Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

57. arōcakapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

विसूचिकाप्रतिषेधानन्तरं रसदोषजत्वसाम्यादग्निमान्द्यहेतुत्वसाम्याच्चारोचकप्रतिषेधारम्भः- अथात इत्यादि| अत्र आदिशब्दो लुप्तो द्रष्टव्यः; तेनाविपाकस्यापि ग्रहणम्||१-२||

Adhikarana 2 (3) · Śloka 3

दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम् | नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति ||३||

🔊 Audio coming soon

सम्प्राप्तिद्वारेण सङ्ख्यामाह- दोषैरित्यादि| दोषैः पृथगिति त्रयः, सह चेति समस्तैः एकः, चित्तविपर्ययात् कामशोकभयादिभिर्विलुप्तचित्तत्वात्, चित्तविपर्ययात्तु एकः; केचित् ‘चित्तविपर्ययात्' इत्यत्र ‘शोकसमुच्छ्रयात्’ इति पठन्ति, तन्मते कामादिजानामसङ्ग्रहः| भक्तायनेषु अन्नवहेषु स्रोतःसु| भक्तायनमिति जिह्वोपलक्षणं, समानतन्त्रदर्शनात्| तथा च- “पृथग्दोषैः समस्तैश्च जिह्वाहृदयसंसृतैः| जायतेऽरुचिराहारे द्विष्टैरन्यैश्च मानसैः”- इति| अवतते इति भक्तायनेष्वित्यत्रापि वचनविपरिणामात् सम्बन्धनीयम्| अवतते व्याप्ते| भक्तोपघातम् अरोचकं; अरोचकाभक्तच्छन्दान्नद्वेषाः पर्याया बोद्धव्याः; कैश्चिदेषां परस्परं भेदोऽङ्गीक्रियते| तथा च वृद्धभोजः- “प्रक्षिप्तं तु मुखे चान्नं जन्तोर्न स्वदते मुहुः| अरोचकः स विज्ञेयो, भक्तद्वेषमतः शृणु|| चिन्तयित्वा तु मनसा दृष्ट्वा श्रुत्वाऽपि भोजनम्| द्वेषमायाति यज्जन्तुर्भक्तद्वेषः स उच्यते|| यस्य नान्ने भवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते”- इत्यादि| इह अस्मिन् शास्त्रे| सङ्ख्येयनिर्देशादेव सङ्ख्यायां सिद्धायां पञ्चविधमिति सङ्ख्याकरणं नियमार्थं; तेन कामादिजा अरोचकाः पृथङ्न गणनीयाः||३||

Adhikarana 3 (4) · Śloka 4

हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु |४|

🔊 Audio coming soon

वातिकारोचकलक्षणमाह- हृच्छूलपीडनयुतमित्यादि| हृच्छूलपीडनयुतमिति विरसाननत्वमित्येतस्य विशेषणम्| अपरे तु हृत् हृदयं शूलपीडनाभ्यां युक्तं भवतीति व्याख्यानयन्ति| अरोचकानां प्राग्रूपानभिधानं रूपाणामेवाव्यक्तानां प्राग्रूपत्वात्|४|-

Adhikarana 4 (4) · Śloka 4

हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव ||४||

🔊 Audio coming soon

पित्तजारोचकलक्षणमाह- हृद्दाहचोषेत्यादि| हृद्दाहचोषबहुतेति हृदि हृदये दाहचोषयोर्बाहुल्यमित्यर्थः| चोष आचूष्यत इव वेदना| अन्ये ‘हृद्दाहचोषबहुलं’ इति पठित्वा हृदयं दाहचोषबहुलं भवतीति व्याख्यानयन्ति||४||

Adhikarana 5 (5) · Śloka 5

कण्डूगुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु |५|

🔊 Audio coming soon

कफजारोचकलक्षणमाह- कण्डूगुरुत्वेत्यादि| कफसंस्रवः श्लेष्मस्रुतिः, सादः अङ्गग्लानिः, आस्यं मुखम्| केचित् ‘सादतन्द्रा’ इत्यत्र ‘कण्ठसादा’ इति पठित्वा अभ्यवहरणाद्यशक्तिरिति व्याख्यानयन्ति|५|-

Adhikarana 6 (5) · Śloka 5

सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ||५||

🔊 Audio coming soon

सान्निपातिकारोचकलक्षणमाह- सर्वात्मक इत्यादि| सर्वात्मके सान्निपातिकारोचके पवनादयो दोषा बहूनि रूपाण्यस्य हृदये समुदीरयन्ति कुर्वन्तीति पिण्डार्थः| यद्यपि सान्निपातिके हृद्रोगे सर्वजारोचके च बाहुल्येन समान्येव लिङ्गानि भवन्ति, तथाऽपि सम्प्राप्तिभेदात् किञ्चिल्लक्षणभेदाच्च तयोर्भेदः| सान्निपातिकारोचकोऽसाध्यः, “सर्वात्मकं चापि विवर्जयेत” इति समानतन्त्रोक्तत्वात्||५||

Adhikarana 7 (6) · Śloka 6

संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च |६|

🔊 Audio coming soon

अविशिष्टं पच्चममरोचकमाह- संरागशोकेत्यादि| संरागः कामः| विप्लुतचेतसः विकृतचित्तस्य| स अरोचकः| अशुचिदर्शनात् अमेध्यवस्तुदर्शनात् बीभत्सादिदर्शनादित्यर्थः| चिन्ताकृतस्यारोचकस्य भिन्नलक्षणनिर्देशात् शेषेषु यथादोषं लक्षणानि ज्ञातव्यानि, कामादिभिः सर्वैर्वातादिप्रकोपात्| तथा च “कामशोकभयाद्वायुः क्रोधात् पित्तं च कुप्यति| श्लेष्मा तु हर्षणात्”- इति| अन्ये तु चिन्ताकृतारोचकस्य वातादिभेदेन लक्षणानि पठन्ति; तद्यथा- “वातात्मके विरसमास्यमरोचके तु, पित्तेन तिक्तकटुकं, मधुरं कफेन| सर्वैरुपेतमथ सर्वजमेव विद्याद्दैन्यं भृशं भवति शोकसमुद्भवे तु”- इति| अन्यं पाठो न पठनीयः, अनार्षत्वात्|६|-

Adhikarana 8 (6) · Śloka 7

वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ||६|| कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम् |७|

🔊 Audio coming soon

इदानीं वातिकारोचकचिकित्सामाह- वात इत्यादि| वाते वातजे अरोचके, कारणे कार्योपचारात्| वचाम्बुवमनं कृतवानिति वचाक्वाथेन कृतवमनो नरः| केचित् एलशब्देन एलवालुकं मन्यन्ते, पदेऽपि पदैकदेशप्रवृत्तेः| ‘एलजलेन’ इत्यत्र ‘उष्णजलेन’ इति पाठान्तरम्| लवणोत्तमं सैन्धवम्| इदं चूर्णं वमनैः शुद्धाशयस्य देयम्| कार्तिककुण्डोऽमुं पाठमन्यथा पठति, स चाभावान्न लिखितः||६||-

Adhikarana 9 (7) · Śloka 7

पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ||७||

🔊 Audio coming soon

पित्तजारोचकचिकित्सामाह- पित्ते इत्यादि| पित्ते पित्तजारोचके, उपचारात्| मधुरं काकोल्यादि| अत्रापि पूर्ववदवचारणम्||७||

Adhikarana 10 (8) · Śloka 8

निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात् |८|

🔊 Audio coming soon

कफारोचकचिकित्सामाह- निम्बाम्बुवामितवत इत्यादि| निम्बाम्बु निम्बक्वाथः, निम्बाम्बुना वामितवतः पुंसः गिरिमालकक्वाथः समधुः साजमोदश्चानुपानं स्यात्; ‘कृतभोजनस्य’ इति शेषः; समानतन्त्रदर्शनात्| केचिद्दीप्यकशब्देन यवानीमाहुः|८|-

Adhikarana 11 (8) · Śloka 8

चूर्णं यदुक्तमथवाऽनिलजे तदेव... |८|

🔊 Audio coming soon

कफजारोचकेऽतिदेशेन चिकित्सामाह- चूर्णमित्यादि| चूर्णं यदुक्तमिति ‘कृष्णाविडङ्गयवभस्म’ इत्यादिकम्| तच्चूर्णं कफजे वातानुबन्धे सति देयम्|८|-

Adhikarana 12 (8) · Śloka 8

...सर्वैश्च सर्वकृतमेवमुपक्रमेत ||८||

🔊 Audio coming soon

सान्निपातिकारोचकचिकित्सामाह- सर्वैरित्यादि| सर्वैरितिवातादिजारोचकहरैः पूर्वोक्तैरेव| सर्वकृतं सान्निपातिकमरोचकम्| एवमिति पूर्ववत्, वमनादि कारयित्वेति यावत्| उपक्रमेत ‘प्रत्याख्याय’ इति शेषः, असाध्यत्वात्तस्य||८||

Adhikarana 13 (9-11) · Śloka 11

द्राक्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्रवृक्षैः | बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ||९|| मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा | मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम् ||१०|| मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा | एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ||११||

🔊 Audio coming soon

इदानीं चतुर्णामप्यरोचकानां यथासङ्ख्येन चतुरो लेहानाह- द्राक्षापटोलेत्यादि| द्राक्षादिः सुरभिमूत्रयुतं यथावदित्यन्त एको लेहः| मुस्तादिः मूत्रेऽविजे इतिपर्यन्तो द्वितीयः| द्विरदमूत्रादी रजनीं च मुख्यामित्यन्तः तृतीयः| मण्डूकीत्यादिः चतुर्थः| करीरो गूढपत्रो मरुदेशेऽतिप्रसिद्धः कण्टकिवृक्षः; मूर्वा चोरस्नायुः; अभया हरीतकी, केचिदभयं मन्यन्ते, तन्मते उशीरं, अक्षं बिभीतकं; इन्द्रवृक्षः कुटजः; नृपवृक्षः गिरिमालकः| सुरभिमूत्रयुतं कल्कचतुर्गुणगोमूत्रयुतं, “मूत्रेण चतुर्गुणेन” इत्यादिकाश्यपीयसंवादात्| यथावदिति लेहं पचेदित्यत्र योज्यं, तेन यथावल्लेहं पचेत् ; कोऽर्थः? यावल्लेहपाकलक्षणं तन्तुमुद्रादि जायते तावत् पचेदित्यर्थः| निर्दहनी चित्रकः, अजमोदा इत्यन्ये| अविजे मेषोत्थे| असावपि पूर्ववल्लेहवत् पक्तव्यः| द्विरदमूत्रं हस्तिमूत्रम्| तुगा वंशरोचनानुकारि पार्थिवं द्रव्यमाहुः| रजनीं च मुख्यां पिण्डहरिद्राम्| अयमपि पूर्वविधिनैव पक्तव्यः| मण्डूकी ब्राह्मी, अमृता गुडूची, लाङ्गली कलिकारिका| असावपि पूर्ववत् पक्तव्यः| “एतान्न सन्ति चतुरोऽभ्यसतश्च” इति केचित् पठन्ति| “एतान् वदन्ति भिषजश्चतुरश्च लेहान् गुल्मारुचिश्वसनकण्ठहृदामयेषु” इत्यपरे पठन्ति||९-११||

Adhikarana 14 (12) · Śloka 12

सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान् पानानि मूलफलषाडवरागयोगान् | अद्याद्रसांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि ||१२||

🔊 Audio coming soon

सात्म्यानित्यादि| सात्म्यान् सुखकरान्| “सात्म्यान् स्वदेशरचितान् विविधैः प्रकारैर्भुञ्जीत वाऽपि लघुरूक्षमनाः सुखेन” इत्यन्ये पठन्ति| स्वदेशरचितान् विविधांश्च भक्ष्यानिति यस्मिन् देशे ये भक्ष्या बाहुल्येनोपयुज्यन्ते तानित्यर्थः| पानानीत्यत्रापि विविधानीति योज्यं, तेन यथारुचि फलानि शर्करान्वितानि कर्पूरचतुर्जातकसुगन्धीनि गृह्यन्ते| मूलं पिप्पलीमूलादि| फलं दाडिमादि| षाडवा रसालाद्याः| रागाः कपित्थरागादयः| केचित् “सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः| जम्बूफलरसैर्युक्तो रागो राजिकया कृतः|| मधुराम्लकटूनां तु संस्काराः षाडवा मताः” इत्याहुः; अपरे तु षाडवशब्देन यवानीषाडवमाहुः, तन्त्रान्तरसंवादात् ; रागशब्देन च रागषाडवं मत्वा द्राक्षादाडिमाद्यन्वितं मुद्गयूषमिति च व्याख्यानयन्ति| रसान् विविधान् मांसरसान् मधुरादिरसान् वा| लघुरूक्षभोजनं श्लेष्मस्थानगतत्वादरोचकस्य| मनःसुखं मनोनुकूलम्| केचित् सात्म्यानिति सात्म्यदेशरोगर्तुप्रकृत्यादीन्यवेक्ष्य भक्ष्यादि कुर्यादिति मन्यन्ते||१२||

Adhikarana 15 (13) · Śloka 13

आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि |१३|

🔊 Audio coming soon

निषिद्धस्यापि निरूहस्यारोचके प्रयोगमाह- आस्थापनमित्यादि| आस्थापनं निरूहः| विधिवत् यथाविधि| अत्र अरोचके| यद्यपि ‘तत्रोन्मादभयशोक’ इत्यादिनाऽरोचके आस्थापननिषेधः; तथाऽपि वमनादिक्रमोत्तरकालं वातानुबन्धे सति देयं, न त्वादौ|१३|-

Adhikarana 16 (13) · Śloka 14

त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि ||१३|| क्षौद्रायुतानि वितरेन्मुखबोधनार्थ ... |१४|

🔊 Audio coming soon

त्रीण्यूषणानीत्यादि| त्रीण्यूषणानीति त्रिकटुकम्| यवशूकोयवक्षारः| वितरेत् दद्यात्| मुखबोधनार्थमिति मुखबोधे सत्यरोचकहानिरित्यर्थः| अवलेहप्रयोग एषः||१३||-

Adhikarana 17 (14) · Śloka 15

... मन्यानि तिक्तकटुकानि च भेषजानि | मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ||१४|| मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः |१५|

🔊 Audio coming soon

अनुक्तसङ्ग्रहार्थमाह- अन्यानीत्यादि| मुस्तादिः मुस्ताकुष्ठहरिद्रेत्यादिः, राजतरुवर्गः आरग्वधमदनगोपघोण्टेत्यादिः, दशाङ्गं दशमूलम्| जयेत् ‘अरोचकं’ इति शेषः| मधुयुता लेहा मुस्ताद्यादिकृता एव ग्राह्याः| केचित् ‘विविधैश्च योगैः’ इति पठित्वा वातश्लेष्महरैरिति व्याख्यानयन्ति| मूत्रासवैरित्यादि मूत्रेण आसूयन्त इति मूत्रासवाः| तैश्च किम्भूतैः? गुडकृतैः कुष्ठचिकित्सितोक्तविधिना गुडमध्वादिकृतैरित्यर्थः| अरिष्टैः अभयारिष्टादिभिः| क्षारासवैरिति मध्वादिभिः पलाशक्षारपानीयेन सह निष्पादितैर्महाकुष्ठाभिहितैः| मधुमाधवतुल्यगन्धैरिति मधु क्षौद्रं, माधवं मधुकृतं मद्यं, तयोस्तुल्यगन्धैरित्यर्थः||१४||-

Adhikarana 18 (15) · Śloka 15

स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य ||१५||

🔊 Audio coming soon

पूर्वोक्तमेव विधिमविपाकेऽतिदिशन्नाह- स्यादेष इत्यादि| एष एव विधिरनन्तरोक्त एव| यदत्र कफवातयोरुपादानं न पित्तनिमित्तस्य तत् पित्तादविपाको न भवतीति दर्शयति| शान्तिं गते हुतभुजि अविपाके इत्यर्थः, कारणे कार्योपचारात्; उपचारेण यदत्राविपाकग्रहणं कृतं, न साक्षात्तदप्यग्निमान्द्यमविपाकस्य कारणमिति सूचयति| शान्तिं गते मन्दतां प्राप्ते, हुतभुजि जाठराग्नौ| तस्येत्यत्र चकारो लुप्तो द्रष्टव्यः, तेन तस्य च प्रशमनाय; कोऽर्थः? अरोचकस्यापि | कार्तिक ईदृशं व्याख्यानं न मन्यते, तस्याविपाकस्यैव प्रशमायेति प्रतिपादयति| ये चाग्निमान्द्य एवैनं विधिमिच्छन्ति न त्वरोचकाविपाके, तन्मतेऽस्मिन्नध्यायेऽविपाको न वक्तव्यः||१५||

Adhikarana 19 (16-17) · Śloka 17

इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान् | अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् ||१६|| दैन्यं गते मनसि बोधनमत्र शस्तं यद्यत् प्रियं तदुपसेव्यमरोचके तु ||१७||

🔊 Audio coming soon

इदानीं पञ्चमारोचकचिकित्सामाह- इच्छाभिघातेत्यादि| इच्छाभिघातो वाञ्छितस्याप्राप्तिः| भावान् पदार्थान्| भवाय अर्थवशात् रुच्युत्पादनाय| वितरेत् दद्यात्| कीदृशान् भावान्? शक्यरूपान् प्राप्यानित्यर्थः| ये तावत् प्राप्या भावास्तान् इच्छाविघाताद्यरोचके वितरेत्| ये पुनरप्राप्यास्तद्विषये किं कुर्यादित्याह- अर्थेष्वित्यादि| अर्थेषु पदार्थेषु, अपचितेषु नष्टेषु अप्राप्तेष्वित्यर्थः पुनरिति अपचितेष्वित्यत्र योज्यम्| भवाय रुच्युत्पादनायेत्यर्थः| पौराणिकैः श्रुतिशतैरनुमानयेदिति नलरामाद्युपाख्यानैरन्यैश्च तथाविधैरनुमानयेत् प्रबोधयेदित्यर्थः| केचित् पौराणिकैः श्रुतिपथैरिति पठन्ति; पौराणिकैः पुराणोक्तैः, श्रुतिपथैः वाक्यैः, श्रुतिः श्रवणं सैव पन्था मार्गो येषां तानि तथोक्तानीति व्याख्यानयन्ति| दैन्यं गते मनसि क्लिष्टचेतसीत्यर्थः| बोधनम् आश्वासनैर्हितोपदेशैश्च| केचिदमुं पाठं न पठन्ति||१६-१७||

Adhikarana puShpikA · Śloka 57

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम (एकोनविंशोऽध्यायः, आदितः) सप्तपञ्चाशत्तमोऽध्यायः ||५७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रेऽरोचकप्रतिषेधो नाम सप्तपञ्चाशत्तमोऽध्यायः||५७||