Adhikarana 1 (1-2) · Śloka 2
अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
आदिशब्दः प्रतिज्ञायां लुप्तनिर्दिष्टो द्रष्टव्यः| तेन व्रणास्रावादिविज्ञानीयमित्यर्थः| एतेन वेदनादयोऽपि सङ्गृहीता||१-२||
Adhikarana 2 (3) · Śloka 3
त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि |
अत्र सर्वव्रणसन्निवेशः ||३||
त्वगित्यादि| व्रणवस्तूनि व्रणाधिष्ठानानि| अत्र एष्वित्यर्थः| व्रणसन्निवेशो व्रणावस्थानम्||३||
Adhikarana 3 (4) · Śloka 4
तत्र, आद्यैकवस्तुसन्निवेशी त्वग्भेदी व्रणः सूपचरः, शेषाः स्वयमवदीर्यमाणा दुरुपचाराः ||४||
तेषां मध्ये एकस्मिन्नेव वस्तुनि व्रणस्य सुखोपचर्यत्वं दर्शयन्नाह- तत्रेत्यादि| आद्यैकवस्तुसन्निवेशीति त्वक्सन्निवेशीत्यर्थः| त्वग्भेदीति पुनर्नियमार्थम्; एतेन त्वगाश्रितमांसभेदी न सूपचरः| अन्ये तु ‘आद्यैकवस्तुसन्निवेशी त्वग्भेदी च’ इत्यनयोः पदयोर्मध्ये एकतरपदेनैव त्वग्वस्तु प्राप्यते किं पदद्वयेनेति यत् पदद्वयं तद्ग्रन्थाधिक्यादर्थाधिक्यं बोधयति, तेन विकृताकृतयोऽपि त्वग्भेदिनो व्रणाः सूपचरा इत्यधिकोऽर्थ उक्तो भवति’ इति मन्यन्ते| अपरवस्तुसन्निवेशिनः किंविशिष्टा इत्याह- शेषा इत्यादि| शेषा इति मांसाद्यधिष्ठानाः| स्वयमवदीर्यमाणा इति आलेपस्रावणादिभिर्विना स्वयमेव पक्वाः पश्चाद्भिन्ना इत्यर्थः||४||
Adhikarana 4 (5) · Śloka 5
तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः, शेषास्तु विकृताकृतयो दुरुपक्रमा भवन्ति ||५||
यथा स्रावज्ञानं चिकित्साहेतुस्तथा व्रणाकृतिरपीति तां दर्शयन्नाह- तत्रायत इत्यादि| आयतो दीर्घः, चतुरस्रश्चतुष्कोणः, वृत्तो वर्तुलः, त्रिपुटकस्त्रिकोणः, इतिशब्द उपसंहारे दोषजव्रणाकृतीनां; समासः सङ्क्षेपः| शेषा इति उक्तेभ्योऽन्ये अर्धचन्द्रस्वस्तिकाद्या व्रणाकृतयो विकृता इत्यर्थः||५||
Adhikarana 5 (6) · Śloka 6
सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः; अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति, प्रवृद्धत्वाद्दोषाणाम् ||६||
व्रणिनामात्मवतां भिषजां गुणसम्पदोऽपि चिकित्साहेतव इति दर्शयन्नाह- सर्व इत्यादि| आत्मवतां पथ्याहारविहारसेविनाम्| अनात्मवतामिति अहिताहारविहारसेविनाम्| अज्ञैश्चोपक्रान्ता इति चकारेणात्मवतां सुभिषग्भिरुपक्रान्तानामपि कुष्ठिप्रमेहिणां तथा कदाचिच्छुक्रप्रवृत्तिमात्रादेव व्रणदुष्टिरनुक्ता समुच्चीयते| कुतः पुनरनात्मवतामज्ञभिषगुपक्रान्तानां व्रणानां दुष्टिरित्याह- प्रवृद्धत्वाद्दोषाणामिति| अन्ये त्वेवं योजयन्ति- ‘न केवलमज्ञैरुपक्रान्ता एव प्रदुष्यन्ति, अपि तु प्रवृद्धत्वाच्च दोषाणाम्’ इति||६||
Adhikarana 6 (7) · Śloka 7
तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः नगन्धात्यर्थदाहपाकरागवेदनावानिति पित्तेन, शेषाः कफेन; उन्मार्गी मुखात् मुखान्तरवान्, उत्सङ्गः कोटरः’ इति चक्रः; कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि |
तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत ||७||
प्रायेण दुष्टेष्वेव व्रणेषु स्रावा भवन्ति, अतस्तेषां दुष्टव्रणानां लक्षणमाह- तत्रातिसंवृत इत्यादि| अतिसंवृतः अतिसङ्कुचितो वातेन| अतिविवृतो व्यात्तमुखः पित्तशोणितेन| काठिन्यं वातेन| अतिमार्दवं कफेन; अन्ये पित्तशोणितेन मार्दवमिच्छन्ति| उत्सन्न उन्नतमांसः, अवसन्नो हीनमांसो निम्नाकारः, एतौ रक्तपित्तेन; अन्ये वातेनोत्सन्नावसन्नत्वमिच्छन्ति; ‘अत्रोत्सन्नत्वं कफेन’ इति केचित्| अतिशैत्यं कफवातात्| अत्यौष्ण्यं रक्तपित्तात्| कृष्णादयो वर्णा यथासम्भवं वातादिभिर्ज्ञेयाः| भैरवः अनवधारितलिङ्गः| पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्ण इति पूतिशब्दः प्रत्येकं पूयादिभिरभिसम्बध्यते| ‘पूतिमांससिरास्नायुप्रतिपूर्ण’ इत्येके पठन्ति; पूतिमांससिरास्नायुप्रतिपूर्णत्वं तस्रावित्वं च यथासम्भवं वेदितव्यम्| उन्मार्गी तिर्यग्गतिः| उत्सङ्गी ऊर्ध्वगतिः; अन्ये पूयोपेक्षावदारितमांसादिदेशत्वेनातिनिम्नत्वादुत्सङ्गतुल्यत्वादुत्सङ्गः, सोऽस्यास्तीति उत्सङ्गी उन्मार्गी; उत्सङ्गीति कफेन| अमनोज्ञदर्शनगन्ध इति अमनोज्ञदर्शनोऽमनोज्ञगन्धश्चेत्यर्थः अमनोज्ञदर्शनगन्धत्वं रक्तपित्तेन, अन्ये दोषत्रयेण मन्यन्ते| अत्यर्थं वेदनावानिति वातेन| दाहपाकरागकण्डूशोफेत्यादि, अत्र दाहादिभिः सहोपद्रुतशब्दः प्रत्येकं सम्बध्यते; अत्र दाहपाकरागोपद्रुतत्वं पित्तरक्तेन, कण्डूपद्रुतत्वं कफेन, शोफोपद्रुतत्वं वातेन, पिडकोपद्रुतत्वं दुष्टशोणितास्रावश्च रक्तपित्तेन, दीर्घकालानुबन्धित्वं दोषत्रयेण| दीर्घकालानुबन्धी चेति चकारेण रोप्यादयो दुष्टव्रणविशेषा गृह्यन्ते| रोप्यलक्षणं तु “बहिःशुद्ध इवाभाति स व्रणो रोप्य उच्यते” ( च. चि. अ. २५)- इति चरकेणोक्तम्| व्रणदुष्टौ चिकित्सासूत्रं दर्शयन्नाह- तस्येत्यादि| तस्य व्रणस्य उच्छ्रायेण औत्कट्येन षट्त्वं वातपित्तकफरक्तसन्निपातागन्तुभेदतः| यथास्वं स्वस्य दोषस्यानतिक्रमेण| प्रतीकारे चिकित्सिते, प्रयतेत प्रयत्नं कुर्वीत| अन्ये त्वत्र ‘दोषोच्छ्रायमवेक्ष्य’ इति पठन्ति||७||
Adhikarana 7 (8) · Śloka 8
अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः- तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो भवत्यास्रावः किञ्चिद्विस्रः पीतावभासश्च; मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्च; सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य, आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च; स्नायुगतः स्निग्धो घनः सिङ्घाणकप्रतिमः सरक्तश्च; अस्थिगतोऽस्थन्यभिहते स्फुटिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौतमिवाभाति , आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च; सन्धिगतः पीड्यमानो न प्रवर्तते, आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति, आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्च ; कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि स्रवति; मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते |
तत्र त्वगादिगतानामास्रावाणां यथाक्रमं पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांसधावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति; पित्ताद्गोमेदकगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि; पित्तवद्रक्तादतिविस्रत्वं च; कफान्नवनीतकासीसमज्जपिष्टतिलनालिकेरोदकवराहवसासन्निभत्वानि; सन्निपातान्नालिकेरोदकैर्वारुकरसकाञ्जिकप्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ||८||
अत्र व्रणदुष्टिरसूत्रिताऽप्युक्ता, तां निर्दिश्य व्रणास्रावान्निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| सर्वस्रावानिति सर्वव्रणवस्तूनां सर्वदोषाणामागन्तोश्च व्रणस्य स्रावानित्यर्थः| घृष्टासु छिन्नास्वित्यागन्तोः, त्वक्ष्विति सम्बन्धः; बहुवचनं तु सप्तत्वगपेक्षया| अत्र त्वग्ग्रहणाल्लक्षणया रसाधिष्ठानो व्रण उक्तः| स्फोटे इति त्वक्स्थिते व्रणे, भिन्ने स्वयं भिन्ने, विदारिते यत्नेन विदारिते इत्यर्थः; अत्र भिन्ने विदारिते इति शारीरव्रणस्य| सलिलप्रकाश इति उदकरसयोरच्छयोस्त्वचामधिष्ठानत्वात्| विस्र आमगन्धिः, पीतावभासः पाकारम्भकेण पित्तेनेत्यर्थः| मांसगत इति मांसगत आस्राव इत्यर्थः| सर्पिःप्रकाशस्त्रावत्वमागन्तोः| सान्द्रश्वेतपिच्छिलत्वं शारीरस्य| सिरागत इत्यादि सिराग्रहणेन रक्ताधिष्ठानो व्रण उक्तः; सद्यश्छिन्नास्वित्यागन्तोः; पक्वास्वित्यादि शारीरस्य| विच्छिन्न इति अल्पाल्पप्रवर्तनम्| अवलम्बी अवलम्बनशीलः| स्नायुगत इत्यादि स्नायुग्रहणेन मेदोऽधिष्ठानो व्रण उक्तः, अन्ये तु ‘मेदोमज्जानौ घृतवद्विलीयेते,अतो व्रणाधिष्ठानत्वं नैव तयोः’ इति वदन्ति| सिङ्घाणको रक्तमिश्रो घनीभूतः श्लेष्मा| अस्थिगत इत्यादि| अभिहते इति अभिघातजे व्रणे, भिन्ने विदारिते चेति शारीरे| अस्थि निःसारं कोऽर्थः? लघु; ‘भवति’ इत्यध्याहारः| शुक्तिधौतमिवाभाति शुक्तिरिव शोभते तथा धौतमिव शोभतेऽस्थीति सम्बध्यते| सन्धिगत इत्यादि| उन्नमनमिति बाहुजङ्घादीनामूर्ध्वं नयनम्| विनमनं गात्राणामधःप्रापणम्| प्रवाहणमिति कुन्थनम्| सरुधिरोन्मथितश्चेति रुधिरेणैवोन्मथितश्च| कोष्ठगत इत्यादि कोष्ठगत इति मलधातुसमुदायाधिष्ठानो व्रण उक्तः| उदकमत्र रसक्लेद एव गृह्यते पीतं वा| मर्मगत इत्यादि| अवरुद्ध इति सङ्गृहीत इत्यर्थः| दोषास्रावान्निर्दिशन्नाह-तत्र त्वगादिगतानामित्यादि| तत्र मर्मवर्जितेषु सप्तसु त्वगादिव्रणवस्तुषु वातपित्तकफसन्निपातानां सप्त सप्त स्रावा यथाक्रमेण द्रष्टव्या इत्येके; अन्ये तु त्वगादिषु वातादिलिङ्गानां मध्ये किञ्चित् क्वचिदिति वर्णयन्ति| पित्ताद्गोमेदेत्यादि|- गोमेदक इति मणिरापीतः| एर्वारुकरसः कर्कटिकारसः; काञ्जिकप्रसाद इति काञ्जिकस्योपर्यच्छः; आरुकमनेनैव नाम्ना प्रसिद्धम्||८||
Adhikarana 8 (9-10) · Śloka 10
श्लोकौ चात्र भवतः- पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः |
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ||९||
आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः |
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् ||१०||
स्थानभेदात् स्रावस्यासाध्यत्वख्यापनाय श्लोकौ प्राह- पक्वाशयादित्यादि| पुलाकोदकं गवेधुकोदकं, गवेधुकस्तृणविशेषः, ‘जलगोधूम’ इति लोके; अन्ये तु पुलाकशब्देनाप्राप्तपाकं धान्यमाहुः| आमाशयादित्यादि| कलायोऽत्र त्रिपुटकः| त्रिकसन्धिज इति बाहुग्रीवास्थित्रयसङ्घातोऽत्र त्रिकं, तस्य सन्धौ जात इति||९-१०||
Adhikarana 9 (11) · Śloka 11
अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामः- तोदनभेदनताडनच्छेदनायामनमन्थनविक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटन विदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणस्तम्भनपूरणस्वप्नाकुञ्जनाङ्कु शिकाः सम्भवन्ति, अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात्; ओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात्; पित्तवद्रक्तसमुत्थं जानीयात्; कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्यात्; यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ||११||
स्रावानन्तरं वातादिवेदना निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| तोदनं सूचिभिरिव; भेदनं त्वग्विदारणमिव वेदनाविशेषः; ताडनं दण्डादिभिराहन्यत इवेत्यर्थः; छेदनं द्विधा क्रियत इव शस्त्रादिभिः; आयामनं सङ्कुचिताङ्गदेशस्य दीर्घीकरणमिव; मन्थनं मन्थनकादिभिर्व्रणान्तर्मथ्यत इव; विक्षेपणं प्रेर्यत इव; चुमुचुमायनं सर्षपराजिकाकल्कलिप्त इव; निर्दहनं निःशेषं वह्निना दह्यत इव; अवभञ्जनं सञ्चूर्ण्यत इव; स्फोटनं पाषाणादिभिरिव; विदारणं नखादिभिश्चीर्यत इव; उत्पाटनम् ऊर्ध्वमाकृष्यत इव; कम्पनं वेप्यत इव; विविधशूलविश्लेषणं नानाप्रकारार्तिशूलाहतगात्रस्येव वेदनाविशेषः; विकिरणं व्रणावयवा नानास्थानेषु विकीर्यन्त इवेति; स्तम्भनं स्तब्धता; पूरणं भरणं; स्वपनं प्रसुप्तिः; आकुञ्चनं कुटिलीकरणमिव; अङ्कुशिका खल्लीविशेषः, अन्ये ‘अङ्कुशनिपाताकर्षणमिवाङ्कुशिका’ इत्याचक्षते| ओषचोषपरिदाहेत्यादि|- ओष एकदेशिको दाहः; चोष आचूषणसमत्वादित्येके, पिपासेत्यन्ये; परि समन्ततो दाहः परिदाहः; धूमायनं धूमोद्वमनमिवाङ्गानाम्| कण्डुर्गुरुत्वमित्यादि|-सुप्तत्वं नखमक्षिकामशकादिदंशवेदनानभिज्ञत्वम्; उपदेहो लिप्तमिवेति||११||
Adhikarana 10 (12) · Śloka 12
अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामः- भस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्यः नीलः पीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थयोः; श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य; सर्ववर्णोपेतः सान्निपातिक इति ||१२||
वेदनाः प्रतिपाद्य व्रणवर्णान्निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| दोषदूष्यसंयोगराशेरन्यत्वान्मारुतजेऽपि व्रणे वर्णसद्भावः||१२||
Adhikarana 11 (13) · Śloka 13
भवति चात्र- न केवलं व्रणेषूक्तो वेदनावर्णसङ्ग्रहः |
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् ||१३||
सामान्यव्रणनिर्दिष्टान् दोषदुष्टिस्राववेदनावर्णान् शोफविशेषेष्वपि विद्रध्यलजीग्रन्थ्यादिषु निर्दिशन्नाह- न केवलं व्रणेषूक्त इत्यादि| शोथविकारेष्विति शोथारब्धविकारेषु विद्रध्यादिष्विति||१३||
Adhikarana puShpikA · Śloka 22
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम द्वाविंशतितमोऽध्यायः ||२२||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने द्वाविंशतितमोऽध्यायः||२२||