Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. dr̥ṣṭigatarōgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो दृष्टिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

सर्वगतरोगविज्ञानीयानन्तरं दृष्टिगतरोगाणां पारिशेष्यादारम्भो युक्त इत्यत आह- अथात इत्यादि||१-२||

Adhikarana 2 (3-4) · Śloka 4

मसूरदलमात्रां तु पञ्चभूतप्रसादजाम् | खद्योतविस्फुलिङ्गाभामिद्धां तेजोभिरव्ययैः ||३|| आवृतां पटलेनाक्ष्णोर्बाह्येन विवराकृतिम् | शीतसात्म्यां नृणां दृष्टिमाहुर्नयनचिन्तकाः ||४||

🔊 Audio coming soon

तां च दृष्टिं चिकित्सार्थं प्रमाणाकारस्वलक्षणैर्निर्दिशन्नाह- मसूरेत्यादि| मसूरदलमात्रामिति मसूरदलप्रमाणामित्यर्थः| पञ्चभूतप्रसादजामिति पञ्चभूतानां धामभूतात् साराज्जातामित्यर्थः| पञ्चभूतमध्ये एकस्य प्राधान्यमाह- इद्धां तेजोभिरव्ययैरिति; एतेन तेजोमयी दृष्टिरित्युक्तम्| खद्योतविस्फुलिङ्गाभामिति खद्योतो ज्योतिरिङ्गणः, विस्फुलिङ्गः सुक्ष्मोऽग्निकणः; खद्योतविस्फुलिङ्गौ तैजसावपि यथा न दहतस्तथा दृष्टिरपि न दहति| यदि सा खद्योतादिसदृशी तर्हि दिवाकरप्रकाशाद्रूपग्रहणेन न भवितव्यमित्याह- अव्ययैरिति|- अव्ययैः उपचयापचयरहितैस्तेजोभिर्विशिष्टा| तस्य दृष्टेः कुतो भास्वरता न दृश्यत इत्याह- आवृतां पटलेनाक्ष्णोर्बाह्येनेति; आवृताम् आच्छादितां, बाह्येन तेजो जलाश्रितेन| यद्यपि बाह्यपटलावृतत्वाद्दृष्टे रूपग्रहणसामर्थ्योपघातः प्राप्तः, तथाऽपि पटलस्यात्यन्ताच्छत्वाद्द्रोमकूपविवरान्तरत्वाच्च तेजःपरमाणूनां बहिश्चरत्वे रूपग्रहणसामर्थ्यं दृष्टेर्नोपहन्यत इत्याह- विवराकृतिमिति|- विवरं छिद्रं तस्येवाकृतिर्यस्याः सा तथा तां, न तु साक्षात्तत्र छिद्रमस्ति| विवराकारवचनेन पुनर्मृदुतैवोक्ता, न पुनः सर्वथा शुषिरत्वं; तथा च सति पटलानां प्रतिपादितानामप्यनुपपत्तिः स्यात्| दृष्टेः पटलचतुष्टयेऽपि रूपग्रहणसामर्थ्यमनुमातव्यं, कालकास्थ्याश्रिताभ्यन्तरपटलमपि गते दोषे रूपग्रहणविकृतिलक्षणस्य तिमिरस्योक्तेः| शीतसात्म्यामिति| ननु शीतेन तेजोऽभिहन्यते तत् कथं शीतेन सात्म्यं? उच्यते- पृथग्व्यवस्थितयोर्जलाग्न्योर्विरोधो, न पुनः सहोत्पन्नयोरेककार्ययोः; प्रभावाद्वा जलान्तर्गतमप्येतत्तेजो नोपहन्यते||३-४||

Adhikarana 3 (5) · Śloka 5

रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे | पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम् ||५||

🔊 Audio coming soon

प्रमाणादिभिश्चिकित्सोपयोगिभिर्दृष्टिमभिधाय तदाश्रयरोगोपवर्णनार्थं पटलचतुष्टयप्रविष्टतिमिरलक्षणोपदेशार्थं च प्रतिपादयन्नाह- रोगानित्यादि| तदाश्रयान् दृष्ट्याश्रयानित्यर्थः| षट् च षट् चेति द्वादशेत्यर्थः||५||

Adhikarana 4 (6) · Śloka 7

सिराभिरभिसम्प्राप्य विगुऽभ्यन्तरे भृशम् | प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः ||६|| अव्यक्तानि स रूपाणि सर्वाण्येव प्रपश्यति |७|

🔊 Audio coming soon

प्रथमपटलगतस्य तिमिरारम्भकदोषस्य सम्प्राप्तिलेशपूर्वकं लक्षणमाह- सिराभिरित्यादि| अभिसम्प्राप्य सम्यग्गत्वा| विगुणो दुष्टः| अभ्यन्तरे सर्वाभ्यन्तरे कालकास्थ्याश्रिते प्रथमपटले| स पुरुषः| ‘सर्वाण्येव प्रपश्यति’ इत्यत्र ‘कदाचिदथ पश्यति’ इति पञ्जिकाकारः पठति व्याख्यानयति च- कदाचिन्न सर्वकालम्| एतेन स्थानविशेषाद्दोषस्याल्पबलवत्तोक्ता, तदुत्तरेषु क्रमात् बलवत्त्वमिति| तान्यव्यक्तरूपाण्यपि वक्ष्यमाणरूपभ्रमणारुणवर्णादियुक्तानि वातेन, तथा पित्तेनादित्यखद्योतादीनि नीलपीतवर्णानि, एवं कफेन सितवर्णानि, रक्तेन रक्तवर्णानि, सन्निपातेन विचित्राणि| एवं द्वितीयादिपटलेष्वपि व्याख्येयम्||६||-

Adhikarana 5 (7-10) · Śloka 10

दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ||७|| मक्षिका मशकान् केशाञ्जालकानि च पश्यति | मण्डलानि पताकांश्च मरीचीः कुण्डलानि च ||८|| परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च | दूरस्थान्यपि रूपाणि मन्यते च समीपतः ||९|| समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् | यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति ||१०||

🔊 Audio coming soon

द्वितीयपटलगतदोषलक्षणमाह- दृष्टिरित्यादि| द्वितीयं पटलं मेदःश्रितम्| भृशमिति यादृशी प्रथमे पटले ततोऽधिकं विह्वलीभवति| विह्वलत्वमाह- मक्षिका मशकानित्यादि| मक्षिकादीनामभावेऽपि तिमिरारम्भकद्वितीयपटलाश्रितदोषप्रभावेण मक्षिकादीनि यथादोषवर्णानि पश्यति| जालकानि जन्तुलालाविरचितजालकाकाराणि, मण्डलानि वर्तुलरूपाणि| पताकाः ध्वजान्| मरीचीः मृगतृष्णाः| कुण्डलानि कर्णकुण्डलानि| परिप्लवांश्चेति नक्षत्रादीनां गतीः| विविधान् ऊर्ध्वाधस्तिर्यग्गमनेन कृष्णपीतशुक्लवर्णदर्शनेन वा नानाप्रकारान्| वर्षं वृष्टिम्| असद्रूपग्रहणे विह्वलत्वं प्रतिपाद्य सद्रूपग्रहणेऽपि देशापरिज्ञाने दृशोर्विह्वलत्वं प्रतिपादयन्नाह- दूरस्थानीत्यादि| गोचरविभ्रमात् इन्द्रियार्थविभ्रमात्||७-१०||

Adhikarana 6 (11-14) · Śloka 15

ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते | महान्त्यपि च रूपाणि च्छादितानीव वाससा ||११|| कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते | यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि ||१२|| अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते | पार्श्वस्थिते तथा दोषे पार्श्वस्थानि न पश्यति ||१३|| समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति | दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ||१४|| द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते | तिमिराख्यः स वै दोषः... |१५|

🔊 Audio coming soon

तृतीयपटलगतदोषलक्षणमाह- ऊर्ध्वमित्यादि| तृतीयं पटलं मांसाश्रितम्| ऊर्ध्वं पश्यतीति आलोकसहायत्वेन दृश ऊर्ध्वमुपलम्भो नाधस्तात्| विपरीतानि कर्णादिहीनानि| यथादोषं चेति सामर्थ्यान्मांसस्थितशोणितसहायेन बलवत्तरदोषेण दृष्टौ राग उत्पद्यत इत्यर्थः| अत एव प्रथमद्वितीयपटलयोः शोणिताभावाद्रागाभावः| अधःस्थिते दृष्टिमण्डलाधोभागस्थिते दोषे इत्यर्थः| सङ्कुलानीवेति मिश्रीभूतानीव वस्तुरूपाणि पश्यति| द्विधा स्थिते ‘दोषे’ इति शेषः| अनवस्थिते चञ्चले दोषे| तिमिराख्यः तिमिरसञ्ज्ञः, रागप्राप्तस्य च तिमिरस्य ‘काच’ इति सञ्ज्ञा||११-१४||-

Adhikarana 7 (15-17) · Śloka 17

... चतुर्थं पटलं गतः ||१५|| रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते | तस्मिन्नपि तमोभूते नातिरूढे महागदे ||१६|| चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः | निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ||१७||

🔊 Audio coming soon

चतुर्थपटलगतदोषलक्षणमाह- स इत्यादि| स एव तिमिराख्यः, चतुर्थं पटलं तेजोजलाश्रितं प्राप्तो यदा सर्वतो दृष्टिं रुणद्धि तदा लिङ्गनाश उच्यत इति सम्बन्धः| लिङ्गनाश इति लिङ्गं चक्षुरिन्द्रियशक्तिः, तस्य नाशो यस्मिन् स लिङ्गनाशो दोषः| तत्राप्यल्पेषु दोषेषु केषाञ्चिद्वस्तुविशेषाणामुपलम्भो भवतीति दर्शयन्नाह- तस्मिन्निति| तस्मिन् लिङ्गनाशे| तमोभूते इति अत्र भूतशब्द उपमाने| नातिरुढे नातिवृद्धे| महागदे प्रधानेन्द्रियतिरोभावकत्वात्| निर्मलानि च तेजांसि अग्न्यादीनि, भ्राजिष्णूनि अन्यान्यपि दीप्तिमन्ति यानि वस्तूनि तानि पश्यतीत्यर्थः||१५-१७||

Adhikarana 8 (18) · Śloka 18

स एव लिङ्गनाशस्तु नीलिकाकाचसञ्ज्ञितः |१८|

🔊 Audio coming soon

तस्यैव लिङ्गनाशस्यापरं सञ्ज्ञाद्वयं प्रतिपादयन्नाह- स एवेत्यादि| नीलिकाविशेषिता काचसञ्ज्ञा सञ्जाता यस्य स तथा| काचसञ्ज्ञा च तृतीयेऽपि पटले रागितिमिरस्य रागोत्पत्तिद्वारेण सूचिता| एतेन काचत्वात् पटलद्वयगतयोरपि दोषयोः षट्त्वं न तु द्वादशत्वम्| अस्याग्रे किचित् ‘यन्मयस्तन्मयानि’ इत्यादिपाठमापातनिकापूर्वकं पठन्ति, स चाभावान्न लिखितः|१८|-

Adhikarana 9 (18) · Śloka 19

तत्र वातेन रूपाणि भ्रमन्तीव स पश्यति ||१८|| आविलान्यरुणाभानि व्याविद्धानि च मानवः |१९|

🔊 Audio coming soon

इदानीं तेषु पटलेषु क्रमेण वातादिदेषारब्धस्य तिमिरस्य लिङ्गानि दर्शयन्नाह- वातेनेत्यादि| आविलानि समलानि, अरुणाभानि ईषद्रक्तानि| व्याविद्धानि वक्राणि||१८||-

Adhikarana 10 (19) · Śloka 20

पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||१९|| शिखिबर्हविचित्राणि नीलकृष्णानि पश्यति |२०|

🔊 Audio coming soon

पित्तजतिमिरलक्षणमाह- पित्तेनेत्यादि| खद्योतो ज्योतिरिङ्गणः| शक्रचापम् इन्द्रधनुः, तडिद्गुणो विद्युल्लता, शिखिबर्हः मयूरपिच्छः||१९||-

Adhikarana 11 (20-21) · Śloka 22

कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||२०|| गौरचामरगौराणि श्वेताभ्रप्रतिमानि च | पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम् ||२१|| सलिलप्लावितानीव परिजाड्यानि मानवः |२२|

🔊 Audio coming soon

श्लेष्मजतिमिरलक्षणमाह- कफेनेत्यादि| गौरचामरगौराणीति श्वेतचामरवच्छुक्लानि| सितानि चेति सुधौतशुक्लवस्त्रसदृशानि| असूक्ष्माणि स्थूलानि| व्यभ्रे विगतघने | अभ्रसम्प्लवं मेघानां सर्वतो गमनम्| सलिलप्लावितानीव परिजाड्यानीति सर्वतः सलिलप्लवनेनेव शुक्लानि स्तिमितानि च रूपाणि पश्यति||२०-२१||-

Adhikarana 12 (22) · Śloka 23

तथा रक्तेन रक्तानि तमांसि विविधानि च ||२२|| हरितश्यावकृष्णानि धूमधूम्राणि चेक्षते |२३|

🔊 Audio coming soon

रक्तजतिमिरलक्षणमाह- तथेत्यादि| धूमधूम्राणि धूमवेष्टितानीव| यद्यपि तिमिरस्य रक्तान्तर्गतदोषजन्यत्वाद्रक्तजसञ्ज्ञा न स्यात्, तथाऽपि रक्तबाहुल्यादुपचाराद्वा रक्तजव्यपदेशः||२२||-

Adhikarana 13 (23-24) · Śloka 24

सन्निपातेन चित्राणि विप्लुतानि च पश्यति ||२३|| बहुधा वा द्विधा वाऽपि सर्वाण्येव समन्ततः | हीनाधिकाङ्गान्यथवा ज्योतींष्यपि च पश्यति ||२४||

🔊 Audio coming soon

सन्निपातजतिमिरलक्षणमाह- सन्निपातेनेत्यादि| चित्राणि नानावर्णानि विप्लुतानि सर्वतोऽवकीर्णानि| बहुधा बहुत्वं गतानि, द्विधा द्वित्वं गतानि, सर्वाण्येव यावद्द्रष्टव्यानि रूपाणि| हीनाधिकाङ्गानीति न केवलं तृतीये पटले हीनाधिकाङ्गानि पश्यति सन्निपातेन पुनः पटलान्तरेऽपि हीनाधिकाङ्गानि पश्यति| ज्योतींषि तारकाणि||२३-२४||

Adhikarana 14 (25) · Śloka 26

पित्तं कुर्यात् परिम्लायि मूर्च्छितं रक्ततेजसा | पीता दिशस्तथोद्यन्तमादित्यमिव पश्यति ||२५|| विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव च |२६|

🔊 Audio coming soon

ननु वातपित्तकफशोणितसन्निपातैः पञ्चभिः पञ्चतिमिराणां चोत्तरावस्थासु काचलिङ्गनाशसञ्ज्ञे कृते, काचाश्च षट् व्याख्येया इति तेषां षट्त्वोपपत्तिहेतुभूतषष्ठपरिम्लायितिमिरकथनाय, तथा परिम्लायितिमिराक्रान्तस्य पुंसो यादृशं रूपग्रहणं भवति तादृग्रूपकथनाय च प्राह- पित्तमित्यादि| मूर्च्छितं संयुक्तं, रक्ततेजसा रक्तप्रसादेन; अन्ये तु रक्तार्थं तेजो रक्ततेजः, तेन मूर्च्छितं; एतेन रक्तार्थं परिणम्यमानरसेन संयुक्तमित्यर्थः| ईदृशे च व्याख्याने नामान्वयः सङ्गच्छते| यथा परिम्लायी क्षयी कथ्यते तथा च वक्ष्यति,- ‘दोषक्षयात् कदाचित् स्यात् स्वयं तत्र च दर्शनम्’ इति, तच्च क्षयित्वं लङ्घनादिभिरुपबृंहकरसक्षयात् पित्तक्षयाच्चोपपद्यते| रक्तजपक्षे रक्तक्षयोपपत्तिर्नास्ति| केचित् ‘रक्ततेजसा’ इत्यत्र ‘भक्ततेजसा’ इति पठन्ति, व्याख्यानयन्ति च- भक्ततेजसा आहारप्रसादेन रसाख्येनेत्यर्थः| अत्र सात्यकिप्रभृतीनां मतानुलोमेन रक्तमूर्च्छितं पित्तं ह्यपीत्यवगन्तव्यम्| तथा च रागकथनप्रस्तावे सात्यकिः- “पित्तरक्तोत्थिता पीताश्चित्रिताः सन्निपातजाः”- इति| एक एवासौ परिम्लायी रोगोऽरागप्राप्तः सन् तिमिराख्यः, रागप्राप्तस्तु काचाख्यः, स एव किञ्चिद्दर्शननाशकारी लिङ्गनाशः| सर्वाण्येव तिमिराणि प्रथमद्वितीयपटलगतानि साध्यानि; तृतीयपटलगतानि रागप्राप्त्या काचाख्यानि भवन्ति, तदा याप्यानि||२५||-

Adhikarana 15 (26) · Śloka 26

वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||२६||

🔊 Audio coming soon

तृतीयरागितिमिरस्य काचाख्यां प्राप्तस्य लिङ्गनाशस्य च रागेणैव सङ्ख्याषट्त्वं निर्दिशन्नाह- वक्ष्यामीत्यादि| षड्विधं षड्भेदभिन्नम्| तृतीयपटलगतं काचाख्यां प्राप्तं तिमिरमिति शेषः| रागैः वक्ष्यमणैः अरुणादिभिः| लिङ्गनाशमतः परमिति काचाख्यतिमिरकथनानन्तरं लिङ्गनाशमपि षड्विधं वक्ष्यामि||२६||

Adhikarana 16 (27) · Śloka 27

रागोऽरुणो मारुतजः प्रदिष्टः पित्तात् परिम्लाय्यथवाऽपि नीलः | कफात् सितः शोणितजस्तु रक्तः समस्तदोषोऽथ विचित्ररूपः ||२७||

🔊 Audio coming soon

तानेवारुणादिकान् रागानाह- राग इत्यादि| परिम्लायी पीत इत्यर्थः| अरुणादिरागैः पञ्चभिस्तावत् पञ्च काचा ज्ञेयाः, षष्ठः काचश्च परिम्लायी रोगः परं रागप्राप्तः| अस्य च पीतवर्णता सात्यकिवचनादवगन्तव्या| एवं षट् काचाः कथिताः||२७||

Adhikarana 17 (28) · Śloka 29

रक्तजं मण्डलं दृष्टौ स्थूलकाचानलप्रभम् | परिम्लायिनि रोगे स्यान्म्लाय्यानीलं च मण्डलम् ||२८|| दोषक्षयात् कदाचित् स्यात्स्वयं तत्र च दर्शनम् |२९|

🔊 Audio coming soon

अत्र पित्तात् परिम्लायीत्युक्तं तस्य च लक्षणमनुक्तं वक्तुमाह- रक्तजमित्यादि| रक्तजं रक्तप्रसादाज्जातं रक्ततेजसा जातं वा| स्थूलकाचानलप्रभमिति बाहुल्येन स्थूलकाचाभं, वर्णेनानलप्रभम्| अन्ये तु ‘अरुणं मण्डलं दृष्टौ स्थूलकाचारुणप्रभं’ इति पठन्ति व्याख्यानयन्ति च- अरुणम् अरुणवर्णं| कीदृशमरुणमित्याह- स्थूलकाचारुणप्रभमिति|- स्थूलकाचस्येवारुणा प्रभा यस्य तत्तथा| एष पाठः पञ्जिकया दूषितः| म्लायि क्षयि| आनीलमिति ईषन्नीलम्| अनलप्रभत्वेन च पीतत्वमुक्तमेव, तस्मात् किञ्चिन्नीलपीतमित्यर्थः| अन्ये तु ‘म्लायीनीलम्’ इति पठन्ति, व्याख्यानयन्ति च- म्लायीनीलं पीतनीलमित्यर्थः| तत्र पीतं रसमूर्च्छितपित्तजनितं, नीलं पुनः रक्तमूर्च्छितपित्तजम्| अत्र तृतीयपटलस्थे रागे दोषव्याधि(प्ति)वशाद्रागस्य मण्डलाकारतैव, न तु ले(रे)खादिप्रकारत्वमिति नियमार्थं पुनर्मण्डलग्रहणमिति| दोषक्षयादित्यादि कर्मक्षयाद्दोषक्षये सञ्जाते कदाचिदाकस्मिकं तत्र परिम्लायिनि रोगे दर्शनं स्यादित्येके; अन्ये तु पित्तसम्मूर्च्छाकररससङ्क्षयात् क्षीणे दोषे तत्र कदाचिद्दर्शनं स्यादिति व्याख्यां कुर्वन्तीति| अयं याप्यः||२८||-

Adhikarana 18 (29-33) · Śloka 33

अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||२९|| पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा | श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् ||३०|| चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः | सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत् ||३१|| मृद्यमाने च नयने मण्डलं तद्विसर्पति | प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ||३२|| दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे | यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||३३||

🔊 Audio coming soon

इदानीं काचाख्यां प्राप्तस्य तिमिरस्य रागेण षट्त्वं प्रतिपाद्य, षड्विधं लिङ्गनाशमतः परं वक्ष्यामीति यदुक्तं तदेव षड्विधत्वं मण्डलरागभेदेन विवृण्वन्नाह- अरुणमित्यादि| परुषं खरस्पर्शम्| आनीलम् ईषन्नीलं, कांस्याभम् आपाण्डुपीतम्| बहलं स्थूलम्| शुक्लो बिन्दुरिवाम्भस इत्यस्याग्रे केचित् ‘सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत्’ इति पठन्ति| लिङ्गनाशेऽपि पूर्वोक्तवातादिरूपभ्रमणारुणवर्णादिदोषलिङ्गं ज्ञेयमिति दर्शयितुमाह- यथास्वमित्यादि| यथास्वं दोषलिङ्गानीति पूर्वोक्तवातादितिमिराणां रूपभ्रणादिलक्षणानीत्यर्थः| एषु लिङ्गनाशेषु केवलश्लेष्मजलिङ्गनाशं विहायान्ये लिङ्गनाशा असाध्याः| अत्र किञ्चिद्दर्शनावस्थां प्राप्तः परिम्लाय्येव रोगः षष्ठो लिङ्गनाशो ज्ञेयः| एवं षड् लिङ्गनाशा उक्ताः||२९-३३||

Adhikarana 19 (34) · Śloka 35

षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव च स्युः | तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी ||३४|| यो ह्रस्वजाड्यो(त्यो) नकुलान्धता च गम्भीरसञ्ज्ञा च तथैव दृष्टिः |३५|

🔊 Audio coming soon

रागैररुणादिकैः षड्विधं लिङ्गनाशमभिधायापरान् पित्तविदग्धदृष्ट्यादिकान् षडेव निर्दिशन्नाह- षडित्यादि| षड्लिङ्गनाशा इति ‘वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परं’ इत्यनैनेव लिङ्गनाशानां षट्त्वे प्राप्ते पुनः षडिति यत्सङ्ख्याकरणं तन्नियमार्थं, तेन तिमिरकाचलिङ्गनाशानां पृथक् सङ्ख्याकरणं न गणनीयं; एतेनैतदुक्तं भवति- षड् लिङ्गनाशाः, षडिमे च रोगा वक्ष्यमाणाः पित्तविदग्धदृष्ट्यादयः, एवं दृष्ट्याश्रया द्वादश| षडिमे च रोगा इति वक्ष्यमाणाः पित्तविदग्धदृष्ट्यादयः| दृष्ट्याश्रयाः षट् च षडेव स्युरिति अत्रापि पूर्वशङ्कया षडेवेति परस्मान्नियमयति; द्वादशैव दृष्ट्याश्रया रोगा भवेयुरित्यर्थः| के ते पित्तविदग्धदृष्ट्यादयः षडित्याह- तथेत्यादि| तथाशब्दो भिन्नक्रमे, कफेन चान्य इत्यत्र सम्बध्यते; तेन कफेनापि विदग्धदृष्टिरन्य इत्यर्थः||३४||-

Adhikarana 20 (35-36) · Śloka 37

पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्य नरस्य दृष्टिः ||३५|| पीतानि रूपाणि च मन्यते यः स मानवः पित्तविदग्धदृष्टिः | प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि वीक्षते च ||३६|| (रात्रौ स शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्) |३७|

🔊 Audio coming soon

पित्तविदग्धदृष्टेर्लक्षणमाह- पित्तेनेत्यादि| दृष्टेन वृद्धेन| निशि वीक्षते चेति रात्रौ शीतोपकृतदृष्टित्वात् पित्ताभावः, अतो रात्रौ रूपदर्शनम्| साध्योऽयम्||३५-३६||-

Adhikarana 21 (38) · Śloka 38

तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि हि मन्यते तु ||३७|| त्रिषु स्थितोल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य | दिवा स सूर्यानुगृहीतचक्षुरिक्षेत रूपाणि कफाल्पभावात् ||३८||

🔊 Audio coming soon

कफविदग्धदृष्टेर्लक्षणमाह- नर इत्यादि| कफेन दुष्टेन गतेन दृष्टिं सिता भवेद्यस्य नरस्य दृष्टिरिति तथाशब्दार्थः| तान्येव रूपाणि| अयमपि साध्यः||३८||

Adhikarana 22 (39) · Śloka 39

शोकज्वरायासशिरोभितापैरभ्याहता यस्य नरस्य दृष्टिः | सधूमकान् पश्यति सर्वभावांस्तं धूमदर्शीति वदन्ति रोगम् ||३९||

🔊 Audio coming soon

धूमदर्शिनो लक्षणमाह- शोकेत्यादि| शिरोभितापः शिरोव्यथा| अयं पित्तजः साध्यश्च||३९||

Adhikarana 23 (40) · Śloka 40

स ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च येन पश्येत् |४०|

🔊 Audio coming soon

ह्रस्वजाड्यलक्षणमाह - स इत्यादि| स पुरुषः| येन विकारेण| अत्र दिवसेषु पश्येदिति वचनाद्रात्रौ न पश्यतीत्यवगम्यते| केचित्तु ‘रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत्’ इति पठन्ति; तच्चासङ्गतं, अस्य नक्तान्धताजनकत्वात्| तथा च विदेहः,- “नक्तमन्धास्तु चत्वारो ये पुरस्तात् प्रकीर्तिताः| तेषामसाध्यो नकुलो ह्रस्वजाड्य(त्य)स्तथैव च”- इति| अत्र च दृष्टिमध्यगतः पीतो रागो ज्ञेयः| अस्य पटलचतुष्टयाश्रितपित्तप्रभवत्वादसाध्यत्वम्|४०|-

Adhikarana 24 (40) · Śloka 41

विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||४०|| चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः |४१|

🔊 Audio coming soon

नकुलान्ध्यलक्षणमाह- विद्योतत इत्यादि| दोषाभिपन्ना दोषैर्व्याप्ता| चित्राणि सर्वदोषवर्णानि| दिवा स पश्येदिति वचनाद्रात्रौ न पश्यतीत्यवगम्यते| सर्वजोऽसाध्यश्च||४०||-

Adhikarana 25 (41) · Śloka 42

दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कुच्यतेऽभ्यन्तरतश्च याति ||४१|| रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः |४२|

🔊 Audio coming soon

गम्भीरिकाया लक्षणमाह- दृष्टिरित्यादि| विरूपा विकृतरूपा| श्वसनोपसृष्टा वातोपद्रुता| रुजावगाढा तीव्रवेदना| इयमप्यसाध्या||४१||-

Adhikarana 26 (42) · Śloka 43

बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||४२|| निमित्ततस्तत्र शिरोभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च |४३|

🔊 Audio coming soon

हेतुभेदेन बाह्यौ निर्दिशन्नाह- बाह्यावित्यादि| बहिर्भवौ बाह्यौ; यद्यपि प्राक्सूत्रे सङ्क्षेपेणोपदिष्टौ तथाऽपि पुनरिह निमित्तानिमित्तभेदद्वयेन सम्यक् प्रकर्षान्निर्दिष्टावित्यर्थः| तत्र सनिमित्तं दर्शयन्नाह- निमित्तत इत्यादि| तत्र तयोर्मध्ये, शिरोभितापाद् विषपुष्पगन्धस्पृष्टपवनसम्पर्कजातात्, अभिष्यन्दनिदर्शनैरिति अभिष्यन्दलक्षणैरित्यर्थः| अयमसाध्यः||४२||-

Adhikarana 27 (43-44) · Śloka 44

सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्वराणाम् ||४३|| हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः | तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||४४||

🔊 Audio coming soon

अनिमित्तं दर्शयन्नाह- सुरर्षीत्यादि| अनिमित्त इति अनुपलभ्यमानविशिष्टसुरादिदर्शननिमित्तः| दृष्टिः दर्शनम्| लिङ्गनाश इति दर्शननाश इत्यर्थः| अयमप्यसाध्यः| तस्यैवानिमित्तस्य लक्षणमाह- तत्रेत्यादि| तत्र अनिमित्तसञ्ज्ञके| विस्पष्टमिव विशेषेण प्रसन्नमिव| वैदूर्यवर्णा प्रकृतिवर्णेत्यर्थः| विमलेति विगतास्तिमिरकाचादयो मला यस्यां सा तथा| एतौ सनिमित्तानिमित्तौ सर्वगतावपि दर्शननाशकरत्वादनुक्तावपि दृष्ट्याश्रितौ कथितौ, अतो न सङ्ख्यातिरेकः||४३-४४||

Adhikarana 28 (45) · Śloka 45

विदीर्यते सीदति हीयते वा नृणामभीघातहता तु दृष्टिः ||४५||

🔊 Audio coming soon

आगन्तुप्रस्तावादपरमभिघातजमाह- विदीर्यत इत्यादि| सीदति अवसादं याति| एष बाह्यनिमित्तत्वात् सन्निपातान्तर्भूतः||४५||

Adhikarana 29 (46) · Śloka 46

इत्येते नयनगता मया विकाराः सङ्ख्याताः पृथगिह षट् च सप्ततिश्च | एतेषां पृथगिह विस्तरेण सर्वं वक्ष्येऽहं तदनु चिकित्सितं यथावत् ||४६||

🔊 Audio coming soon

समुदायसङ्ख्यामाह- इत्येत इत्यादि| सङ्ख्याताः सम्यगाख्याताः, सम्यग्गणिता वा| इह शालाक्ये| पुनः षट्सप्ततिसङ्ख्याकारणं नियमार्थं; तेन षट्सप्ततिरेव| एतेन करालादिप्रोक्ता सङ्ख्या निराकृता||४६||

Adhikarana puShpikA · Śloka 7

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तमोऽध्यायः ||७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे सप्तमोऽध्यायः||७||