Adhikarana 1 (1-2) · Śloka 2
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
छर्दिप्रतिषेधानन्तरं तुल्यसङ्ख्यत्वात् कतिपयनिदानसाम्याच्च हिक्काप्रतिषेधं व्याख्यातुं प्रतिजानीते,- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो हिक्काप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
छर्दिप्रतिषेधानन्तरं तुल्यसङ्ख्यत्वात् कतिपयनिदानसाम्याच्च हिक्काप्रतिषेधं व्याख्यातुं प्रतिजानीते,- अथात इत्यादि||१-२||
Adhikarana 2 (3-5) · Śloka 5
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः | शीतपानासनस्थानरजोधूमानिलानलैः ||३|| व्यायामकर्मभाराध्ववेगाघातापतर्पणैः | आमादोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ||४|| विषमाशनाध्यनशनैस्तथा समशनैरपि | हिक्का श्वासश्च कासश्च नृणां समुपजायते ||५||
🔊 Audio coming soon
हिक्काया निदानमाह- विदाहिगुरुविष्टम्भीत्यादि| विदाह्यादिभिर्हिक्कादयस्त्रयो जायन्ते इत्यन्वयः| विदाहीनि मरीचसर्षपमद्यप्रभृतीनि| गुरूणि गुणतः पाकतश्च| विष्टम्भीनि करीरप्रभृतीनि| रूक्षाणि चणकादीनि| अभिष्यन्दीनि अभिमुखेन स्यन्दितुं शीलं येषां तानि, अभिष्यन्दनशीलानि मत्स्यमाषफाणितादीनि| शीतशब्दः पानादिभिस्त्रिभिः सम्बध्यते| रजो धूलिः, सा च धूमवन्नासाप्रवेशात् कारणम्| व्यायामकर्म धनुराकर्षणादिव्यापारः| वेगाघातो वेगधारणम्| अपतर्पणम् अनशनादि| प्रपीडनशब्द आमदोषादिभिः प्रत्येकं सम्बध्यते| अमदोषः “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते”- इत्युक्तलक्षणः| कासश्चोक्तोऽपि एकनिदानप्रतिपादनार्थं पुनरभिहित इति||३-५||
Adhikarana 3 (6) · Śloka 6
मुहुर्मुहुर्वायरुदेति सस्वनो यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन् | स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ||६||
🔊 Audio coming soon
हिक्कानां स्वरूपं निरुक्तिं चाह- मुहुरित्यादि| वायुरत्र सोदानः प्राण इत्याहुः| मुहुर्मुहुरुदेति ऊर्ध्वमेति| सस्वनः शब्दवान्| ऊर्ध्वगतिमेव विशिनष्टि- यकृदित्यादि| अत्र प्लीह्नो ह्रस्वेकारत्वं छन्दोऽनुरोधात्| मुखादिति ल्यब्लोपे पञ्चमी, तेन यकृत्प्लीहान्त्राणि मुखमानीय निःक्षिपन् निःसारयन्नित्यर्थः| मुखादिवेत्यादि मुखशब्देन प्राणोदकान्नवाहीनि स्रोतांसि लभ्यन्ते| उक्तं च,- ‘प्राणोदकान्नवाहीनि स्रोतांसि विकृतोऽनिलः’ इति| स घोषवानित्यादिना हिक्कानिरुक्तिः| यतः स वायुः घोषवान् सन् आशु शीघ्रमसून् प्राणान् हिनस्ति ततो बुधैः ‘हिक्का’ इत्युच्यते| सस्वन इत्यनेन गतत्वाद् घोषवानित्यभिधानं निरुक्तिप्रदर्शनार्थम्| हिक्केति निरुक्तौ पृषोदरादित्वाद्रूपसिद्धिः| हिग् इति कृत्वा कायति शब्दायते इति ‘हिक्का’ इति शाब्दिकाः||६||
Adhikarana 4 (7) · Śloka 7
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा | वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ||७||
🔊 Audio coming soon
तासां भेदं सम्प्राप्तिं चाह- अन्नजामित्यादि| वायुः कफेनानुगतः सन् अन्नजादिभेदेन पञ्च हिक्काः करोति| यमलैव चरके व्यपेतेति नाम्ना पठ्यते, अन्नपाने व्यपेते परिणते जायत इत्यतो हेतोः| ‘कफेनानुगतः प्राणः’ इति वा पाठः| प्राणोऽत्र वायुरिति||७||
Adhikarana 5 (8) · Śloka 8
मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः | पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ||८||
🔊 Audio coming soon
हिक्कानां पूर्वरूपमाह- मुखमित्यादि| मुखं कषायं वातात्, नतु कफान्माधुर्यं, व्याधिप्रभावात्| अरतिः न कुत्रचिदवस्थितिश्चेतसः| केचित् पूर्वरूपं न पठन्ति, कफवातोद्भवस्य गौरवादेरनुमानग्राह्यत्वात्||८||
Adhikarana 6 (9) · Śloka 10
त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम् | वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ||९|| हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् |१०|
🔊 Audio coming soon
अन्नजालक्षणमाह- त्वरमाणस्येत्यादि| अन्नजादीनां साध्यत्वेन प्राशस्त्यात् पूर्वमभिधानम्| आहारं त्वरमाणस्य अथवा धनं गुरुमन्नं भुञ्जानस्य अन्नैरवस्तीर्ण आच्छादितो वायुः तथा कटुकैर्भृशमर्दितो वायुरूर्ध्वगो भूत्वा हिक्कयति हिक्कां करोति, भिषक् ताम् अन्नजां विद्यात् जानीयात्; यद्यप्यन्नजायां वायुः कारणं, तथाऽप्यन्नेन तत्पीडनात्तद्व्यपदेशः||९||-
Adhikarana 7 (10) · Śloka 11
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते ||१०|| कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् |११|
🔊 Audio coming soon
यमलालक्षणमाह- चिरेणेत्यादि| या हिक्का चिरेण यमलैर्वेगैः सम्प्रवर्तते सा यमला, यमलैर्वेगैर्युगपद्वारद्वयं हिक्कते इत्यर्थः | कम्पयन्ती शिरोग्रीवमित्युपलक्षणं; तेन चरकोक्ताः प्रलापवमितृष्णावैचित्त्यजृम्भाविप्लुताक्षत्वमुखशोषाश्च बोद्धव्या इति गयदासः| इयमसाध्याऽपि बलवतः स्थिरधात्विन्द्रियस्य सत्त्ववतश्च सिद्ध्यति||१०||-
Adhikarana 8 (11) · Śloka 12
विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ||११|| क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता |१२|
🔊 Audio coming soon
क्षुद्रालक्षणमाह- विकृष्टकालैरित्यादि| विकृष्टकालैरिति चिरेण वेगैर्जायते| किम्भूता? जत्रुमूलात् प्रधाविता आगता, सा क्षुद्रिकाख्या| जत्रुः कण्ठोरसोः सन्धिरिति जेज्जटः; जत्रु ग्रीवामूलं तद्ग्रहणेन हृदयक्लोमकण्ठानामपि ग्रहणमिति गयदासः||११||-
Adhikarana 9 (12-13) · Śloka 13
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ||१२|| शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी | अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ||१३||
🔊 Audio coming soon
गम्भीरालक्षणमाह- नाभिप्रवृत्तेत्यादि| या हिक्का नाभिप्रवृत्ता नाभितः प्रवृत्तिर्यस्याः सा, अत एव अस्या गम्भीरात्वं; घोरा कष्टसाध्या| शुष्केत्यादि शुष्कशब्द ओष्ठादिभिश्चतुर्भिः सम्बन्धनीयः| तथा अनेकोपद्रववती अनेकोपद्रवैर्ज्वरश्वासतृष्णादिभिर्युक्ता, सा गम्भीरा नाम स्मृता; इयमसाध्या||१२-१३||
Adhikarana 10 (14) · Śloka 14
मर्माण्यापीडयन्तीव सततं या प्रवर्तते | देहमायम्य वेगेन घोषयत्यतितृष्यतः | महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी ||१४||
🔊 Audio coming soon
महाहिक्कालक्षणमाह- मर्माणीत्यादि| मर्माणि बस्तिहृदयशिरांसि; अन्ये नाभिहृदयस्तनमूलान्याहुः| आयम्य विस्तार्य, ‘आयस्य’ इति पाठे स एवार्थः| घोषवती सशब्दा| इयमप्यसाध्या||१४||
Adhikarana 11 (15) · Śloka 15
आयम्यते हिक्काऽतोङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम् | क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ ||१५||
🔊 Audio coming soon
इदानीं साध्यानामपि हिक्कानामवस्थाविशेषेऽसाध्यत्वमाह- आयम्यत इत्यादि| यस्य पुंसो हिक्कतो हिक्कां कुर्वतो देह आयम्यते दीर्घोक्रियत इव; तथैव दृष्टिश्चोर्ध्वं ‘भवति’ इति शेषः, दृष्टिशब्देनात्र दृष्ट्यधिष्ठानं विवक्षितं, नतु दर्शनेन्द्रियशक्तिः| गाढम् अतिशयेन, ताम्यते आकुञ्चते देह इति सम्बन्ध इति जेज्जटगयदासौ; ‘ताम्यते यश्च’ इति पाठान्तरं, ताम्यते मुह्यति हिक्की| क्षीणस्तथा अन्नद्विट् तथा क्षौति क्षुतं करोति| तौ द्वाविति आयम्यत इत्यादिना नित्यमित्यन्तेन एकावस्थो हिक्की, क्षीण इत्यादिना अतिमात्रान्तेनापरः| साध्यानामपि मध्ये एवंविधौ वर्जयेदित्यर्थः; गम्भीरामहत्योः स्वभावादेवासाध्यत्वात्तद्युक्तौ हिक्किनौ, अन्त्यौ अन्तपठितौ, असाध्यौ| पाठान्तराणि व्याख्याविशेषाश्च विस्तरभयान्न लिखिताः||१५||
Adhikarana 12 (16) · Śloka 16
प्राणायामोद्वेजनत्रासनानि सूचीतोदैः सम्भ्रमश्चात्र शस्तः |१६|
🔊 Audio coming soon
इदानीं हिक्कानां चिकित्सितमाह- प्राणायामोद्वेजनेत्यादि| अत्र हिक्कासु, प्राणायामादि शस्तमिति सम्बन्धः| प्राणायामो वायोर्निरोधः| यद्यपि रेचकपूरककुम्भकभेदात् प्राणायामस्त्रिविधः, तथाऽप्यूर्ध्वगतिनिरोधात् कुम्भक एवात्र| त्रासनमल्पसत्त्वस्य भयोत्पादकैर्वाक्यैः| उद्वेजनं परुषवचनैः| सूचीतोदैः सम्भ्रमः सूचीव्यथाभिर्मनस आकुलीकरणम्| एतच्च प्रायः क्षुद्रायामन्नजायां च योजनीयम्|१६|-
Adhikarana 13 (16) · Śloka 16
यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः ||१६||
🔊 Audio coming soon
नस्यमाह- यष्ट्याह्वं वेत्यादि| वाशब्दोऽत्र भिन्नक्रमे| यष्ट्याह्वं यष्टीमधु, माक्षिकेण मधुना, अवपीडे शस्तं; पिप्पल्यो वा शर्कराचूर्णयुक्ता अवपीडे शस्ता इति योजनीयम्||१६||
Adhikarana 14 (17) · Śloka 17
सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः |१७|
🔊 Audio coming soon
सर्पिरित्यादि| सर्पिःप्रभृतिकं पानं हितम्| छर्दनं वमनम्| ‘शान्तिहेतोः’ इत्यत्रान्ये ‘स्रंसनं च’ इति पठित्वा विरेचनं चेति व्याख्यानयन्ति; तं च नेच्छन्ति श्रीजेज्जटाचार्याः, समतन्त्रेष्वपि हिक्कासु विरेचनस्यानुक्तत्वात्|१७|-
Adhikarana 15 (17) · Śloka 18
नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा ||१७|| चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः |१८|
🔊 Audio coming soon
नस्यत्रयमाह- नारीपय इत्यादि| नारीपयःपिष्टमशुक्लचन्दनं रक्तचन्दनं नस्यतो नस्यात् हितमित्येको योगः| अशुक्लचन्दनं सुखोष्णं घृतं चेति द्वितीयः| सुखोष्णम् ईषदुष्णम्| अथवाऽम्भसा चूर्णीकृतं सैन्धवं चेति तृतीयः| एतानि त्रीणि नस्यानि दोषाद्यपेक्षया योज्यानि||१७||-
Adhikarana 16 (18) · Śloka 19
युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा ||१८|| सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम् |१९|
🔊 Audio coming soon
नस्यानन्तरं लीनदोषनिर्हरणार्थं धूमानाह- युञ्ज्यादित्यादि| शालनिर्यासः सर्जरसः| नैपालं मनःशिलाजातं धूमम्| गोविषाणोद्भवं गोशृङ्गोद्भवधूमं, चर्मबालैर्गोरेव| स्वेदनमाह- हिक्केत्यादि| हिक्कास्थाने कण्ठस्तनान्तरे| केचिच्चर्मबालैः स्वेदनमिच्छन्ति||१८||-
Adhikarana 17 (19-20) · Śloka 21
क्षौद्रोपेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा ||१९|| तद्वच्छ्वाविन्मेषगोशल्य(ल्ल)कानां रोमाण्यन्तर्धूमदग्धानि चात्र | मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा ||२०|| स्वर्जिक्षारं बीजपूराद्रसेन क्षौद्रोपेतं हन्ति लीढ्वाऽऽशु हिक्काम् |२१|
🔊 Audio coming soon
लेहानाह- क्षौद्रोपेतमित्यादि| काञ्चनाह्वं गैरिकं सुवर्णगैरिकं दाक्षिणात्यप्रसिद्धं क्षौद्रोपेतं लिह्यादित्यर्थः| ग्राम्यसत्त्वा गवादयस्तेषामस्थिजं भस्म क्षौद्रोपेतं लिह्यात्| तद्वदिति क्षौद्रोपेतं श्वाविधादीनां रोमजं भस्म लिह्यात्| श्वावित् सेढिका, तस्याः सूचय एव लोमानि| अन्तर्धूमदग्धानीति एतेषां रोमाणि घटमध्ये निक्षिप्य मुखं पिधाय दग्धानीत्यर्थः| अत्र हिक्कासु| ‘अत्र’ इत्यत्र ‘आर्त’ इति केचित् पठन्ति| किमेतावदेव लीढ्वा हिक्कां हन्त्युतान्यदपीत्याह- मध्वित्यादि| बर्हिपत्रप्रसूतं मयूरपिच्छचन्द्रिकोत्पन्नं भस्म मधुघृतोपेतं, एवं पूर्वोक्तगुणम्| मधुघृते अत्र न तुल्यभागे; उक्तं च,- “भजतो विषरूपत्वं तुल्यांशे मधुसर्पिषी”- इति| औदुम्बरं तैल्वकं वा भस्म एवं मयूरपत्रवन्मधुघृतोपेतं हिक्काघ्नम्| स्वर्जिक्षारमित्यादि| यस्मात् हिक्का श्लेष्मावरुद्धमार्गवातजा तस्मान्मार्गविशुद्ध्यर्थमेते लेहा देयाः||१९-२०||-
Adhikarana 18 (21) · Śloka 21
सर्पिःस्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः ||२१||
🔊 Audio coming soon
इदानीमाहाराश्रितं हिक्कानामौषधामाह - सर्पिरित्यादि| कोष्णग्रासाः सुखोष्णकवलाः| पायसमाह- पायसो वा सुखोष्ण इति हन्तीत्यनुवर्तते||२१||
Adhikarana 19 (22) · Śloka 22
शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा | आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः ||२२||
🔊 Audio coming soon
क्षीरमाह- शुण्ठीतोये साधितमित्यादि| शुण्ठीतोये क्षीराच्चतुर्गुणे साधितमजादुग्धं पीतं तद्वत् हिक्काहरं भवति; शर्करासंयुतं वा साधितं दुग्धमातृप्तेः सेव्यमानं हिक्कां निहन्यादित्यर्थः||२२||
Adhikarana 20 (23) · Śloka 23
सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत् |२३|
🔊 Audio coming soon
घ्रेयप्रसङ्गेन घ्रेययोगमाह- सपूतिकीटमित्यादि| लशुनादिकमब्जान्तमाचूर्ण्य तच्चूर्ण सपूतिकीटं पूतिकीटचूर्णसहितं, पूतिकीटो ‘भोन्दुलिका’ इति लोके, सुभावितमजाव्योरेव मूत्रेण बहून् वारान् भावितं, घ्रातं हिक्कां निहन्यादित्यर्थः|२३|-
Adhikarana 21 (23) · Śloka 23
क्षौद्रं सितां वारणकेशरं च पिबेद्रसेनेक्षुमधूकजेन ||२३||
🔊 Audio coming soon
हिक्काघ्नं पानमाह- क्षौद्रमित्यादि| वारणकेशरं नागकेशरं, क्षौद्रादिकमिक्षुमधूकजेन रसेन पिबेदिति सम्बन्धः; अत्र मधुनो द्रवत्वाच्चूर्णाभावः, तेन मधुनः प्रक्षेपः| मधुमात्रा तु “षोडशाष्टचतुर्भागं वातपित्तकफार्तिषु| क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा” इति इक्षुरसमधूकस्वरसौ तु लेहाच्चतुर्गुणौ| उक्तं च- “कर्षश्चूर्णस्य कल्कस्य गुटिकानां तु सर्वशः| द्रवशुक्त्याऽवलेढव्यः पातव्यश्च चतुर्गुणे”||२३||
Adhikarana 22 (24) · Śloka 24
पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम् |२४|
🔊 Audio coming soon
योगान्तरमाह- पिबेत् पलमित्यादि| लवणोत्तमस्य सैन्धवस्य| समग्रमिति इयमुत्तममात्रेति बोधार्थं, तेन हीनबलादिकमवेक्ष्य हीनमात्रमपि पिबेदित्यर्थः|२४|-
Adhikarana 23 (24-25) · Śloka 25
हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् ||२४|| रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय ||२५||
🔊 Audio coming soon
हरीतक्यादियोगत्रयमाह- हरीतकीमित्यादि| घृतं कोष्णं कृत्वा क्षीरमधुभ्यामुपपन्नं युक्तं पिबेत्| शुक्तिप्रमाणमिति अर्धपल प्रमाणम्| प्रसृतप्रमाणमित्यर्थः| अर्धपलमितं मधु, पिप्पलीप्रमाणं कर्षमात्रम्| कपित्थाद्रसं स्वरसं, सुखाय आरोग्याय पिबेत्| हरीतकीमित्याद्येको योगः, पिबेद्घृतमित्यादिर्द्वितीयः, रसं कपित्थादित्यादिस्तृतीयः||२४-२५||
Adhikarana 24 (26) · Śloka 26
कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि | कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् ||२६||
🔊 Audio coming soon
कृष्णादियोगमाह- कृष्णां सितामित्यादि| अथवेति पूर्वयोगापेक्षया परयोगापेक्षया वा| कृष्णां पिप्पलीं, सितां शर्करां, शृङ्गवेरं शुण्ठीं; कृष्णां सितां च मधुना लिह्यादित्येको योगः, सशृङ्गवेरमामलकं मधुनेति द्वितीयः| कार्तिककुण्डस्तु कृष्णा मित्यादिकमेकमेव योगमिच्छति, विकल्पं तु पूर्वयोगापेक्षया| कोलमज्जादियोगमाह- कोलास्थिमज्जेत्यादि| कोलास्थिमज्जा बदरास्थिजातं बीजं, अञ्जनं सौवीराञ्जनं, लाजाः पुष्पितं धान्यम्| मधु चूर्णाद्द्विगुणितं पातव्यम्||२६||
Adhikarana 25 (27-28) · Śloka 28
पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी | खर्जूरमध्यं मागध्यः काशीशं दधिनाम च ||२७|| चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः | मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता ||२८||
🔊 Audio coming soon
पाटलादिकयोगचतुष्टयमाह- पाटलायाः फलं पुष्पमित्यादि| एते चत्वारो योगाः प्रतिपादं पादिका योगाः, प्रदर्शिता उक्ताः| पाटल्याः सफलं पुष्पं क्षौद्रेणेत्येको योगः| गैरिकं स्वर्णगैरिकं, कटुरोहिणी तिक्ता, क्षौद्रेणेति द्वितीयो योगः| खर्जूरमध्यं मागध्यो मधुयुक्ता इति तृतीयो योगः; खर्जूरमध्यं खर्जूरमस्तकमज्जा, अन्ये खर्जूरास्थीन्याहुः| काशीशं स्वनामख्यातं दधिनाम कपित्थं, मधुनेति चतुर्थो योगः; ‘काशीशं दधि ना सह’ इति केचित् पठन्ति; काशीशं दधि च ना पुरुषः लिह्यादिति व्याख्यानयन्ति||२७-२८||
Adhikarana 26 (29) · Śloka 29
कपोतपारावतलावश(ल्ल)कश्वदंष्ट्रगोधावृषदंशजान् रसान् | पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् ||२९||
🔊 Audio coming soon
रसानाह- कपोतपारावतलावेत्यादि| कपोतादिपक्षिणां रसान् मांसरसान्, फलाम्लान् दाडिमादिसंस्कृतान् , अहिमान् उष्णान्, सैन्धवयुक्तान् स्निग्धान् घृताढ्यान् पिबेत्| वृषदंशो वनमार्जारः, गोधा पञ्चनखा| तथैव ऋष्यादिजान् रसान् पिबेत्| मृगद्विजा जङ्घालविष्किराः| ऋष्यलावकयोः पृथगुपादानं विशेषेण तयोर्हिक्काहरत्वप्रतिपादनार्थम्||२९||
Adhikarana 27 (30) · Śloka 30
विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम् | सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ||३०||
🔊 Audio coming soon
विस्तरोक्तां चिकित्सां सङ्क्षेपेणाह- विरेचनं पथ्यतममित्यादि| विरेचनं वायोरनुलोमार्थं बलवत आतुरस्य योज्यम्| सदागतौ वायौ| परमतमप्यनुमतमनिषेधात्| यद्यपि हिक्कासु बस्तिर्निषिद्धः, तथाऽप्यूर्ध्वगते वायौ प्रयुज्यते, अवस्थावशात्| यद्यप्येते योगाः सामान्येनोक्ताः, तथाऽपि दोषोच्छ्रायमवेक्ष्य यथावस्थं प्रयोज्याः||३०||
Adhikarana puShpikA · Śloka 50
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम (द्वादशोऽध्यायः, आदितः) पञ्चाशत्तमोऽध्यायः ||५०||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायामुत्तरतन्त्रे हिक्काप्रतिषेधो नाम पञ्चाशत्तमोऽध्यायः||५०||