Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

37. grahōtpattyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

नवग्रहाकृतिविज्ञानं चिकित्सितं चाभिधाय बालग्रहाणामुत्पत्तिं कारणं चाभिधातुं ग्रहोत्पत्त्यध्यायारम्भो युज्यत इत्याह- अथात इत्यादि| ग्रहाणां स्कन्दादीनाम्, उत्पत्तिः आगतिः प्राप्तिः; एतेन क्रीडनार्थं नियोजनमत्रोत्पत्तिः, नाभूतप्रादुर्भावः; कुतः? तेषां नित्यत्वात्||१-२||

Adhikarana 2 (3) · Śloka 3

नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः | श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ||३||

🔊 Audio coming soon

नवेत्यादि| विग्रहः शरीरं; तत्र च स्कन्दस्कन्दापस्मारनैगमेषाः पुरुषशरीराः, शेषाः स्त्रीशरीराः||३||

Adhikarana 3 (4) · Śloka 4

एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः | सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ||४||

🔊 Audio coming soon

एते इत्यादि| शरवणस्थस्य आत्मतेजसा रक्षितस्यापि रक्षार्थं कृत्तिकादिभिरेते स्कन्दादयो ग्रहाः सृष्टा नियोजिता इत्यर्थः; गुहस्य कार्तिकेयस्य, आत्मतेजसा स्वशक्त्या| ननु स्वभावरक्षितस्य गुहस्य रक्षकैः किं? उच्यते- यथा स्वशक्त्या अनभिभवनीयस्यापि इन्द्रस्य अन्ये देवा रक्षकाः, प्रभुधर्मत्वात्; तद्वद्गुहस्यापि अन्ये ग्रहा रक्षकाः, प्रभुधर्मत्वात्||४||

Adhikarana 4 (5) · Śloka 5

स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः | गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ||५||

🔊 Audio coming soon

स्त्रीत्यादि| स्त्रीविग्रहा नारीशरीराः, नानारूपा मेषादिमुखाः, मया धन्वन्तरिणा, ईरिताः कथिताः| ते स्त्रीविग्रहाः| भागा अंशाः, राजसतामसा मता रजस्तमोमयाः स्मृताः| यद्यपि सर्वग्रहाणां रजस्तमोमयत्वं, तथाऽपि स्त्रीविग्रहाणामेवात्यर्थं रजस्तमोगुणभूयिष्ठत्वं; तद्भूयिष्ठत्वाच्चातिशयेन हिंसात्मकत्वमिति तेभ्यो बालको रक्षितव्यः||५||

Adhikarana 5 (6) · Śloka 6

नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहाः | कुमारधारी देवस्य गुहस्यात्मसमः सखा ||६||

🔊 Audio coming soon

नैगमेष इत्यादि| नैगमेषः पुङ्ग्रहः, मेषानन एडकमुखः, बालकौतुकाय सृष्टः| कुमारधारी कुमारपालयिता; ‘कुमारहारी’ इत्यन्ये पठन्ति, तत्र कुमारान् हरतीत्यर्थः| आत्मसम आत्मतुल्यः, सखा मित्रम्| ‘आत्मसम’ इत्यत्रान्ये ‘आत्मोद्भव’ इति पठन्ति, तत्रात्मोद्भवः पुत्रः||६||

Adhikarana 6 (7) · Śloka 7

स्कन्दापस्मारसञ्ज्ञो यः सोऽग्निनाऽग्निसमद्युतिः | स च स्कन्दसखा नाम विशाख इति चोच्यते ||७||

🔊 Audio coming soon

स्कन्देत्यादि| अपस्मारविकारलिङ्गलिङ्गतविकारित्वेन स्कन्दापस्मार इत्युच्यते| सोऽग्निना सृष्ट इति सम्बध्यते| विशाख इति स्कन्दापस्मारस्यापरं नाम||७||

Adhikarana 7 (8) · Śloka 8

स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा | बिभर्ति चारपरां सञ्ज्ञां कुमार इति स ग्रहः ||८||

🔊 Audio coming soon

स्कन्द इत्यादि| त्रिपुरारिणा रुद्रेण सृष्टः||८||

Adhikarana 8 (9) · Śloka 9

बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः | मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते ||९||

🔊 Audio coming soon

गुहस्य स्कन्दादिभ्यो भेदमाह- बाललीलाधर इत्यादि| लीला चेष्टा, रुद्राग्निसम्भव इति रुद्रसम्भवोऽग्निसम्भवश्च| मिथ्याचारेषु बालेष्वित्यर्थः| स्वयं न प्रवर्तते तदनुचरास्तु प्रवर्तन्ते, कुतः? यतोऽस्य देवत्वाद्यागादिभिरेव तृप्तिः| ‘बाललीलाधर’ इत्यत्र ‘बाललीलाटन’ इत्यन्ये पठन्ति||९||

Adhikarana 9 (10) · Śloka 10

कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः | गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ||१०||

🔊 Audio coming soon

कुमार इत्यादि| कुमारः कार्तिकेयः, स्कन्दसामान्यात् स्कन्दग्रहनामतुल्यत्वाद्बालं गृह्णातीति ये केचिदपण्डिता देहचिन्तका वैद्या ब्रुवते तेऽल्पविज्ञाना अपण्डिताः||१०||

Adhikarana 10 (11-20) · Śloka 21

ततो भगवति स्कन्दे सुरसेनापतौ कृते | उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ||११|| ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै | तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ||१२|| ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् | तिर्यग्योनिं मानुषं च दैवं च त्रितयं जगत् ||१३|| परस्परोपकारेण वर्तते धार्यतेऽपि च | देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च ||१४|| वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः | इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः ||१५|| नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् | भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते ||१६|| तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति | कुलेषु येषु नेज्यन्ते देवाः पितर एव च ||१७|| ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा | निवृत्ताचारशौचेषु परपाकोपजीविषु ||१८|| उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु | गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः ||१९|| तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति | एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः ||२०|| ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः |२१|

🔊 Audio coming soon

के तर्हि बालान् गृह्णन्तीति पृष्ट आह- तत इत्यादि| ततो गुहरक्षार्थं नवग्रहेषु सृष्टेषु सत्सु, अनन्तरं सुरा देवास्तेषां सेना तस्याः पतौ स्वामिनि गुहे कृते सति, उपतस्थुः आगताः| शक्तिः आयुधविशेषः| ऊचुः उक्तवन्तः| प्राञ्जलयः संयोजितहस्ताः| एनं गुहं प्रति; एनमित्यत्र अन्ये देवेति गुहसम्बोधनं पठन्ति| किमूचुः? वृत्तिं वर्तनं, नः अस्माकं, संविधत्स्व कुरु, वै स्फुटम्| आत्मवृत्त्यर्थमुपस्थितानां ग्रहाणां कार्तिकेयेन किं कृतमित्याह- तेषामित्यादि| ततः स्कन्दः शिवं देवमचोदयत्तेषां ग्रहणामर्थे, ततो ग्रहवृत्तिप्रार्थनादनन्तरं, स्कन्दः कार्तिकेयः, अचोदयत् प्रार्थितवान्| एवं ग्रहार्थे प्रार्थितः शङ्करः किं कृतवानित्याह- तत इत्यादि| ततः प्रार्थनानन्तरं तान् ग्रहान् प्रति भगवान् भगनेत्रहृत् भगलोचनहारी रुद्र उक्तवान्| किमुक्तवानित्याह- तिर्यगित्यादि| तिर्यग्योनिमानुषदेवानां त्रितयं जगच्छब्दवाच्यं, एतत्त्रितयं परस्परमन्योन्योपकारेण वर्तते, धार्यतेऽपि चेति चकारात् क्रियते च| तत्र तिर्यग्योनयो गवादयः, ते मनुष्यानुपकुर्वन्ति वहनादिना; मानुषाश्च माषादिदानेन तिर्यग्योनीनुपकुर्वन्ति| देवमानुषयोः परस्परोपकारमाह- देवा इत्यादि| यथाकालं शीतोष्णवर्षादीन् कृत्वा मानुषान् तिर्यग्योनींश्च प्रीणयन्तीति सम्बन्धः| देवेषु मानुषोपकारमाह- इज्येत्यादि| इज्या यागः, अञ्जलिः करद्वययोजनं, नमस्कारः प्रणामः, जप ओङ्कारपूर्वकं गायत्र्याद्यावर्तनं, होमो लक्षादिसङ्ख्याहुतिभिर्वह्नौ हवनं, व्रतं प्रसिद्धं, सम्यक्प्रयुक्तैः वेदोक्तविधानेन प्रयुक्तैः; इज्याञ्जलिप्रभृतिभिः सम्यक्प्रयुक्तैर्नरास्त्रिदिवेश्वरान् देवान् प्रीणयन्तीति सम्बन्धः| भागधेयमित्यादि| भागधेयम् अंशसमूहः, विभक्तं देवादित्रितयेन सर्वमेव विभज्य गृहीतं, शेषम् अवशिष्टं, किञ्चिन्नास्ति यतस्तत्तस्माद्बालग्रहरक्षार्थं सृष्टत्वाद्युष्माकं वृत्तिरपि भो ग्रहा बालेष्वेव भविष्यतीति| अनपराधेषु बालेषु वृत्तिं कल्पयन् शम्भुरपि दोषभाक् स्यादतः सापराधेषु वृत्तिमाह- कुलेष्वित्यादि| नेज्यन्ते न पूज्यन्ते, उत्सन्ने नष्टे बलिभिक्षे येषु तानि तथा, तेषु वृत्तिरिति| अत्र हिंसनमेव वृत्तिः| पूजा चैवेति पुष्पादिना भोजनादिना चेत्यर्थः||११-२०||-

Adhikarana 11 (21-22) · Śloka 22

वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् ||२१|| स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः | अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते ||२२||

🔊 Audio coming soon

एवमित्यादि| वैकल्यं विकलाङ्गता| ध्रुवं निश्चितम्| स्कन्देत्यादि| सर्वेष्वेव ग्रहेषु मध्ये स्कन्दग्रहो यतोऽत्युग्रतमः, अत एव तद्गृहीतस्य ध्रुवं मरणं, अथ कथञ्चिज्जीवति तदा वैकल्यमिति| अन्य इत्यादि| अन्यो वा स्कन्दापस्मारादिकः||२१-२२||

Adhikarana puShpikA · Śloka 37

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम(एकादशोऽध्यायः, आदितः) सप्तत्रिंशत्तमोऽध्यायः ||३७||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे ग्रहेत्पत्त्यध्यायः सप्तत्रिंशत्तमः||३७||