Adhikarana 1 (1-2) · Śloka 2
अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
छेद्यरोगप्रतिषेधानन्तरं पक्ष्मकोपे च्छेद्यकर्मसमवायात् पक्ष्मगतरोगप्रतिषेधारम्भो युक्तोऽत आह- अथात इत्यादि| पक्ष्म वर्त्मगतरोममालिका; केचित् पक्ष्मशब्देन पक्ष्माश्रयं वर्त्म कथयन्ति||१-२||
Adhikarana 2 (3-6) · Śloka 6
याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात् |
तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव ||३||
भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत् |
कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य ||४||
उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्येद्भिषगप्रमत्तः |
दत्त्वा च सर्पिर्मधुनाऽवशेषं कुर्याद्विधानं विहितं व्रणे यत् ||५||
ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा |
स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य ||६||
पक्ष्मकोपे शस्त्रमग्निः क्षारो भेषजमिति चतुर्विधं कर्म; तत्रादौ शस्त्रकर्म निर्दिशन्नाह- याप्य इत्यादि| पुरस्तात् वर्त्मरोगविज्ञानीये| तत्र पक्ष्मप्रकोपे| स्निग्धदेहस्योपविष्टस्य नरस्य, भ्रुवोरधस्ताद्द्वौ भागौ, तत्र पक्ष्माश्रितमेकं भागं विमुच्य कनीनकापाङ्गयोः समं प्रदेशमनुलक्षीकृत्य, समन्तात् सर्वतः न तु क्वचिदेव, एतेनोपपक्ष्ममालाप्रमाणेन वर्त्मोपरिष्टाद्यवाकृति चर्म तिर्यक् शस्त्रेण निकृन्तेत्, चर्म निकृत्य तदश्वादीनां बालेन सीव्येत्| ततः सन्धानार्थं मधु घृतं च दत्त्वा, प्राक्स्यूतं यत्तत् अपरं यत् स्यूत्वोद्धृतं तत् एतद्बालाञ्चलद्वयेन ललाटे पट्टं बद्ध्वा व्रणोक्तं विधिं कुर्यादिति पिण्डार्थः| स्थैर्यं गते कठिनीभूते संरूढे इत्यर्थः| शस्त्रमार्गे व्रणे, बालान् सेवनबालान्, विमुञ्चेत् स्यूतरन्ध्रात् क्रमेणापकर्षेदित्यर्थः| केचित् ‘विमुञ्चेत्’ इत्यत्र ‘प्रकल्पयेत्’ इति पठन्ति, प्रकल्पयेत् कर्तर्या च्छिन्द्यादिति च व्याख्यानयन्ति||३-६||
Adhikarana 3 (7) · Śloka 7
एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलिं च |
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः ||७||
एवमप्यशाम्यति पक्ष्मकोपे उपपक्ष्ममालापरपर्याये कर्मान्तरमाह- एवमित्यादि| निर्भुज्य उत्तानीकृत्वेत्यर्थः| अवेक्ष्य ‘शास्त्रम्’ इति शेषः||७||
Adhikarana 4 (8) · Śloka 8
छित्वा समं वाऽप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु |
पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक् ||८||
क्षाराग्निभ्यामप्यप्रशाम्यन्त्यामुपपक्ष्ममालायां विध्यन्तरमाह- छित्त्वा सममित्यादि| छित्त्वा द्विधा भावं नीत्वा, उत्पाट्येत्यर्थः| समम् एककालम्| उपपक्ष्ममालां ‘दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च’ इत्याद्युक्तलक्षणाम्| पथ्याफलेन जलघृष्टेन प्रतिसारयेत्| केचित् ‘पिष्टेन’ इति पठन्ति||८||
Adhikarana 5 (9) · Śloka 9
चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः |
विरेचनाश्च्योतनधूमनस्यलेपाञ्जनस्नेहरसक्रियाश्च ||९||
उक्तमेवोपसंहरन्नाह- चत्वार इत्यादि| चत्वार एत इति शस्त्राग्निक्षारभेषजानि| पक्ष्मोपरोधं पक्ष्मप्रकोपम्| विहन्तुं विघट्टयितुं न पुनः सर्वथा शमयितुं, तस्य याप्यत्वात्| तथाऽभिष्यन्दोक्ता विरेचनादयो यथावस्थमुपयुक्ताः पृथगेव पक्ष्मोपरोधं विहन्तुं समर्थाः| रसक्रियाश्चेत्यत्र चकारादुपपक्ष्मोत्पाटनम्||९||
Adhikarana puShpikA · Śloka 16
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे पक्ष्मगतरोगप्रतिषेधो नाम षोडशोऽध्यायः ||१६||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे षोडशोऽध्यायः||१६||