Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

28. viparītāviparītavraṇavijñānīyādhyāyaḥ

Adhikarana 1 (1-3) · Śloka 3

अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा | ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ||३||

🔊 Audio coming soon

नियतानियतभेदेन द्विविधमरिष्टं प्रकाशयितुमाह- फलाग्नीत्यादि| अत्र यथा पुष्पं फलस्य भविष्यत्त्वं ख्यापयति, कोऽर्थः? पुष्पं फलं भविष्यतीति; यथा च धूमोऽग्निं ख्यापयति, यथाऽम्बुदो जलवृष्टिम्, एवमरिष्टानि पञ्चतां मृत्युं ख्यापयन्ति; ‘भाविनीम्’ इति शेषः| अरिष्टान्यत्र मरणलक्षणानि| ननु, अत्र किमर्थं पुष्पधूमाम्बुदा इति बहवो दुष्टान्ता उक्ताः? एकेनैव गतार्थत्वात्| उच्यते, पुष्पाम्बुदौ हेतू फलजलवृष्ट्योर्ज्ञापकावनियतौ, न ह्यवश्यं कारणेन कार्यं कर्तव्यमेव; इत्यनेनानियतदृष्टान्तेन दूतदिनिमित्तजमरिष्टमनियतमुक्तं; धूमात् कार्यादग्नेः कारणस्य यज् ज्ञानं तन्नियतम्, एतेन नियतदृष्टान्तेन दोषजमरिष्टं नियतमुक्तम्; इत्यनियतनियतभेदेन द्विविधमरिष्टं प्रकाशयन्ति बहवो दृष्टान्ता इति न दोषः||१-३||

Adhikarana 2 (4) · Śloka 5

तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् | गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसम्भवात् ||४|| ध्रुवं तु मरणं रिष्टे... |५|

🔊 Audio coming soon

अवश्यमेवारिष्टस्य मरणभवनं दर्शयन्नाह- तानीत्यादि| मुमूर्षोः मर्तुमिच्छोः प्राणिन उद्गतान्यपि प्रकटितान्यप्यरिष्टान्यज्ञैर्मनुष्यैर्न गृह्यन्ते न ज्ञायन्ते| कुतो हेतोरित्याह- सौक्ष्म्यादिति; परमाणुवत्| प्रमादाद्वेति मदिरामदमत्तस्य वस्तुन्यविमर्श इव| आशु व्यतिक्रमादिति यदैवारिष्टमुत्पन्नं तदैव मरणादिति, उत्पलशतपत्रव्यतिभेदवत्; अन्ये त्वाशुव्यतिक्रमं यदैवारिष्टमुत्पन्नं तदैव निवर्तत इति मन्यन्ते| न त्वसम्भवादिति न पुनरसम्भवान्न गृह्यन्ते, अपितु सम्भवन्त्यप्यरिष्टान्युक्तैः कारणैरज्ञैर्न गृह्यन्त इत्यभिप्रायः| दोषजमरिष्टमधिकृत्य अरिष्टेन मरणस्य नियतत्वं दर्शयन्नाह- ध्रुवमित्यादि||४||

Adhikarana 3 (5) · Śloka 5

... ब्राह्मणैस्तत् किलामलैः | रसायनतपोजप्यतत्परैर्वा निवार्यते ||५||

🔊 Audio coming soon

रिष्टेऽपि मरणनिवृत्तिमुपायविशेषैराह- ब्राह्मणैरित्यादि| किलशब्दोऽत्रागमार्थं सूचयति; एवं किल आगमे प्रतिपादितमित्यर्थः| अमलैरिति रागादिदोषरहितैः| ब्राह्मणेभ्योऽपरानपि दर्शयन्नाह- रसायनतपोजप्येत्यादि|- रसायनपरा इति स्वभावव्याधिनिवारणविशिष्टौषधचिन्तकाः, ते रसवीर्यौषधप्रभावेण मरणं निवारयन्ति| तथा तपःपराः तपस्विनः, तेऽपि विशिष्टतपःप्रभावेण मरणं निवारयन्ति | जप्यपराः सिद्धमन्त्रचिन्तकाः, तेऽपि मन्त्रशक्तियुक्ताः पञ्चत्वं निषेधयन्ति | एतच्च नियतानियतरिष्टविषयं ज्ञेयम्||५||

Adhikarana 4 (6) · Śloka 6

नक्षत्रपीडा बहुधा यथा कालं विपच्यते | तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ||६||

🔊 Audio coming soon

कथं पुनः कालान्तरे पञ्चविंशतिवर्षादावरिष्टपीडा भवतीत्याह- नक्षत्रेत्यादि|- विपच्यते फलतीत्यर्थः| पाकः फलम्||६||

Adhikarana 5 (7) · Śloka 7

असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः | अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ||७||

🔊 Audio coming soon

अरिष्टापरिज्ञानदोषं दर्शयन्नाह- असिद्धिमित्यादि|असिद्धिं धर्मार्थकामादीनां हानिम्||७||

Adhikarana 6 (8) · Śloka 8

गन्धवर्णरसादीनां विशेषाणां स्वभावतः | वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ||८||

🔊 Audio coming soon

अस्य तन्त्रस्य शल्यत्वात्तत्र च व्रणस्य प्राधान्यात्तस्यैवारिष्टानि प्राङ्निर्देष्टुमाह- गन्धेत्यादि | गन्धवर्णरसादीनामिति आदिग्रहणेन शब्दस्पर्शयोरपि सङ्ग्रहः; एतेन पञ्चापीन्द्रियार्था उक्ता भवन्ति, रूपस्य वर्णग्रहणेन गृहीतत्वात्| स्वभावतः प्रकृतितो यद्वैकृतमन्यथात्वं, तदाचष्टे तत् कथयति, व्रणिनः पुरुषस्य, पक्वलक्षणं पातलक्षणं, यथा पक्वं फलं पतत्येव तथाऽसावपि व्रणी पतत्येवेत्यर्थः||८||

Adhikarana 7 (9) · Śloka 10

कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः | लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ||९|| लाजातसीतैलसमाः किञ्चिद्विस्राश्च गन्धतः | ज्ञेयाः प्रकृतिगन्धाः स्युः ... |१०|

🔊 Audio coming soon

तत्र प्राकृतं गन्धं दर्शयन्नाह- कटुरित्यादि| अत्र लाजातसीतैलसमास्त्रयो गन्धा यथासङ्ख्येन वातपैत्तिक-वातश्लैष्मिक-पित्तश्लैष्मिका द्वन्द्वजा ज्ञेयाः| एते त्रयोऽपीषद्विस्राश्च स्वभावाज्ज्ञेयाः| अतसीशब्देनातसीतैलं, तैलं तिलतैलम्| ज्ञेयाः प्रकृतिगन्धाः स्युरिति ज्ञातव्याः प्रकृतिगन्धा भवेयुरिति| ‘कटुस्तीव्रश्च’ इति केचित् पठन्ति||९||-

Adhikarana 8 (10-12) · Śloka 12

... रतोऽन्यद्गन्धवैकृतम् ||१०|| मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः | सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ||११|| श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः | सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ||१२||

🔊 Audio coming soon

विकृतिगन्धान् दर्शयन्नाह- अत इत्यादि| अतोऽन्यद्गन्धवैकृतमिति अत एभ्यः पूर्वोक्तेभ्यः कट्वादिप्राकृतगन्धेभ्योऽन्यद्गन्धवैकृतम्| तानेव विकृतगन्धानाह- मद्येत्यादि| सुमना जाती, सगन्धाः समगन्धाः| दिव्यगन्धा इति अपरोऽपि य उत्तमगन्धः| मुमूर्षूणामिति मर्तुमिच्छूनां प्राणिनाम्| श्वा कुक्कुरः, ध्वाङ्क्षः काकः, पूतिवल्लूरं पूयसहितं शुष्कमांसं, मत्कुणाः शय्यादिजाः क्षुद्रकीटाः, एतैः समानगन्धा इत्यर्थः||१०-१२||

Adhikarana 9 (13-15) · Śloka 15

कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः | न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ||१३|| कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः | दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् ||१४|| कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः | स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ||१५||

🔊 Audio coming soon

वर्णान्निर्देष्टुमाह- कुङ्कुमेत्यादि| ध्याम ईषत्कृष्णः| न दह्यन्ते न दाहयुक्ता भवन्ति| चूष्यन्त इति चूषणमिव वेदनाविशेषः| पित्तवर्णे सति यत् पित्तवेदना दाहादिका न भवन्ति, तद्वैकृतं वर्णस्य| केचित् “श्यामाकुङ्कुमकङ्कुष्ठसवर्णाः पित्तदोषतः| न दह्यन्ते न दूयन्ते भिषक् तान् परिवर्जयेत्”- इति पाठं पठन्ति, व्याख्यानयन्ति च- श्यामा प्रियङ्गुः, कङ्कुष्ठं सुवर्णक्षीरिनिर्यासः, न दह्यन्ते नातितप्यन्ते न दूयन्ते न परितप्यन्ते किन्तु परितापमात्रयुक्ता भवन्ति” इति| स च निबन्धेषु न दृश्यते; यत्र तु दृश्यते, तत्र गड्डरिकाप्रवाहः, तस्मात् पूर्वः पाठो न्याय्यः| कण्डूमन्त इत्यादिकाः कफेन, तेषां दाहरुजे वर्णवैकृतं; दूयन्ते इति पीडां कुर्वन्ति| कृष्णाश्चेत्यादि ये वातजा व्रणाः कृष्णास्तनुस्रावा मर्मतापिनश्च यदा स्वल्पामपि पीडां न कुर्वन्ति तदा वातजे वर्णवैकृतम्| अत्र रसवैकृतं यद्यपि नोक्तं तथाऽपि वातपित्तकफव्रणेषु यथाक्रमं कषायकटुमधुरेषु पिपीलिकाद्युपसर्पणादनुक्तमपि ज्ञेयं, गन्धवर्णरसादीनामित्यत्रोद्देशसूत्रे रसस्योक्तत्वात्||१३-१५||

Adhikarana 10 (16) · Śloka 17

क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः | त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ||१६|| ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः |१७|

🔊 Audio coming soon

शब्दवैकृतं दर्शयन्नाह- क्ष्वेडन्तीत्यादि| क्ष्वेडन्ति खटखटाशब्दं कुर्वन्ति| घुर्घुरायन्त इति श्वमार्जारादीनां कोपादन्तर्गतशब्दो घुर्घुराशब्द उच्यते| ज्वलन्तीवेति ज्वलन्त इव दृश्यन्ते| त्वङ्मांसस्थानां व्रणानां सशब्दपवनवाहित्वं शब्दवैकृतं, कोष्ठगतानां तु सशब्दपवनवाहित्वं प्रकृतिरेव||१६||

Adhikarana 11 (17) · Śloka 18

दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ||१७|| दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः |१८|

🔊 Audio coming soon

स्पर्शवैकृतमधिकृत्याह- दह्यन्ते इत्यादि||१७||-

Adhikarana 12 (18-19) · Śloka 19

शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः ||१८|| येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा | चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः ||१९||

🔊 Audio coming soon

आकृतिविशेषवैकृतमधिकृत्याह- शक्तीत्यादि| शक्तिरायुधविशेषः, ध्वजः पताकादण्डः| येषु व्रणेषु| अवभासेरन् शोभन्ते| प्रासादो देवतानरेन्द्राणामधिष्ठानम्, आकृतिरत्र रूपमेव| रूपं च पञ्चेन्द्रियार्थमध्ये| अपरमपि रूपविशेषमाह- चूर्णावकीर्णा इत्यादि| अत्रापि सामान्याकारेण रूपमेव बोद्धव्यम्||१८-१९||

Adhikarana 13 (20) · Śloka 20

प्राणमांसक्षयश्वासकासारोचकपीडिताः | प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||२०||

🔊 Audio coming soon

गन्धादिवैकृतं समाप्य, उपद्रवासाध्यत्वं प्रसङ्गतो युक्त्यागतं दर्शयन्नाह- प्राणेत्यादि| प्राणक्षयः शक्तिलक्षणबलक्षयः, मांसक्षय उपचयलक्षणबलक्षयः||२०||

Adhikarana 14 (21) · Śloka 21

क्रियाभिः सम्यगारब्धा न सिद्ध्यन्ति च ये व्रणाः | वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः ||२१||

🔊 Audio coming soon

अनुक्तमप्यशेषारिष्टमुपगृह्णन्नाह- क्रियाभिरित्यादि||२१||

Adhikarana puShpikA · Śloka 28

इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो नामाष्टाविंशतितमोऽध्यायः ||२८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थानेऽष्टाविंशतितमोऽध्यायः||२८||