Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

34. śītapūtanāpratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अन्धपूतनाप्रतिषेधानन्तरं पूतनासामान्याच्छीतपूतनाप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||

Adhikarana 2 (3-6) · Śloka 7

कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम् | नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत् ||३|| बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च | कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत् ||४|| रोहिणीसर्जखदिरपलाशककुभत्वचः | निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम् ||५|| गृध्रोलूकपुरीषाणि बस्तगन्धामहेस्त्वचः | निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत् ||६|| धारयेदपि लम्बां च गुञ्जां काकादनीं तथा |७|

🔊 Audio coming soon

कपित्थमित्यादि| सुवहा गोधापदी| प्रचीबलो मत्स्याक्षकः, काकजङ्घेत्यन्ये| नदीभल्लातकं नदीपिप्पलिका गण्डोपलीति पर्याया| सर्वगन्धा एलादिकाः| अत्र तैले कुष्ठद्वयस्य पाठो भागद्वयार्थः| रोहिणी कट्फलः| रोहिण्यादिक्वाथे त्रिगुणे क्षीरैकभागे घृतं पचेत्| बस्तगन्धा बोथयिका| अहेस्त्वचः सर्पस्य कञ्चुकाः| लम्बा तिक्तालाबूः| काकादनी काकतिन्दुका||३-६||-

Adhikarana 3 (7-8) · Śloka 8

नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् ||७|| देव्यै देयश्चोपहारो वारुणी रुधिरं तथा | जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ||८||

🔊 Audio coming soon

नद्यामित्यादि| मुद्गकृतैरन्नैः मुद्गकृतैर्भक्ष्यैः, मुद्गोदनेनेति गयी| उपहारो बलिः| जलाशयान्ते नद्याः समीपे||७-८||

Adhikarana 4 (9) · Śloka 9

मुद्गौदनाशना देवी सुराशोणितपायिनी | जलाशयालया देवी पातु त्वां शीतपूतना ||९||

🔊 Audio coming soon

रक्षामाह- मुद्गेत्यादि||९||

Adhikarana puShpikA · Śloka 34

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम(अष्टमोऽध्यायः, आदितः) चतुस्त्रिंशोऽध्यायः ||३४||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे शीतपूतनाप्रतिषेधाध्यायश्चतुस्त्रिंशत्तमः||३४||