Adhikarana 1 (1-2) · Śloka 2
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अरोचकप्रतिषेधानन्तरं पारिशेष्यान्मूत्राघातप्रतिषेधारम्भः; परिशेषत्वं च मूत्राघातमूत्रकृच्छ्रयोरेकत्वेन विवक्षितत्वात् कायचिकित्सायां चापरस्याध्यायस्याभावात्| अथात इत्यादि| मूत्राघातो मूत्रावरोधः, केचिदाघातशब्देन दुष्टिमाहुः न त्ववरोधं, मूत्रशुक्रमूत्रसादयोर्मूत्रावरोधासम्भवात्||१-२||
Adhikarana 2 (3-4) · Śloka 4
वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च |
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ||३||
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च |
मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ||४||
इदानीं सुखबोधार्थं मूत्राघातान्नामभिः प्राह- वातेत्यादि| अष्ठीलेति वाताष्ठीलेत्यर्थः| या निदानस्थाने वाताष्ठीला भणिता सा भिन्ना, आध्मानादिलक्षणरहितत्वात् | सङ्ख्येयनिर्देशादेवसङ्ख्यायां सिद्धायां द्वादशेति सङ्ख्याकरणं तन्त्रान्तरोक्ताधिकसङ्ख्यानिवारणार्थम्||३-४||
Adhikarana 3 (5-6) · Śloka 6
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः |
मूत्रं चरति सङ्गृह्य विगुणः कुण्डलीकृतः ||५||
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः |
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ||६||
वातकुण्डलिकाया हेतुसम्प्राप्तिलक्षणान्याह- रौक्ष्यादित्यादि| अन्तरमाश्रित इति बस्तिमध्यमाश्रित इत्यर्थः| मूत्रं चरति सङ्गृह्येति मूत्रं गृहीत्वा वायुश्चरति भ्रमतीत्यर्थः| कुण्डलीकृत इति कुण्डलाकृत्या वर्तुलीभूतः| सृजेत् प्रवर्तयेत्| सरुजस्कं सवेदनं मूत्रम्| रौक्ष्याद्वेगविघातादिति व्यवहितः सन्निहितश्च हेतुरुक्तः, वायुरन्तरमाश्रित इत्यादिसम्प्राप्तिः, कुण्डलीकृत इत्यादिलक्षणम्| ‘मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्तते’ इति केचित् पठन्ति| अपरे ‘सरुजं सम्प्रवर्तयेत्’ इति पठन्ति| सर्वेषां मूत्राघातानां वायुरेव प्रायशः कारणं बोद्धव्यम्||५-६||
Adhikarana 4 (7-8) · Śloka 8
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः |
अष्ठीलावद्धनं ग्रन्थिं करोत्यचलमुन्नतम् ||७||
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते |
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ||८||
अष्ठीलाया हेतुसम्प्राप्तिलक्षणान्याह- शकृन्मार्गस्येत्यादि| शकृन्मार्गो गुदः, बस्तिः मूत्राधारः, वायुरत्र अपानो गुदबस्तिस्थरोगकरत्वात्, अन्तरं मध्यम्| अष्ठीला उत्तरापथे दीर्घवर्तुलपाषाणविशेषः, अन्ये चर्मकाराणां लौहीं भाण्डीमाहुः| अचलम् ईषच्चलम्| आध्मानं बस्तौ बोद्धव्यम्| अपानो वायुरत्र हेतुः, शकृन्मार्गस्येत्यादिः सम्प्राप्तिः, शेषं लक्षणम्||७-८||
Adhikarana 5 (9-10) · Śloka 10
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः |
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||९||
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः |
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||१०||
वातबस्तेर्हेतुसम्प्राप्तिलक्षणान्याह- वेगमित्यादि| अकुशलो मूर्खः| तस्य मूर्खस्य| मूत्रसङ्गो मूत्रस्याप्रवृत्तिः| तेन व्याधिना बस्तिकुक्षिनिपीडित इति बस्तिकुक्षेर्निपीडनं विद्यते यस्य(त्र) स तथा; निपीडितं निपीडनं वेदनेत्यर्थः| कृच्छ्रप्रसाधनः कष्टसाध्यः| वेगं विधारयेदिति हेतुः, निरुणद्धि मुखं तस्य बस्तेरिति सम्प्राप्तिः, शेषं लक्षणम्||९-१०||
Adhikarana 6 (11-12) · Śloka 12
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति |
तस्य नाभ्येति यदि वा कथञ्चित्सम्प्रवर्तते ||११||
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः |
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् ||१२||
मूत्रातीतस्य हेतुं सम्प्राप्तिं लक्षणं चाह- वेगमित्यादि| वेगं प्रवृत्त्युन्मुखत्वं, तं सन्धार्य सम्यग्धृत्वा, भूयः पुनः, स्रष्टुमिच्छति मोक्तुं वाञ्छति| नाभ्येति मूत्रं नागच्छतीत्यर्थः| प्रवाहत इति निकुहनादित्यर्थः| यद्यपि वेगं सन्धार्य मूत्रस्येत्यनेनैव मूत्रविघातजत्वमस्य व्याधेः प्राप्तं, तथाऽपि पुनर्मूत्रवेगविघातजमिति करणं मूत्रविघातोत्थवातजत्वप्रतिपादनार्थम्| वेगं सन्धार्येत्यादिर्हेतुः, यो भूयः स्रष्टुमिच्छतीत्यादिः सम्प्राप्तिः, शेषं लक्षणम||११-१२||
Adhikarana 7 (13-14) · Śloka 14
मूत्रस्य विहते वेगे तदुदावर्तहेतुना |
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||१३||
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् |
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् ||१४||
मूत्रजठरस्य हेत्वादिकमाह- मूत्रस्येत्यादि| तदुदावर्तहेतुनेति तदुदावर्तो मूत्रोदावर्तः स एव हेतुस्तेनेत्यर्थः; एतेन मूत्रवेगेऽवरुद्धे सति तदुदावर्तहेतुनाऽपानो वायुः कुपितः सन् उदरं पूरयेत्, ततश्च नाभेरधोभागे तीव्रपीडमाध्मानं जनयेत्; तं मूत्रजठरमधःस्रोतोनिरोधनं विद्यात् मूत्रपुरीषमार्गावरोधकं जानीयादित्यर्थः| केचित् ‘अधोबस्तिनिरोधजम्’ इति पठन्ति| ये तु ‘अपानः कुपितो वायुः’ इत्यादिकमेव मूत्रजठरं पठन्ति, ते ‘मूत्रस्य वेगे विहते तदुदावर्तहेतुना’ इति पाठं मूत्रातीतपाठमध्ये पठन्ति| तथा च सति ते प्रकोपकारणानुक्तावपानप्रकोपकारणं बलवद्विग्रहादिकं मन्यन्ते| तादृशश्च पाठो न वृद्धचित्ताह्लादकरः| मूत्रस्य वेगे विहते इत्यादिर्हेतुः, उदरं पूरयेद्भृशमित्यादिः सम्प्राप्तिः, शेषं लक्षणम्||१३-१४||
Adhikarana 8 (15-16) · Śloka 16
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः |
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१५||
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् |
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||१६||
मूत्रोत्सङ्गस्य हेत्वादिकमाह- बस्तावित्यादि| नाले मेढ्रस्रोतसि| मणौ मेढ्राग्रदेशे| यद्यपि नाले इत्यनेनैव मणेरपि ग्रहणं सञ्जातं, तथाऽपि मणेरुपादानं मणावत्यन्तमूत्रोत्सङ्गप्रतिपादनार्थम्| सज्जेत अवरुध्येत| ‘सरक्तम्’ इत्यत्र ‘संसक्तम्’ इति पाठे संसक्तं सम्बद्धम्| प्रवाहतः निकुहनादित्यर्थः| सरुजम् अतिवातप्रकोपात्, नीरुजं हीनवातप्रकोपात्| विगुणानिलज इति विमार्गवायुजः, वायोर्विमार्गगमनं मार्गावरोधात् स्वहेतुभिश्च; केचिन्मार्गावरोधमेव विमार्गगमने कारणमिच्छन्ति| विगुणानिलजो व्याधिरिति हेतुः, बस्तावित्यादिः सम्प्राप्तिः, शेषं लक्षणम्||१५-१६||
Adhikarana 9 (17) · Śloka 17
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ |
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसङ्क्षयम् ||१७||
मृत्रक्षयस्य हेत्वादिकमाह- रूक्षस्येत्यादि| क्लान्तदेहस्य ग्लानदेहस्य| यद्यपि रूक्षग्लानदेहत्वं न पित्तप्रकोपकारणं तथाऽपि वातान्वितपित्तस्य प्रकोपकं ज्ञेयम्| कुर्याताम् उत्पादयेताम्| कृच्छ्रं कुष्ठजननम्| मूत्रसङ्क्षयमिति मूत्रशोषणान्मूत्रसङ्क्षयो रोगः| रूक्षस्येत्यादिः हेतुः, बस्तिस्थावित्यादिः सम्प्राप्तिः, शेषं लक्षणम्| ‘बस्तिस्थौ पित्तमारुतौ’ इत्यत्र ‘बस्तौ तिष्ठन् सदागतिः’ इति केचित् पठन्ति; स चानार्षः पाठः||१७||
Adhikarana 10 (18-19) · Śloka 19
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च |
वेदनावानति सदा मूत्रमार्गनिरोधनः ||१८||
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः |
स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः ||१९||
मूत्रग्रन्थेर्हेत्वादिकमाह- अभ्यन्तर इत्यादि| अभ्यन्तरे बस्तिमुखे इति बस्तिद्वारस्याभ्यन्तरे इत्यर्थः| वृत्तो वर्तुलः| स्थिरः अचलः| मूत्रमार्गनिरोधनः मूत्रवाहिस्रोतोनिरोधकारीत्यर्थः| सहसा झटिति| अश्मरीलक्षण इत्यत्र वेदनादिभिरिति सम्बध्यते| तेन वेदनाभिः कृत्वा अश्मर्यास्तुल्यलक्षणो न त्वधिष्ठानादिभिरश्मरीतुल्यलक्षणः, एष एवाश्मरीमूत्रग्रन्थ्योर्भेदः; तथा अश्मर्यां रक्तसम्बन्धो नास्ति, मूत्रग्रन्थौ तु तन्त्रान्तरदर्शनाद्रक्तसम्बन्धो ज्ञेय इत्यपि भेदः| तथा च तद्वचः- “रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्| अश्मरीसमशूलं तं मूत्रग्रन्थिं प्रचक्षते”- इति| अभ्यन्तर इत्यादिसम्प्राप्तिः, वेदनावानित्यादिलक्षणं, हेतुरत्रानुक्तोऽपि उष्णवातहेतुसाहचर्यात् पित्तं ज्ञेयः| यद्येवं तर्हि उष्णवाते वायुरपि हेतुरुक्तः; सोऽत्रकिमिति न गृह्यते? सत्यं, मूत्रग्रन्थेर्व्यतिक्रमपाठादेव वायुरत्र कारणं न भवतीति ज्ञेयम्||१८-१९||
Adhikarana 11 (20-21) · Śloka 21
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति |
तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ||२०||
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन |
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ||२१||
मूत्रशुक्रस्य हेत्वादिकमाह- प्रत्युपस्थितेत्यादि| प्रत्युपस्थितमूत्र इति सञ्जातमूत्रवेग इत्यर्थः| यःपुरुषः, मैथुनमभिनन्दति इच्छति करोतीति तात्पर्यार्थः| रेतः शुक्रम्| पुरस्ताद्वाऽपि मूत्रस्य आदावित्यर्थः| भस्मोदकप्रतीकाशं भस्ममिश्रितपानीयतुल्यम् | एतच्च रेतोविशेषणम्| यःपुरुषः सञ्जातमूत्रवेगः सन् मैथुनं करोति तस्य पुंसो भस्मोदकप्रतीकाशं मूत्रयुतं रेतो मूत्रस्यादौ कदाचित् पश्चाद्वा वायोर्विचित्रक्रियाकरत्वात् प्रवर्तते, तन्मूत्रशुक्रमुच्यत इति फलितोऽर्थः| अत्र हेतुसम्प्राप्त्यादिकं स्वयमप्यूह्य ज्ञेयम्||२०-२१||
Adhikarana 12 (22-23) · Śloka 23
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम् |
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः ||२२||
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा |
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ||२३||
व्यायामाध्वातपैरित्यादि| अनिलावृतं वातान्वितं पित्तम्| हारिद्रं हरिद्रावर्णम्| सरक्तम् ईषद्रक्त वर्णमीषच्छोणितं वा| रक्तं वेति केवलं शोणितम्, अत्यन्तरक्तवर्णं मूत्रं वेत्यर्थः| ननु, अत्रोद्देशसूत्रपाठान्मूत्रग्रन्थिमूत्रशुक्रयोरुपादानं प्राप्नोति नोष्णवातस्य, तत् कथमत्रोष्णवातो निर्दिष्टः? उच्यते- यथा मूत्रक्षयस्य वातपित्ते हेतू तथाऽस्यापि त एव हेतू इति हेतुसाम्याद्व्यतिक्रमेणोष्णवातो निर्दिष्टः| यद्येवं तर्हि उद्देशेऽप्युष्णवातो मूत्रक्षयानन्तरमेव किमिति न पठितः? सत्यं, मूत्रग्रन्थौ केवलपित्तस्यानुवर्तनार्थमुष्णवातो मूत्रक्षयानन्तरं पठितः| व्यायामादिको हेतुः, बस्तिं प्राप्येत्यादिः सम्प्राप्तिः, शेषं लक्षणम्||२२-२३||
Adhikarana 13 (24-26) · Śloka 26
विशदं पीतकं मूत्रं सदाहं बहलं तथा |
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ||२४||
मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः |
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् ||२५||
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् |
मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् ||२६||
मूत्रौकसादलक्षणमाह- विशदमित्यादि| विशदं पिच्छिलविपरीतम्| पीतकं पीतवर्णम्| बहलं स्थूलं घनमित्यर्थः| शुष्कमिति आतपादिना शुष्कम्| रोचना गोरोचना| द्वितीयमूत्रौकसादलक्षणमाह- पिच्छिलमित्यादि| पिच्छिलमिति विशदविपरीतम्, संहतं घनम्, श्वेतं श्वेतवर्णम्, कृच्छ्रप्रवर्तनं दुःखेन प्रवर्तत इत्यर्थः| द्वादशेति पुनरुपादानं मूत्रौकसादयोरेकनामत्वादेव मन्दमतीनां चेतस्येकत्वं मा भूदिति द्योतनार्थम्||२४-२६||
Adhikarana 14 (27) · Śloka 28
कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च |
क्षारमद्या(ध्वा)सवस्वेदान् बस्तींश्चोत्तरसञ्ज्ञितान् ||२७||
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् |२८|
मूत्राघातानां चिकित्सामाह- कषायेत्यादि| कषायः क्वाथः, कल्को दृषदि पेषितः सद्रवः| भक्ष्यान् लड्डुकप्रभृतीन्| पयांसि क्षीराणि| आसवो मद्यभेदः| स्वेदा उपनाहाद्याः| बस्तींश्चोत्तरसञ्ज्ञितानिति उत्तरबस्तीनित्यर्थः| चकारात् स्नेहविरेचनमपि| विदध्यात् कुर्यात्| मतिमानिति ऊहापोहविद्वैद्यः| तत्र मूत्राघातरोगे| विधिमश्मरीसाधनमश्मरीचिकित्सितोक्तम्| ननु, यथा वातादिभेदेन भिन्ना मूत्राघाता दर्शिताः, तथैव चिकित्साऽपि भिन्ना वक्तुमुचिता, तत् कथमत्र सामान्येन चिकित्सोक्ता? उच्यते- सर्वेषु मूत्राघातेषु यतो वातः कारणम् अतः सामान्येन चिकित्सितं वक्तुमुचितं भवति; एवं यदि तत्र वायुरेव कारणं किं तर्हि तत्र पित्तकफावप्यारम्भकत्वेन निर्दिष्टौ, तत् कथमेकैव चिकित्सा सर्वेषु मृत्राघातेषु क्रियते? सत्यं, सर्वेऽपि मूत्राघाताः प्रायशो वातजन्याः पित्तकफौ पुनरावरकौ; तस्मात्तेषामेकैव चिकित्सा दोषादिबलविकल्पं द्रव्यतत्त्वं रोगतत्त्वं च ज्ञात्वा भिषजा प्रयोज्या, अत एव मतिमानित्युक्तवानाचार्यः| केचिदत्र ‘अतः परं प्रवक्ष्यामि मूत्रदोषस्य भेषजम्’ इत्यादिपाठं पठन्ति, स च कषायकल्पमित्यनेनोपसङ्गृहीत इति न दर्शितः| अपरे तु ‘स्त्रीणामतिप्रसङ्गेन’ इत्यादिपाठं पठन्ति, स च नार्षः||२७||
Adhikarana 15 (28) · Śloka 28
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ||२८||
मूत्राघातेषु मूत्रोदावर्तचिकित्सितमतिदेशेनाह- मूत्रोदावर्तेत्यादि| मूत्रोदावर्तयोगा य उदिता भवन्ति तेऽत्र योज्या इति अत्रार्थः| मूत्रोदावर्तयोगान् ‘सौवर्चलाढ्यां मदिराम्’ इत्यादिमूत्रोदावर्तप्रतिषेधोक्तान्| कार्त्स्न्येन सामस्त्येन| एतेन यस्यामवस्थायां ये मूत्रोदावर्तयोगा उचिता भवन्ति तेऽत्र योज्या इत्यर्थः| कार्त्स्न्येनेत्यत्र कर्तिककुण्डेन बहुधा प्रजल्पितं, तत्तु शिष्यबुद्धिव्याकुलहेतुत्वाद्ग्रन्थगौरवभयाच्च परिहृतम्| अत्र मूत्राघाते||२८||
Adhikarana 16 (29) · Śloka 29
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् |
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ||२९||
कल्कमित्यादि| एर्वारुः ग्रीष्मकर्कटिका| अक्षमात्रं कर्षप्रमाणम् धान्याम्लं काञ्जिकम्| केचिदमुं पाठमन्यथा पठन्ति, स चाभावान्न लिखितः||२९||
Adhikarana 17 (30) · Śloka 30
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः |
मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ||३०||
सुरामित्यादि| सुरा पिष्टकृता| मधु मद्यं; तच्च मधुकृतं, समानतन्त्रदर्शनात्| तथा च- ‘मांसोपदंशं मधुना मद्यं वाऽपि पिबेन्नरः’- इति| मांसोपदंशं मांसभक्षणयुतम्| गौडिकं गुडकृतं मद्यम्||३०||
Adhikarana 18 (31) · Śloka 31
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम् |
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ||३१||
पिबेदित्यादि| मधूदकं मधुयुक्तमुदकम्| प्रातरिति पिबेदित्यत्र योज्यं; तेन प्रभाते पिबेदित्यर्थः||३१||
Adhikarana 19 (32) · Śloka 32
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः |
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ||३२||
दाडिमाम्लामित्यादि| दाडिमाम्लां दाडिमेनाम्लीकृताम्| युतामित्यत्र एलाजीरकनागरैरिति योज्यम्| सुरां मुख्यां पैष्टीमित्यर्थः| सलवणां सौन्धवयुक्ताम्||३२||
Adhikarana 20 (33-34) · Śloka 34
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च |
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ||३३||
क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् |
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ||३४||
पृथक्पर्ण्यादिवर्गस्येत्यादि| पृथक्पर्ण्यादिवर्गो विदारिगन्धादिकः||३३-३४||
Adhikarana 21 (35) · Śloka 35
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः |
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ||३५||
निष्पीड्येत्यादि| वर्चः पुरीषम्| रासभो गर्दभः| वाजी घोटकः| कुडवं चत्वारि पलानि||३५||
Adhikarana 22 (36) · Śloka 36
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च |
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ||३६||
मुस्तेत्यादि| मूर्वा चोरस्नायुः| मधुकं यष्टीमधु| अक्षसमं कर्षप्रमाणम्||३६||
Adhikarana 23 (37) · Śloka 37
अभयामलकाक्षाणां कल्कं बदरसम्मितम् |
अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ||३७||
अभयेत्यादि| अक्षो बिभीतकः| बदरसम्मितम् अर्धकर्षप्रमाणम्| अम्भसा पानीयेन| अलवणोपेतं किञ्चित्सैन्धवयुतम्||३७||
Adhikarana 24 (38) · Śloka 38
उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् |
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ||३८||
उदुम्बरसमं कर्षप्रमाणं, द्राक्षायाः कल्कम् उदुम्बरसमं जलान्वितं रात्रिपर्युषितं पिबेदिति पिण्डार्थः||३८||
Adhikarana 25 (39) · Śloka 39
निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् |
मूत्रदोषहरं कल्य ... |३९|
निदिग्धिका कण्टकारिका| कुडवसम्मितं चतुष्पलोन्मितम्| कल्यं प्रातरित्यर्थः|३९|-
Adhikarana 26 (39-40) · Śloka 40
... मथवा क्षौद्रसंयुतम् ||३९||
प्रपीड्यामलकानां तु रसं कुडवसम्मितम् |
पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ||४०||
अथवेत्यादि| प्रपीड्येति वाससा गालयित्वेत्यर्थः| कुडवं चत्वारि पलानि| अगदी भवेत् नीरोगो भवेत्||३९-४०||
Adhikarana 27 (41) · Śloka 41
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः |४१|
धात्रीफलरसेनैवमित्यादि| धात्रीफलरसेन आमलकरसेन| एवमिति क्षौद्रयुतामित्यर्थः|४१|-
Adhikarana 28 (41-42) · Śloka 42
पिष्ट्वाऽथवा सुशीतेन शालितण्डुलवारिणा ||४१||
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा |
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ||४२||
पिष्ट्वेत्यादि| तालस्याभिनवं मूलं पिष्ट्वा शालितण्डुलोदकेन पिबेत्, त्रपुसस्वरसमथ वा पिबेत्| त्रपुसः सुधावासः| श्वेतमित्यादि| श्वेतं कर्कटकं त्रपुसम्| पयसा क्षीरेण, समानतन्त्रदर्शनात्; ‘त्रपुसं वाऽथ दुग्धेन मूत्रदोषहरं पिबेत्’ इति||४१-४२||
Adhikarana 29 (43) · Śloka 43
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः |
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४३||
शृतमित्यादि| मधुरैः काकोल्यादिभिः| अयं योगो मूत्रशुक्रस्य बाहुल्येन बोद्धव्यः||४३||
Adhikarana 30 (44-45) · Śloka 45
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् |
शतपर्वकमूलं च देवदारु सचित्रकम् ||४४||
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः |
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४५||
बलाश्वदंष्ट्रेत्यादि| बला स्वनामख्याता, श्वदंष्ट्रा गोक्षुरकः, क्रौञ्चः पक्षिविशेषः, ‘कैचर’ इति लोके, कोकिलाक्षकः खग्गली, शतपर्वको जलगण्डीरः| अक्षबीजं बिभीतकमज्जा| एतद्बलादिकं कल्कीकृत्य मूत्रदोषविशुद्ध्यर्थं पिबेदित्यर्थः| तथाऽश्मरीचिकित्सितोक्तमपि मूत्रदोषविशुद्ध्यर्थं पिबेदित्यर्थः| अश्मरीचिकित्सितं यदत्र वारंवारं भणितं, तदत्यन्तहितत्वापादनार्थम्| केचित् भोजसंवादाद् बलादिकं योगचतुष्टयं मन्यन्ते; तन्न, वृद्धानामसम्मतत्वात्||४४-४५||
Adhikarana 31 (46) · Śloka 46
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् |
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ||४६||
पाटलाक्षारमित्यादि| सप्तकृत्वः सप्तवारान्| परिस्रुतं गालितम्| संसृष्टं संयुक्तम्| तैलमात्रया स्तोकेन तैलेन| अत्र मात्राशब्दोऽल्पवाची| यथा- “मात्रां खादेद्बुभुक्षितः” इत्यादिषु| अत्र क्षारस्य तोयस्य च प्रमाणं क्षारकल्पोक्तं ज्ञातव्यम्| तेन चतुर्गुणेन जलेन क्षारः परिस्रावणीयः||४६||
Adhikarana 32 (47) · Śloka 47
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान् |
क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ||४७||
नलाश्मभेदेत्यादि| नलः स्वनामप्रसिद्धः शुषिरपर्वा, अश्मभेदः पाषाणभेदः, एर्वारुः ग्रीष्मकर्कटिका, बीजकः असनसारः| कार्तिककुण्डस्तु वृद्धकाश्यपीयसंवादात्त्रपुसैर्वारुबीजान्येवाचक्षते, बीजकानित्यत्र स्वार्थिकाश्च प्रकृतिलिङ्गवचनान्यतिक्रामन्तीत्युक्तत्वात् पुंलिङ्गतेति च कथयति तत्र| मूत्राघाते||४७||
Adhikarana 33 (48) · Śloka 49
पाटल्या यावशूकाच्च पारिभद्रात्तिलादापि |
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ||४८||
पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् |४९|
पाटल्या इत्यादि| यावशूको यवक्षारः| पारिभद्रः पर्वतनिम्बः, अन्ये पारिभद्रशब्देन कण्टकिवृक्षं रक्तकुसुमं फलभद्रसञ्ज्ञकं वदन्ति| ऊषणं पिप्पली| पाटल्यादीनां क्षारोदकेन सह त्वगेलोषणचूर्णं पिबेत्, पाटल्यादिक्षारोदकगुडकृतान् लेहान् वा लिह्यात्| कार्तिककुण्डस्तु ‘त्वगेलोषणचूर्णकं’ इत्यत्र ‘त्वगेलोषणसंयुतम्’ इति पठति| तत्र पाटल्यादितिलान्तानां द्रव्याणां यत् चूर्णं तत् क्षारोदकेन मुष्ककक्षारोदकेन पिबेत्, तत्कृतान्वा पृथक् पृथक् त्वगेलोषणसंयुतान् लेहान् गुडमिश्रितान् लिह्यादिति व्याख्यानयति| तथा च विश्वामित्रः- ‘पाटल्याः पारिभद्राद्वा तिलाद्वाऽपि यवाग्रजात्| कणैलात्वग्युतं चूर्णं मुष्ककक्षारवारिणा|| पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक्’ इति| ‘गतिमान्’ इत्यत्र ‘मदिरां’ इति केचित् पठन्ति, तथा ‘गुडेन मिश्रं वा’ इत्यत्र ‘गुडोपदंशं वा’ इति च पठन्ति| तच्च पाठद्वयमनार्षम्||४८||
Adhikarana 34 (49-50) · Śloka 50
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ||४९||
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् |
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ||५०||
सामान्येन च क्रियाक्रमार्थमाह- अत ऊर्ध्वमित्यादि| तेषु मूत्रदोषेषु| ‘तेषु विरेचनं’ इत्यत्र ‘स्नेहविरेचनं’ इति केचित् पठन्ति| कार्तिककुण्डस्त इमं पाठं न पठति, ‘कषायकल्कसर्पीषि’ इत्यादिनैव गतार्थत्वात्| जेज्जटाचार्यस्तु स्निग्धशुद्धदेहानां पूर्वोक्ता योगाः प्रयोक्तव्या इत्यावेदनाय पठति, तत्पठितत्वान्मयाऽपि पठितः||४९-५०||
Adhikarana 35 (51) · Śloka 51
स्त्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते |
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ||५१||
अत्र च केचिन्मूत्रदोषप्रसङ्गेन मूत्रमार्गप्रवृत्तरक्तस्यापि विधानं कथयन्ति स्त्रीणामित्यादि| अतिप्रसङ्गेन अत्यन्तसेवया| मैथुनोपरमो मैथुननिवृत्तिः| बृंहणश्च विधिः मांसक्षीरघृतादिसेवनम्| अमुमपि पाठं कार्तिककुण्डो न पठति, शुक्रक्षयलिङ्गेनैवोक्तत्वात् सङ्ख्यातिरेकभयाच्च; जेज्जटस्तु प्रकरणात् तथा शिष्यसुखबोधार्थं पठति ; तत्पठितत्वान्मयाऽपि पठितः||५१||
Adhikarana 36 (52) · Śloka 52
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु |
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ||५२||
किमेतदेव तत्र रक्ते हितमुतान्यदपीत्याह- ताम्रचूडेत्यादि| ताम्रचूडवसा कुक्कुटवसा, विधानं विधिः, उत्तरबस्तिषु उत्तरबस्तिचिकित्सिते, तस्य उत्तरबस्तेः, ‘व्यासतः’ इत्यत्र ‘व्यापदः’ इति केचित् पठन्ति||५२||
Adhikarana 37 (53-57) · Śloka 57
क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः |
शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ||५३||
स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च |
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ||५४||
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् |
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ||५५||
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा |
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ||५६||
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च |
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ||५७||
क्षौद्रार्धपात्रमित्यादि| क्षौद्रार्धपात्रं मध्वर्धाढकं, क्षीरसर्पिषः क्षीरसम्मथनोत्थघृतस्य| स्वयङ्गुप्ताफलादीनां पिप्पल्यन्तानां चूर्णमर्धभागं प्रकल्पयेदित्यर्थः| स्वयङ्गुप्ता कपिकच्छूः, हक्षुरकः कोकिलाक्षकः, खजेन मन्थनदण्डेन; पाणितलं चूर्णमिति अङ्गुलिरहितं हस्ततलं चूर्णमित्यर्थः; अन्ये पाणितलशब्देन कर्षं वदन्ति||५३-५७||
Adhikarana 38 (58-64) · Śloka 65
बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी |
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ||५८||
सहस्रवीर्यांऽशुमती पयस्या सह कालया |
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ||५९||
एतानि समभागानि मतिमान् सह साधयेत् |
चतुर्गुणेन पयसा गुडस्य तुलया सह ||६०||
द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् |
तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ||६१||
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते |
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ||६२||
क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत् |
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ||६३||
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः |
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ||६४||
ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति |६५|
अगर्भं बलाघृतमाह- बलेत्यादि| कोलास्थि बदरमज्जा, मधुकं यष्टीमधु, श्वदंष्ट्रा गोक्षुरकः, इक्षुरकः कोकिलाक्षः, सहस्रवीर्या दूर्वा, अंशुमती शालपर्णी, पयस्या अर्कपुष्पी, दुग्धिकामन्ये, काला कालानुसारिवा, श्रीपर्णिकामन्ये, शृगालविन्ना पृश्निपर्णी, बृंहणीयो गणो गुडूचीवर्जितः काकोल्यादिः ‘गुडूचीरहितो वर्गः काकोल्यादिरुदाहृतः| बृंहणीयः’ इत्यादिसमानतन्त्रसंवादात्| चतुर्गुणेन पयसा दुग्धेन, जलेनेत्यन्ये| पूतं वस्त्रगालितम्| पचेत्तेन घृताढकमिति अकल्कमेव| कार्तिककुण्डस्त्वमुं योगमन्यथा पठति व्याख्यानयति च, स च ग्रन्थगौरवभयान्न लिखितः| केचिदेनमनार्षं वदन्ति; तन्न, सुकीरसुधीरादिभिष्टीकाकृद्भिरार्षत्वेन वर्णितत्वात्||५८-६४||-
Adhikarana 39 (65-72) · Śloka 72
चित्रकः सारिवा चैव बला कालानुसारिवा ||६५||
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् |
तथैव मधुकं पथ्यां दद्यादामलकानि च ||६६||
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः |
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ||६७||
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् |
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ||६८||
ततो मितं पिबेत्काले यथादोषं यथाबलम् |
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ||६९||
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् |
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ||७०||
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् |
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ||७१||
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान् |
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ||७२||
महाबलं घृतमाह- चित्रक इत्यादि| चित्रफला गुडदुग्धिका इन्द्रवारुणीपर्याया | तुगाक्षीर्याश्चेत्यत्रापि प्रस्थसंयुतमिति सम्बध्यते| मितं मात्रोपेतम्| यथाबलमित्यस्य प्राक् अग्निशब्दो लुप्तो द्रष्टव्य; तेन यथाग्निबलमित्यर्थः| केचिदिदं घृतं न पठन्ति||६५-७२||
Adhikarana puShpikA · Śloka 58
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विंशोऽध्यायः, आदितः) अष्टपञ्चाशत्तमोऽध्यायः ||५८||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे मूत्राघातप्रतिषेधो नामाष्टपञ्चाशतमोऽध्यायः||५८||