Adhikarana 1 (1-2) · Śloka 2
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
भेद्यरोगप्रतिषेधानन्तरं पारिशेष्याच्छेद्यरोगप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
भेद्यरोगप्रतिषेधानन्तरं पारिशेष्याच्छेद्यरोगप्रतिषेधारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः | संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः ||३||
🔊 Audio coming soon
तत्रैकादशसु छेद्येषु प्रथमं पञ्चानामर्मणामेकमेव प्रकारमुपदर्शयिष्यन् प्रथमं तत्प्राक्कर्मैव निर्दिशन्नाह- स्निग्धमित्यादि| स्निग्धं भुक्तवत इति संशुद्धदेहस्य कृतसंसर्जनस्य विचारणाप्रकारेण वा स्निग्धं भुक्तवतः| यत्नत इति यथा नातिपीडा स्यात्| संरोषयेत् अर्मशिथिलीकरणाय सङ्क्षोभयेत्| लावणैः सैन्धवोत्थैः||३||
Adhikarana 3 (4-9) · Śloka 10
ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् | अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् ||४|| अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः | मुचुण्ड्याऽऽदाय मेधावी सूचीसूत्रेण वा पुनः ||५|| न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत् | शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम् ||६|| ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् | उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् ||७|| विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् | नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् ||८|| चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति | कनीनकवधादस्रं नाडी वाऽप्युपजायते ||९|| हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति |१०|
🔊 Audio coming soon
इदानीं यादृशमर्म बडिशेन ग्राह्यं तादृशं निर्दिशन्नाह- तत इत्यादि| परिघट्टितं चालितम्| अर्म यत्र वलीजातमित्यादि| यत्र यस्मिन् प्रदेशे अर्म जातवलीकं स्यात्तत्र प्रदेशे एतदर्म बडिशेन लगयेत् संयोजयेत्, ग्राहयेदित्यर्थः| मुचुण्ड्येत्यादि|- तदनन्तरं बडिशं मुचुण्ड्या तर्जन्यङ्गुष्ठसन्दंशेनादाय गृहीत्वा सम्यग्योगेनोत्क्षेपयेत्| सूचीसूत्रेण वा पुनरिति मुचुण्ड्या बडिशोत्क्षेपादनन्तरं प्रणिहितं ससूत्रसूचीसूत्रेण तदर्म उत्क्षिपेत्| न चोत्थापयतेत्यादि|- उत्थापयता वैद्येन क्षिप्रं सहसा तदर्मात्युन्नतं न कार्यं, त्रुटनभयात्| वर्त्मनी ग्राहयेदिति ऊर्ध्वं स्थितं वर्त्म ऊर्ध्वमाकृष्य ग्राहयेत्, अधः स्थितमध एवाकृष्य ग्राहयेदित्यर्थः| ततः प्रशिथिलीभूतमित्यादि|- प्रशिथिलीभूतं विमुक्तनयनगोलकाश्लेषम् | त्रिभिः बडिशादिभिः, न त्वेकेन, त्रुटनभयात्; विलम्बितं विशेषेण लम्बितं धृतमित्यर्थः| उल्लिखन्नित्यादि- उल्लिखन् ऊर्ध्वमेवाधःस्थितं कुर्वन्| परिशोधयेत् सर्वत उन्मूलयेत्, ‘अर्मसन्तानं’ इति शेषः| कनीनकोपान्तं कनीनकसमीपं, कनीनकश्च नासासमीपस्थोऽक्षिसन्धिः| छिन्द्यादिति क्रियासौकर्यार्थं बडिशमपकृष्य प्रणिहितसूचीसूत्रेणावलम्ब्यार्म छिन्द्यादित्यर्थः| नातिकनीनकमिति अतिक्रान्तकनीनकं यथा न स्यात्तथा छिन्द्यादित्यर्थः| चतुर्भागस्थिते इति अक्षिगोलकस्योपरितने मांसे चतुर्भागेन स्थिते इत्यर्थः, नान्तिके | व्यापत्तिं व्यापदम्, ऋच्छति प्राप्नोतीत्यर्थः| कनीनकवधादित्यादि अतिच्छेदात् कनीनकवधः| अस्रं रक्तम्| नाडीति नाडीव्रणः| अपिशब्दाद्वेदना च| हीनच्छेदात् किं स्यादित्याह- वृद्धिमधिगच्छति; ‘अर्म’ इति शेषः||४-९||-
Adhikarana 4 (10) · Śloka 11
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम् ||१०|| छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् |११|
🔊 Audio coming soon
यत्र पुनः प्रस्तार्यर्मणि विस्तरत्वादर्मणो वर्त्मद्वयसमीपशुक्लावयवव्यापिनो वलीभावो नास्ति तत्र किं करणीयमिति दर्शयन्नाह- अर्मेत्यादि| यदर्म जालवन्मत्स्यबन्धनजालसदृशं व्यापि व्यापनशीलं तदपि सैन्धवचूर्णेन सहोर्ध्वघृष्टं शिथिलीभूतं वक्रशस्त्रेण बडिशेन लम्बितं मण्डलाग्रेण छिन्द्यादित्यर्थः| वर्त्मशुक्लान्तमाश्रितमिति अत्र वर्त्मनोऽन्त शब्दः समीपवाची, शुक्ले पुनरवयववाची| केचित् ‘अर्मवज्जालकं व्यापि’ इति पठन्ति; जालकं स्नाय्वर्म, तच्च वक्रेण शस्त्रेण लम्बितमर्मवच्छिन्द्यात्, वर्त्मशुक्लान्तमाश्रितं पुनरर्म उल्लेखप्रकारेण छिन्द्यादिति च व्याख्यानयन्ति||१०||-
Adhikarana 5 (11-13) · Śloka 14
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् ||११|| यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च | स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक् ||१२|| दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम् | व्रणवत् संविधानं तु तस्य कुर्यादतः परम् ||१३|| त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् |१४|
🔊 Audio coming soon
छेदानन्तरं प्रतिसारणं निर्दिशन्नाह- प्रतिसारणमित्यादि| तत इति कर्मणः| यावनालस्य यवक्षारस्य, लवणस्य सैन्धवस्य| स्वेदयित्वेत्यादि| स्वेदयित्वा ‘करेण’ इति शेषः| कुशलो बन्धादिवेत्ता| ‘दोषर्तुबलकालज्ञ’ इति दोषाणां चयादिमुखेन बलकालज्ञः, ऋतूनामादिमध्यावसानेन; अथवा दोषा वातादयः, ऋतवो हेमन्तादयः, बलं क्रियासु सामर्थ्यं, कालश्चावस्थिकः, तान् जानाति यः स तादृशः| स्नेहं दत्त्वा यथाहितमिति सन्धानार्थं घृतादीनां मध्ये यो यस्मै हितस्तं दत्त्वेत्यर्थः| तथाऽनुक्तमपि चक्षुष्यं सद्योव्रणहितं त्रिफलालोध्रचन्दनादिकषायद्रवकल्कपिण्डं दत्त्वा बध्नीयात्, तेनैव च प्रक्षालनम्| व्रणवदित्यादि व्रणवत् संविधानं शोधनरोपणादिकम्| तदेव शोधनविधानं दर्शयन्नाह- त्र्यहादित्यादि||११-१३||-
Adhikarana 6 (14-15) · Śloka 16
करञ्जबीजामलकमधुकैः साधितं पयः ||१४|| हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम् | मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि ||१५|| प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते |१६|
🔊 Audio coming soon
इदानीमावस्थिकशूलस्य चिकित्सामाह- करञ्जबीजेत्यादि| आश्च्योतनम् अक्षिपूरणम्| द्विरह्न इति दिवसस्य कालद्वयम्| तस्मिन्नेव शूले शिरोलेपं दर्शयन्नाह- मधुकोत्पलकिञ्जल्केत्यादि| उत्पलं नीलोत्पलं, किञ्जल्कः पद्मकेशरम्||१४-१५||-
Adhikarana 7 (16) · Śloka 16
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि ||१६||
🔊 Audio coming soon
शस्त्रकर्मावशिष्टस्यार्मणो लेख्याञ्जनैरेवापहरणं निर्दिशन्नाह- लेख्याञ्जनैरित्यादि| लेख्याञ्जनैरिति ‘लोहचूर्णानि सर्वाणि धातवो लवणानि च’ इत्यादिना शुक्रनिर्दिष्टैः||१६||
Adhikarana 8 (17) · Śloka 17
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा | धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् ||१७||
🔊 Audio coming soon
इदानीं लेख्याञ्जनप्रसङ्गेन यादृशं लेखनसाध्यमर्म तादृशं दर्शयन्नाह- अर्म चाल्पमित्यादि| अल्पं विस्तारेण, दधिनिभं शुक्लार्म, नीलं प्रस्तारि, रक्तं लोहितार्म, धूसरं पाण्डुरं, तनु स्नाय्वर्म, तनु यच्चापीत्यत्र चकारापिशब्दाभ्यां मांसार्मापि यकृत्प्रकाशं श्यावं वा; एतत् पञ्चविधमप्यर्म विस्तीर्णं तनु वा शुक्रवदेव लेख्याञ्जनैरेवोपचरणीयम्||१७||
Adhikarana 9 (18) · Śloka 18
चर्माभं बहलं यत्तु स्नायुमांसघनावृतम् | छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् ||१८||
🔊 Audio coming soon
इदानीं यादृशं छेद्यमर्म तादृशं दर्शयन्नाह- चर्माभमित्यादि| चर्मवदाभासते यत्तत्तथा चर्मखण्डवदित्यर्थः| बहलं स्थूलम्| स्नायुमांसघनं स्नायुमांसाभ्यां घनं यथा स्यादेवमावृतं; ‘स्नायुमांससिरावृतं’ इति केचित् पठन्ति| कृष्णमण्डलगमिति दृष्टिमार्गावरणकारीत्यर्थः||१८||
Adhikarana 10 (19) · Śloka 19
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम् | छिन्नेऽर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम् ||१९||
🔊 Audio coming soon
सम्यक्छिन्नस्यार्मणो लक्षणमाह- विशुद्धवर्णमित्यादि| विशुद्धवर्णमर्मापनयनात् प्रकृतिवर्णमक्षि भवेत्| अक्लिष्टं क्रियास्विति निमेषोन्मेषादिषु न क्लेशवत्| गतक्लमम् अनायासक्लेशरहितम्| केचिदक्लिष्टं निर्दोषं, क्रियास्वक्षि गतक्लमं क्रियासून्मेषादिष्वपि निराबाधं स्यादिति व्याख्यानयन्ति| यथास्वमनुपद्रवमिति हीनातिच्छेदयोर्ये प्रत्येकमुपद्रवास्ते न विद्यमाना यस्य तत्तथेत्यर्थः||१९||
Adhikarana 11 (20) · Śloka 20
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् | उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः ||२०||
🔊 Audio coming soon
अर्मच्छेदं प्रतिपाद्य सिराजालच्छेदं प्रतिपादयन्नाह- सिराजाले इत्यादि| पूर्ववदेव स्निग्धस्विन्नसंरोषितनयनस्य बडिशेनावलम्बिताः कठिनसिरा मण्डलाग्रेणोर्ध्वं लिखेत् ऊर्ध्वं छिन्द्यादिति पिण्डार्थः| कठिनसिराग्रहणान्मृदूनां सिराणां लेख्याञ्जनं योज्यमिति ज्ञेयम्||२०||
Adhikarana 12 (21) · Śloka 21
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः | अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते ||२१||
🔊 Audio coming soon
सिराजपिडकासु भेषजैरसिध्यमानासु छेदं दर्शयन्नाह- सिरास्वित्यादि| अर्मवच्छेदनमिति अर्मोक्तं पूर्वकर्मादिकं कृत्वा छेदः कार्यः||२१||
Adhikarana 13 (22) · Śloka 22
रोगयोश्चैतयोः कार्यमर्मोक्तं प्रतिसारणम् | विधिश्चापि यथादोषं लेखनद्रव्यसम्भृतः ||२२||
🔊 Audio coming soon
रोगयोरित्यादि| एतयोः सिराजालसिरापिडकयोः| अर्मोक्तं प्रतिसारणमिति ‘यावनालस्य चूर्णेन’ इत्याद्युक्तम्| यथादोषं यो विधिर्वाताभिष्यन्दनादिषु निर्दिष्टः स च कार्यो लेखनैर्द्रव्यैः सम्पादित इत्यर्थः||२२||
Adhikarana 14 (13-14) · Śloka 25
सन्धौ संस्वेद्य शस्त्रेण पर्वणीकां विचक्षणः | उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् ||२३|| छिन्द्यात्ततोऽर्धमग्रे, स्यादश्रुनाडी ह्यतोऽन्यथा | प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते ||२४|| लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम् |२५|
🔊 Audio coming soon
पर्वणिकापिडकाच्छेदनमाह- सन्धावित्यादि| सन्धौ कृष्णशुक्लसन्धौ, संस्वेद्य सम्यक् स्वेदयित्वा, परं यथा दृशोः पीडा न स्यात्, उत्तरे त्रिभागे बडिशेनावलम्बितां विद्धा गृहीतां, छिन्द्यात्ततोऽर्धमग्रे इति तदनन्तरमग्रेऽर्धं छिन्द्यात् मूलाग्रयोर्मित्वा मध्ये तां छिन्द्यादित्यर्थः| तस्यां छिन्नायां प्रतिसारणमाह- प्रतिसारणमित्यादि| शस्त्रकर्मावशिष्टस्य पर्वणीशेषस्य चिकित्सामाह- लेखनीयानीत्यादि||१३-१४||-
Adhikarana 15 (25-28) · Śloka 28
शङ्खं समुद्रफेनं च मण्डूकीं च समुद्रजाम् ||२५|| स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा | वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च ||२६|| समभागानि सम्पिष्य सार्धं स्रोतोञ्जनेन तु | चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे ||२७|| संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः | अर्माणि पिडकां हन्यात् सिराजालानि तेन वै ||२८||
🔊 Audio coming soon
तान्येव लेखनीयचूर्णान्याह- शङ्खमित्यादि| मण्डूकीं च समुद्रजामिति समुद्रजा मण्डूकी मुक्तानां शुक्तिः| कुरुविन्दः पद्मरागः, ‘निशानोपल’ इत्यन्ये, अश्मन्तकं सलौपमं(?) मणिविशेषः| वैदूर्यमिति विदूरगिरिसम्भवम् अत्यच्छमानीलं, पुलकं स्फटिकमेव पाकाद्वर्णान्तरमापन्नं; केचित् ‘वैदूर्योपलकं’ इति पठन्ति, तत्र वैदूर्योपलकं वेरुडिकेति व्याख्यानयन्ति| मेषशृङ्ग इङ्गुदीभेदः; केचित् मेषविषाणरचितभाजनं मन्यन्ते||२५-२८||
Adhikarana 16 (29) · Śloka 29
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च | अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते ||२९||
🔊 Audio coming soon
अर्श इत्यादि| अभ्यन्तरं वर्त्मशया इति वर्त्माभ्यन्तराश्रया इत्यर्थः||२९||
Adhikarana 17 (30-32) · Śloka 33
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः | मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः ||३०|| ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत् | स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया ||३१|| क्षारेणावलिखेच्चापि व्याधिशेषो भवेद्यदि | तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् ||३२|| वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम् |३३|
🔊 Audio coming soon
तदेव विधानमाह- वर्त्मेत्यादि| निर्भुज्य परिवर्त्य, उत्तानं कृत्वेत्यर्थः| केचिदमुमेव पाठमन्यथा कृत्वा पठन्ति, स च वर्तमानपुस्तकेषु न दृश्यते, अतो न लिखितः| तेषां कर्मणि कृते प्रतिसारणमाह- तत इत्यादि| प्रतिसारयेद् घर्षयेत्| शस्त्रकर्मावशिष्टानामर्शआदीनां चिकित्सामाह- स्थित इत्यादि| सम्यग् योगेन, शलाकयेति वस्त्राच्छादितां दृष्टिं कृत्वा अग्नितप्तशलाकया व्याधिशेषं दहेत्, क्षारेणावलिखेच्च| सर्वेष्वेवोक्तेषु छेद्यरोगेष्वनिर्दिष्टं भेषजं निर्दिशन्नाह- तीक्ष्णैरित्यादि| उभयतोभागैः वामनीयविरेचनद्रव्यैः| दोषं व्रणगतां दोषदुष्टिं; एतेनैतदुक्तं भवति- वामनीयविरेचनीयद्रव्याणां कल्ककषायादिना व्रणशुद्धिः कर्तव्येत्यर्थः| केचिद्वमनविरेचनैरेव कफादिकं दोषं निर्हरेदिति मन्यन्ते; एतच्च पञ्जिकाकारेण दूषितम्||३०-३२||-
Adhikarana 18 (33) · Śloka 33
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः ||३३||
🔊 Audio coming soon
इदानीं छेद्यादिषु परिहार्यपरिहारावधिं दर्शयन्नाह- शस्त्रकर्मणीत्यादि||३३||
Adhikarana puShpikA · Śloka 15
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे छेद्यरोगप्रतिषेधो नाम पञ्चदशोऽध्यायः ||१५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पञ्चदशोऽध्यायः||१५||