Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

48. tr̥ṣṇāpratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

पानात्ययप्रतिषेधानन्तरं मद्यहेतुत्वात्तुल्यचिकित्सितत्वाच्च तृष्णाप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

सततं यः पिबेद्वारि न तृप्तिमधिगच्छति | पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ||३||

🔊 Audio coming soon

तृष्णारोगस्वरूपकथनाय यादृशस्तृष्णार्दितो भवति तादृशमाह- सततं य इत्यादि| नाधिगच्छति न प्राप्नोति||३||

Adhikarana 3 (4-5) · Śloka 5

सङ्क्षोभशोकश्रममद्यपानाद्रूक्षाम्लशुष्कोष्णकटूपयोगात् | धातुक्षयाल्लङ्घनसूर्यतापात् पित्तं च वातश्च भृशं प्रवृद्धौ ||४|| स्रोतांसि सन्दूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि | स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ||५||

🔊 Audio coming soon

तृष्णाया हेतुसम्प्राप्ती आह- सङ्क्षोभशोकश्रमेत्यादि| सङ्क्षोभः अत्यर्थचलनम्| श्रम आयासजः स्वे(खे)दः| समेतौ मिलितौ| अम्बुवाहीनि स्रोतांसि जिह्वागलतालुक्लोमजानि रसवाहिन्यश्च धमन्यः| अतिबला अतिशयेन बलयुक्ता तृष्णा| सङ्क्षोभेत्यादिकः सूर्यतापान्तो हेतुः, ‘पित्तं च वातश्च भृशम्’ इत्यादिका ‘जायेत तृष्णाऽतिबला ततस्तु’ इत्यन्ता सम्प्राप्तिः||४-५||

Adhikarana 4 (6) · Śloka 6

तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च | स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ||६||

🔊 Audio coming soon

तृष्णासङ्ख्यामाह- तिस्र इत्यादि| तिस्र इति वातपित्तकफैः| यद्यपि कफस्य स्तैमित्यात्तृष्णाजनकत्वं न सम्भवति, तथाऽपि वृद्धः श्लेष्मा यदा वातं पित्तेन सह आवृणोति तदा ताभ्यां संशोष्यमाणस्तृष्णां जनयति| ता इति तृष्णाः| क्षतजा व्रणनिमित्ता| चतुर्थीति चतुर्थग्रहणादाद्यानां चतसृणां तृष्णानां सुखसाध्यत्वं रसक्षयामसमुद्भवयोर्दुःसाध्यत्वं च बोधयति| क्षयात् रसक्षयात्, ‘रसक्षयाद्या क्षयसम्भवा सा’ इति वक्ष्यमाणवचनात्| अन्या अपरा| आमसमुद्भवा अजीर्णजा| भुक्तनिमित्तजा चेति स्निग्धादिभोजननिमित्ता| यद्यपि तन्त्रान्तरे पञ्चैव तृष्णा निर्दिष्टाः, तथाऽप्यत्र निदानभेदेन चिकित्साभेदात् सप्त निर्दिष्टाः| या च स्वभावजा तस्या अत्रानधिकारः, स्वस्थोजस्करचिकित्सितविषयत्वात्; या च बुभुक्षाप्रभवा सा ज्वराधिकारे सम्यग्लङ्घनलक्षणत्वेनोक्ता, तस्या अप्यनधिकारत्वेनागणनं; या च पित्तज्वरलिङ्गत्वेन कथिता सा पैत्तिकायामवरुद्धा या च पानजा सा क्षयजायामवरुद्धेति; अतो न सङ्ख्यातिरेकः| निबोध जानीहि| अनुपूर्वशः यथाक्रमेण| केचित् ‘लिङ्गानि तासां शृणु सौषधानि’ इति पठन्ति||६||

Adhikarana 5 (7) · Śloka 7

ताल्वोष्ठकण्ठास्यविशोषदाहाः सन्तापमोहभ्रमविप्रलापाः | पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ||७||

🔊 Audio coming soon

तृष्णायाः पूर्वरूपमाह- ताल्वोष्ठकण्ठास्येत्यादि| विशोषदाहा इति ताल्वादिभिः सह प्रत्येकं सम्बध्यते| विशोषो विशेषेण शोषः| सन्तापो घर्मादिभिरिव| मोहो वैचित्त्यम्| विप्रलापो विविधप्रकारेण भाषणम्| तासां तृष्णानाम्| उत्पत्तिकालेषु विशेषतस्त्विति तानि पूर्वरूपाणि अत्तिशयेनोत्पत्तिकालेषु सम्भवन्तीत्यर्थः||७||

Adhikarana 6 (8) · Śloka 8

शुष्कास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि | स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ||८||

🔊 Audio coming soon

वातजतृष्णालक्षणमाह- शुष्कास्यता मारुतसम्भवायामित्यादि| शुष्कास्यता मुखशोषः| शङ्खशिरःसु शङ्खयोः शिरसि चेत्यर्थः| स्रोतोनिरोधः कर्णस्रोतोनिरोधः | विरसं विरुद्धरसम्| एति प्राप्नोति| केचित् ‘शुष्कास्यता’ इत्यत्र ‘क्षामास्यता’ इति पठित्वा वक्तुं चर्वयितुं चासामर्थ्यमिति व्याख्यानयन्ति| ‘शङ्खशिरःसु चापि’ इत्यत्र ‘शङ्खशिरोगलेषु’ इति केचित् पठन्ति||८||

Adhikarana 7 (9) · Śloka 9

मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः | शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ||९||

🔊 Audio coming soon

पित्तजतृष्णालक्षणमाह- मूर्च्छेत्यादि| मूर्च्छा चेतनाच्युतिः| पीतेक्षणत्वं पीतनेत्रता| प्रततः सन्ततः| शीताभिकाङ्क्षा शीतेच्छा| परिधूपनं धूमोद्वम(ह)नमिव||९||

Adhikarana 8 (10-11) · Śloka 11

कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम् | निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् ||१०|| कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च | कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव | एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ||११||

🔊 Audio coming soon

कफजतृष्णालक्षणमाह- कफावृताभ्यामित्यादि| अनिलानलाभ्यां वातपित्ताभ्याम्| गुरुत्वमुदरे बोद्धव्यम्| तयाऽर्दितः कफतृष्णया पीडितः| कण्ठोपलेपः कण्ठे मलवृद्धिः| मुखपिच्छिलत्वं श्लेष्मणा लिप्तमुखत्वम्| शीतज्वरः शीतपूर्वो ज्वरः| गुरुगात्रता हस्तपादशिरोगुरुत्वम्| शाखासु बाहुपादेषु| शोफः श्वयथुः| अविपाक आहारस्यापचनम्| नातिकाङ्क्षति नात्यभिलषतीत्यर्थः| केचिदमुं पाठमन्यथा पठन्ति- ‘बाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेत्तथा च’ इति; शेषं निद्रेत्यादि समम्||१०-११||

Adhikarana 9 (12) · Śloka 12

क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु | तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् ||१२||

🔊 Audio coming soon

क्षतजतृष्णालक्षणमाह- क्षतस्येत्यादि| क्षतस्य व्रणिनः पुरुषस्य या तृष्णा भवेत् सा चतुर्थी क्षतजा| तया च पीडितस्य पुंसः तोयं पिबतोऽपि निशादिनानि दुःखं गच्छन्तीति सम्बन्धः||१२||

Adhikarana 10 (13) · Śloka 14

रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च | अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः ||१३|| रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् |१४|

🔊 Audio coming soon

रसक्षयाच्च क्षयजेत्यादि| मता कथिता| आकाङ्क्षति अभिलषति| तां सन्निपातादिति केचिदाहुरिति रात्र्यह्नोः षट्सु कालेष्वत्यर्थं पानीयपानेनापि तदनुपशमात्| परमतमप्रतिषिद्धम् अनुमतम्| रसक्षयोक्तानि लक्षणानि ‘रसक्षये हृत्पीडा कम्पः’ इत्यादीनि| ‘रसक्षयोत्थानि’ इति केचित् पठन्ति| तस्यां क्षयजतृष्णायाम्| व्यवस्येत् जानीयात्||१३||-

Adhikarana 11 (14) · Śloka 14

त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता ||१४||

🔊 Audio coming soon

आमजतृष्णालक्षणमाह- त्रिदोषलिङ्गामसमुद्भवेत्यादि| त्रिदोषलिङ्गा दोषत्रयलिङ्गयुक्ता, अजीर्णतो दोषत्रयकोपात्| निष्ठीवनं थुग्थुगिका| सादः अङ्गग्लानिः||१४||

Adhikarana 12 (15) · Śloka 15

स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति |१५|

🔊 Audio coming soon

भक्तजतृष्णालक्षणमाह- स्निग्धं तथाऽम्लमित्यादि| तृषां तृष्णाम्| एषा कफात्, वातपित्ते तु सर्वास्वपि कारणे(?)|१५|-

Adhikarana 13 (15) · Śloka 15

क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु ||१५||

🔊 Audio coming soon

इदानीमवस्थायां सर्वासां वर्जनमाह- क्षीणं विचित्तमित्यादि| विचित्तं नष्टमनस्कम्| तृषार्तं तृष्णापीडितं मनुष्यम्||१५||

Adhikarana 14 (16) · Śloka 17

तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागधिकोदकेन | विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः ||१६|| तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः |१७|

🔊 Audio coming soon

इदानीं चिकित्सावसरः- तृष्णाभिवृद्धावित्यादि| वामयेत् छर्दयेत्, परं क्षयजां विहाय; तत्र हि क्षीणधातुत्वाद्वमनमनुचितम्| तथा च तन्त्रान्तरम्,- “उल्लेखनं तु तृष्णासु क्षयादन्यत्र युज्यते”- इति| मागधिकोदकेन पिप्पलीमिश्रितजलेन| विलोभनं विशिष्टो लोभः| कैर्विलोभनं विधेयं स्यादित्याह- दाडिमाम्रातकेत्यादि| एतेन तल्लालास्रावाय तस्य पुरतो दाडिमाद्यम्लफलमन्ये खादेयुरित्युक्तं, अन्ये नानाप्रकाराभिः कथाभिरपि विलोभनमिच्छन्ति| केचिद्विलोभनमित्यत्र विलङ्घनमिति पठन्ति; विलङ्घनं लघुभोजनं नतु लङ्घनं, तस्य पित्तकरत्वादिति च व्याख्यानयन्ति| तिस्रः वातपित्तकफजास्तृष्णाः| सन्निवार्या निवारणीयाः| प्रयोगैः वक्ष्यमाणैः| सम्यग्रसवीर्यजातैरिति सम्पूर्णरसवीर्यैरित्यर्थः||१६||-

Adhikarana 15 (17) · Śloka 17

गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः ||१७||

🔊 Audio coming soon

गण्डूषमम्लैरित्यादि| अम्लैः मद्यारनालमातुलुङ्गादिभिः| विरसे चेति चकार आमलकस्य चूर्णैरित्यत्र द्रष्टव्यः| तेन न केवलमम्लैर्गण्डूषं कुर्यात् आमलकस्य चूर्णैरपीत्यर्थः||१७||

Adhikarana 16 (18) · Śloka 18

सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा | जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्रयुतं हिमं वा ||१८||

🔊 Audio coming soon

सुवर्णरूप्यादिभिरित्यादि| सुवर्णादिभिर्लोष्टैः सिकतादिभिर्वा अग्नितप्तैः कृतं संस्कृतं जलं सुखोष्णं पीतं सत् तृष्णां शमयेत्, तदेव वा हिमीकृतं शर्करामधुयुक्तं पीतं स्त् तृष्णां शमयेदिति पिण्डार्थः||१८||

Adhikarana 17 (19) · Śloka 19

पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा | पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः ||१९||

🔊 Audio coming soon

सामान्यचिकित्सितमभिधायेदानीं विशिष्टचिकित्सितमाह- पञ्चाङ्गिकाः पञ्चगणा इत्यादि| पञ्चाङ्गिकाः पञ्चगणा ये उक्ताः पञ्चमूलानि| प्रथमे गणे विदारिगन्धादौ||१९||

Adhikarana 18 (20) · Śloka 20

पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्रयुतः सुशीतः | पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः ||२०||

🔊 Audio coming soon

पित्तजतृष्णाचिकित्सितमाह- पित्तघ्नवर्गैस्त्वित्यादि| पित्तघ्नवर्गैः उत्पलसारिवादिकाकोल्यादिभिः| कृतः संस्कृतः| जीवनीयैः काकोल्यादिभिः||२०||

Adhikarana 19 (21) · Śloka 21

बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति | हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन ||२१||

🔊 Audio coming soon

कफजतृष्णाचिकित्सितमाह- बिल्वाढकीकन्यकपञ्चमूलीत्यादि| कन्यकपञ्चमूली लघुपञ्चमूलम्| अत्र कफजतृष्णायाम्| निम्बप्रसवोदकेन निम्बपल्लवोदकेन| केचित् ‘बिल्वाढकीकण्टकपञ्चमूलीदर्भेषु’ इति पठन्ति| कण्टकिपञ्चमूलं करमर्दकत्रिकण्टकेत्यादिनोक्तम्| अपरे ‘बिल्वाढकीकण्टकपञ्चकोलदर्भेषु ’ इति पठन्ति| तं च पाठं कार्तिककुण्डो नेच्छति, सर्वतृष्णासु पित्तसद्भावेन पञ्चकोलस्यानुचितत्वात्||२१||

Adhikarana 20 (22) · Śloka 22

सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति |२२|

🔊 Audio coming soon

इदानीं सर्वतृष्णासु पित्तघ्नो विधिः कार्य इति दर्शयन्नाह- सर्वासु तृष्णास्वथवेत्यादि| पैत्तं विधिं वक्ष्यमाणं मधुरशीतादिभिः पानालेपनपरिषेकादिकम्| तेन पैत्तेन विधिना, हि यस्मात् ताः तृष्णाः, न सन्ति न भवन्ति|२२|-

Adhikarana 21 (22) · Śloka 23

पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा ||२२|| वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः |२३|

🔊 Audio coming soon

अपरमपि सर्वतृष्णासु विधिमाह- पर्यागतोदुम्बरज इत्यादि| पर्यागतोदुम्बरजो रस इति पक्वोदुम्बरस्वरसः| तत्क्वथितोदकं पक्वोदुम्बरक्वथितजलम्| सुद्धस्य क्वाथपानपरिभाषया| शिशिरं शीतलम्||२२||-

Adhikarana 22 (23) · Śloka 23

कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति ||२३||

🔊 Audio coming soon

क्षतजतृष्णाचिकित्सितमाह- कशेरुशृङ्गाटकेत्यादि| मोचा कदली| बिसं पद्ममूलम्| सिद्धमित्यत्र ‘तोयं’ इति शेषः||२३||

Adhikarana 23 (24) · Śloka 25

लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु | तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्रयुतं वदन्ति ||२४|| द्राक्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः |२५|

🔊 Audio coming soon

इदानीं क्षतजतृष्णायां योगान्तरमाह- लाजोत्पलोशीरकुचन्दनानीत्यादि| एतानि लाजोत्पलादीनि दत्त्वा तोयं जलं प्रवाते निशि वासयेत्, ततश्च तदुदकमुदारगन्धि सुगन्धिपुष्पाधिवासितं सिताक्षौद्रयुतं क्षतजतृष्णायामुत्तमं वदन्ति| तदुदकं यथा प्रयुज्यते तदा(था)ह- द्राक्षाप्रगाढमित्यादि| केचिदनन्तरोक्तं ‘कशेरुशृङ्गाटक’- इत्यादिकं तथा ‘लाजोत्पलोशीरकुचन्दनानि’ इत्यादिकं चैकत्र कृत्वाऽन्यथा पठन्ति, ते च कशेर्वादिसिद्धे तोये लाजोत्पलादीनि दत्त्वा निशि वासयेदिति योजयन्ति; ते च कशेर्वादिकं ‘कुर्यात् कषायाणि यथेरितानि’ इति पर्यन्तं सामान्यतृष्णाचिकित्सितमिति मन्यन्ते, स च पाठोऽभावान्न दर्शितः||२४||-

Adhikarana 24 (25) · Śloka 26

ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च ||२५|| कुर्यात् कषायं च यथेरितेन ... |२६|

🔊 Audio coming soon

क्षतजतृष्णायामपराण्यपि योगान्तराण्याह- ससारिवादौ तृणपञ्चमूले इत्यादि| ससारिवादौ सारिवादिगणसहिते| एतद्विशेषणं तृणपञ्चमूलोत्पलादीनाम्| तृणपञ्चमूले कुशकाशनलदर्भेत्यादिके| उत्पलादौ उत्पलरक्तोत्पलेत्यादिके| प्रथमो गणो विदारिगन्धादिः| यथेरितेनेति पूर्वोक्तविधानेन| एतेन लाजादि दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपश्च लभ्यते| ‘यथेरितेन’ इत्यत्र केचित् ‘यथैतदुक्तम्’ इति पठन्ति; तत्रापि स एवार्थः||२५||-

Adhikarana 25 (26) · Śloka 26

... मधूकपुष्पादिषु चापरेषु | राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः ||२६||

🔊 Audio coming soon

क्षतजतृष्णायां षट्पानकान्याह- मधूकपुष्पादिष्वित्यादि| मधूकपुष्पादिषु मधूकशोभाञ्जनकोविदारप्रियङ्गुपुष्पेषु चतुर्षु रक्तपित्तघ्नगणपठितेषु; अन्ये मधूकपुष्पद्राक्षाकाश्मर्यखर्जूरेषु चतुर्षु रक्तपित्तपठितेष्विति वदन्ति| राजादनः चारः, अन्ये क्षीरिकामाहुः| क्षीरिकपीतन आर्द्रशिरीषः, अन्ये क्षीरीति द्रव्यान्तरमिच्छन्ति; तथा सति सप्तद्रव्यत्वेन सङ्ख्यातिरेकः स्यात्| पानकानि कषायाणि| अत्रापि यथेरितेनेति योज्यं; तेन लाजादि दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपश्च गृह्यते| अत्र क्षतजतृष्णायाम्| केचित् ‘ससारिवादौ’ इत्यादिना ‘क्षीरिकपीतनेषु’ इति पर्यन्तेन षट्पानकानि वदन्ति; तन्न, सारिवादेस्तृणपञ्चमूलादीनां विशेषणत्वेनोक्तत्वात् पञ्च पानकानि स्युः| अपरे तु कुशेर्वादिमारभ्य षट्पानकानीच्छन्ति; तदपि न, तस्य पृथग्दर्शितत्वात्||२६||

Adhikarana 26 (27) · Śloka 27

सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि |२७|

🔊 Audio coming soon

क्षतजतृष्णायामपरमपि योगान्तरमाह- सतुण्डिकेराण्यथवेत्यादि| तुण्डिकेरी वनकार्पासी| कार्पाससमुद्भवानि कार्पासफलानि| एतेन वनग्राम्यकार्पासीफलानि पिष्टानि पातव्यानि| कार्तिककुण्डस्तु ‘सर्वासु तृष्णास्वथवा’ इत्यादिकं’ ‘कार्पाससमुद्भवानि’ इत्यन्तं सर्वासु तृष्णासु चिकित्सितं मन्यते|२७|-

Adhikarana 27 (27) · Śloka 27

क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ||२७||

🔊 Audio coming soon

क्षतजतृष्णायामपरमपि चिकित्साविशेषमाह- क्षतोद्भवामित्यादि| रुग्विनिवारणेन क्षतोद्भवरुगपनयनेन| रसानां मांसरसानाम्| असृज इति एणादिशोणितस्येत्यर्थः||२७||

Adhikarana 28 (28) · Śloka 28

क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा |२८|

🔊 Audio coming soon

क्षयजायास्तृष्णायाश्चिकित्सितमाह- क्षयोत्थितां क्षीरघृतमित्यादि| क्षीरघृतं क्षीरमथनोद्भूतं घृतं क्षीरमिश्रितं घृतं वा| मांसोदकं मांसरसस्याच्छो भागः सौरावाख्यः| मधुकोदकं यष्टीमधुकोदकम्| केचिदत्र माषोदकमिति पठित्वा माषयूषमिति व्याख्यानयन्ति|२८|-

Adhikarana 29 (28) · Śloka 29

आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः ||२८|| आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि |२९|

🔊 Audio coming soon

आमजायाश्चिकित्सामाह- आमोद्भवामित्यादि| दीपनीयैः पिप्पल्यादिद्रव्यकृतैः| आम्रातेत्यादि| आम्रातकादियुतानि दीपनानि कषायाणि आमजतृष्णायां पिबेदित्यर्थः||२८||-

Adhikarana 30 (29) · Śloka 29

गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् ||२९||

🔊 Audio coming soon

भक्तजतृष्णाचिकित्सामाह- गुर्वन्नजातामित्यादि| गुर्वन्नजातां तृष्णां वमनैर्जयेदित्यर्थः| किं गुर्वन्नजातामेव वमनैर्जयेदुतान्यामपीत्याह- क्षयादित्यादि| क्षयादृते इति क्षयजां विहाय, सर्वदोषारब्धां तृष्णामपि वमनैर्जयेदिति पिण्डार्थः| क्षयजाऽपि सर्वदोषारब्धा, तस्यां क्षीणधातुत्वाद्वमनं न कार्यमिति द्योतनार्थं क्षयादृते इति कृतम्| सर्वकृताम् आमजामित्यर्थः, तस्या अपि दोषत्रयोत्पन्नत्वात्| अन्ये तु ‘क्षयादृते सर्वकृताश्च तृष्णा’ इति पठन्ति, क्षयजां विहाय अन्याः सर्वा अपि तृष्णा वमनैर्जयेदिति व्याख्यानयन्ति||२९||

Adhikarana 31 (30) · Śloka 30

श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः |३०|

🔊 Audio coming soon

तृष्णाप्रसङ्गेन श्रमादिजातानामपि तृष्णानां प्रतीकारमाह- श्रमोद्भवामित्यादि| मन्थः ‘सक्तवः सर्पिषाऽभ्यक्ता’ इत्याद्युक्तः| यदा श्रमजतृष्णा वातोल्बणा भवति तदा तां मांसरसो निहन्ति, यदा पित्तोल्बणा तदा मन्थ इति तात्पर्यार्थः|३०|-

Adhikarana 32 (30) · Śloka 30

भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ||३०||

🔊 Audio coming soon

भक्तोपरोधादित्यादि| भक्तोपरोधात् आहारनिरोधात्| उष्णां यवागूं वातोत्कटायां, हिमं मन्थं च पित्तोत्कटायां, पिबेदिति पर्यवसितोऽर्थः||३०||

Adhikarana 33 (31) · Śloka 31

या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः |३१|

🔊 Audio coming soon

या स्नेहपीतस्य भवेदित्यादि| यद्यपि ‘स्नेहपीतस्य चेत्तृष्णा पिबेत्’ इत्यादिनैव स्नेहजतृष्णाचिकित्सितं प्रागुक्तं, तथाऽपि प्रकरणान्तरत्वाद्दार्ढ्यार्थं पुनरुक्तम्|३१|-

Adhikarana 34 (31) · Śloka 31

मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ||३१||

🔊 Audio coming soon

मद्योद्भवामर्धजलमित्यादि| यद्यपि मदात्ययप्रस्तावे मद्यजतृष्णाचिकित्सितमुक्तं, तथाऽप्यधिकरणवशात् पुनरुक्तमतो न दोषः||३१||

Adhikarana 35 (32) · Śloka 32

तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः |३२|

🔊 Audio coming soon

तृष्णोद्भवामित्यादि| तृष्णोद्भवामिति हृद्रोगकर्षितस्य पुरुषस्योत्तरकालोत्पन्नामित्यर्थः| सशर्करं सुशीतं पानीयं तथा इक्षुरससहितं च पानीयं तृष्णोद्भवां तृष्णां हन्तीति पिण्डार्थः| कार्तिककुण्डस्तु ‘श्रमोद्भवां मांसरसो निहन्ति’ इत्यारभ्य तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः’ इति यावन्न पठति; अस्माभिस्तु श्रीजेज्जटेन पठितत्वात् पठितः|३२|-

Adhikarana 36 (32) · Śloka 32

स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ||३२||

🔊 Audio coming soon

पूर्वं तृष्णासु वमनान्युक्तानि, तानि च यैर्द्रव्यैः क्रियन्ते तान्याह- स्वैः स्वैरित्यादि| स्वैः स्वैः कषायैः आत्मीयैरात्मीयैः क्वाथैः; एतेनैतदुक्तं- यासु छर्दिषु शमनाय ये कषाया उक्तास्तैरेव वमनानि तासु योज्यानि, तथा ज्वरोक्तानि पाचनानि च कार्याणि||३२||

Adhikarana 37 (33) · Śloka 33

लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि | संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ||३३||

🔊 Audio coming soon

सर्वतृष्णासु पित्तहरो विधिः कार्य इति यत् प्रागुक्तं तमेव पित्तहरविधिमाह- लेपावगाहावित्यादि| संशोधनं विरेचनं, पित्तहरत्वात्||३३||

Adhikarana puShpikA · Śloka 48

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे (दशमोऽध्यायः, आदितः) अष्टचत्वारिंशोऽध्यायः ||४८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे तृष्णाप्रतिषेधो नामाष्टचत्वारिंशत्तमोऽध्यायः||४८||