Adhikarana 1 (1-2) · Śloka 2
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
उदावर्तप्रतिषेधानन्तरमुदावर्ताश्रितवातप्रतिलोम्यकृतमन्दाग्नेर्विसूचिकाहेतुत्वाद्विसूचिकाप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| विसूचिकेत्यत्र आदिशब्दो लुप्तो द्रष्टव्यः, तेनालसकविलम्बिकयोर्ग्रहणम्||१-२||
Adhikarana 2 (3) · Śloka 3
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् |
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||३||
विसूच्यादीनां कारणमाह- अजीर्णमाममित्यादि| यदीरितमिति ‘अन्नपानविधौ’ इति शेषः| तस्मात् अजीर्णात्| यदत्र चतुर्थाजीर्णस्य रसशेषस्योपादानं न कृतं तदपरिणाममात्रत्वेन तस्य विसूच्याद्यारम्भकत्वाभावादेकीयमतत्वेनोक्तत्वाच्च| विसूच्यलसकाभ्यां यद्विलम्बिकायाः पृथग्विभक्तिनिर्देशः कृतः, तत्तस्या असाध्यत्वावबोधनार्थम्, इतरयोश्च प्रायः कृच्छ्रसाध्यत्वबोधनार्थम्||३||
Adhikarana 3 (4) · Śloka 4
सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः |
यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ||४||
विसूच्या निरुक्तिमाह- सूचीभिरित्यादि| वैद्यैः आद्यैरित्यर्थः| उच्यते ति ‘वर्णागम-’ इत्यादिना इकारलोपात् साधुः| ‘तुदन्’ इत्यत्र ‘भिन्दन्’ इति केचित् पठन्ति| यदत्र विसूच्यादीनां प्राग्रूपं न भणितं तद्रूपाण्येवाल्पान्यासां प्राग्रूपं, न तु प्राग्रूपान्तरमस्तीति बोधयति||४||
Adhikarana 4 (5) · Śloka 5
न तां परिमिताहारा लभन्ते विदितागमाः |
मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ||५||
इदानीमजीर्णपरिवर्जने यत्नातिशयः कार्य इति प्रतिपादनार्थमाह- न तामित्यादि| परिमिताहारा अनिषिद्धाशनं भुञ्जानाः| विदितागमा ज्ञातभोजनोपदेशाः| मूढाः पशुतुल्याः, सेव्यासेव्याहारानभिज्ञा इत्यर्थः| अजितात्मानः अजितेन्द्रियाः| कलुषाशयाः प्रदुष्टामाशयाः, आमाशयदुष्टिश्च दुष्टान्नसम्पर्काद्वातादिकोपाच्च; केचित् ‘अशनलोलुपाः’ इति पठन्ति||५||
Adhikarana 5 (6) · Śloka 6
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः |
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||६||
विसूचिकालक्षणमाह- मूर्च्छातिसारावित्यादि| वमथुः छर्दिः| उद्वेष्टनं जङ्घादीनां मोटनं, खल्लीति लोके| तस्यां विसूचिकायाम्| शिरसश्च भेदः शिरोविदारणमिव वेदना||६||
Adhikarana 6 (7-8) · Śloka 8
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति |
निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ||७||
वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत् |
तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ||८||
अलसकलक्षणमाह- कुक्षिरित्यादि| कुक्षिः उदरम्| आनह्यते आध्मानयुक्तो भवति| अत्यर्थमतिशयं यथा तथा| ताम्यति तमसि प्रविशतीव| विकूजति अव्यक्तशब्दं करोति| विपरिधावति विशेषेण समन्ताद्गच्छति||७-८||
Adhikarana 7 (9) · Śloka 9
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य |
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||९||
विलम्बिकालक्षणमाह- दुष्टमित्यादि| भुक्तं भोजनम्| दुष्टमित्यत्र ‘कफमारुताभ्याम्’ इति सम्बन्धनीयम्| यद्यपि विलम्बिका बाहुल्येन विदग्धाजीर्णाज्जायते, विदग्धाजीर्णाच्च पित्तं दुष्टं न वायुर्दुष्टो भवति न वा श्लेष्मा, तथाऽपि पित्तदुष्ट्या इतरयोरपि दुष्टिः, तस्मात् कफमारुताभ्यां दुष्टमित्युक्तम्; एवं बाहुल्येन आमाविशिष्टत्वोत्थितयोर्विसूच्यलसकयोः कफवाताधिकयोरपीतरदोषसद्भावो ज्ञेयः| ‘दुष्टम्’ इत्यत्र ‘लीनम्’ इति केचित् पठन्ति| इयमेव विलम्बिका तन्त्रान्तरे ‘दण्डालसक’ इति नाम्ना कथ्यते||९||
Adhikarana 8 (10) · Śloka 10
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः |
दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च ||१०||
इदानीं पूर्वोक्तलक्षणविशेषमतिदेशेनाह- यत्रस्थमाममित्यादि| यत्रस्थं यस्मिन् देशे स्थितं, येन च दोषेणावततं व्याप्तमामं स्यात्, तमेव देशं यस्माद्विशेषेण रुजेत् तस्मात् कारणात्तं देशं तद्दोषलक्षणैर्विकारजातैस्तोदादिभिरामसमुद्भवैश्च लिङ्गैः स्तम्भाध्मानादिभिर्लक्षयेदिति पिण्डार्थः| ननु, यत्रस्थमित्यनेन आमस्थानकथनेन किं प्रयोजनं? यस्माद्यत्र स्थितो विकृतो दोषो भविष्यति तत्रैव रुजं करिष्यति? सत्यं, नैवं सर्वत्र, यथा गण्डमालादौ पिण्डिकास्थितस्यापि दोषस्य ग्रीवादौ विकारकर्तृत्वदर्शनात्| आमपीडितदेशावबोधश्चात्र सुखचिकित्साकरणार्थमुक्तः| अर्थात् यत्र यस्मिन् स्थाने स्थितमाममजीर्णं विरुजेद्विशिष्टं रुजं कुर्यात् तमेव देशं लक्षयेद्वैद्यः, कैर्विकारजातैः? आमसमुद्भवैः स्तम्भगौरवादिभिः| ब्रह्मदेवस्तु येन दोषेण वाताद्यन्यतमेनानुगतमामजं दोषं स्वलिङ्गैर्वाताद्यन्यतमदोषलिङ्गैर्लक्षयेदिति व्याख्यानयति| अपरेऽन्यथा पठित्वा व्याख्यानयन्ति, तच्च शिष्यबुद्धिव्याकुलकर्तुत्वाद्ग्रन्थगौरवभयाच्च परिहृतम्||१०||
Adhikarana 9 (11) · Śloka 11
यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः |
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||११||
असाध्यलक्षणमाह- य इत्यादि| श्यावशब्दो दन्तादिभिः प्रत्येकं सम्बध्यते| अल्पसञ्ज्ञो मन्दचेतनः| अभ्यन्तरयातनेत्रः क्षीणदृष्टिः| अपुनरागमाय अपुनरावृत्तये||११||
Adhikarana 10 (12) · Śloka 12
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम् |
पक्वे ततोऽन्ने तु विलङ्घनं स्यात् सम्पाचनं चापि विरेचनं च ||१२||
इदानीं चिकित्सितमाह- साध्यास्वित्यादि| साध्यासु विसूचिकासु| पार्ष्णिदहनमत्र सञ्ज्ञाप्रबोधनार्थमधोऽतिप्रवृत्तिवारणार्थं च| अग्निप्रतापनम् आमपाचनार्थम्| तीक्ष्णं च वमनमन्नशल्यनिर्हरणार्थम्| साध्यास्विति पदमसाध्यपरिहारार्थं, साध्यज्ञाने यत्नातिशयप्रतिपादनार्थं च| पाकाभिमुखेऽन्ने दोषशेषनिर्हरणार्थमाह - पक्व इत्यादि| पक्वे पाकाभिमुखे| विलङ्घनं विविधलङ्घनं, तच्च यथावस्थं योज्यं; अन्ये विशिष्टं लङ्घनमाहुः, तच्चोपवासः| सम्पाचनमत्र स्वेदादिभिः| विरेचनमत्र फलवर्त्यादिभिः| यद्यपि विरेचनमत्र सामान्येनोक्तं, तथाऽपि विष्टम्भे सति ज्ञातव्यम्| अन्ये तु पठन्ति ‘वान्ते ततोऽन्ने तु विलङ्घनं स्यात् सम्पाचनं रेचनदीपने च’ इति| ते च विसूच्यां वमने प्रयुक्ते पश्चाद्विलङ्घनादिकं योज्यमिति मन्यन्ते| पाचनमतीसारोक्तं ‘देवदार्वभया’ इत्यादिकं, दीपनं पिप्पल्यादिकं, शेषं पूर्ववत्| अन्ये ‘पक्षे ततोऽन्ये तु’ इति पठन्ति, ते च पक्षाद्विरेचनं देयमिति केचिन्मन्यन्त इति व्याख्यानयन्ति; तत्र टीकाकृद्भिर्बहु व्याहृतं तच्च ग्रन्थगौरवभयात् परित्यक्तम्||१२||
Adhikarana 11 (13) · Śloka 13
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम् |१३|
कस्माद्विसूच्यां वमनविरेचने प्रयोक्तव्ये इत्याह- विशुद्धदेहस्येत्यादि| हि यस्मात्| उपैति गच्छति|१३|-
Adhikarana 12 (13) · Śloka 13
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध ||१३||
इदानीमास्थापनस्यापि हितत्वं दर्शयितुमाह- आस्थापनमित्यादि| यद्यपि ‘तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्श-‘ इत्यादिनाऽजीर्णे आस्थापननिषेध उक्तः, तथाऽप्यत्र पाकाभिमुखेऽन्ने विष्टम्भनाशनाय पाचनपूर्वकमास्थापनमपि शस्यते| सर्वासु विसूचीषु; केचित् सर्वासु विसूच्यलसकविलम्बिकास्विति मन्यन्ते| ‘सर्वासु’ इत्यत्र केचित् ‘सर्वांश्च’ इति पठन्ति, ते वक्ष्यमाणयोगविशेषणं कुर्वन्ति| योगानित्यादि| अपरान् वक्ष्यमाणान्| निबोध जानीहि| अपक्वस्य पाचनार्थं पक्वस्य चानुलोमनार्थं' इति शेषः||१३||
Adhikarana 13 (14) · Śloka 14
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम् |
सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः ||१४||
तानेव योगानाह- पथ्येत्यादि| कलिङ्ग इन्द्रयवः| गृञ्जनो रसोनभेदः| अजीर्णम् आमशेषः, न तु तरुणाजीर्णं; तत्रौषधनिषेधात्| विसूचीति शेषा नतु सद्योत्था विसूची, तत्राप्यौषधनिषेधात्||१४||
Adhikarana 14 (15-16) · Śloka 16
क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा |
अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सघृतौ त्रिवर्गौ ||१५||
कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु |
कल्याणकं वा लवणं पिबेतु यदुक्तमादावनिलामयेषु ||१६||
क्षारागदमित्यादि| क्षारागदं ‘धवाश्वकर्णशिरीष-’ (क. ६ ) इत्यादिना दुन्दुभिस्वनीयोक्तम्| लवणं विडलवणम्| अत्राप्युष्णाम्बुना पिबेदिति सम्बन्धनीयम्| गुडप्रगाढानित्यादि| गुडप्रगाढान् गुडाढ्यान् | अम्लेनेत्यादि| अम्लेन काञ्जिकेन| सबीजपूरौ बीजपूरसहितौ| सघृतौ तुल्यप्रमाणौ| त्रिवर्गौ त्रिफलात्रिकटुकौ| 'सबीजपूरौ' इत्यत्र केचित् 'सशाकबीजौ' इति पठित्वा शाकवृक्षबीजसहिताविति व्याख्यानयन्ति| यदुक्तमादाविति 'गण्डीरपलाश' (चि. ४ ) इत्यादिना वातव्याधिचिकित्सिते यदुक्तमित्यर्थः| 'आमेष्वनिलामयेषु' इति केचित् पठित्वा आमवाते इति व्याख्यानयन्ति| अत्रापि अम्लेनेति सम्बध्यते||१५-१६||
Adhikarana 15 (17) · Śloka 18
कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ |
दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन ||१७||
उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम् |१८|
कृष्णाजमोदेत्यादि| क्षवः फणिज्जकाकारः प्रायशः पारियात्रे भवति| 'क्षवकाणि वाऽपि' इत्यत्र 'क्षवकाग्निकान् वा' इति केचित् पठन्ति| अत्रापि अम्लेनेति सम्बध्यते| तुल्यौ पिबेद्वेत्यादि| निकुम्भो दन्ती| अत्राप्यम्लेनेति सम्बध्यते| मगधानिकुम्भपानं विष्टम्भे सति विरेकार्थम्| केचिदुष्णोदकेन पानमिच्छन्ति| दन्तीयुतमित्यादि| कोषवती घोषकः| केचित् “उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरचूर्णयुक्तम्” ईदृशं पठन्ति||१७||-
Adhikarana 16 (18) · Śloka 19
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः ||१८||
छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन |१९|
विसूच्यां प्रमीलकादिशान्त्यर्थमञ्जनमाह- व्योषमित्यादि| केचिन्मातुलुङ्गीं मधुकर्कटीमाहुः| विसूचीशब्देन विसूचीजनिताः प्रमीलकशिरोरोगादयो गृह्यन्ते, कारणे कार्योपचारात्; अथवा विसूचीमेवाञ्जनप्रभावात् हन्युः||१८||-
Adhikarana 17 (19) · Śloka 20
सुवामितं साधुविरेचितं वा सुलङ्घितं मनुजं विदित्वा ||१९||
पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत |२०|
शुद्धस्य सुलङ्घितस्य पथ्यदानार्थमाह- सुवामितमित्यादि| केचिदत्र “कुष्ठं चागुरु पत्रं च रास्नाशिग्रुवचात्वचम्| पिष्टमम्लेन तच्छ्रेष्ठं विसूच्यामङ्गमर्दनम्||चित्रकं पूतिपिण्याकं कुष्ठं भल्लातकानि च| द्वौ क्षारौ सैन्धवं चैव शुक्लं तैलं विपाचयेत्|| एतदुद्वर्तनं कुर्यात् प्रदेहं वा विचक्षणः|” इति योगद्वयं पठन्ति; तन्न पठितव्यं, समानतन्त्रादर्शनात्||१९||-
Adhikarana 18 (20) · Śloka 21
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन ||२०||
प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति |२१|
इदानीं विसूचिकातुल्यचिकित्सितत्वाद्विसूचिकोपद्रवत्वाच्चानुक्तमप्यानाहमाह- आममित्यादि| आमम् अपक्वान्नरसः, शकृत् पुरीषं, निचितं वृद्धिगतं, विबद्धम् अवरुद्धं, विगुणानिलेन उन्मार्गवायुना, न प्रवर्तमानमिति नाधःप्रवर्तमानमित्यर्थः, यथास्वं यथामार्गमित्यर्थः; एवम् आमं निचितं विगुणानिलेन विबद्धं सत् स्वमार्गेऽप्रवर्तमानं शकृद्वा एवम्भूतमानाहं विकारमुदाहरन्तीति पिण्डार्थः| केचिदाममिति शकृद्विशेषणं मन्यन्ते; तन्न, समानतन्त्रे आमादप्यानाहस्य दर्शितत्वात्| तथा च तद्वचः- “आनाहे त्वामसम्भूते विडुद्भूतेऽपि वा भिषक्”- इत्यादि||२०||-
Adhikarana 19 (21) · Śloka 22
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः ||२१||
आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च |२२|
आमजानाहलक्षणमाह- तस्मिन्नित्यादि| तस्मिन् आनाहे| गुरुत्वमपि आमाशये आमजानाहे प्रायशो भवति| केचित् ‘हृल्लास’ इत्यत्र ‘हृत्स्तम्भ’ इति पठित्वा हृदयस्य विबन्धत्वमिति व्याख्यानयन्ति| उद्गारविघातनम् उद्गारस्यासम्यक्प्रवृत्तिः| केचिदामसमुद्भवे आमाशयसमुद्भवे इति व्याख्यानयन्ति, पदेष्वपि पदैकदेशप्रयोगात्; ते च आमाशयसमुद्भवमामादेवेच्छन्ति; तत्रापि स एव तात्पर्यार्थः||२१||-
Adhikarana 20 (22) · Śloka 23
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च ||२२||
श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि |२३|
पुरीषजानाहलक्षणमाह- स्तम्भ इत्यादि| स्तम्भशब्दः कट्यादिभिर्मूत्रान्तैः सह प्रत्येकं सम्बध्यते| शूलोऽप्यत्र कट्यादिष्वेव| स पुरुषः| पक्वाशयजे आनाहे इत्यर्थः| ‘मञ्चाः क्रोशन्ति’ इतिवदुपचारात् पक्वाशयशब्देनात्र पुरीषमभिप्रेतं, अथ च बाहुल्येन पक्वाशये भवति| केचित् पक्वाशयजे पक्वाशयस्थे आनाहे इति व्याख्यानयन्ति| ते च पक्वाशयोद्भूत आनाहः पुरीषाद्भवति इतीच्छन्ति; तथाऽपि स पूर्वोक्त एव परिफलितार्थः||२२||-
Adhikarana 21 (23) · Śloka 23
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः ||२३||
सम्प्रत्यामोत्थानाहचिकित्सामाह- आमोद्भव इत्यादि| आमोद्भवे अविपक्वरसजे आनाहे| केचिदामोद्भवे आमाशयोद्भवे, पदेष्वपि पदैकदेशप्रयोगात्| एष पक्षश्चानन्तरमेव विवृतः| वान्तं कृतवमनं नरम्| संसर्गभक्तक्रमः पेयादिक्रमः| दीपनीयानि पिपल्यादिसाधितानि||२३||
Adhikarana 22 (24) · Śloka 24
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च |२४|
पुरीषजानाहचिकित्सामाह- अथेतरमित्यादि| यः पुमान् शकृत् पुरीषं न वमेत् , तस्य पुंसस्तमानाहमितरं पुरीषजम् आमान्वितं स्वेदनादिभिर्जयेदिति सम्बन्धः| यस्तु शकृद्वमेत्तस्य आमं न जयेत्, तथा सत्यसाध्यत्वादिति भावः| कार्तिककुण्डस्तु इतरं पक्वाशयजानाहवन्तं नरं, मत्वर्थीयप्रत्ययान्तत्वात्|| असावपि पक्षोऽनन्तरं विवृतः| 'स्वेदनपाचनीयैः' इत्यत्र च कार्तिककुण्डः 'स्वेद्य यथाविधानं' इति पठित्वा व्याख्यानयति- स्वेद्य स्वेदयित्वा, उपसर्गलोपात् साधु; यथाविधानमिति विण्मूत्रानुलोमनविधानेन|२४|-
Adhikarana 23 (24-25) · Śloka 25
विसूचिकायां परिकीर्तितानि द्रव्याणि वैरेचनिकानि यानि ||२४||
तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः |
स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या ||२५||
अतिदेशेनानाहचिकित्सामाह- विसूचिकायामित्यादि| विसूचिकायां परिकीर्तितानि कथितानि यानि वैरेचनिकानि द्रव्याणि दन्त्यादीनि, तानि विचूर्ण्य महिष्यादीनां मूत्रैर्विपाच्य वर्तीर्विरचेत् कुर्यात्| ताश्च वर्तीः स्विन्नस्य नरस्य गुदे विनिवेश्य, एषां वैरेचनिकानामेव चूर्णानि नाड्या प्रधमेदिति सम्बन्धः| इभो हस्ती||२४-२५||
Adhikarana 24 (26) · Śloka 27
मूत्रेषु संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति |
क्वाथेन तेनाशु निरुहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण ||२६||
त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च |२७|
आनाहे निरूहमाह- मूत्रेषु संसाध्येत्यादि| यानि द्रव्याणि ऊर्ध्वमधश्च यान्ति तानि मूत्रेषु यथाविधानं संसाध्य तेन क्वाथेनार्धमूत्रान्वितेन समाक्षिकेण त्रिभण्डियुक्तलवणं प्रकुञ्चं दत्त्वा निरुहयेदिति पिण्डार्थः| मूत्रेष्विति अनन्तरोक्तेषु महिष्यादिजेषु| संसाध्य पक्त्वा| यथाविधानं क्वाथपाकविधिना| द्रव्याणि यान्यूर्ध्वमधश्च यान्ति संशोधनसंशमनीयोक्तानि कोशातक्यादीनि| आशु शीघ्रम्| मूत्रार्धयुतेन अर्धमूत्रान्वितेन क्वाथेन| कार्तिककुण्डस्तु मात्रार्धयुक्तेनेति पठति, व्याख्यानयति च- अर्धमात्रिकेणेति| माक्षिकं मधु| त्रिभण्डियुक्तं लवणप्रकुञ्चमिति त्रिवृत्सहितमेव सैन्धवपलमित्यर्थः| विरिक्तक्रमं सम्यग्विरिक्तस्य यः क्रमस्तमाचरेदित्यर्थः; केचित् आचरेदित्यन्तर्भावितकारितार्थं मन्यन्ते; तेन, आचरेत् वैद्येनाचारयेदित्यर्थः| इदमास्थापनमानाहे पाचनोत्तरकालं देयं, न त्वामावस्थायाम्||२६||-
Adhikarana 25 (27) · Śloka 27
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च ||२७||
आनाहेऽनुवासनमाह- एष्वेवेत्यादि| एष्विति अनन्तराभिहितनिरूहोक्तेषु कोशातक्यादिषु| प्राप्तं प्राप्तकालं प्राप्तावस्थमित्यर्थः; एतेन परिपक्वामं सुनिरूढं वातकोपे सत्यनुवासयेदित्यर्थः||२७||
Adhikarana puShpikA · Śloka 56
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम (अष्टादशोऽध्यायः, आदितः ) षट्पञ्चाशत्तमोऽध्यायः ||५६||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे विसूचिकाप्रतिषेधो नाम षट्पञ्चाशत्तमोऽध्यायः||५६||