Adhikarana 1 (1-2) · Śloka 2
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तत्र कृत्याः साध्याः; ते द्विविधाः- सुखसाध्याः, कृच्छ्रसाध्याश्च| अकृत्या असाध्याः; तेऽपि द्विविधाः- याप्याः, प्रत्याख्येयाश्च; इति कृत्याकृत्यपदद्वयेन सर्वमुक्तम्||१-२||
Adhikarana 2 (3) · Śloka 3
तत्र, वयःस्थानां दृढानां प्राणवतां सत्त्ववतां (आत्मवतां) च सुचिकित्स्या व्रणाः; एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः |
तत्र, वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति; दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति; प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते; सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति; तस्मादेतेषां सुखसाधनीयतमाः ||३||
तत्र यथा व्रणस्याकृतिगन्धवर्णादिविशेषाः साध्यासाध्यविधौ भवन्ति, तथाऽऽतुरस्यापि केऽपि केऽपि गुणा भवन्ति, तांस्तान् दर्शयन्नाह- तत्र वयःस्थानामित्यादि| वयःस्थानां तरुणानां; दृढा गूढसन्धिसिरास्नायवः, एतेन सुसंहतसमशरीरा अभिप्रेताः; प्राणवतां शक्तियुक्तानां; सत्त्ववतां व्यसनेऽप्यनाकुलानां; चकारादनुक्ताऽप्यातुरोपक्रमणीयोक्ता आतुरस्य गुणसम्पत् समुच्चीयते| प्राणवतामित्यस्याग्रे ‘आत्मवतां’ इति पञ्चमं गुणं केचित् पठन्ति| तत्र, आत्मवतां जितेन्द्रियाणामित्यर्थः| अत्रैकगुणेन सुखसाध्यत्वं, द्वाभ्यां त्रिभिश्च सुखसाध्यतरत्वं, चतुर्भिः सुखसाध्यतमत्वं च, एतदेव प्रकटयन्नाह- एकस्मिन् वा पुरुष इत्यादि| वाशब्द एकत्र सर्वगुणानां दुष्प्राप्तिख्यापनार्थः| तस्येति पुरुषस्येत्यर्थः| सुखसाधनीयतमा ‘व्रणा’ इति शेषः| तत्र येषां गुणानां येन येन सुखसाध्यत्वं तत्तन्निर्दिशन्नाह- तत्र वयःस्थानामित्यादि| प्रत्यग्रं नूतनम्| स्थिरम् अचलम्| प्राणवतामित्यादि| ग्लानिरत्र शरीरशैथिल्यम्| अत्रापि ‘आत्मवताम्’ इति पञ्चमगुणस्य केचिद्धेतुं पठन्ति, स चाभावान्न लिखितः| सत्त्ववतामित्यादि| दारुणैर्दुःसहैः, क्रियाविशेषैश्चिकित्साप्रकारैः| तस्मादित्यादि| एतेषां पुरुषाणामित्यर्थः| सुखसाधनीयतमाः ‘व्रणा’ इति शेषः||३||
Adhikarana 3 (4) · Śloka 4
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ||४||
पूर्वोक्तगुणानां विपर्ययमाह- त एव विपरीतगुणा इत्यादि| एकगुणाभावात् कृच्छ्रसाध्यत्वं, द्वित्रिगुणाभावात् कृच्छ्रसाध्यतरत्वं, चतुर्गुणाभावात् कृच्छ्रसाध्यतमत्वम्| अत्र केचित् ‘अनात्मवत्सु च’ इति पञ्चमं विपरीतगुणं पठन्ति| तेषां मते चकारेणातुरोपक्रमणीयोक्तगुणासम्पूर्णताऽनुक्ताऽपि समुच्चीयते||४||
Adhikarana 4 (5) · Śloka 5
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ||५||
आतुरविशेषेण कृत्याकृत्यान् प्रतिपाद्य तदवयवविशेषसम्भवत्वेन व्रणानां कृत्यत्वं दर्शयन्नाह- स्फिक्पायुप्रजननेत्यादि| स्फिचौ कटिप्रोथौ ‘पोदौ’ इति लोके, पायुर्गुदं, प्रजननं गुह्यप्रदेशः, गण्डौ गल्लौ, फलकोषोऽण्डकोषः, जत्रु ग्रीवामूलम्||५||
Adhikarana 5 (6-7) · Śloka 7
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चिकित्स्याः; अधोभागाश्चोर्ध्वभागनिर्वाहिणो , रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च, भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ||६||
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् |
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ||७||
साध्यभेदान् कृच्छ्रसाध्यान् दर्शयन्नाह- अक्षिदन्तनासेत्यादि| अपाङ्गो भ्रूपुच्छान्तः| नितम्बः कटेः पश्चाद्भागः| वक्ष उरः, सन्धिभागः सन्धिप्रदेशः| वाहिशब्दः सफेनपूयादिभिः सह प्रत्येकं सम्बध्यते| अन्तःशल्या आभ्यन्तरशल्याः| अधोभागाश्चोर्ध्वभागनिर्वाहिण इति अधोभागगता ये व्रणास्ते यदोर्ध्वमुखा भवन्ति तदोर्ध्वभागनिर्वाहिण उच्यन्ते| रोमान्तोपनखेत्यादि रोमान्तः केशान्तः, उपनखं नखसमीपं, जङ्घास्थि गुल्फजान्वन्तरास्थि| भगन्दरमपि चान्तर्मुखमिति गुदे अभ्यन्तरं मुखं यस्येत्यर्थः| सेवनीकुटकास्थिसंश्रितं ‘भगन्दरम्’ इति शेषः, कुटकास्थि श्रोणिकाण्डास्थि, ‘मयूरास्थि’ इति लोको ब्रूते| अन्ये तु ‘कुटकास्थिसंश्रितं’ इत्यत्र ‘उपस्थसंश्रितं’ इति पठन्ति; तेषां मते उपस्थो मूत्रमार्गः| विषजुष्टानामिति दूषीविषजुष्टानां पुरुषाणां ये व्रणा इत्यर्थः||६-७||
Adhikarana 6 (8) · Śloka 8
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि, ग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते, शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्करोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ||८||
साध्यान् द्विविधानभिधायासाध्यभेदं याप्यं दर्शयन्नाह- अवपाटिकेत्यादि| ग्रन्थिक्षतक्रिमय इति ग्रन्थ्युपलक्षितो यो क्षतस्तत्र ये कृमय इत्यर्थः| प्रतिश्यायजाः कोष्ठजाश्च कृमय इति सम्बन्धः| त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्त इति त्वग्दोषप्रमेहरोगयोः क्षते सति ये कृमयो दृश्यन्त इत्यर्थः| शर्करेति अश्मरी वातभिन्नेत्यर्थः| सिकतामेहो मेहविशेषः| वातकुण्डलिकाष्ठीले मूत्राघातविशेषौ| निष्कोषणदूषिताश्च दन्तवेष्टा इति निष्कोषणं सविषो दन्तरञ्जकानां शाणोऽभिधीयते; एतेनैतदुक्तं भवति- दन्तान् रञ्जयन्ति ये पुरुषास्तेषां यद्दन्तनिशानार्थं सविषं दन्तकाष्ठं तेन यदा दूषिता दन्तवेष्टा इत्यर्थः| ‘निश्चक्षणदूषिता’ इत्यन्ये पठन्ति, ‘निष्कर्षणदूषिता’ इत्यपरे, तत्रापि स एवार्थः| अत्रावपाटिकेत्यादौ पाठे ये व्रणाः सम्भवन्ति ते व्रणा एव याप्याः, ये च व्याधयस्तेषु व्याधिषु सत्सु ये व्रणास्ते याप्या इत्यभिप्रायः||८||
Adhikarana 7 (9) · Śloka 9
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा |
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ||९||
त एते निर्दिष्टा न नियमेन साध्याः साध्या एव, याप्या वा याप्या एवेत्युक्तेष्वनियमं क्रियया दर्शयन्नाह- साध्या इत्यादि| घ्नन्ति प्राणानसाध्यास्त्विति कालान्तरप्राणहारिणः सद्यः प्राणान् घ्नन्तीत्यर्थः| अक्रियावतामिति क्रियारहितानां विरुद्धक्रियाकारिणां च||९||
Adhikarana 8 (10-11) · Śloka 11
यापनीयं विजानीयात् क्रिया धारयते तु यम् |
क्रियायां तु निवृत्तायां सद्य एव विनश्यति ||१०||
प्राप्ता क्रियां धारयति याप्यव्याधितमातुरम् |
प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ||११||
अथ कीदृशो याप्यस्तमाह- यापनीयं विजानीयादित्यादि| याप्ये प्राणधारणमेव क्रिया करोति न पुनर्व्याधिमूलोच्छेदमिति दर्शयन्नाह- प्राप्ता क्रियेत्यादि|- प्राप्ता वैद्येन प्रयुक्ता| विष्कम्भः स्थूणा||१०-११||
Adhikarana 9 (12) · Śloka 12
अत ऊर्ध्वमसाध्यान् वक्ष्यामः- मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः , केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः, अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलास्राविणो वा मध्योन्नताः, केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः, वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः, पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः, त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः, (क्षीणमांसानां च ) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः, सशब्दवातवाहिनश्च शिरःकण्ठस्थाः, क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः, भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ||१२||
मांसपिण्डवदुद्गता इत्यादि| प्रसेकिनः स्रावबहुलाः| अश्वापानवत् वडवायोनिवत्, उद्वृत्तौष्ठा उत्सन्नवर्त्मानः| केचिदवसन्नशुषिरपर्यन्ता इति निम्नच्छिद्रावसाना इत्यर्थः| वसा मांसनिर्यासः, मस्तुलुङ्गः अर्धविलीनघृताकारो मस्तकमज्जा| दोषसमुत्था इति वातादिदोषजा न पुनरभिघातजाः, ते ह्येवम्भूता अपि सिध्यन्ति| दोषजानसाध्यानभिधाय कोष्ठस्थान् दर्शयितुमाह- पीतासितमूत्रेत्यादि| त एव कोष्ठस्था एव| उभयतोभागव्रणमुखेष्विति गुदवदनोभयमार्गाभ्यां व्रणमुखमार्गेण पूयादिवाहिनः| सर्वव्रणवस्तुगता व्रणाः कीदृशा असाध्या इत्याह- सर्वत इत्यादि| शिरःकण्ठस्थाः कीदृशा असाध्या इत्याह- सशब्देत्यादि| क्षीणमांसानां कीदृशा असाध्या इत्याह- क्षीणेत्यादि| शिरःकपाले भिन्ने| कीदृशा असाध्या इत्याह- भिन्ने वा शिरःकपाल इत्यादि||१२||
Adhikarana 10 (13) · Śloka 13
भवति चात्र- वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् |
आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ||१३||
अनन्तरोक्तमेवार्थं सुखावबोधाय श्लोकेन दर्शयन्नाह- भवति चात्रेत्यादि||१३||
Adhikarana 11 (13-14) · Śloka 14
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते |
विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् ||१४||
अपरिगृहीतानामपि व्रणानामवस्थाविशेषप्राप्त्याऽसाध्यत्वं दर्शयन्नाह- अमर्मेत्यादि|- अमर्मोपहिते न मर्मसमीपव्यवस्थिते, देशे शरीरावयवे त्वचीत्यर्थः| सिरासन्ध्यस्थिवर्जित इत्यत्रादिशब्दो लुप्तो द्रष्टव्यः, तेन सिरासन्ध्यस्थ्यादिवर्जित इत्यर्थः; एतेन स्नायुधमनीवर्जित इत्युक्तम्| अन्ये सिरादिपदेन स्थूलसिरावर्जित इत्याहुः| विकारो योऽनुपर्येति विकारोऽत्र व्रणः, अनुपर्येति सर्वतो धातून् व्याप्नोति चिकित्स्यमानोऽपि, तदसाध्यस्य लक्षणम्; एतेन सुवैद्योपक्रमेऽपि सुप्रदेशजातेऽपि यदा सर्वधातुव्याप्तिर्दृश्यते, तदा ज्ञायते कर्मजोऽयं व्याधिरिति| अन्ये तु विकारशब्देन कुष्ठवातरक्तक्षयादीनपि कथयन्ति||१३-१४||
Adhikarana 12 (15-16) · Śloka 16
क्रमेणोपचयं प्राप्य ; धातूननुगतः शनैः |
न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ||१५||
स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च |
निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ||१६||
एवं व्याधेः कस्यचिदुत्पत्तावेवासाध्यत्वं प्रतिपाद्यापरस्यापि व्याधेः साध्यस्याप्युपेक्षयाऽसाध्यत्वं दर्शयन्नाह- क्रमेणेत्यादि| कुतः पुनः कारणादृष्टफलैरौषधैः स व्याधिर्नोपशाम्यतीत्याह- स स्थिरत्वादित्यादि|- स इति उपेक्षितो व्याधिरित्यर्थः; स्थिरत्वादिति स्थिरत्वमपथ्यकारिणो दोषबाहुल्यात्| कश्चिदनुपेक्षितोऽप्युत्पत्तावेव व्याधिरौषधवीर्याणि हन्तीत्यत्र हेत्वन्तरमाह- महत्त्वाच्चेति|- महत्त्वं चोदरादिव्याधिनिदानबलप्राक्तनकर्मपरिणामसम्प्राप्तिविशेषैर्द्रष्टव्यं, चकारेण रोहिणिकावलयमुखरोगिणामौषधवीर्योपघाते स्वभावोऽपि हेतुरिति समुच्चीयते| धात्वनुक्रमणेन चेति कुष्ठादिषु चैतद्द्रष्टव्यम्| दुष्टग्रह इति स्कन्दापस्मारादिक इत्यर्थः||१५-१६||
Adhikarana 13 (17) · Śloka 17
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते |
अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ||१७||
एतन्निर्दिष्टार्थप्रकरणविपर्ययेणापि सुखसाध्यत्वं दर्शयन्नाह- अतो यो विपरीतः स्यादित्यादि| मर्मसिरास्नायुसन्ध्यस्थिधमनीस्थितो यो नानुपर्येति स सुखसाध्य उच्यते| किंवदित्याह - अबद्धमूल इत्यादि| क्षुपकः अतिबालवृक्षः||१७||
Adhikarana 14 (18) · Śloka 18
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः |
अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ||१८||
इदानीं व्रणस्य शुद्धिलक्षणमाह- त्रिभिर्दोषैरनाक्रान्त इत्यादि| दोषशब्दोऽत्र दोषकार्येषु व्रणाकृतिगन्धवर्णस्राववेदनासु वर्तते, कार्ये कारणोपचारात्; यथा- घृतमायुरिति ; तैर्दोषाकृतिगन्धादिभिरनाक्रान्तः| ‘त्रिभिर्द्वन्द्वैः’ इत्यन्ये पठन्ति; ते तु द्वन्द्वशब्दमभिव्यक्तौ वर्णयन्ति, तेन दोषत्रयाभिव्यक्तिभिराकृत्यादिभिरनाक्रान्त इति स एवार्थः| अन्ये तु शीतोष्णं, मृदुकठिनं संवृतविवृतमिति द्वन्द्वत्रयं मन्यन्ते| अपरे तु ‘द्वन्द्वानि दोषाः, ते चात्र वातादयः,तैरनाक्रान्त’ इति व्याख्यानयन्ति| श्यावौष्ठ इति किञ्चित्कृष्णपाण्डुः, प्रसीदच्छोणितत्वात्; अन्ये श्यावौष्ठतां कषायपरिषेकाभ्यङ्गादिकृतां वदन्ति| पिडकाः यस्य सन्ति स पिडकी, पिडका व्रणौष्ठेऽणुमांसाङ्कुराः| ‘अपिडकी’ इत्यन्ये पठन्ति, तत्र न विद्यन्ते पिडका अस्येति| समः समतलः| अवेदन इति न विद्यते वातादीनां तोदादिवेदना यस्य स अवेदनः, सामान्यशुद्धव्रणवेदना तु विद्यत एव, येन सुरूढे वक्ष्यति- ‘अशूनमरुजं व्रणम्’ इति||१८||
Adhikarana 15 (19) · Śloka 19
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः |
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ||१९||
रोहद्व्रणलक्षणं निर्दिशन्नाह- कपोतवर्णप्रतिमा इत्यादि|- कपोतवर्णप्रतिमाः पाण्डुधूसराः| स्थिराः कठिना इत्यर्थः| चिपिटिकावन्त इति चर्मचेलीयुक्ताः; विशुष्यमाणत्वात्त्वचश्चर्मचेलीसम्भवः| व्रणे शुष्कसूक्ष्मश्वेता या उच्चटति त्वक् सा ‘चर्मचेली’ इति कथ्यते| अन्ये तु ‘अपिटिकावन्त’ इति पठन्ति| रोहति रोहं गच्छति||१९||
Adhikarana 16 (20) · Śloka 20
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् |
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ||२०||
सम्यग्रूढव्रणस्य लक्षणं दर्शयन्नाह- रूढवर्त्मानमग्रन्थिमित्यादि| रूढवर्त्मानं रूढमार्गं रूढव्रणवस्त्वित्यर्थः| अग्रन्थिपदेनोपरिष्टाच्छूनता निषिद्धा| त्वक्सवर्णं त्वचा समानवर्णमित्यर्थः| समतलमिति सदृशं करतलेन जिह्वातलेन वेत्यर्थः, अन्ये ‘त्वग्रन्थिपदेनोपरिष्टाच्छूनता निषिद्धा,समतलशब्देनाधोनिम्नता निषिध्यते’ इति वदन्ति| तेषां मते ‘समस्तले स समतल’ इति योज्यते||२०||
Adhikarana 17 (21) · Śloka 21
दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः |
हर्षात् क्रोधाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते ||२१||
केचिदत्राध्यायान्ते रूढव्रणव्यापत्पाठं पठन्ति ‘दोषप्रकोपात्’ इत्यादि; अयं च श्लोकः सर्वेष्वपि निबन्धेष्वपरिगृहीत इत्यनार्षः, तस्मान्न पठनीय इति||२१||
Adhikarana puShpikA · Śloka 23
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः ||२३||
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायां सूत्रस्थाने त्रयोविंशोऽध्यायः||२३||