Adhikarana 1 (1-2) · Śloka 2
अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तृष्णाप्रतिषेधानन्तरं तृष्णोपचारतुल्यत्वात्तृष्णाप्रतिषेधे छर्देरुपादानाच्च छर्दिप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 2 (3-5) · Śloka 5
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति |
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ||३||
श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः |
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ||४||
अत्यन्तामपरीतस्य छर्देर्वै सम्भवो ध्रुवम् |
(बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ) ||५||
छर्देर्हेतुमाह- अतिद्रवैरित्यादि| एवम्भूतस्य पुरुषस्य अतिद्रवादिभिः कारणैश्छर्देः सम्भव उत्पत्तिर्भवेदिति सम्बन्धः| अहृद्यैः अप्रियैः| उद्वेग उद्वेजनम्| आपन्नसत्त्वाया गर्भिण्याः| अतिद्रुतम् अतिशीघ्रम्| अश्नतो भोजनं कुर्वतः| अत्यन्तामपरीतस्य अत्यर्थमामवेष्टितस्य| केचित् ‘अत्यन्तामपरीतस्य’ इत्यत्र ‘बीभत्सैर्हेतुभिश्चान्यैः’ इति पठन्ति; पूयामेध्यादिदर्शनगन्धास्वादैर्घृणाकरैरिति च व्याख्यानयन्ति||३-५||
Adhikarana 3 (6) · Śloka 6
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः |
निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ||६||
छर्दिनिरुक्तिमाह- छादयन्नाननमित्यादि| छादयन् पूरयन्, आननं वक्त्रं, प्रवृत्तेराभिमुख्येनावस्थितत्वं वेगः, अर्दयन् दुःखयन्, अङ्गभञ्जनैः अङ्गव्यथाभिः, वक्त्राद्विनिश्चरन् वक्त्राद्विनिर्गच्छन्; वेगैः कृत्वा मुखं पूरयन् अङ्गव्यथाभिश्च पीडयन् वक्त्रान्निर्गच्छन् दोषच्छर्दिरिति निरुच्यत इति सम्बन्धः| केचित् ‘वक्त्राद्विनिश्चरन्’ इत्यत्र ‘वक्त्रं प्रधावितः’ इति पठित्वा मुखं गत इति व्याख्यानयन्ति||६||
Adhikarana 4 (7) · Śloka 7
दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः |
ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ||७||
छर्दिसम्प्राप्तिमाह- दोषानुदीरयन्नित्यादि| व्यानसङ्गतः व्यानेन सह एकीभूत उदानः, विरुद्धाहारसेवनात् विरुद्धानामाहाराणां सेवनात्, वृद्धान् प्रकुपितान् दोषानुदीरयन् भृशमूर्ध्वमागच्छतीति सम्बन्धः| केचित् ‘ईरयन् श्लेष्मपित्ते तु उदानो व्यानसङ्गतः| ऊर्ध्वमागच्छति रसो विरुद्धाहारसेविनाम्’ इति पठन्ति; तं च कार्तिककुण्डो नेच्छति, यतो ‘दोषो वक्त्रं प्रधावित’ इत्यनेन गतार्थं, तथा रससहितस्य च दोषस्योर्ध्वगमनं रसदोषजत्वेन छर्द्याः पठितत्वेन सिद्धम्||७||
Adhikarana 5 (8) · Śloka 8
प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम् |
पूर्वरूपं मतं छर्द्या... |८|
केचित् पूर्वरूपं न पठन्ति, युक्तं च पठितुं; समानतन्त्रपठितत्वात्|८|-
Adhikarana 6 (8) · Śloka 8
... यथास्वं च विभावयेत् ||८||
पूर्वरूपानन्तरं प्रव्यक्तरूपता भवति, तल्लक्षणान्याह- यथास्वं च विभावयेदिति| पूर्वरूपं यथात्मीयं प्रव्यक्तं रूपावस्थायां विभावयेत् विशेषेण प्रसेकस्य कषायाम्लमधुररसत्वेन भावयेत् जानीयादित्यर्थः||८||
Adhikarana 7 (9) · Śloka 9
प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः |
श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ||९||
वातजच्छर्दिलक्षणमाह- प्रच्छर्दयेदित्यादि| अभ्यर्दितपार्श्वपृष्ठः पीडितपार्श्वपृष्ठः| सघोषं सशब्दम्| एवम्भूतः पुरुषो यत्र रोगे एवंविधं छर्दयेत् जीर्णे चाधिकं छर्दयेत् सा वमिरनिलजा ज्ञेयेति सम्बन्धः| केचिदमुमन्यथा पठन्ति, स चाभावान्न दर्शितः||९||
Adhikarana 8 (10) · Śloka 10
योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा |
सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा ||१०||
पित्तजच्छर्दिलक्षणमाह- योऽम्लमित्यादि| भृशमम्लं कटुकं वा यो वमेत्| सदाहशब्दश्चोषज्वराभ्यां सम्बध्यते; चोष आचूष्यत इव वेदना||१०||
Adhikarana 9 (11) · Śloka 11
यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्रकफानुविद्धम् |
अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ||११||
कफजवमिलक्षणमाह- यो हृष्टरोमेत्यादि| हृष्टरोमा उद्धर्षितरोमाञ्चः| प्रभूतं बहु| सान्द्रं घनं| कफानुविद्धं कफमिश्रम्| अभक्तरुक् अन्नारुचिः| सादः अङ्गग्लानिः||११||
Adhikarana 10 (12) · Śloka 12
सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु |१२|
सान्निपातिकवमिलक्षणमाह- सर्वाणीत्यादि| सर्वाणि रूपाणि वातजादिसमस्तच्छर्दिरूपाणि| यद्यपि तन्त्रान्तरे सन्निपाताख्यच्छर्दिलक्षणमुक्तं , तथाऽप्यत्र क्षीणस्येत्यादिना वक्ष्यमाणेन सा द्वितीया सूचिता, अतश्च नोक्ता|१२|-
Adhikarana 11 (12) · Śloka 12
बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि |
सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ ||१२||
इदानीं कारणभेदादनेकप्रकारामपि पञ्चमीमेकामेव निर्दिशन्नाह- बीभत्सजेत्यादि| बीभत्सजा द्विष्टाशुचिपूत्यमेध्यादिकाद्घृणाकराज्जाता| दौहृदजा दौहृदविमाननाज्जाता, अन्ये दौहृदजां गर्भनिमित्तामाहुः| आमजा विसूच्यादिजाता| सात्म्यप्रकोपात् अकस्मात् सात्म्यत्यागात्| कृमिभिः कृता कृमिजा| बीभत्सजादि यावत्सा पञ्चमी, तां च दोषोच्छ्रयेणैव विभावयेत्| अन्ये तु व्याख्यानयन्ति- या कृमिजा सा पञ्चमी, तां च दोषोच्छ्रयेणैव विभावयेदिति||१२||
Adhikarana 12 (13) · Śloka 13
शूलहृल्लासबहुला कृमिजा च विशेषतः |
कृमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ||१३||
इदानीं कृमिजाया विशिष्टलिङ्गमाह- शूलहृल्लासबहुलेत्यादि| हृल्लासः थूत्करणम्||१३||
Adhikarana 13 (14) · Śloka 14
क्षीणस्योपद्रवैर्युक्तां सासृक्पूयां सचन्द्रिकाम् |
छर्दि प्रसक्तां कुशलो नारभेत चिकित्सितुम् ||१४||
इदानीं सर्वासामेव च वमीनामवस्थायामसाध्यत्वमाह- क्षीणस्येत्यादि| नारभेतेति पदं क्षीणस्येत्यादिभिः प्रत्येकं योजनीयम्| तेन क्षीणस्य छर्दिं चिकित्सितुं नारभेत, तथा उपद्रवैर्युक्तां नारभेत, तथा सासृक्पूयां नारभेतेत्यादि द्रष्टव्यम्| प्रसक्तां निरन्तरप्रवृत्ताम्||१४||
Adhikarana 14 (15) · Śloka 15
आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु ||१५||
इदानीं सामान्येन सर्वासामपि वमीनां चिकित्सामाह- आमाशयोत्क्लेशभवा इत्यादि| आमाशयोत्क्लेशभवा इति आमाशयमुत्क्लिश्य दोषैर्जन्यन्त इति तात्पर्यार्थः| हितं लङ्घनं ‘बलिन’ इति वाक्यशेषः| तासु छर्दिषु||१५||
Adhikarana 15 (16) · Śloka 16
वमीषु बहुदोषासु छर्दनं हितमुच्यते |
विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् ||१६||
वमीषु बहुदोषास्वित्यादि| बहुदोषस्विति प्रबलकफासु, अन्यथा सान्निपातिक्यामेव वमनं प्राप्नुयात्; ततश्च बहुवचनं घटते| यथादोषोच्छ्रयमिति दोषोच्छ्रयं दोषाधिक्यमवेक्ष्य||१६||
Adhikarana 16 (17) · Śloka 17
संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः |१७|
शोधनानन्तरं किं कर्तव्यमित्याह- संसर्गश्चानुपूर्वेणेत्यादि| संसर्गोऽन्नसंसर्गः पेयादिः, तर्पणादिकमन्ये, अनुपूर्वेण ‘पेयां विलेपीमकृतं कृतं च यूषं’ इत्यादिक्रमेण| यथास्वं भेषजायुत इति वातादेर्यदात्मीयं प्रत्यनीकमौषधं तेन आयुतः ईषद्युत इत्यर्थः|१७|-
Adhikarana 17 (17) · Śloka 17
लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् ||१७||
अन्नसंसर्जनानन्तरं किं कर्तव्यमित्याह- लघूनीत्यादि| लघूनि मात्रास्वभावाभ्यां लघूनि| परिशुष्काणि शष्कुल्यादीनि| सात्म्यानि ऋतुव्याधिविपरीतानि| केचिल्लघूनीत्यादिकं वमनार्हसंशमनमिच्छन्ति, वमनावशिष्टदोषशेषस्य शमनसाध्यत्वात्||१७||
Adhikarana 18 (18) · Śloka 18
यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत् |१८|
इदानीं वमीषु सामान्यं चिकित्सितमतिदेशेनाह- यथास्वमित्यादि| यथास्वं यथात्मीयम्| एतेन वातादिज्वरहराणि कषायाणि वातादिजासु छर्दिषु योजयेदित्यर्थः|१८|-
Adhikarana 19 (18-20) · Śloka 20
हन्यात् क्षीरघृतं पीतं छर्दिं पवनसम्भवाम् ||१८||
ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम् |
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः |
यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् ||१९||
पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् |
सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् ||२०||
इदानीं वातजवमीचिकित्सितमाह- हन्यादित्यादि| क्षीरघृतमिति क्षीरमथनोद्भूतं घृतं क्षीरयुक्तं वा घृतं क्षीरघृतं; क्षीरोदकमिति वा पाठः| सलवणं सर्पिराह- ससैन्धवमित्यादि| सर्पिरपक्वमेव| उक्तं च वाग्भटेन- “हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम्” (वा. चि. ६) इति| पञ्चमूलीकृतां शालपर्ण्यादिकेन बिल्वादिकेन वा कृताम्| यूषमाह- मुद्गामलकयूषो वेत्यादि| सर्पिरिह यूषसन्तलनार्थम्| ससैन्धवः सैन्धवयुक्तः| यवागूमित्यादि| पञ्चमूली महतीति चन्द्रिकाकारः; स्वल्पेति चक्रपाणिः| रसमाह- पिबेद्वा व्यक्तसिन्धूत्थमित्यादि| किम्भूतं? व्यक्तसिन्धूत्थं प्रकटलवणम्| वैष्किरं लावादिमांसरसम्| तथा फलाम्लं फलेन दाडिममातुलुङ्गादिनाऽम्लमम्लतां प्राप्तम्| विरेचनमाह- सुखोष्णलवणं चात्रेति| अत्र वातच्छर्द्यां, स्नेहविरेचनं स्नेहेन एरण्डतैलादिना विरेचनं स्नेहविरेचनम्| सुखोष्णलवणं सुखं सुखकरमुष्णं लवणं यस्मिन् तत्| उक्तं च वाग्भटेन,- “कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्” (वा. चि. ६)- इति| अथवा सुखोष्णं लवणं चात्र’ इति पाठः||१८-२०||
Adhikarana 20 (21-22) · Śloka 22
पित्तोपशमनीयानि पाक्यानि शिशिराणि च |
कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् ||२१||
शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः |
बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च ||२२||
इदानीं पित्तजवमीचिकित्सितमाह- पित्तोपशमनीयानीत्यादि| पित्तोपशमनीयानि पित्तज्वरशमनानि, ‘यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्’ इत्युक्तत्वात्| पाक्यानि शृतानि| शिशिराणि शीतकषायाणि| शोधनं वमनं विरेचनं वा; केचिच्छोधनशब्देन विरेचनमेव कथयन्ति, पित्तजायां तस्य प्रशस्तत्वात्| अत्र पित्तच्छर्द्याम्| मधुरैः शोधनद्रव्यैर्द्राक्षारससमायुतैः शोधनं विरेकवमनरूपं प्रशंसन्ति| बलवत्यां तैल्वकं सर्पिः वातव्याध्युक्तं, रोध्रसंस्कृतं वा||२१-२२||
Adhikarana 21 (23) · Śloka 23
आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा |
पाययेताथ सक्षौद्रं कफजायां चिकित्सकः ||२३||
कफच्छर्दिचिकित्सितमाह- आरग्वधादिनिर्यूहमित्यादि| निर्यूहं कषायम्| दशाङ्गयोगमिति “नागरं धान्यकं भार्गीमभयां सुरदारु च| वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम्|| विनिष्क्वाथ्य पिबेत्” इति केचिद्दशाङ्गशब्दमूलमाहुः; तं च कार्तिककुण्डो नेच्छति, छर्दिहरत्वेनानभ्युपगमात्| कार्तिकस्तु दशाङ्गशब्देन ‘कटुका चित्रकम्’ इत्यादिकं कफज्वरोक्तमाह| यद्यपि ‘कटुका चित्रकम्’ इत्यादिकं ‘यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्’ इत्यनेनैव प्राप्तं, तथाऽपि पुनस्तदुपादानं मरिचरहितस्योपयोगार्थम्| अन्ये दशाङ्गशब्देनातिसारोक्तं शालिपर्ण्यादिकमाहुः; तमपि दशमूलं निरामहेतुनैव नेच्छति कार्तिककुण्डः||२३||
Adhikarana 22 (24) · Śloka 24
कृतं गुडूच्या विधिवत् कषायं हिमसञ्ज्ञितम् |
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् ||२४||
सन्निपातजायाश्चिकित्सितमाह- कृतमित्यादि| विधिवत् यथोक्तशीतकषायविधिना| हिमसञ्ज्ञितं शीतकषायाख्यम्| तिसृषु वातपित्तकफजासु, अपिशब्दात् सन्निपातजास्वपि| सान्निपातिकी छर्दिर्बाहुल्येनासाध्या, अतस्तस्याश्चिकित्सितं नोक्तम्| शीतकषायविधानं च भेषजपलं क्षुण्णमुष्णाम्बुचतुष्पलाप्लुतं निशि संस्थितं ग्राह्यमिति| तन्त्रान्तरे यथा- “द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात्| कषायो योऽभिनिर्याति स शीतः समुदाहृतः|| षड्भिः पलैश्चतुर्भिर्वा सलिलाच्छीतफाण्टयोः| आप्लुतं भेषजपलं रसाख्यस्य पलद्वयम्”- इति| प्रचारस्तु भिषजां भेषजपल एव जलपलद्वयेनेति| ननु, गुडूची शाकवर्गे कफपित्तमात्रशमनी पठिता, तत्कथमस्याः शीतकषायो वातादित्रयजासु शस्तत्वेनोपदिश्यते? उच्यते- मधुयोगमहिम्ना दोषत्रयेऽपि हितत्वमस्याः| किंवा शाकवर्गे पत्रमस्याः कफपित्तहरमुक्तं, लता तु वातं शमयति; तदुक्तं चरके- “अमृता सङ्ग्राहकदीपनीयवातहरश्लेष्मशोणितविबन्धप्रशमनानां”- इति||२४||
Adhikarana 23 (25) · Śloka 26
बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः |
लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् ||२५||
कृमिहृद्रोगवच्चापि कृमिजां साधयेद्वमीम् |२६|
बीभात्सजादिष्वौषधमाह- बीभत्सजामित्यादि| दौहृदीं दौहृदविमाननजातां वमिं; अन्ये गर्भजामाहुः| आमाम् आमजाम्| वमनं तावत् सर्वास्वेवोपदिष्टम्, आमजायां पुनर्वमनकथनं बलं विनाऽप्यत्र वमनं कार्यमिति प्रतिपादनार्थम्, अन्यथा ह्यामाद्व्यापत्तिः| सात्म्यप्रकोपजां सात्म्यपरित्यागजाम्||२५||-
Adhikarana 24 (26) · Śloka 26
वितरेच्च यथादोषं शस्तं विधिमनन्तरम् ||२६||
यथादोषमतिदेशेन चिकित्सामाह- वितरेच्च यथादोषमित्यादि| यथादोषमिति दोषानतिक्रमेण; यथादोषप्रकृत्यापादनाय स्वं स्वं चिकित्सितं कार्यं, तदनन्तरं दोषचिकित्सितं; अत एवौषधमत्र न निर्दिष्टम्| अन्ये तु सर्वास्वेव छर्दिषु पुनरावृत्तिनिवारणार्थमेतत् कर्तव्यमित्याहुः| ‘शस्तं’ इत्यत्र ‘व्यस्तं’ इत्यन्ये पठन्ति||२६||
Adhikarana 25 (27-35) · Śloka 35
दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम् |
मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रवि(ति)मुच्यते ||२७||
समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना |
तर्पणं वा मधुयुतं तिसृणामपि भेषजम् ||२८||
स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्रवाम् |
पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः ||२९||
युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः |
तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्यूषणेन वा ||३०||
सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत् |
पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ||३१||
सर्पिःक्षौद्रयुतान् वाऽपि लाजशक्तून् पिबेत्तथा |
सर्पिःक्षौद्रसितोपेतां मागधीं वा लिहेत्तथा ||३२||
धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना |
कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ||३३||
सक्षौद्रां शालिलाजानां यवागूं वा पिबेन्नरः |
घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ||३४||
जाङ्गलानि च मांसानि शुभानि पानकानि च |
भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रितः ||३५||
सामान्येन छर्दिचिकित्सामाह- दधित्थरससंयुक्तामित्यादि| दधित्थः कपित्थः, माक्षिकान्वितां मधुयुक्तां; दधित्थरसं पिप्पलीमधुकयुक्तं पीत्वा छर्दिं जयतीति पिण्डार्थः| समाक्षिकेत्यादि| मधुरसा मूर्वा| तण्डुलाम्बुना तण्डुलधावनोदकेन| तर्पणं लाजसक्तुकृतं, लाजानां छर्दिहरत्वात्| तिसृणामिति तिसृणां वातादिजानां, छर्दीनां, एतेन त्रिदोषजच्छर्दिहरत्वमस्योक्तं भवति; यतो यत् वातादिजासु पृथक् तिसृषु भेषजं तदेव मिलितवातादित्रयजाया अपि प्रकृतिसमवेताया हितम्| तथा चोक्तम्,- “यैषा पृथक्त्वेन मया क्रियोक्ता तां सन्निपातेषु च तीक्ष्णबुद्ध्या| रोगेषु दोषाग्निबलाद्यपेक्षया कुर्याद्भिषक् शास्त्रविधौ विचक्षणः”- इति| स्वयङ्गुप्तामित्यादि| स्वयङ्गुप्ता कपिकच्छूः| तण्डुलाम्बुमधुद्रवामिति ताण्डुलाम्बुमधूनि द्रवे यस्यां सा तामित्यर्थः; मधु कर्षप्रमाणं, तण्डुलाम्बु चतुर्गुणम्| अथवा करञ्जजैः पत्रैः सह सिद्धां यवागूं पिबेत्, श्लेष्मभूयिष्ठायामित्युपस्कारः| युक्ताम्ललवणा इत्यादि| युक्ताम्ललवणा उचितप्रमाणाम्ललवणयुक्ताः| पिष्टा दृषदि पिष्टाः| कुस्तुम्बुर्यो धान्यकाः| केचिद्युक्ताम्ललवणा इति पदं यवाग्वाऽपि सम्बध्नन्ति| तण्डुलाम्ब्वित्यादि| त्र्यूषणं त्रिकटुकं; योगद्वयमेतत्; अथवा कपित्थं तण्डुलाम्बुयुतं खादेत्; त्र्यूषणेन वा युतं खादेत्| सिता शर्करा| चन्दनं रक्तचन्दनम्| सितादियुक्तं मक्षिकापुरीषं वा लिह्यात्| पिबेदित्यादि| अग्नितप्तां गृहगोधिकां पयसि निर्वाप्य तत् पयः पिबेदित्यर्थः| पयो जलम्| अत्र गृहगोधि(पि)काशब्देन वरमठीकृतं मृन्मयं गृहमुच्यते उपचारात्| अथवा सर्पिःक्षौद्रयुतान् लाजशक्तून् पिबेत्| धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना पिबेत्| कोलादिमज्जानं मधुना लिह्यात्| त्रिसुगन्धिकं त्रिजातकं वा मधुना लिह्यात्| अथवा शालिलाजानां यवागूं पिबेत्| घ्रेयाण्युपाहरेदित्यादि| मनोज्ञानि सुखानि चेति चेतोनासिकाह्लादजनकानि घ्रेयाणि सुगन्धद्रव्याणि, तथा सुखानि आयत्यां सुखजनकानि| तथा जाङ्गलानि मांसानि शूल्यानि शूलप्रोतानि पक्वानि तथा शुभानि पानकानि च सुखजनकानि उपाहरेत्| भोजनानि विचित्राणि नानाप्रकाराणि कुर्यात्| अतन्द्रितः अनलसः||२७-३५||
Adhikarana puShpikA · Śloka 49
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम (एकादशोऽध्यायः, आदितः) एकोनपञ्चाशत्तमोऽध्यायः ||४९||
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायामुत्तरतन्त्रे छर्दिप्रतिषेधो नामैकोनपञ्चाशत्तमोऽध्यायः||४९||