्क्षणादेव’ इति शेषः| आविलाक्षमित्यादि| आविलाक्षम् ओदनमण्डवदश्रुपूर्णेक्षणम्| प्रताम्यन्तं प्रकर्षेण मोहं गच्छन्तम्| अतीव चेति अहर्निशमित्यर्थः| इत्थम्भूतमाविलाक्षताद्युपद्रवसहितं नरं नाशयति ज्वर इति सम्बन्धः||१५-१८||

Adhikarana 14 (19) · Śloka 19

श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् | विशेषेण नरं वृद्धमतीसारो विनाशयेत् ||१९||

🔊 Audio coming soon

अत्र विशेषेण वृद्धमिति अवृद्धमप्येवम्भूतं विनाशयेत्, वृद्धं पुनर्विशेषेणातिशयेनेत्यर्थः; इत्थम्भूतं नरं श्वासाद्युपद्रवसहितमतिसारो विनाशयेदिति सम्बन्धः| ‘क्षीणं ज्वरनिपीडितम्’ इत्यत्र स्थाने ‘क्षीणं बिम्बिशीपीडितं’ इति पठन्ति केचित्| अत्र बिम्बिशीशब्देन प्रवाहिकोच्यते, भेडेनात्रोक्तं- ‘प्रवाहिकामिति विदुर्बिम्बिशीं त्वपरे बुधाः’- इति||१९||

Adhikarana 15 (20) · Śloka 20

शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् | कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ||२०||

🔊 Audio coming soon

कृच्छ्रेण बहुमेहन्तमिति कृच्छ्रेण कष्टेन, बहु मेहन्तं क्षरन्तं, ‘मलं’ इति शेषः| एतेनाहारस्यातिशयमलीभावः कथितः, यस्य चातिशयमलो निष्पद्यते तस्य मांसरक्तक्षयो भवति, स पुनरसाध्यो भवति, इत्थम्भूतं नरं शुक्लाक्षत्वाद्युपद्रवसहितं यक्ष्मा हन्तीति सम्बन्धः| इहेति अस्मिन् शास्त्रे||२०||

Adhikarana 16 (21) · Śloka 21

श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः | भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ||२१||

🔊 Audio coming soon

श्वासेत्यादि| ग्रन्थिमूढतेति गुल्मस्यादर्शनम्| एते श्वासाद्युपद्रवा भवन्ति, कस्येत्याह- गुल्मिनो मृत्युमेष्यत इति|- गुल्मिनो गुल्मयुक्तस्य पुरुषस्य, मृत्युं मरणम्, एष्यतो गमिष्यत इत्यर्थः||२१||

Adhikarana 17 (22) · Śloka 22

आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् | रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ||२२||

🔊 Audio coming soon

आध्मातमित्यादि| बद्धनिष्यन्दं बद्धमूत्रं रुद्धपूयगतिकं वा| कायचिकित्सायां यद्यपि विद्रधिर्न पठितः, तथाऽपीह गुल्मानन्तरमुपद्रवैः सोऽप्यसाध्यो भवतीति पठितः| समाविष्टमिति सहितं नरं, विद्रधिर्नाशयेदिति सम्बन्धः||२२||

Adhikarana 18 (23) · Śloka 23

पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः | पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति ||२३||

🔊 Audio coming soon

पाण्ड्वित्यादि| पाण्डु शब्देन श्वेतत्वमभिदीयते| दन्तनखयोः पाण्डुताऽस्थिगतदोषेण, नेत्रपाण्डुता पाण्डुसङ्घातदर्शित्वं च मज्जगतदोषेण| पाण्डुसङ्घातदर्शी चेति पाण्डूनां श्वेतद्रव्याणां सङ्घातः समूहः, तं सर्वासु दिक्षु पश्यतीत्यर्थः||२३||

Adhikarana 19 (24) · Śloka 24

लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः | रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ||२४||

🔊 Audio coming soon

लोहितमित्यादि| बहुश इति बहुवारम्| लोहितेक्षण इति रक्तनेत्रः, एतच्च पूर्ववन्मज्जगतदोषेणेति| रक्तानां च दिशां द्रष्टेति एतदपि मज्जगतदोषेण| ‘रक्तानां च दिशां द्रष्टा’ इत्यत्र केचित् ‘लोहितोद्गारदर्शी च’ इति पठन्ति| तत्रोद्गारेऽपि लोहितागमत्वेन लोहितोद्गारः, लोहितदर्शित्वं च मज्जगतदोषेणैव, लोहितं रक्तं च सर्वं वस्तु पश्यतीत्यर्थः| ‘लोहितोत्करदर्शी’ इत्यन्ये पठन्ति; व्याख्यानयन्ति च- लोहितं सर्वं वस्तु पश्यतीत्यर्थः| ‘लोहिताकारदर्शी च’ इत्यपरे पठन्ति||२४||

Adhikarana 20 (25) · Śloka 25

अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः | जागरिष्णुरसन्देहमुन्मादेन विनश्यति ||२५||

🔊 Audio coming soon

अवागित्यादि|- अवाङ्मुखस्तु अधोमुखः, उन्मुखो वेति ऊर्ध्वमुखः| बलशब्देनात्रोत्साहः कथ्यते| जागरिष्णुः जागरणशीलः| अन्ये ‘अवाञ्ची वाऽप्युदञ्ची वा’ इति पठन्ति, तत्रापि स एवार्थः||२५||

Adhikarana 21 (26) · Śloka 26

बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् | नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||२६||

🔊 Audio coming soon

बहुश इत्यादि| बहुशो बहुवारान्| अपस्मरन्तम् अपस्मारवेगवन्तम्| प्रक्षीणं ‘पुरुषम्’ इति शेषः| नेत्राभ्यां च विकुर्वाणमिति नेत्रद्वयं विकृतियुक्तं करोतीत्यर्थः| इत्थम्भूतं पुरुषमपस्मारवेगाद्युपद्रवसहितमपस्मारो विनाशयेदिति सम्बन्धः| य एते कायचिकित्सारोगोपद्रवास्ते समस्ता एवासाध्या इति ज्ञेयाः||२६||

Adhikarana puShpikA · Śloka 33

इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ||३३||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने त्रयस्त्रिंशत्तमोऽध्यायः||३३||