Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. sarvagatarōgavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

अथात इत्यादि| सर्वगतरोगविज्ञानीयः सर्वाश्रयरोगविज्ञानीय इत्यर्थः| कृष्णमण्डलप्रत्यासत्त्या दृष्टिगतरोगविज्ञानीयो युज्यते, यश्च दृष्टिगतरोगविज्ञानीयात् पूर्वं सर्वगतरोगविज्ञानीयारम्भः स दृष्टिगतानां तिमिरादीनामभिष्यन्दनिमित्तत्वं न स्यादिति बोधयति, सन्ध्यादिगतानां च स्यन्दकारणत्वं बोधयति||१-२||

Adhikarana 2 (3-4) · Śloka 4

स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः | शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश सम्प्रदिष्टाः ||३|| हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः | दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ||४||

🔊 Audio coming soon

सर्वाक्षिगतरोगाणां सङ्ख्यामाह- स्यन्दा इत्यादि| तावन्त एव चत्वार एव| प्रथमश्लोकेन दश, द्वितीयश्लोकेन सप्त, एवं सप्तदश सर्वाश्रयाः कथिताः||३-४||

Adhikarana 3 (5) · Śloka 5

प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः | तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ||५||

🔊 Audio coming soon

सर्वेषां नेत्ररोगाणामभिष्यन्दभवत्वात् तत्प्रतीकारस्याशेषनयनामयप्रतीकारभूतत्वाद्यत्नतः पूर्वरूप एवासौ प्रतिकरणीय इत्याह- प्रायेणेत्यादि| अभिष्यन्दनिमित्तमूला इति अभिष्यन्दाश्च तन्निमित्तानि च तान्येव मूलं येषां ते तथा| निमित्तशब्दाद्दुष्टा दोषा दोषकोपनानि च सङ्गृह्यन्ते| उदीर्यमाणम् उत्पद्यमानम्| ‘अभिष्यन्दनिमित्तमूला’ इत्यत्र ‘अभिष्यन्दसमुद्भवा हि’ इति केचित् पठन्ति||५||

Adhikarana 4 (6) · Śloka 6

निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः | विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||६||

🔊 Audio coming soon

इदानीं वाताभिष्यन्दलक्षणमाह- निस्तोदनमित्यादि| निस्तोदनं सूच्येव व्यधनम्| स्तम्भनं स्तब्धता| सङ्घर्षः करकरिमा| शिरोभितापः शिरोव्यथा| ‘विशुष्कभावः शिशिराश्रुता च’ इत्यत्र ‘शुष्काल्पदूषिकहिमाश्रुता च’ इति केचित् पठन्ति| तत्र दूषिका नेत्रमलम्| साध्योऽयम्||६||

Adhikarana 5 (7) · Śloka 7

दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च | उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||७||

🔊 Audio coming soon

पित्ताभिष्यन्दलक्षणमाह- दाहेत्यादि| शिशिराभिनन्दा शीताभिलाषः| धूमायनं धूमस्येवोद्वमनं, बाष्पसमुच्छ्रयः अश्रुबाहुल्यम्| अयमपि साध्यः||७||

Adhikarana 6 (8) · Śloka 8

उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम् | स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||८||

🔊 Audio coming soon

श्लेष्माभिष्यन्दलक्षणमाह- उष्णेत्यादि| उपदेहो मलोपलिप्तता, सितता शुक्लता; एषोऽपि साध्यः||८||

Adhikarana 7 (9) · Śloka 9

ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च | पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||९||

🔊 Audio coming soon

रक्ताभिष्यन्दमाह- ताम्रेत्यादि| असावपि साध्यः||९||

Adhikarana 8 (10) · Śloka 10

वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् | तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||१०||

🔊 Audio coming soon

अधिमन्थानामभिष्यन्दरोगकृतत्वं दर्शयन्नाह- वृद्धैरित्यादि| तावन्तः चत्वार एव| तीव्रवेदना इत्यत्र वेदनाशब्दः सामान्यपीडावचनः| तेन यथास्वं वातादिदोषवेदनायुक्ता इत्यर्थः; एतेनेदमुक्तं भवति- वातिकादभिष्यन्दाद्वातिक एवाधिमन्थस्तीव्रवातिकनिस्तोदादिसकलवेदनो भवति; एवं पैत्तिकः, श्लैष्मिको, रक्तोत्थितश्चेति||१०||

Adhikarana 9 (11) · Śloka 11

उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा | शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||११||

🔊 Audio coming soon

अधिमन्थानां सामान्यलक्षणमाह- उत्पाट्यत इत्यादि| नेत्रं निर्मथ्यते तथेति न केवलं नेत्रमेव निर्मथ्यते शिरसोऽर्धं च तथा निर्मथ्यत इति, अर्धशिरसो वेदना च व्याधिस्वभावात्| स्वलक्षणैर्वातादीनां स्वकीयैर्लक्षणैः| केचिदत्राधिमन्थानां सामान्यलक्षणं न पठन्ति, पञ्जिकायां पठितत्वादस्माभिः पठितम्||११||

Adhikarana 10 (12-13) · Śloka 13

नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत् | सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् ||१२|| कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम् | शिरसोऽर्धं च येन स्यादधिमन्थः स मारुतात् ||१३||

🔊 Audio coming soon

अधिमन्थानां सामान्यलक्षणमुक्त्वा विस्तरेण विशेषलक्षणमाह- नेत्रमित्यादि| सङ्घर्षः करकरिमा| अन्ये तु ‘संहर्ष’ इति पठन्ति, तत्र संहर्षो रोमाञ्चप्रायो वेदनाविशेषः| तोदः सूचीव्यधनमिव वेदना| निर्भेदः शस्त्रेण विदारणमिव| मांससंरब्धं मांसोपचितमित्यर्थः| आविलं समलम्| एष साध्यः||१२-१३||

Adhikarana 11 (14-15) · Śloka 15

रक्तराजिचितं स्रावि वह्निनेवावदह्यते | यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् ||१४|| प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम् | मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ||१५||

🔊 Audio coming soon

पित्ताधिमन्थलक्षणमाह- रक्तराजीत्यादि| दाहि क्षारेणाक्तमिव क्षतमिति क्षारलिप्तक्षतमिव दहनशीलम्| एष व्याधिः साध्यः||१४-१५||

Adhikarana 12 (16-17) · Śloka 17

शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम् | शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् ||१६|| रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् | नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् ||१७||

🔊 Audio coming soon

श्लेष्माधिमन्थलक्षणमाह- शोफवदित्यादि| दूषिका नेत्रमलम्| अयमपि रोगः साध्यः||१६-१७||

Adhikarana 13 (18-19) · Śloka 19

बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम् | रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः ||१८|| रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते | यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम् ||१९||

🔊 Audio coming soon

रक्ताधिमन्थलक्षणमाह- बन्धुजीवेत्यादि| बन्धुजीवो मध्याह्नपुष्पकः, अरिष्टकं कृष्णफलं ‘अरीठा’ इति लोके| असावपि साध्यः||१८-१९||

Adhikarana 14 (20) · Śloka 20

हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्सम्भवः पञ्चरात्रात् | षड्रात्राद्वै मारुतोत्थो निहान्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||२०||

🔊 Audio coming soon

इदानीं वाताद्यधिमन्थानां सम्यगुपचारसाध्यानां वैद्यातुरयोर्यत्नाधानार्थं मिथ्याचाराद्दृष्टिविनाशावधिं यथादोषं निर्दिशन्नाह- हन्यादित्यादि| मिथ्याचारादिति पदं श्लेष्मोद्भवाद्यधिमन्थेषु सर्वेष्वपि सम्बध्यते| दृष्टिनाशकालावधिरप्यत्र व्याधिस्वभावात्||२०||

Adhikarana 15 (21-22) · Śloka 22

कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः | दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ||२१|| जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम् | संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः ||२२||

🔊 Audio coming soon

सशोफपाकमाह- कण्ड्वित्यादि| संरम्भी शोफयुक्तः||२१-२२||

Adhikarana 16 (23) · Śloka 23

शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे |२३|

🔊 Audio coming soon

अशोफपाकमाह- शोफेत्यादि| लिङ्गानि सशोफपाकलिङ्गानीत्यर्थः| उभावपि पाकौ त्रिदोषजौ साध्यौ च|२३|-

Adhikarana 17 (23) · Śloka 23

उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य | रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||२३||

🔊 Audio coming soon

सकलनयनशोषलक्षणं हताधिमन्थं दर्शयन्नाह- उपेक्षणादित्यादि| सादयति अवसादयति, शोषयतीत्यर्थः||२३||

Adhikarana 18 (24) · Śloka 24

अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् | हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः ||२४||

🔊 Audio coming soon

दृष्टिनिर्गमलक्षणं हताधिमन्थं दर्शयन्नाह- अन्तःसिराणामित्यादि| प्रतिक्षिपन् निष्कासयन्नित्यर्थः| यद्यपि हताधिमन्थलक्षणद्वित्वं ज्ञायते तथाऽप्येक एव, अतो न सङ्ख्यातिरेकः| जेज्जटाचार्यस्तु नयनशोषलक्षणहताधिमन्थस्य पाठं न पठति, दृष्टिनिर्गमलक्षणस्य हताधिमन्थस्य पाठं पठति, पञ्जिकाकारेण च विदेहोक्तं प्रकारद्वयेन हताधिमन्थलक्षणं दृष्ट्वा न्यूनतादोषभयात् पाठद्वयमपि पठितम्| तथा च विदेहः- “अन्तर्गतः सिराणां तु यदा तिष्ठति मारुतः| स तदा नयनं प्राप्य शीघ्रं दृष्टिं निरस्यति|| तस्यां निरस्यमानायां निर्मथ्नन्निव मारुतः| नयनं निर्वमत्याशु शूलतोदाधिमन्थनैः|| अथवा शोषयेदक्षि क्षीणतेजोबलानलम्| उत्पद्ममिव संशुष्कमवसीदति लोचनम्|| हताधिमन्थं तं विद्यादसाध्यं वातकोपतः”- इति||२४||

Adhikarana 19 (25) · Śloka 25

पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः | पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति ||२५||

🔊 Audio coming soon

वातपर्यायमाह- पक्ष्मेत्यादि| अक्षि लोचनं, भ्रूः प्रसिद्धा| पर्यायशश्चापि रुजः करोति कदाचित् पक्ष्मद्वये, कदाचिदक्षिणि, कदाचिद्भ्रुवीति पर्यायशब्दार्थः| साध्योऽयम्||२५||

Adhikarana 20 (26) · Śloka 26

यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत् | सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||२६||

🔊 Audio coming soon

शुष्काक्षिपाकमाह- यदित्यादि| कूणितं निमीलितं, दारुणं कठिनं रूक्षं वर्त्म यस्य तत्तथा| विलोकने चाविलदर्शनमिति यदतिदर्शने आकुलदर्शनमित्यर्थः| सुदारुणं यत् प्रतिबोधने चेति प्रतिबोधने उन्मेषे च यदतिशयेन कठिनं; अन्ये सुदारुणं कृच्छ्रोन्मीलनम्| वातिकोऽयं साध्यश्च||२६||

Adhikarana 21 (27) · Śloka 27

यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा | कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति ||२७||

🔊 Audio coming soon

अन्यतोवातमाह- यस्येत्यादि| अवटुः ग्रीवायाः पश्चिमो भागः| मन्या ग्रीवायाः पार्श्वयोः सिराविशेषः| अन्यतो वेति पृष्ठतो वेत्यर्थः| अन्यतोवात इति यथार्थेयं सञ्ज्ञा, यतोऽन्यतः स्थितो वायुरन्यतो वेदनां करोति| वातिकोऽयं साध्यश्च||२७||

Adhikarana 22 (28) · Śloka 28

अम्लेन भुक्तेन विदाहिना च सञ्छाद्यते सर्वत एव नेत्रम् | शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति ||२८||

🔊 Audio coming soon

अम्लाध्युषितमाह- अम्लेनेत्यादि| विदाहिना वेति कटुकेन लवणेन वेत्यर्थः| लोहितकै रागैरित्यर्थः| सनीलैः ईषन्नीलैः| एतादृक् ईदृशमित्यर्थः| अम्लाध्युषितम् अम्लजनितपित्ताध्युषितम्| एष रोगः पैत्तिकः साध्यश्च||२८||

Adhikarana 23 (29) · Śloka 29

अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः | मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः ||२९||

🔊 Audio coming soon

सिरोत्पातमाह- अवेदनेत्यादि| विरज्यन्ति विरक्ता भवन्ति प्रकृतवर्णा भवन्तीत्यर्थः | रक्तजोऽयं साध्यश्च||२९||

Adhikarana 24 (30) · Śloka 30

मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः | ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||३०||

🔊 Audio coming soon

सिराहर्षमाह- मोहादित्यादि| अयमपि रक्तजः साध्यश्च||३०||

Adhikarana puShpikA · Śloka 6

इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयो नाम षष्ठोऽध्यायः ||६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गतशालाक्यतन्त्रे षष्ठोऽध्यायः समाप्तः||६||