Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

65. tantrayuktyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

स्वस्थवृत्तानन्तरं स्वस्थविध्यर्थस्य तन्त्रयुक्तिभिः प्रसाधानात्तन्त्रयुक्तयध्यायारम्भः- अथात इत्यादि| अथात इति पूर्ववत् व्याख्येयम्| त्रायते शरीरमनेनेति तन्त्रं शास्त्रं चिकित्सा च, तस्य युक्तयो योजनास्तन्त्रयुक्तयः, ता अधिकृत्य कृतोऽध्यायः, तम्| वेदोत्पत्तिवदत्र तद्धितलोपः| ताश्च तन्त्रयोजना द्विविधाः- वाक्ययोजना अर्थयोजनाश्च; तत्र वाक्ययोजना योगोद्देशनिर्देशाद्याः, अर्थयोजना अधिकरणपदार्थादयः||१-२||

Adhikarana 2 (3) · Śloka 3

द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे | तद्यथा- अधिकरणं(१), योगः(२), पदार्थः(३), हेत्वर्थः(४), उद्देशः(५), निर्देशः(६), उपदेशः(७), अपदेशः(८), प्रदेशः(९), अतिदेशः(१०), अपवर्जः(११), वाक्यशेषः(१२), अर्थापत्तिः(१३), विपर्ययः(१४), प्रसङ्गः(१५), एकान्तः(१६), अनेकान्तः(१७), पूर्वपक्षः(१८), निर्णयः(१९), अनुमतं(२०), विधानम्(२१), अनागतावेक्षणम्(२२), अतिक्रान्तावेक्षणं(२३), संशयः(२४), व्याख्यानं(२५), स्वसञ्ज्ञा(२६), निर्वचनं(२७), निदर्शनं(२८), नियोगः(२९), विकल्पः(३०), समुच्चयः(३१), ऊह्यम्(३२) इति ||३||

🔊 Audio coming soon

सङ्ख्याभेदेन तन्त्रयुक्तीर्निर्दिशन्नाह- द्वात्रिंशदित्यादि| शास्त्रे सौश्रुते| अधिकरणमित्यादिसङ्ख्येयनिर्देशादेव द्वात्रिंशत् सङ्ख्या लब्धा, अतस्तत्करणमन्यतन्त्रोक्ताः षट्त्रिंशच्चत्वारिंशद्वा तन्त्रयुक्तय इति सङ्ख्यानिषेधार्थम्| शास्त्रे इत्यत्रान्ये समासेनेति पठित्वा व्याख्यानयन्ति- अन्यत्र विस्तरेण षट्त्रिंशच्चत्वारिंशद्वा तन्त्रायुक्तयः; अत्र द्वात्रिंशदिति समासेनोक्तम्| कतमास्तास्तन्त्रयुक्तय इत्याह- तद्यथेत्यादि| तद्यथेति निदर्शनम्| अधिकरणादीनि सूत्रकार एव व्याख्यास्यति||३||

Adhikarana 3 (4) · Śloka 4

अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम्? उच्यते- वाक्ययोजनमर्थयोजनं च ||४||

🔊 Audio coming soon

एवं तन्त्रयुक्तीरुद्देशतः प्रतीपाद्य तासां तन्त्रयुक्तीनां प्रयोजनमाह- अत्रासामित्यादि| अत्र चिकित्साशास्त्रे| वाक्ययोजनमर्थयोजनं चेति वाक्यस्यासम्बद्धस्य योजनं सम्बन्धनं वाक्ययोजनं, लीनस्यासङ्गतस्य चार्थस्य प्रकाशनं सङ्गतीकरणं चार्थयोजनम्| तत्र कासाञ्चित्तन्त्रयुक्तीनां योगोद्देशनिर्देशादीनां वाक्ययोजनं, कासाञ्चिदधिकरणपदार्थोह्यादीनामर्थयोजनं प्रयोजनम्||४||

Adhikarana 4 (5-6) · Śloka 6

भवन्ति चात्र श्लोकाः- असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम् | स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ||५|| व्यक्ता नोक्तास्तु ये ह्यार्था लीना ये चाप्यनिर्मलाः | लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ||६||

🔊 Audio coming soon

अत्रैव पूर्वाचार्यापठितौ श्लोकावधिकार्थख्यापनायाह- असद्वादिप्रयुक्तानामित्यादि| असद्वादिनो हि प्रतिरसपाकवादिनः पाकत्रयवादिनो गुणकर्तृत्ववादिनो वेत्यादयः| प्रतिषेधनम् अपदेशादिभिस्तन्त्रयुक्तिभिः परपक्षदूषणम्| स्ववाक्यसिद्धिः स्ववाक्यस्थापनं निर्णयाख्यया तन्त्रयुक्तया| यथा- प्रतिरसं पाक इत्यसद्वादिदर्शनमपदेशाख्यया तन्त्रयुक्तया द्रव्यादिविज्ञाने निराकृतं, तत्रैव द्विविधः पाक इत्यादिस्वमतसाधनं निर्णयाख्यया तन्त्रयुक्तया कृतम्| व्यक्ता नोक्ताः स्पष्टतया नोक्ताः| लीना असम्यग्दर्शिताः| अनिर्मला लेशेनोक्ताः| तेषां प्रसाधनं योगप्रभृतिभिः क्रियते ||५-६||

Adhikarana 5 (7) · Śloka 7

यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा | प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ||७||

🔊 Audio coming soon

केचिदत्र तन्त्रयुक्तीनां स्तुत्यर्थ श्लोकं पठन्ति- यथाऽम्बुजवनस्यार्क इत्यादि| एष च श्लोकष्टीकासु मूलत्वेन न वर्णितः||७||

Adhikarana 6 (8) · Śloka 8

तत्र यमर्थमधिकृत्योच्यते तदधिकरणं; यथा रसं दोषं वा ||८||

🔊 Audio coming soon

अतः परमुद्दिष्टानां तन्त्रयुक्तीनां विवरणमाह- तत्रेत्यादि| तत्र तासु तन्त्रयुक्तिषु मध्ये; यमर्थमधिकृत्य अपरे अर्था अभिधीयन्ते तदधिकरणसञ्ज्ञं भवति उदाहरणमाह- रसं दोषं वेति| एतेनैतदुक्तं भवति- रसं दोषं वा अधिकृत्य यत्तदुल्लेखाभावेऽप्यर्थजातमभिहितं तत् सर्वं तदधिकारे प्रतीयत इत्यर्थः||८||

Adhikarana 7 (9) · Śloka 9

येन वाक्यं युज्यते स योगः | यथा- ‘तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः | सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे’ | इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं, एवं दूरस्थानामपि पदानामेकीकरणं योगः ||९||

🔊 Audio coming soon

योगाख्यां तन्त्रयुक्तिमाह- येनेत्यादि| येन व्यत्यासोक्तानां सन्निकृष्टविप्रकृष्टानां पदानामेकीकरणं स योग इत्यर्थः| व्यत्यासेनोक्तं पदयोगं दर्शयन्नाह- तैलमित्यादि| विपर्ययेणोक्तस्य पदस्यैकीकरणं योग इत्यर्थः| येनेत्यादि सूत्रं, येन व्यत्यासोक्तानां इत्यादिसूत्रार्थः, यथेत्याद्युदाहरणम्| एवं सन्निकृष्टस्य विपर्ययोक्तस्य पदस्यापहरणं मुख्यमेकीकरणं प्रतिपाद्य दूरस्थानामप्युद्देशेनाह- एवं दूरस्थानामपीति||९||

Adhikarana 8 (10) · Śloka 10

योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदार्थः; अपरिमिताश्च पदार्थाः | यथा- स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते, तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः; यथा- ‘वेदोत्पत्तिमध्यायं व्याख्यास्याम’ इत्युक्ते सन्दिह्यते बुद्धिः- कतमस्य वेदस्योत्पत्तिं वक्ष्यतीति, यतः ऋग्वेदादयस्तु वेदाः; ‘विद विचारणे, विद्लृ लाभे,’ इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात्, तत्र पूर्वापरयोगमुपलभ्य प्रतिपत्तिर्भवति- आयुर्वेदोत्पत्तिमयं विवक्षुरिति; एष पदार्थः ||१०||

🔊 Audio coming soon

पदार्थाभिधां तन्त्रयुक्तिमाह- योऽर्थोऽभिहित इत्यादि| पद्यते गम्यते येनार्थ इति सूत्रस्यापि पदत्वात् सूत्रे योऽर्थः प्रतिपादितः स पदार्थः| पदार्थख्यतन्त्रयुक्तिप्रतिपादकं लक्षणमभिधायेदानीं तद्व्याख्यातुकामः प्रथमं तदवयवस्य समासमभिधत्ते- पदस्येत्यादि| अधुना बहुषु पदार्थेषु निर्धार्य विशिष्टपदार्थग्रहणाय पदार्थबहुत्वं प्रतिपादयति- अपरिमिता इत्यादि| कथमित्याह- यथेत्यादि| तत्र स्नेहशब्दे निर्दिष्टे हि गुणप्रेमसर्पिषां त्रयाणामर्थानामुपपत्तिर्दृश्यते, स्वेदशब्देनापि साग्निनिरग्निकयोरुष्मणोः प्राप्तिः, अञ्जनशब्देनापि नयनाञ्जनाभ्याङ्गयोः प्राप्तिः, तेषु पदार्थषु यादृशः पदार्थो गृह्यते तादृशमाह- तत्र योऽर्थ इत्यादि| पूर्वोक्तपरोक्तवाक्यसम्बन्धेनोपपन्नो योऽर्थो भवति स ग्रहीतव्य इत्यर्थः| उदाहरणमाह- यथा वेदोत्पत्तिमित्यादि| सन्दिह्यते सन्देहं गच्छतीत्यर्थः| कथं सन्दिह्यत इत्याह- कतमस्येत्यादि| यतः ऋग्वेदादयो वेदास्ततः कतमस्या वेदस्योत्पत्तिं वक्ष्यतीति सन्दिह्यते, तस्मिन् सन्देहे यथा प्रत्ययार्थः स्वीकर्तव्यस्तथाऽऽह- विदित्यादि- ‘आयुर्वेदमिच्छाम इहोपदिश्यमानम्’ इत्यस्मिन्नायुर्वेदशब्दः श्रूयते, अतोऽत्र वेद आयुर्वेद इत्यभिप्रायः ||१०||

Adhikarana 9 (11) · Śloka 11

यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः | यथा- मृत्पिण्डोऽद्भिः प्रक्लिघते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिघत इति ||११||

🔊 Audio coming soon

हेत्वर्थतन्त्रयुक्तेर्लक्षणमाह- यदन्यदित्यादि| उदाहरणमाह- यथा मृदित्यादि| अत्र बाह्येन मृत्पिण्डदृष्टान्तेन माषदुग्धयोगादिभिराभ्यन्तरो व्रणप्रक्लेदः साध्यते||११||

Adhikarana 10 (12) · Śloka 12

समासवचनमुद्देशः | यथा- शल्यमिति ||१२||

🔊 Audio coming soon

उद्देशलक्षणमाह- समासेत्यादि| सङ्क्षेपेण भणनमुद्देश इत्यर्थः| उदाहरणमाह- यथा शल्यमिति| सर्वमेवाबाधजननं सङ्क्षेपेण शल्यमुच्यते, नतु शारीरागन्तुभेदेन प्रपञ्चनात्||१२||

Adhikarana 11 (13) · Śloka 13

विस्तरवचनं निर्देशः | यथा- शारीरमागन्तुकं चेति ||१३||

🔊 Audio coming soon

निर्देशलक्षणमाह- विस्तरेत्यादि| विस्तरेण भाषणं निर्देश इत्यर्थः| उदाहरणमाह- यथा शारीरमागन्तुकं चेति| शारीरशल्यमागन्तुकं च शल्यमिति शल्यं द्विविधमुच्यते||१३||

Adhikarana 12 (14) · Śloka 14

एवमित्युपदेशः | यथा- ‘तथा न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत्’ इति ||१४||

🔊 Audio coming soon

उपदेशलक्षणमाह- एवमित्यादि| एवं कुर्यादित्युपदेश इत्यर्थः| उदाहरणमाह- यथेत्यादि| ननु, उपदेशनियोगयोः को भेदः? उच्यते, प्रायिक उपदेशः, यथा- रात्रौ न जागृयादिति प्रायिकत्वेनोपन्यस्तं, कफाद्यभिभूते तु तत्र रात्रिजागरणस्यापि शस्तत्वात् दिवा न स्वापं कुर्यादित्यपि प्रायिकं, ग्रीष्मे तृष्णाद्यन्वये च दिवास्वापस्योचितत्वात्; नियोगश्चाप्रायिकः, यथा- पथ्यमेव भोक्तव्यमिति; यद्यपि ‘ज्वरितोऽहितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्’ इत्यादिनाऽपथ्यभोजनस्याप्यवकाशः, तथाऽपि तदानीमपथ्यस्यैव पथ्यत्वमिति नियोगस्य व्यभिचारो नास्ति||१४||

Adhikarana 13 (15) · Śloka 15

अनेन कारणेनेत्यपदेशः, यथाऽपदिश्यते- मधुरः श्लेष्माणमभिवर्धयतीति ||१५||

🔊 Audio coming soon

अपदेशलक्षणमाह- अनेनेत्यादि| अनेन कारणेनेति कार्य प्रति हेतुकथनमपदेश इत्यर्थः| उदाहरणमाह- यथापदिश्यत इत्यादि| यथापदिश्यत इति उदाहरणोपक्रमे| द्रव्यविशेषो मधुरः कुतः श्लेष्माणं वर्धयति? अत्र मधुरः श्लेष्माणं वर्धयति अर्थान्निजभावेन मधुरत्वेन वर्धयति||१५||

Adhikarana 14 (16) · Śloka 16

प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः | यथा- देवदत्तस्यानेन शल्यमुद्धृतं तथा यज्ञदत्तस्याप्ययमुद्धरिष्यतीति ||१६||

🔊 Audio coming soon

प्रदेशमाह- प्रकृतस्येत्यादि| उदाहरणमाह- यथा देवदत्तस्येत्यादि| अत्र यज्ञदत्तस्य शल्योद्धरणं प्रस्तुतं, तद्देवदत्तस्य शल्योद्धरणेनातिक्रान्तेन साध्यते||१६||

Adhikarana 15 (17) · Śloka 17

प्रकृतस्यानागतस्य साधनमतिदेशः | यथा- यतोऽस्य वायुरुर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति ||१७||

🔊 Audio coming soon

अतिदेशमाह- प्रकृतस्येत्यादि| अनागतस्य भविष्यतः| उदाहरणमाह- यथा यत इत्यादि| अत्र वायोरुर्ध्वमुत्थानं प्रकृतम्| तेन प्रस्तुतेन अनागतं भविष्यदुदावर्तित्वं साध्यते| उदावर्ती स्यात् उदावर्ती सम्भाव्येत||१७||

Adhikarana 16 (18) · Śloka 18

अभिव्याप्यापकर्षणमपवर्गः | यथा- अस्वेद्या विषोपसृष्टाः, अन्यत्र कीटविषादिति ||१८||

🔊 Audio coming soon

अपवर्गमाह- अभिव्याप्येत्यादि| (गुणक्रियादिभिः सर्वतो वा अभिव्याप्त कस्यचित् पदार्थस्य तेभ्यो गुणक्रियादिभ्यः पृथक्करणम् अपवर्गः)| उदाहरणमाह- यथा अस्वेद्या इत्यादि| उत्सर्गरूपतया विषोपसृष्टानस्वेद्यान् प्रतिपाद्यापवादमाह- अन्येत्रेत्यादि||१८||

Adhikarana 17 (19) · Śloka 19

येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः | यथा- शिरः पाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति ||१९||

🔊 Audio coming soon

वाक्यशेषमाह- येनेत्यादि| उदाहरणमाह- यथा शिर इत्यादि| गम्यते ज्ञायत इत्यर्थः||१९||

Adhikarana 18 (20) · Śloka 20

यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः | यथा- ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं भवति- नायं पिपासुर्यवागूमिति ||२०||

🔊 Audio coming soon

अर्थापत्तिमाह- यदकीर्तितमित्यादि| अकीर्तितम् अप्रतिपादितम् तदुदाहरणमाह- यथौदनमित्यादि| नायं पातुमिच्छुर्यवागूमित्यर्थ||२०||

Adhikarana 19 (21) · Śloka 21

यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः | यथा- कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति ||२१||

🔊 Audio coming soon

विपर्ययमाह- यद्यत्राभिहितमित्यादि| प्रातिलोम्यं विपरीतम्| उदाहरणमाह- यथा कृशाल्पेत्यादि| विपर्ययेण विपरीतमेव गम्यते, अर्थापत्त्या अविपरीत एवार्थः प्रतीयत इत्यनयोर्भेदः||२१||

Adhikarana 20 (22) · Śloka 22

प्रकरणान्तरेण समापनं प्रसङ्गः, यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः | यथा- पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय, भूतचिन्तायां पुनरुक्तं- यतोऽभिहितं पञ्चमहाभूतशरीरिसमवायः पुरूष इति, स खल्वेष कर्मपुरुषश्चिकित्साधिकृत इति ||२२||

🔊 Audio coming soon

प्रसङ्गमाह- प्रकरणान्तरेणेत्यादि| प्रकरणान्तरेणेति प्रकरणान्तरोक्तेनार्थेनेत्यर्थः| समानं तुल्यम्| उदाहरणमाह- यथेत्यादि| प्रकरणान्तरेषु असकृदुक्तः पुनः पुनरुक्तः| समाप्यते समाप्तिं नीयते| तदेव कथ्यते- यथेत्यादि| अपरे तु ‘अधिकरणान्तरितो योऽर्थोऽसकृदुक्त’ इति पठित्वा व्याख्यानयन्ति- स्नेहविरेकाधिकारयोर्नवज्वरी निषिद्धः, पुनर्ज्वराधिकारे तरुणज्वरिणः स्नेहशोधने निषिद्धे इति अधिकरणेऽन्तरितस्यर्थस्यासकृदुक्तिः||२२||

Adhikarana 21 (23) · Śloka 23

(सर्वत्र )यदवधारणेनोच्यते स एकान्तः | यथा- त्रिवृद्विरेचयति, मदनफलं वामयति(एव) ||२३||

🔊 Audio coming soon

एकान्तलक्षणमाह- सर्वत्रेत्यादि| अवधारणेन अविकल्पेन, नियमेनेत्यर्थः; उदाहरणेऽवधारणवाचिन एवकारस्य निर्देशात् उदाहरणमाह- यथा त्रिवृद्विरेचयतीयि||२३||

Adhikarana 22 (24) · Śloka 24

क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः | यथा- केचिदाचार्या ब्रुवते द्रव्यं प्रधानं, केचिद्रसं, केचिद्वीर्यं केचिद्विपाकमिति ||२४||

🔊 Audio coming soon

अनेकान्तमाह- क्वचित्तथेत्यादि| उदाहरणमाह- यथा केचिदाचार्या ब्रुवते द्रव्यं प्रधानमित्यादि| स्पष्टार्थः||२४||

Adhikarana 23 (25) · Śloka 25

आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः | यथा- कथं वातनिमित्ताश्चत्वारः प्रमेह असाध्या भवन्तीति ||२५||

🔊 Audio coming soon

पूर्वपक्षमाह- आक्षेपेत्यादि| उदाहरणमाह- यथेत्यादि| अत्रैव दोषजानां साध्यत्वेनोपलब्धेरिति हेतोः पूर्वपक्षावतारः| निर्णयाङ्गत्वेनार्थसाधनत्वमेव संशयस्यापि||२५||

Adhikarana 24 (26-27) · Śloka 27

तस्योत्तरं निर्णयः | यथा- शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति ||२६|| तथा चोक्तम्- कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः | अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः ||२७||

🔊 Audio coming soon

निर्णयमाह- तस्योत्तरमित्यादि| तस्य पूर्वपक्षस्य यदुत्तरं स निर्णय इत्यर्थः| उदाहरणमाह- यथा शरीरमित्यादि| यतः शरीरपीडादिकं कृत्वा वसाद्यन्वितं मूत्रं वातो विसृजति, अतो मज्जक्षये पूर्वपूर्वधातुक्षयादसाध्यत्वमित्यर्थः||२६-२७||

Adhikarana 25 (28) · Śloka 28

परमतमप्रतिषिद्धमनुमतम् | यथा- अन्यो ब्रूयात्- सप्त रसा इति, तच्चाप्रतिषेधादनुमन्यते कथञ्चिदिति ||२८||

🔊 Audio coming soon

अनुमतमाह- परमतमित्यादि| अप्रतिषिद्धम् अधिगतमित्यर्थः| उदाहरणमाह- यथेत्यादि| कथञ्चिदिति केनापि प्रकारेणेत्यर्थ||२८||

Adhikarana 26 (29) · Śloka 29

प्रकरणानुपूर्व्याऽभिहितं विधानम् | यथा- सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि ||२९||

🔊 Audio coming soon

विधानमाह- प्रकरणेत्यादि| प्रकरणानुपूर्व्याऽभिहितमिति यथाक्रममुक्तम्| चन्द्रनन्दनेन च ‘परिपाठ्याऽर्थकथनं विधानम्’ इति विधानलक्षणं कृतम्| उदाहरणमाह- यथा सक्थीत्यादि| मर्मणां प्रकरणानुपूर्व्या अभिधानं क्षिप्ततलहृदयैत्यादिकम्||२९||

Adhikarana 27 (30) · Śloka 30

एवं वक्ष्यतीत्यनागतावेक्षणम् | यथा- श्लोकस्थाने ब्रूयात्- चिकित्सितेषु वक्ष्यामीति ||३०||

🔊 Audio coming soon

अनागतावेक्षणमाह- एवमित्यादि| अनागतस्य भविष्यतः अवलोकनं कार्यार्थमवेक्षणमित्यर्थः उदाहरणमाह- यथा श्लोकेत्यादि||३०||

Adhikarana 28 (31) · Śloka 31

यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् | यथा- चिकित्सितेषु ब्रूयात्- श्लोकस्थाने यदीरितमिति ||३१||

🔊 Audio coming soon

अतिक्रान्तावेक्षणमाह- यदित्यादि| अतिक्रान्तस्य अतीतस्य अवेक्षनम्| उदाहरणमाह- यथा चिकित्सितेष्वित्यादि||३१||

Adhikarana 29 (32) · Śloka 32

उभयहेतुदर्शनं संशयः | यथा - तलहृदयाभिघातः प्राणहरः, पाणिपादच्छेदनमप्राणहरमिति ||३२||

🔊 Audio coming soon

संशयमाह- उभयेत्यादि| उभयोर्विसदृशयोरर्थयोर्हेतुः तस्य दर्शनम्| उदाहरणमाह- यथा तलेत्यादि| ननु, एतत् संशयज्ञानार्थमुदाहृतं, संशयोऽस्ति कुतः? तलहृदयाभिघातस्य तथा पाण्यादिच्छेदस्य प्राणहरत्वाप्राणहरत्वाभ्यां पृथग्दर्शितत्वात्| सत्यं, परं यत्र घातच्छेदयोर्द्वयोः सद्भावस्तत्र किं तलहृदयाभिघातान्मरणमुत पाणिपादच्छेदाज्जीवनमित्येवं संशयः ||३२||

Adhikarana 30 (33) · Śloka 33

तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् | यथा- इह पञ्चविंशतिकः पुरूषो व्याख्यायते, अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ||३३||

🔊 Audio coming soon

व्याख्यानमाह- तन्त्रे इत्यादि| तन्त्रे शास्त्रे| अतिशयस्य अतिरिक्तस्यार्थस्य उपवर्णनं ख्यापनं व्याख्यानम्| ‘तत्रातिशय’ इति पाठे तत्रेति निर्धारणे| उदाहरणमाह- यथा इहेत्यादि| पञ्चविंशतिकः पुरुष इति पञ्चविंशतितम इत्यर्थः, अव्यक्तादीनामष्टानां प्रकृतिविकारैः षोडशभिः सह चतुर्विशतित्वात्| पुरुष इति क्षेत्रज्ञः| स्वमतमभिधाय परमतमाह- अन्येष्वायुर्वेदतन्त्रेष्वित्यादि| भूतादिस्तामसोऽहङ्कारः ; एतेन भूतादिमहङ्कारमारभ्यान्यायुर्वेदतन्त्रेषु चिन्ता नत्वव्यक्तमारभ्येति||३३||

Adhikarana 31 (34) · Śloka 34

अन्यशास्त्रासामान्या स्वसञ्ज्ञा | यथा- मिथुनमिति मधुसर्पिषोर्ग्रगणं; लोकप्रसिद्धमुदाहरणं वा ||३४||

🔊 Audio coming soon

स्वसञ्ज्ञामाह- अन्यशास्त्रासामान्या स्वसञ्ज्ञेत्यादि| अन्यानि शास्त्राणि आयुर्वेदादपराणि व्याकरणादीनि तेषु, असामान्या असाधारणा, तत्राननुगता स्वशास्त्रेष्वेव प्रयोजनवतीत्यर्थः| उदाहरणमाह- यथा मिथुनमित्यादि| ननु, स्वसञ्ज्ञाप्रणयनं व्यवहारार्थ क्रियते, न चात्र मिथुनसञ्ज्ञया यन्मधुसर्पिषोर्ग्रहणं तद्वारेण व्यवहारो दृश्यते? उच्यते- उदाहरणमात्रमेतद्यथाकथञ्चिदिति| अत एव पक्षान्तरमाह- लोके प्रसिद्धमुदाहरणं वा| स्वसञ्ज्ञाया ग्राह्यामित्यर्थः- यथा चतुर्षु स्नेहेषु महास्नेहसञ्ज्ञा| अतः परं केचिदधीयते- यथोष्णभयात् छायामनुसरतीति| ते तूदाहरणमपि तन्त्रयुक्तिष्विच्छन्ति| तन्न युक्तं, उद्देशसूत्रे उदाहरणख्यतन्त्रयुक्तेरनुक्तेः, सङ्ख्याधिक्यप्रसक्तेश्च, तस्माद्यथोष्णेत्यादिकोऽपपाठ एवेति||३४||

Adhikarana 32 (35) · Śloka 35

निश्चितं वचनं निर्वचनम् | यथा- आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ||३५||

🔊 Audio coming soon

निर्वचनमाह- निश्चितमित्यादि| उदाहरणमाह- यथा आयुर्विद्यतेऽस्मिन् इत्यादि||३५||

Adhikarana 33 (36) · Śloka 36

दृष्टान्तव्यक्तिर्निदर्शनम् | यथा- अग्निर्वायुना सहितः कक्षे वृर्द्धि गच्छति तथा वातपित्तकफदुष्टो व्रण इति ||३६||

🔊 Audio coming soon

निदर्शनमाह- दृष्टान्तव्यक्तिरित्यादि| दृष्टान्तेन व्यक्तिर्यस्मिन् वाक्ये तत्तथा| एतेनैतदुक्तं भवति- दृष्टान्तेनार्थः प्रसाध्यते यत्र तन्निदर्शनमिति| अत एव च निदर्शनात् हेत्वर्थो भिद्यते, हेत्वर्थस्य दृष्टान्तमात्रत्वात् | उदाहरणमाह- यथा अग्निरित्यादि| तथेति अभिवृद्धिं गच्छतीत्यर्थः||३६||

Adhikarana 34 (37) · Śloka 37

इदमेव कर्तव्यमिति नियोगः | यथा- पथ्यमेव भोक्तव्यमिति ||३७||

🔊 Audio coming soon

नियोगमाह- इदमित्यादि| उदाहरणमाह- यथा पथ्यमित्यादि| (क्वचिन्नियोगो व्यभिचरति, यथा- ज्वरितस्यारुचौ सत्यामपथ्यमपि दीयते; तदुक्तं- ‘ज्वरितोऽहितमश्नीयाद्यद्यस्य ह्यरुचिर्भवेत्| अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा’ इति| तन्त्रान्तरेऽप्युक्तं- ‘उत्पद्यते हि साऽवस्था देशकालबलं प्रति| यस्यां कार्यमकार्य स्याद्वर्जितं कार्यमेव च’- इति )||३७||

Adhikarana 35 (38) · Śloka 38

इदं चेदं चेति समुच्चयः | यथा- मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गश्च प्रधानानीति ||३८||

🔊 Audio coming soon

समुच्चयमाह- इदमित्यादि| उदाहरणमाह- यथा मांसेत्यादि| एणादयः प्रधानानि लावादयश्च प्रधानानीति समुच्चयश्च||३८||

Adhikarana 36 (39) · Śloka 39

इदं वेदं वेति विकल्पः | यथा- रसौदनः सघृता यवागूर्वा (भवत्विति) ||३९||

🔊 Audio coming soon

विकल्पमाह- इदं वेत्यादि| प्रत्येकं वाशब्दोपादानमत्रोदाहरणे यन्न कृतं तदेकेनापि वाशब्देन बहुषु विकल्पतादर्शनार्थ; क्वचिद् वाशब्दं विनाऽपि विकल्पो भवति, यथैकं रोगं प्रति बहुषु योगेषु वाशब्दं विनाऽप्यन्यतमो योगो योज्य इति विकल्पः| उदाहरणमाह- यथा रसौदन इत्यादि||३९||

Adhikarana 37 (40) · Śloka 40

यदनिर्दिष्टं बुद्धयाऽवगम्यते तदूह्यम् | यथा- अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते- भक्ष्यं भोज्यं लेह्यं पेयमिति, एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम्; इदमत्रोह्यम्- अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवतीति; चतुर्विधश्चाहारः प्रविरलः, प्रायेण द्विविध एव; अतो द्वित्वं प्रसिद्धमिति | किञ्चान्यत्- अन्नेन भक्ष्यमवरुद्धं, घनसाधर्म्यात्; पेयेन लेह्यं, द्रवसाधर्म्यात् ||४०||

🔊 Audio coming soon

साम्प्रतमूह्याख्यां तन्त्रयुक्तिमाह- यदित्यादि| अनिर्दिष्टमिति साक्षादित्यर्थः| उदाहरणमाह- यथाऽमिहितमित्यादि| कथमत्रोह्यं भवतीति कथनायाह- भक्ष्यं भोज्यं लेह्यं पेयमिति चतुर्धा वक्तव्ये द्विविधममिहितमत्रोह्यं भवति चातुर्विध्यमत्रोह्यं भवतीत्यर्थः| बुद्धिगम्यमूह्यं प्राक् प्रतिपादितं तत् कीदृश्या बुद्ध्या गम्यत इत्याह- अन्नपाने इत्यादि| अन्नपानयोर्विशिष्टयोरभ्यवहार्ययोर्ग्रहणे चतुर्णामभ्यवहार्यविशेषाणां भक्ष्यभोज्यलेह्यपेयानां ग्रहणं भवतीति| चातुर्विध्यमेव किमिति नोक्तमित्याशङ्कयाह- चतुर्विध इत्यादि| प्रविरल इति प्रकर्षेण विरलः क्वचित्कथञ्चिद्भावात्| प्रकारान्तरेणापि चतुर्विधत्वमाह- किञ्चान्यदित्यादि| अन्न केचित्पूर्वपक्षं कुर्वन्ति वाक्यार्थस्यास्पष्टाविद्यमानस्य योजनादूह्यं न तन्त्रयुक्तिरिति, लीनस्यानिर्दिष्टस्य चार्थस्य वाक्यादेवोहनेनोभयरूपस्य योजनादूह्यं तन्त्रयुक्तेरेव||४०||

Adhikarana 38 (41-43) · Śloka 43

भवन्ति चात्र- सामान्यदर्शनेनासां व्यवस्था सम्प्रदर्शिता | विशेषस्तु यथायोगमुपधार्यो विपश्चिता ||४१|| द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे | मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ||४२|| यो ह्योता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान् | स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ||४३||

🔊 Audio coming soon

एवं तन्त्रयुक्तीरभिधायोपसंहरन् प्रतिपादिततन्त्रयुक्तिविशेषप्रतिपत्तये श्लोकमाह- भवन्ति चात्रेत्यादि| तन्त्रयुक्तीनां विशेषो यथासम्बन्धं विदुषा उपधारणीय इत्यर्थः| कार्तिकस्तु द्वात्रिंशद्युक्तय इत्यादिकं श्लोकद्वयं पठति||४१-४३||

Adhikarana puShpikA · Śloka 65

इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम (तृतीयोऽध्यायः, आदितः) पञ्चषष्टिमोऽध्यायः ||६५||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे पञ्चषष्टितमोऽध्यायः||६५||