Adhikarana 1 (1-2) · Śloka 2
अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तन्त्रयुत्तयनन्तरं परिशिष्टत्वाद्दोषभेदाध्यायारम्भः- अथात इत्यादि| अथेत्यादिकं पूर्ववह्याख्येयम्| धातून् दूषयन्तीति दोषा वातादयः, तेषां भेदः पृथक्संसर्गसन्निपातभेदेन, तस्य विकल्पनमेकैकद्यनुगमनेन नानात्वकरणं प्रपञ्चनं दोषभेदविकल्पः, तमधिकृत्य कृतः, तम्||१-२||
Adhikarana 2 (3) · Śloka 4
अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम् |
छिन्नशस्त्रार्थसन्देहं सूक्ष्मागाधागमोदधिम् ||३||
विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति |४|
अष्टाङ्गेत्यादि| अष्टाङ्गानि शल्यादीनि वाजीकरणान्तानि, तान्येव वेद आयुर्वेदः, तेन तत्र वा विद्वान् यस्तम्| महौजसं महाप्रभावम्| सूक्ष्मा लीनार्थाः , अगाधा दुरवगाहा ये आगमा एवोदधयस्ते सन्त्यस्मिन्निति| श्रीमानिति राजश्रिया ब्राह्वया वा अलङ्कृतः| ननु, विश्वामित्रो गाधिराजः, तत्सुतत्वेन राजश्रिया योगो युक्तः, कथं ब्राह्म्या श्रियेति? सत्यं, विश्वामित्रस्य ब्राह्मण्यं तपसा, ततो ब्राह्म्या श्रिया योगो युक्त एव| अन्ये तु क्षत्रियाणां ब्रह्मर्षिजातत्वेनोभययोग इति मन्यन्ते, अपरे तु विद्यासमाप्त्या ब्राह्मया श्रिया योग इति मन्यन्ते| तथा चोक्तम्- “विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा| ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः”- इति||३||-
Adhikarana 3 (4) · Śloka 5
द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ||४||
कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः |५|
द्विषष्टिरित्यादि| पुरस्तात्परिकीर्तिताः इति रसभेदविकल्पे| कुतो द्विषष्टिर्दोषभेदास्त्रिषष्टी रसभेदा इति? उच्यते- ‘द्विषष्टिर्दोषभेदाः स्यू रसभेदास्त्रिषष्टिधा| स्वास्थ्यं त्रिषष्टं विज्ञेयं तत्र षड्रसयोजनम्’- इति| कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिश इत्याह- ‘एकशः षट् द्विशस्त्वेकविंशतिश्चतुरन्विता| त्रिशो द्वात्रिंशदित्येवं त्रयो दोषास्त्रिषष्टिधा’- इत||४||-
Adhikarana 4 (5) · Śloka 6
तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ||५||
प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः |६|
शिष्यप्रश्नमाकर्ण्य गुरुराह- तस्येत्यादि| तस्येति सुश्रुतस्य| तत् इति पूर्वोक्तम्| संशयच्छिदिति सन्देहच्छेत्ता| प्रीतात्मा तृप्तान्तःकरणः| नृपशार्दूलो राजसत्तमः| तत्त्वत इति यथार्थभावेन||५||-
Adhikarana 5 (6) · Śloka 7
त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ||६||
देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः |७|
किमाह भगवानित्याह- त्रय इत्यादि| त्रयो दोषा वातादयः, धातवः सप्त रसादयः| अव्यापन्ना अविकृतिङ्गताः| रसैर्हितैरिति मधुरादिरसैः पथ्यैरित्यर्थः| ननु, यथाप्रश्नं प्रत्युत्तरे वाच्ये किमर्थं कति तत्रैकश इत्यादिप्रश्नस्योत्तरार्थे त्रयो दोषा इत्याद्यभिधानम्? उच्यते- धातूनां मलानां च दोषसंसर्गे दोषव्यपदेश इत्यादिप्रतिपादनार्थं; अत एवासृजा सह पुरा पञ्चदश प्रसरा अभिहिताः| यद्येवं तर्हि मांसादिभिः सह प्रसरः कुतो न कीर्तितः? उच्यते- असङ्ख्येयत्वात्| अथ कथं तदधिगन्तव्यमिति चेत्, दोषलिङ्गेनैव| तथा चात्र वक्ष्यति- तस्मात् प्रसङ्गं संयम्येत्यादि| ननु, दोषधातुमलमूलं हि शरीरमित्यनेनैव दोषादिकार्यत्वमभिहितं; न च शरीराद्देहो भिन्नार्थः, तयोः पर्यायशब्दत्वात्; तत्कथं पुनरुच्यते- एते देहं धारयन्तीति? उच्यते- देहशब्देनात्र कर्मपुरुषस्य चिकित्साधिकृतस्य विवक्षितत्वात्||६||-
Adhikarana 6 (7-8) · Śloka 9
पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ||७||
रोगाणां तु सहस्रं यच्छतं विंशतिरेव च |
शतं च पञ्च द्रव्याणां त्रिसप्तत्यधिकोत्तरम् ||८||
व्यासतः कीर्तितं तद्धि... |९|
कीदृशः पुनरयं देहशब्दाभिघेयः कर्मपुरुष इति पूर्वप्रतिपादितस्यैव कर्मपुरुषस्य स्वरूपं वाच्यं, तत्प्रसङ्गेनापरमपि प्राणादिकं यत्तत्प्रतिपादयितुं सुखस्मरणार्थं प्रतिपादयति- पुरुष इत्यादि| अत्रैके कलाशब्देन पञ्चभूतानि एकादशेन्द्रियाणीति षोडशविकारा इति व्याचक्षते, परमेतन्नायुर्वेदे प्रमाणीकृतम्| अन्ये तु कलाशब्दमङ्गप्रत्यङ्गेष्वामनन्ति- शिरोग्रीवापाणिपादपार्श्वपृष्ठोदरांसीत्यष्टाङ्गानि, चिबुकनासौष्ठवङ्क्षणाङ्गुष्ठाङ्गुलिपार्ष्णिगुल्फाः प्रत्यङ्गानीति| स्वतन्त्रपरतन्त्राभिप्रायानुवर्तिभिराचार्यैः कलाशब्दो गुणवाची पठितः| ते च सर्वभूतचिन्ताशारीरोक्तसुखदुःखेच्छोद्वेगप्रयत्नादीन् षोडशगुणानाचक्षते | चतुष्पादं षोडशकलं भेषजं चरकाचार्येणोक्तं; तत्र षोडशकलं षोडशगुणमिति व्याख्यानयन्ति| प्राणाश्चैकादशेति अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः| योऽसौ भूतात्मा स एव षोडशकलः, संयोगिन एव प्राणव्यपदेशभाजः, इत्येकादशत्वम्| रोगाणां तु सहस्रं यच्छतं विंशतिरेव चेति विशत्यधिकैकादशशतानि रोगाणाम्| अत्र सौश्रुते तन्त्रे षट्स्थानेषु प्रोक्ता रोगाः श्लोकैरभिधीयन्ते|- ‘हीनातिदग्धैः क्षारेण, त्रयः प्लुष्टादयोऽग्निना| चतुर्थो धूमविहतः पञ्च शोणितदुष्टयः||१|| दोषधातुमलादीनां द्वात्रिंशत् क्षयवृद्धितः| द्वे स्थौल्यकार्श्ये त्रिविधो विस्रंसाद्यो बलक्षयः||२|| षट् शोफाः षड् व्रणा वह्नित्रितयं विषमादिकम्| आमं विदग्धं विष्टब्धमजीर्णं च तथा त्रिधा||३|| इति षट्षष्टिरातङ्काः सूत्रस्थाने निदर्शिताः| आमपक्वाशये श्रोत्रे तथेन्द्रियचतुष्टये||४|| त्वगामिषसिरास्नायुसन्ध्यस्थिमज्जसम्भवाः | शुक्रे चैकाङ्गसर्वाङ्गगताः सप्ताधिका दश||५|| त्रयोदशावृतैरन्यैर्दोषैः स्युर्मारुतैः खलु| चतुर्विधं वातरक्तमाक्षेपश्चापतानकः| पक्षाघातोऽपतन्त्रश्च मन्यास्तम्भोऽर्दितस्तथा||६|| गृध्रसी सह विश्वाच्या शिरः क्रोष्टुकपूर्वकम्| खञ्जः पङ्गुः कलायाख्यः कण्टकः पाददाहकृत्||७|| पादहर्षोऽवबाहुश्च मूकमिन्मिणगद्गदाः| तून्याध्मानद्वयेऽष्ठीलाद्वयमर्शांसि षट् तथा||८|| चर्मकीलश्चतस्रश्चाश्मर्यः पञ्च भगन्दराः| तथाऽष्टादश कुष्ठानि किलासानि पुनस्त्रिधा||९|| प्रमेहा विसंहतिः प्रोक्ताः पिडिका नव तत्कृताः| उदराणि तथाऽष्टौ च मूढगर्भस्तथाऽष्टधा||१०|| बाह्या विद्रधयः षट् स्युस्तथाऽन्तःस्थाः स्मृता दश| विसर्पनाडीस्तनजास्तथैव पञ्च पञ्च च||११|| ग्रन्थयः सप्त चैका स्यादपची सप्तधाऽर्बुदम्| गलगण्डास्त्रयः सप्त वृद्धयः परिकीर्तिताः||१२|| उपदंशा मताः पञ्च श्लीपदं च तथा त्रिधा| भग्ना अष्टादश ज्ञेयाः शूकदोषास्तथैव च| चत्वारिंशत्तथाऽष्टौ च क्षुद्ररोगाः प्रकीर्तिताः||१३|| अष्टावोष्ठभवा दन्तमूलेषु दश पञ्च च||१४|| अष्टौ दन्तेषु जिह्वायां पञ्च तालुगता नव| कण्ठे चाष्टादश ज्ञेयाश्चतुःसर्वसरा गदाः||१५|| एवं मुखे सप्तषष्टिरिति स्थाने द्वितीयके| द्वाचत्वारिंशदधिका त्रिशती परिकीर्तिता||१६|| अष्टौ शुक्रगता रोगा अष्टावार्तवदुष्टयः| चत्वारोऽसृग्दराः प्रोक्ता अपातस्त्वपराकृतः||१७|| मक्कल्ललीनशोषाश्च नैगमेशाहृतस्तथा| नागोदरः स्रुतिर्गर्भे शारीरे सप्तविंशतिः||१८|| अथ मेदोनिलावेगाच्छ्वयथुः सरुजश्च यः| आढ्यवातः सर्वसराः शोफाः पञ्च प्रकीर्तिताः| कर्णपाल्यामयाः पञ्च क्लैब्यमुक्तं चतुर्विधम् ||१९|| वान्तरेचितयोः प्रोक्ता व्यापदो दश पञ्च च| षण्नेत्रप्रणिधानस्य नेत्रस्यैकादशैव तु||२०|| पञ्च बस्तिकृतास्तत्र चत्वारः पीडने कृताः| एकादश द्रव्यकृताः सप्त शय्याकृतास्तथा||२१|| चत्वारिंशच्चतस्रश्च वैद्यतो व्यापदस्तथा| क्रोधायासादिकाः पञ्च दश चातुरहेतुकाः||२२|| स्नेहस्य कारणान्यष्टावप्रत्यागमकृन्ति च| इति नेत्रादिदोषेण षष्टिः सप्त समासतः||२३|| एवं चिकित्सितस्थाने रुजोऽष्टानवतिस्तथा| अन्नादिरक्षाविज्ञाने विंशतिर्विषहेतुकाः||२४|| वेगाः स्युः स्थावरे दर्वीकरमण्डलिनां विषे| राजिलवैकरञ्जानां प्रत्येकं सप्त सप्त च||२५|| मूषिकास्तु दशाष्टौ च सप्त वेगा अलर्कजाः| सप्तषष्टिशतं चात्र कीटानां विषदायिनाम् ||२६|| सप्तचत्वारिंशद्युतं कल्पस्थाने शतद्वयम्| नव सन्ध्याश्रयाः प्रोक्ता वर्त्मजाश्चैकविंशतिः||२७|| शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः| सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु||२८|| बाह्यजौ द्वौ नेत्ररोगाविति षट्सप्ततिः स्मृताः| कुकूणकः शिशोरेव कर्णेऽष्टाविंशतिर्नृणाम्||२९|| एकत्रिंशद्घ्राणगताः सप्रतिश्यायपञ्चकाः| एकादश शिरोरोगाः परं शालाक्यसञ्ज्ञिते||३०|| आतङ्कानां शतं प्रोक्तं षट्चत्वारिंशता युतम्| नव बालग्रहा योनिव्यापदो विंशतिः स्त्रियाः||३१|| एवं कुमारतन्त्रेऽस्मिन्नेकोनत्रिंशदामयाः| अष्टौ ज्वरा ह्यतीसाराः षट् चतस्रः प्रवाहिकाः||३२|| चत्वारो ग्रहणीदोषा यक्ष्मैको गुल्मपञ्चकम्| हृद्रोगाः पञ्च चत्वारः पाण्ड्वाख्याः कामलाद्वयम्||३३|| हलीमकः पानकी च रक्तपितं चतुर्विधम्| षट्प्रकारा मता मूर्च्छा विकाराः सप्त मद्यजाः||३४|| दाहाः पञ्च तृषः सप्त छर्दयः पञ्च देहिनाम्| हिक्काः श्वासास्तथा कासाः प्रत्येकं पञ्च पञ्च च||३५|| स्वरभेदास्तथा षट् स्युर्विशतिः कृमिजातयः| नवोदावर्तका दृष्टा विसूच्यस्तिस्र एव च||३६|| आनाहौ द्वावामविट्कौ तथाऽरोचकपञ्चकम्| मूत्राघाता द्वादश स्युरिति कायचिकित्सिते||३७|| आमयानां शतं प्रोक्तं चत्वारिंशच्च सप्त च| देवता-दैत्य-गन्धर्व-यक्ष-पित्र-हि-रक्षसाम्||३८|| पिशचस्याभिषङ्गेण गदाश्चाष्टौ प्रकीर्तिताः| अपस्माराश्च चत्वार उन्मादाः षडुदीरिताः||३९|| अष्टादशगदा भूतविद्यायां सूक्ष्मदर्शिभिः| एवं हि सौश्रुते तन्त्रे काशीराजेन कीर्तिताः||४०|| रोगाणां तु सहस्रं यच्छतं विंशतिरेव च| व्यासतो विस्तरतः| हिशब्दो हेत्वर्थे, यस्मात् कारणात्||७-८||-
Adhikarana 7 (9) · Śloka 9
... भिन्ना दोषास्त्रयो गुणाः |
द्विषष्टिधा भवन्त्येते भूयिष्ठमिति निश्चयः ||९||
भिन्ना इत्यादि| भिन्ना भेदङ्गता द्विषष्टिधा भवन्तीत्यर्थः| त्रयो दोषा वातपित्तश्लेष्माणः| गुणा गुणमयाः सत्त्वरजस्तमोमयाः| तद्यथा- रजोभूयिष्ठो मारुतः, रजो हि प्रवर्तकं सर्वभावानां; पित्तं सत्त्वोत्कटं, लघुप्रकाशकत्वात्, रजोयुक्तं वेत्येके; कफः तमोबहुलः, गुरुप्रावरणात्मकत्वादित्याहुर्भिषजः| यद्येवं तत् कथं कफप्रकृतिके पुंसि सत्त्वगुणोपपन्नता पठिता? उच्यते- गुणाद्वितयमपि कफे ज्ञातव्यं, ‘सत्त्वतमोबहुला आपः’ इत्युक्तत्वात्||९||
Adhikarana 8 (10-11) · Śloka 12
त्रय एव पृथक् दोषा द्विशो नव समाधिकैः |
त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः ||१०||
पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः |
क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ||११||
द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा |१२|
कथमेते द्विषष्टिधा भवन्तीत्याह- त्रय एवेत्यादि| तत्र पृथक् प्रत्येकं, दोषा वातपित्तश्लेष्माणस्त्रय एव, इतरौ च द्वौ स्वस्थाविति ज्ञेयौ| वृद्धो वातः स्वस्थौ पित्तश्लेष्माणौ (१), वृद्धं पित्तं स्वस्थौ वातश्लेष्माणौ (२), वृद्धः श्लेष्मा स्वस्थे वातपित्ते (३), इति| द्विशो नव समाधिकैरिति तत्र समवृद्धाभ्यां द्वाभ्यां दोषाभ्यां त्रयः संसर्गा भवन्ति; यथा - वातपित्ते समे वृद्धे स्वस्थः श्लेष्मा (१), वातश्लेष्माणौ समौ वृद्धौ स्वस्थं पित्तं (२), पित्तश्लेष्माणौ समौ वृद्धौ स्वस्थो वातः (३), इति| अन्यतराधिकवृद्धाभ्यां षट् ; तद्यथा- वातपित्तयोर्वृद्धयोर्वातोऽधिको वृद्धः स्वस्थः श्लेष्मा (१), वातपित्तयोर्वृद्धयोः पित्तमधिकवृद्धं स्वस्थः श्लेष्मा (२), वातश्लेष्मणोर्वृद्धयोर्वातोऽधिकवृद्धः स्वस्थं पित्तं (३), वातश्लेष्मणोर्वृद्धयोः श्लेष्माऽधिकवृद्धः स्वस्थं पित्तं (४), पित्तश्लेष्मणोर्वृद्धयोः पित्तमधिकं वृद्धं स्वस्थो वातः (५), पित्तश्लेष्मणोर्वृद्धयोः श्लेष्मा अधिकवृद्धः स्वस्थो वातः (६)| त्रिशस्तु वृद्धैस्त्रयोदश; तत्र त्रिभिरधिकैरेकः अधिकैकदोषास्त्रयः, अधिकद्विदोषास्त्रयः, सममध्योल्बणदोषाः षट्| तद्यथा- वातपित्तश्लेष्मणां वृद्धानां वातोऽधिकवृद्धः (१), वातपित्तश्लेष्मणां वृद्धानां पित्तमधिकवृद्धं (२), वातपित्तश्लेष्मणां वृद्धानां श्लेष्माऽधिकवृद्धः (३)| अथाधिकद्विवृद्धदोषाः; तद्यथा- वातपित्तश्लेष्मणां वृद्धानां वातपित्ते अधिकवृद्धे (१), वातपित्तश्लेष्माणां वृद्धानां वातश्लेष्माणौ अधिकवृद्धौ (२), वातपित्तश्लेष्मणां वृद्धानां पित्तश्लेष्माणावधिकवृद्धौ (३)| क्षीणो वातः स्वस्थौ पित्तश्लेष्माणौ (१), क्षीणं पित्तं स्वस्थौ वातश्लेष्माणौ (२), क्षीणः श्लेष्मा स्वस्थे वातपिते (३), एवं पृथक् त्रय एव| अथ हीनमध्योल्बणवृद्धाः षडुच्यन्ते, तत्र समः समवृद्धो हीनवृद्ध इत्यर्थः; तद्यथा- हीनवृद्धो वातः, मध्यवृद्धं पित्तं, अधिकवृद्धः श्लेष्मा (१); हीनवृद्धो वातः, मध्यवृद्धः श्लेष्मा, अधिकवृद्धं पित्तं (२); हीनवृद्धं पित्तं, अधिकवृद्धो वातः, मध्यवृद्धः श्लेष्मा (३), मध्यवृद्धो वातः, हीनवृद्धं पित्तं, अधिकवृद्धोः श्लेष्मा (४); हीनवृद्धः श्लेष्मा, अधिकवृद्धं पित्तं, मध्यवृद्धो वातः (५); अधिकवृद्धो वातः, मध्यवृद्धं पित्तं हीनवृद्धः श्लेष्मा ६| सर्वदोषैः समवृद्धैरेकः| उक्तं च तन्त्रान्तरे- ‘द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्| समैश्चैको विकारास्ते सन्निपातास्त्रयोदश”- इति| पञ्चाशदित्यादि| एवमनेन प्रकारेण क्षयमागतैः पञ्चविंशतिदोषभेदैः सह पञ्चाशद्भवन्ति| तद्यथा- वातपित्तकफैरेकैकैः क्षीणैस्त्रयो भेदा भवन्ति, द्विशो नव प्रोच्यन्ते| तद्यथा- वातपित्ते समक्षीणे स्वस्थः श्लेष्मा (१), वातश्लेष्माणौ समक्षीणौ स्वस्थं पित्तं (२), पित्तश्लेष्माणौ समहीनौ स्वस्थे वातः ३| अधिकक्षीणाः षट्; तद्यथा- वातपित्तयोः क्षीणयोर्वातोऽधिकक्षीणः स्वस्थः श्लेष्मा (१), वातपित्तयोः क्षीणयोः पित्तमधिकक्षीणं स्वस्थः श्लेष्मा (२), वातश्लेष्माणोः क्षीणयोर्वातोऽधिकक्षीणः स्वस्थं पित्तं (३), वातश्लेष्मणोः क्षीणयोः श्लेष्माऽधिकक्षीणः स्वस्थं पित्तं (४), पित्तश्लेश्मणोः क्षीणयोः पित्तमधिकक्षीणं स्वस्थो वातः (५), पित्तश्लेष्मणोः क्षीणयोः श्लेष्मऽधिकक्षीणः स्वस्थो वातः (६)| अथ क्षीणदोषत्रयभेदास्त्रयोदश प्रोच्यन्ते; तत्र- त्रिभिरपि समक्षीणैरेकः; अधिकैकैकक्षीणैश्च त्रयः| यथा- वातपित्तश्लेष्मणां क्षीणानां वातोऽधिकक्षीणः (१), वातपित्तश्लेष्मणां क्षीणानां पित्तमधिकक्षीणं (२), वातपित्तश्लेष्मणां क्षीणानां श्लेष्मा अधिकक्षीणः (३)| अथाधिकक्षीणद्विदोषाः; तद्यथा- वातपित्तश्लेष्मणां क्षीणानां वातपित्ते अधिकक्षीणे (१), वातपित्तश्लेष्मणां क्षीणानां वातश्लेष्मणावधिकक्षीणौ (२), वातपित्तश्लेष्मणां क्षीणानां पित्तश्लेष्माणावधिकक्षीणौ (३)| अथ हीनमध्योल्बणक्षीणाः षट् प्रोच्यन्ते; तद्यथा,- हीनक्षीणो वातः, मध्यक्षीणं पित्तं, अधिकक्षीणः श्लेष्मा (१); मध्यक्षीणो वातः, हीनक्षीणं पित्तं, अधिकक्षीणः श्लेष्मा (२); अधिकक्षीणो वातः, मध्यक्षीणं पित्तं हीनक्षीणः श्लेष्मा (३); हीनक्षीणो वातः, अधिकक्षीणं पित्तं मध्यक्षीणः श्लेष्मा (४); अधिकक्षीणो वातः, हीनक्षीणं पित्तं, मध्यक्षीणः श्लेष्मा (५); मध्यक्षीणो वातः, अधिकक्षीणं पित्तं, हीनक्षीणः श्लेष्मा (६)| क्षीणेत्यादि अत्र मध्यशब्देन स्वस्थोऽभिधीयते, अधिकशब्देन च वृद्धः| तत्र क्षीणमध्याधिकभेदेन षट्| तद्यथा- क्षीणो वातः, स्वस्थं पित्तं, वृद्धः श्लेष्मा (१); क्षीणो वातः, वृद्धं पित्तं, स्वस्थः श्लेष्मा (२); स्वस्थो वातः, पित्तम् क्षीणं, वृद्धः श्लेष्मा (३); वृद्धो वातः, क्षीणं पित्तं, स्वस्थः, श्लेष्मा (४); स्वस्थो वातः, पित्तं वृद्धं, क्षीणः श्लेष्मा (५); वृद्धो वातः, स्वस्थं पित्तं, क्षीणः श्लेष्मा (६)| अथ द्विक्षीणैकवृद्धास्त्रीनाह- वातपित्ते क्षीणे वृद्धः श्लेष्मा (१), वातश्लेष्माणौ क्षीणौ पित्तं वृद्धं (२), पित्तश्लेष्माणौ क्षीणौ वातो वृद्धः (३)| अथ द्विवृद्धैकक्षीणानाह- वातपित्ते वृद्धे क्षीणः श्लेष्मा (१), वातश्लेष्माणौ वृद्धौ क्षीणं पित्तं (२), पित्तश्लेष्माणौ वृद्धौ क्षीणो वातः (३)| एवमनेन प्रकारेण, समाख्याताः कथिताः, त्रयो दोषा वातपित्तश्लेष्माणः| स्वस्थैस्तु वातपित्तश्लेष्मभिः स्वास्थ्यं त्रिषष्टमिति अयमेवार्थः श्लोकैरुच्यते| तद्यथा- पृथग्वृद्धैर्मरुत्पित्तककैर्भेदत्रयं भवेत्| संसर्गे तु भवत्येषां भेदस्तुल्याधिकेन च||१|| वातपित्ते समे वृद्धे समावेवं मरुत्कफौ| समौ पित्तकफावेवं स्युस्त्रयस्तुल्यवृद्धितः||२|| वृद्धिङ्गते मरुत्पित्ते पवनस्त्वधिकस्तयोः| अन्यस्मिन् पित्तमधिकं वृद्धयोर्वातपित्तयोः||३|| वृद्धौ समीरणकफावेतयोरधिकोऽनिलः| अधिके तु तयोरेव भवेद्भेदान्तरं कफे||४|| वृद्धौ पित्तकफौ तद्वदेतयोः पित्तमुत्कटम्|| वृद्धयोरेतयोरेव बलासस्त्वधिकः पुनः||५|| इत्येकाधिकसंसर्गदोषभेदा भवन्ति षट्| एवमेतैः समुद्दिष्टा भेदास्तुल्याधिकैर्नव||६|| पूर्वैः सह भवन्त्येवं विकल्पा द्वौ तथा दश| सन्निपातेषु जायन्ते दोषभेदास्त्रयोदश| एकस्तत्र विकल्पः स्याद्वृद्धिम्प्राप्तैः समैस्त्रिभिः| वृद्धिङ्गतेषु सर्वेषु तेषु वृद्धतमो मरुत्||७|| पुनः पित्तं पुनः श्लेष्मेत्येकाधिकतमैस्त्रयः| प्रवृद्धे वातपित्ते च भेदोऽन्यस्मिन् बलासतः||८|| मरुत्कफौ तथा पित्ताद्वातः पित्तकफादपि| आधिक्येन द्वयोरेवं दोषभेदास्त्रयो मताः||९|| हीनमध्याधिकैर्दोषैर्विकल्पाः सम्भवन्ति षट्| अन्योन्यापेक्षया तेषां हीनवृद्धः समीरणः||१०|| मध्यवृद्धं तथा पित्तं श्लेष्मा तत्राधिको मतः| मध्यः समीरणोऽन्यस्मिन् हीनं पित्तं कफोऽधिकः||११|| मध्यं पित्तं मरुत्तीव्रः स्वल्पः श्लेष्माऽपरत्र तु| मध्यः श्लेष्मोल्बणं पित्तं हीनो वातस्तथा स्थितः ||१२|| मध्यः श्लेष्मोल्बणो वायुः पित्तं हीनं तथा स्थितम्||१३|| मध्यवातोऽधिकं पित्तं हीनवृद्धस्तथा कफः| एवमेते भवन्त्यत्र सन्निपातास्त्रयोदश||१४|| पूर्वैर्द्वादशभिः सार्धं विकल्पाः पञ्चविंशतिः| यथा वृद्धैस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः ||१५|| क्षीणस्वस्थाधिकैरेभिर्दोषभेदा भवन्ति षट्| क्षीणः समीरणस्तत्र स्वस्थं पित्तं कफोऽधिकः||१६|| क्षीणो वायुः कफः स्वस्थः पित्तमत्राधिकं तथा| क्षीणं पित्तं मरुत् स्वस्थो भेदोऽन्यस्मिन् बली कफः||१७|| क्षीणं पित्तं कफः स्वस्थः प्रवृद्धस्त्वधिको मरुत्| श्लेष्मा क्षीणोऽनिलः स्वस्थः पित्तमत्र तथोल्बणम्||१८|| कफः क्षीणः समं पित्तं प्रवृद्धस्तु समीरणः| क्षीणस्वस्थाधिकैरेवं भेदाः षट् परिकीर्तिता||१९|| क्षयङ्गते मरुत्पित्ते प्राप्तो वृद्धिं तथा कफः| क्षीणौ समीरणकफौ तथा स्यात् पित्तमुत्कटम्||२०|| क्षीणौ पित्तकफौ तद्वन्नभस्वान् स्यात्तु वृद्धिमान्| द्वौ क्षीणावेकवृद्धश्च भेदत्रयमिति स्मृतम्||२१|| वातपित्ते गते वृद्धिं सम्प्राप्तश्च क्षयं कफः| वृद्धौ वातकफौ तद्वत् पित्तं चाथ क्षयं गतम्||२२|| तद्वत् पित्तकफौ वृद्धौ प्रक्षीणः पवनः पुनः| एकक्षीणद्विवृद्धैश्च त्रयो भेदा भवन्त्यमी||२३|| क्षीणमध्याधिकैस्त्वेवं भेदा द्वादश कीर्तिताः| प्रकृतिस्थैः समीराद्यैस्तथैकः परिकीर्तितः||२४|| त्रिषष्टिर्दोषभेदानामिति सम्यङ्निरूपिता|| इति| एतेषां वातपित्तश्लेष्मणां वृद्धक्षीणानां लक्षणान्युच्यन्ते- तद्यथा- वातवृद्धौ वाग्बाहुल्यं कार्श्यं कार्ष्ण्यं गात्रस्फुरणमूष्मकामिता निद्रानाशोऽल्पबलत्वं गाढवर्चस्त्वं चेति, पित्तवृद्धौ पीतावभासता सन्तापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं चेति, श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्यं गौरवमवसादस्तन्द्रा निद्रा सन्ध्यस्थिविश्लेषश्च| वातक्षये मन्दचेष्टता अल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशिरसां शून्यता सन्धिशैथिल्यं तृष्णा दौर्बल्यं च| एवमेतैर्लक्षणैः प्रकृतिसमसमवेतानां वृद्धानां क्षीणानां च वातपित्तश्लेष्मणामवगमो मिश्रैश्च लक्षणैः संसर्गसन्निपातावगम इति| क्षीणमध्याधिकद्व्येकक्षीणवृद्धानां केषाञ्चिल्लक्षणानि लिख्यन्ते| तद्यथा- एको वृद्धः समश्चैकः क्षीणस्त्वेको यदा भवेत्| क्षीण एकः प्रवृद्धौ द्वौ क्षीणौ द्वौ वृद्धिमांस्तथा||२५|| एक एव स्थितस्तत्र व्यक्तरूपेण देहिनि| प्रवृद्धो मारुतः पित्तं प्रकृतिस्थं कफक्षये||२६|| गृहीत्वा स्थानतो यत्र यत्राङ्गेषु विसर्पति| तत्र तत्रास्थिरो दाहः श्रमः स्वेदो बलक्षयः||२७|| क्षीणे पित्ते यदा वायुर्वृद्धावस्थः समं कफम्| विकर्षति तदा शूलं शैत्यमत्यन्तगौरवम्||२८|| वृद्धं कफक्षये पित्तं प्रकृतिस्थं प्रभञ्जनम्|| यदा रुणद्ध्यस्य तदा दाहः शूलः प्रजायते||२९|| वृद्धं वातक्षये पित्तं प्रकृतिस्थं यदा कफम्| निरुणद्धि तदा तस्य स्युस्तन्द्रागौरवज्वराः||३०|| श्लेष्मा वृद्धो यदा वायुः समः पित्तपरिक्षये| निरुणद्धि तदा तस्य गौरवं शीतकज्वरम्||३१|| कफोऽनिलक्षये पित्तं प्रकृतिस्थं यदा बली| निरुणद्धि तदा तस्य मृद्वग्नित्वं शिरोव्यथा||३२|| प्रलापो गुरुता तन्द्रा निद्रा स्यात्तु सुहृद्रुजा| ष्ठीवनं पित्तकफयोर्नखादीनां च पीतता||३३|| कफः पित्तेन संयुक्तो बलहानिं भृशं क्षयम्| करोत्यपाकमरुचिं गौरवं गात्रसादताम्||३४|| मारुतेन युतः श्लेष्मा हीनपित्तः समाचरन्| करोति मृदुतां वह्नेर्भक्ते नान्नाभिलाषिताम्||३५|| वेपनं गौरवं स्तम्भशैत्यतोदांस्तथाऽचिरात्| शुक्लत्वं च नखादीनां पारुष्यं वपुषोऽपि च||३६|| कुपितौ पित्तपवनौ परिक्षीणकफे यदा| उद्वेष्टनं श्रमं तोदं कुरुते स्फोटनं तथा||३७|| तथाऽङ्गमर्ददाहौ च चोषं दूयनधूपने| श्लेष्माऽपिधत्ते स्रोतांसि यदा पित्तानिलक्षये||३८|| चेष्टानाशं तदा कुर्यान्मूर्च्छां वाग्भङ्गमेव च| देहौजः स्रंसयत् पित्तं वातश्लेष्मक्ष्ये तृषाम्||३९|| कुर्यादिन्द्रियदौर्बल्यं मूर्च्छां ग्लानिं क्रियाक्षयम्| मर्माणि पीडयन् वायुः श्लेष्मपित्तपरिक्षये||४०|| सञ्ज्ञाप्रणाशं कुरुते प्रकम्पं विदधाति च| दर्शयन्ति प्रवृद्धाः स्वं लिङ्गं दोषा हि केवलम्||४१|| क्षीणा जहति लिङ्ग स्वं समाः स्वं कर्म कुर्वते| समं रक्षञ्जयन् वृद्धं क्षीणं दोषं च वर्धयन्||४२|| विधिनाऽनेन विषमं सन्निपातं जयेद्भिषक्| इति||१०-११||-
Adhikarana 9 (12-14) · Śloka 14
मिश्रा धातुमलैर्दोषा यान्त्यसङ्ख्येयतां पुनः ||१२||
तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः |
रोगं विदित्वोपचरेद्रसभेदैर्यथैरितैः ||१३||
भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम् |
कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा ||१४||
धातुभिरसृगादिभिर्मिश्रा मलैश्चासङ्ख्येयतां यान्ति| तत्र वातस्य धातुमलमिश्रस्य लक्षणं वातव्याधिनिदाने प्रोक्तम्| पित्तश्लेष्मणोस्तु वृद्धवाग्भटः प्राह- पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः| रक्ते विसर्पं दाहं च मांसे मांसावकोथनम्||१|| सदाहान् मेदसि ग्रन्थीन् स्वेदतृड्वमनं भृशम्| अस्थिदाहं भृशं मज्ज्ञि हारिद्रनखनेत्रताम्||२|| पूतिपीतावभासं च शुक्रं शुक्रसमाश्रितम्| सिरागतं क्रोधनतां प्रलापं स्नायुगं तृषाम्||३|| कोष्ठगं मदतृड्दाहान् व्यापिनोऽन्यांश्च यक्ष्मणः| श्लेष्मा त्वचि स्थितः कुर्यात् स्तम्भं श्वेतावभासताम्||४|| पाण्ड्वामयं शोणितगो मांसस्थश्चार्बुदापचीः| आर्द्रचर्मावनद्धाभगात्रतां त्वचि गौरवम्||५|| मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः| मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्||६|| विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम् स्नायुगः सन्धिशूनत्वं कोष्ठगो जठरोन्नतिम्||७|| अरोचकाविपाकौ च तांस्तांश्च कफजान् गदान्| विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदिश्यते||८|| उपतापोपघातौ च स्वाश्रयेन्द्रियगैर्मलैः ||इति ||१२-१४||
Adhikarana 10 (15-17) · Śloka 17
अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम् |
एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् ||१५||
स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम् |
यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् ||१६||
सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन |
न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्ममतीव सत्यम् ||१७||
निबन्धान् बहुशो वीक्ष्य वैद्यः श्रीभरतात्मजः| उत्तरस्थानमकरोत् सुस्पष्टं डल्हणो भिषक्||१५-१७||
Adhikarana puShpikA · Śloka 66
इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ||६६||
इति सुश्रुतसंहितायामुत्तरतन्त्रं समाप्तम् |
समाप्तेयं सुश्रुतसंहिता |
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे षट्षष्टितमोऽध्यायः||६६||