Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. cikitsitapravibhāgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय) ||२||

🔊 Audio coming soon

दृष्टिगतरोगविज्ञानीयानन्तरं सर्वथा प्रतिपन्नसकलनयनामयस्य भिषजश्चिकित्सा न्याय्येति चिकित्साप्रविभागीयारम्भः- अथात इत्यादि| प्रविभागः प्रकर्षेण विभजनं पृथक्करणमित्यर्थः||१-२||

Adhikarana 2 (3) · Śloka 3

षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः | चिकित्सितमिदं तेषां समासव्यासतः शृणु ||३||

🔊 Audio coming soon

चिकित्सा तु द्विविधा समासाद् व्यासाच्च; तत्र समासेनेहाध्याये विभागं दर्शयन्नाह- षडित्यादि| लक्षणैः हेतुपूर्वरूपरुपोपशयसम्प्राप्तिभिः| समासात् सङ्क्षेपादिहैवाध्याये; विस्तरात् पुनर्वाताभिष्यन्दादिषु||३||

Adhikarana 3 (4-5) · Śloka 5

छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः | भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ||४|| द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि | रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता | असाध्यौ वा भवेतां तु याप्यौ चागन्तुसञ्ज्ञितौ ||५||

🔊 Audio coming soon

तत्राष्टविधशस्त्रकर्मणां मध्ये नेत्रामयेषु चतुर्विधं कर्म प्रयोज्यम्, अतश्चतुर्विधशस्त्रकर्मार्हान् व्याधीन् समासार्थं वर्गीकृत्य प्राह- छेद्या इत्यादि| द्वादशाऽशस्त्रकृत्याश्चेति चकाराद् द्वौ बाह्यजावशस्त्रकृत्यौ| याप्या इति स्नेहादिक्रियया याप्यत्वं, न तु छेद्यादिक्रियया| याप्यसाध्यत्वे च द्वयोरवस्थावशात्| वर्जयितव्या असाध्या इत्यर्थः||४-५||

Adhikarana 4 (6) · Śloka 6

अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः शुष्कं तथाऽर्बुदमथो पिडकाः सिराजाः | जालं सिराजमपि पञ्चविधं तथाऽर्म छेद्या भवन्ति सह पर्वणिकामयेन ||६||

🔊 Audio coming soon

तानेव छेद्यान् रोगान्नामभिः प्राह- अर्शोऽन्वितमित्यादि| पञ्चविधमर्मेति प्रस्तार्यर्म, शुष्कार्म, रक्तार्म, अधिमांसार्म, स्नाय्वर्मेत्येवं पञ्चविधम्||६||

Adhikarana 5 (7) · Śloka 7

उत्साङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म | क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ||७||

🔊 Audio coming soon

लेख्यान्नामभिः प्राह- उत्सङ्गिनीत्यादि| बहलकर्दमवर्त्मनीत्यत्र वर्त्मेति पदं बहलकर्दमाभ्यां प्रत्येकं सम्बध्यते||७||

Adhikarana 6 (8) · Śloka 8

श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च |८|

🔊 Audio coming soon

भेद्यान्नामभिः प्राह- श्लेष्मेत्यादि| बिसं बिसवर्त्म|८|-

Adhikarana 7 (8) · Śloka 9

आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ||८|| पूयालसानिलविपर्ययमन्थसञ्ज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन |९|

🔊 Audio coming soon

व्यध्यान्नामभिः प्राह- आदावित्यादि| आदौ सिरा निगदिताः इत्यादि ययोर्विकारयोः प्रयोगे आदौ सिरा निगदितास्तौ व्यध्यौ, कौ तौ? सिरोत्पातसिराहर्षौ| पवनोऽन्यतः अन्यतोवातः| मन्थसञ्ज्ञा अधिमन्थाश्चत्वारः; स्यन्दा अभिष्यन्दास्तावन्त एव||८||-

Adhikarana 8 (9-10) · Śloka 10

शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ||९|| अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससञ्ज्ञे | आगन्तुनाऽऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः ||१०||

🔊 Audio coming soon

अशस्त्रकृत्यानाह- शुष्केत्यादि| हुतभुक् ध्वजदर्शी, धूमदर्शीत्यर्थः||९-१०||

Adhikarana 9 (11) · Śloka 11

सम्पश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः |११|

🔊 Audio coming soon

याप्यानाह- सम्पश्यत इत्यादि| षडपि ये काचा अभिहितास्ते सम्पश्यतः पुरुषस्य याप्या भवन्तीति सम्बन्धः|११|-

Adhikarana 9 (11) · Śloka 11

चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव | अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ||११||

🔊 Audio coming soon

असाध्यानाह- चत्वार इत्यादि| चत्वार एवेति हताधिमन्थनिमिषगम्भीरदृष्टिवातहतवर्त्माख्याश्चत्वारः| द्वाविति ह्रस्वजाड्य(त्य)जलधिस्रावाख्यौ| एक एव कफस्रावाख्यः| अष्टार्धका इति चत्वार इत्यर्थः| के ते चत्वारः? रक्तस्रावाजकाजातशोणितार्शोव्रणान्वितशुक्राख्याः| तावन्त एवेति चत्वार एवेत्यर्थः| के ते चत्वारः? पूयास्रावनकुलान्ध्याक्षिपाकात्यालज्याख्याः| बाह्यजौ आगन्तुजौ||११||

Adhikarana puShpikA · Śloka 8

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे चिकित्सितप्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ||८||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रेऽष्टमोऽध्यायः||८||