Adhikarana 1 (1-2) · Śloka 2
अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
ग्रहोत्पत्त्यध्यायानन्तरं ‘तिर्यग्योनिं मानुषं च’ इति वचनेन योनेर्नामसङ्कीर्तनात् कुमारजन्मविकारकारणत्वाच्च योनेर्व्यापच्चिकित्सितार्थं योनिव्यापत्प्रतिषेधाध्यायारम्भो युज्यत इत्याह- अथात इत्यादि| योनिव्यापदो योनिरोगाः, तेषां प्रतिषेधश्चिकित्सितमिति||१-२||
Adhikarana 2 (3) · Śloka 4
प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते |
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ||३||
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते |४|
प्रवृद्धेत्यादि| रूक्षदुर्बलबाला या स्त्री प्रवृद्धलिङ्गमतिप्रलम्बमेहनं पुरुषमतिशयेन सेवते| तस्या वायुः प्रकोपमापद्यते, स वायुः प्रकुपितः सन् पित्तश्लेष्माणौ कोपयति, अथवा वातः पित्तश्लेष्माणौ स्वहेतुभिः कुपितौ गृहीत्वा योनिरोगाय कल्पते समर्थो भवति||३||-
Adhikarana 3 (4-5) · Śloka 6
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ||४||
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसङ्ग्रहे |
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च ||५||
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् |६|
तेषां योनिरोगाणां सामान्यज्ञानोपायमाह- त्रयाणामित्यादि| यथास्वं लक्षणेन योनिरोगं जानीयादित्यर्थः||४-५||-
Adhikarana 4 (6-8) · Śloka 9
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता ||६||
वातला चेति वातोत्थाः, पित्तोत्था रुधिरक्षरा |
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ||७||
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम् |
श्लेष्मला च कफाज्ज्ञेया, षण्डाख्या फलिनी तथा ||८||
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा |९|
वातजाः पञ्च योनिव्यापद आह- उदावर्तेत्यादि| उदावर्ता, वन्ध्या, विप्लुता, परिप्लुता, वातला, इति पञ्च वातोत्थाः| पित्तजाः पञ्चाह- रुधिरक्षरा, वामिनी, स्रंसिनी, पुत्रघ्नी, पित्तला, इति पञ्च पित्तोत्थाः| कफजाः पञ्चोच्यन्ते- अत्यानन्दा, कर्णिनी, चरणाद्वयं, श्लेष्मला, इति पञ्च कफोत्थाः| सन्निपातजाः पञ्चोच्यन्ते- षण्डी, फलिनी, महती, सूचिवक्त्रा, सर्वजा, इति पञ्च सन्निपातजाः||६-८||-
Adhikarana 5 (9-11) · Śloka 11
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ||९||
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम् |
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् ||१०||
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता |
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ||११||
वातजानां योनिव्यापदां पृथग्लक्षणमाह- सफेनिलमित्यादि| या उदावर्ता योनिः सा फेनिलं फेनसहितं रज आर्तवं कृच्छ्रेण दुःखेन मुञ्चति| विप्लुता नित्यं रुजावती, परिप्लुता पुनर्व्यवाय एव पीडावतीत्यनयोर्भेदः| वातलेत्यादि| स्तब्धा तनटितेव| शूलं वातशूलं, निस्तोदः सूचीभिरिव व्यधनम्| किं वातलायामेवानिलवेदना भवन्ति उतान्यास्वपीत्याह- चतसृष्वित्यादि| आद्यासु उदावर्तादिष्वपीत्यर्थः||९-११||
Adhikarana 6 (12-14) · Śloka 14
सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा |
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् ||१२||
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या |
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् ||१३||
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता |
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ||१४||
सदाहमित्यादि| अस्रम् आर्तवं, ‘सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया’ इति केचित् पठन्ति| बीजं शुक्रम्| उद्गिरेत् वमेत्| रजसा युतम् आर्तवमिश्रम्| स्यन्दते स्रवति, क्षोभिता सञ्चालिता, दुःप्रसूः दुःखेन प्रसूयते या एवंविधा योनिः सा प्रस्रंसिनीति सम्बन्धः| दुःप्रसूश्चेत्यत्रान्ये ‘दुःप्रजायना’ इति पठन्ति, दुष्टीभूतापत्यमार्गेति व्याख्यानयन्ति| स्थितमित्यादि| स्थितं स्थितं गर्भं हन्ति नोत्पन्नमात्रम्| चतसृषु आद्यासु लोहितक्षरादिषु| पित्तलिङ्गोच्छ्रयः ओषचोषादिका वेदनाः||१२-१४||
Adhikarana 7 (15-17) · Śloka 17
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति |
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यं प्रजायते ||१५||
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते |
बहुशश्चातिचरणादन्या बीजं न विन्दति ||१६||
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला |
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् ||१७||
अत्यानन्देत्यादि| ग्राम्यधर्मेण मैथुनेन| कर्णिका मांसकन्दी| मैथुनेत्यादि| पूर्वा चरणी अतिरिच्यते मैथुनाचरणेऽधिका भवति; अन्ये ‘मैथुनेऽचरणा पूर्वं’ इति पठन्ति, शेषं समम्| पुरुषात् पूर्वमतिरिच्यते, अत्यर्थं कण्डूयत इत्यर्थः| बहुशो अतिचरणात् मैथुनात्, अन्या अतिचरणा, बीजं गर्भाङ्कुरजननं, न विन्दति न प्राप्नोति| ‘बहुशश्चातिचरणी तयोर्बीजं न तिष्ठति’ इति केचित् पठन्ति, अतिचरणा बहुशो मैथुनं व्रजति, तयोश्चरणातिचरणयोर्बीजं न तिष्ठति, स्थितिं न करोतीत्यर्थः| श्लेष्मलेत्यादि| आद्यासु अत्यानन्दादिषु श्लेष्मलिङ्गोच्छ्रितिः पैच्छिल्यकण्ड्वादिकाः||१५-१७||
Adhikarana 8 (18-20) · Śloka 20
अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने |
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत् ||१८||
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता |
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ||१९||
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत् |
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः ||२०||
सान्निपातिकाः पञ्चोच्यन्ते| वन्ध्याषण्ड्योः सस्तनत्वनिस्तनत्वे विशेषतः| स्वरस्पर्शा चेति चकारान्मैथुनद्वेषनिषेधः| अतिकायो बृहत्साधनो नरस्तेन गृहीताया फलिनीति सञ्ज्ञा, ‘अफलिनी’ इत्यन्ये पठन्ति, तत्र अतिकायगृहीता या तरुणी सा अफलिनी अप्रजा इति व्याख्या| अतिविवृता महायोनिरुच्यते| सूचीवक्त्रा अतिसंवृता अत्यर्थसङ्कुचितमुखी, सङ्कुचितमुखेत्युच्यते| सर्वलिङ्गा सर्वचिह्ना, सर्वसमुत्थाना सर्वकारणा, या सा सर्वजा कथ्यते| चतसृष्वित्यादि| चतसृष्वपि चाद्यासु षण्डीप्रभृतिषु; सर्वलिङ्गोच्छ्रितिरिति रौक्ष्यतोदादिका वातलिङ्गोच्छ्रितयः, चोषादिकाः पित्तलिङ्गोच्छ्रितयः, स्नेहकण्ड्वादिकाः श्लेष्मलिङ्गोच्छ्रितयश्च||१८-२०||
Adhikarana 9 (21) · Śloka 21
प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते |
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् ||२१||
प्रतीत्यादि| साध्यासु योनिव्यापत्सु प्रतिदोषं यः स्नेहादिक्रमः स इष्यत इत्यर्थः| एतेन यस्य दोषस्य यः प्रत्यनीकः स्नेहस्तेन स्नेहेन संस्नेह्य संस्वेद्य ततो वमनादीन् साध्यास्ववचारयेदित्यर्थः| यथोदितानिति वातादिभेदेनेत्यर्थः||२१||
Adhikarana 10 (22-23) · Śloka 24
कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने |
कुम्भीस्वेदैरुपचरेत् सानूपौदकसंयुतैः ||२२||
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु |
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रितः ||२३||
धावनानि च पथ्यानि कुर्वीतापूरणानि च |२४|
कर्कशामित्यादि| अल्पस्पर्शामिति अतिव्यवायक्रुद्धवातजनितसुप्तित्वात्| ‘शीतलां’ इत्यत्रान्ये तु ‘तुमुलाम्’ इति पठन्ति, तत्र शूलतोदवेदनासङ्कुलामिति व्याख्या| कुम्भीस्वेदैः आनूपौदकमांसवातघ्नद्रव्यक्वाथपूर्णां कुम्भीं कृत्वा भूमौ निखन्य तदुपरि शय्यां संस्थाप्याग्निसन्तप्तलौहपाषाणगुडकान् क्वाथे निक्षिप्य तदुत्थितैर्बाष्पस्वेदैर्योनिप्रदेशमात्रगामिभिरुपचरेत्; अन्ये तु कुम्भीं वातहरद्रव्यानूपौदकमांसपूर्णां सजलां कृत्वा प्रवृत्तोष्माणं गृह्णीयादिति व्याख्यानयन्ति| उपनाहविशेषमाह- मधुरेत्यादि| मधुराणि काकोल्यादीनि कल्कीकृतानि, तैर्युक्तान् वेशवारान् कृतान्नवर्गोक्तान् योनिषु निक्षिपेत्, पिचुतैलं पिचुना तुलकेन तैलं वातघ्नद्रव्यक्वाथसिद्धं योनिषु धारयेत्| अतन्द्रितो निरन्तरकारीत्यर्थः | पिचुतैलं बलाशृतमित्यन्ये| धावनानि प्रक्षालनानि| पथ्यानि वातहरौषधसिद्धानीत्यर्थः||२२-२३||-
Adhikarana 11 (24) · Śloka 24
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् ||२४||
शीतं विधिं रक्तपित्तहरम्||२४||
Adhikarana 12 (25) · Śloka 25
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः |
पूरयेद्राजवृक्षादिकषायैश्चापि धावनम् ||२५||
दुर्गन्धां पित्तेन, पिच्छिलां कफेन| पञ्च कषाया न्यग्रोधोदुम्बरप्लक्षाश्वत्थगर्दभाण्डाः| तच्चूर्णेन योनिं पूरयेत्| राजवृक्षादिः आरग्वधादिः||२५||
Adhikarana 13 (26) · Śloka 26
योन्यां तु पूयस्राविण्यां शोधनद्रव्यसम्भृतैः |
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते ||२६||
शोधनद्रव्याणि मिश्रकोक्तानि||२६||
Adhikarana 14 (27-30) · Śloka 30
बृहतीफलकल्कस्य द्विहरिद्रायुतस्य च |
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा ||२७||
वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसम्भृताम् |
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ||२८||
पिधाय वेशवारेण ततो बन्धं समाचरेत् |
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् ||२९||
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम् |
क्षीरमांसरसप्रायमाहारं विदधीत च ||३०||
तथाशब्दाद्धूपनमपि बृहतीफलादिभिरेव||२७-३०||
Adhikarana 15 (31-32) · Śloka 32
शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः |
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च ||३१||
गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता |
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान् |
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् ||३२||
शुक्रेत्यादि| शुक्रार्तवादयो दोषाः शुक्रशोणितशुद्धिशारीरे सलक्षणचिकित्सिता उक्ताः; आदिशब्दाद्धात्रीस्तन्यदोषाश्च| स्तनरोगा विसर्पनाडीस्तनरोगनिदाने, तच्चिकित्सिते तच्चिकित्सा उक्ता| क्लैब्यस्थानानि क्लैब्यकारणानि क्षीणबलीयवाजीकरणोदितानि| मूढगर्भस्येति स्थानानीत्यत्रापि सम्बध्यते, तेन मूढगर्भस्य स्थानानि कारणानि, विधिरेव च क्रिया चेत्यर्थः| एतद्द्वयं मूढगर्भनिदाने तच्चिकित्सिते चोक्तम्| गर्भिणीप्रतिरोगेष्विति गर्भिणीप्रतिरोगेषु गर्भिण्या मासानुमासं प्रतिरोगेषु रक्तस्रावादिषु चिकित्सोक्ता| चिकित्सा चेति चकाराद्गर्भिण्याः स्वस्थाया अपि चिकित्सा उदाहृता गर्भिणीव्याकरणशारीरे| केचित् ‘गर्भिणीप्रतिरोगेषु’ इत्यत्र ‘गर्भिणीप्रतिमासेषु’ इति पठन्ति| तां चिकित्सां योनिव्यापत्स्वपि सर्वथा प्रयुञ्जीतेत्यर्थः| अपप्रजाता अकालप्रसूता, तस्या रोगान् ज्वरादिकान्| तानुत्तरादुत्तरतन्त्रोक्तज्वरादिचिकित्सितात्| रोगांश्चेति चकार उत्तरतन्त्रादित्यत्र योजनीयः| तेनापप्रजातारोगानुत्तरादुत्तरतन्त्रोक्ताच्चिकित्सेत्, चकारादपतानकादीन् संहितोक्तेन विधिना चिकित्सेदित्यर्थः| अन्ये तु ‘उत्तरान्’ इति पठन्ति, उत्तरकालभाविनोऽपतानकादीन् भिषक् चिकित्सेत्, ‘स्वैश्चिकित्सितैः’ इति शेषः||३१-३२||
Adhikarana puShpikA · Śloka 2
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम(द्वादशोऽध्यायः, आदितोऽ)ष्टत्रिंशत्तमोऽध्यायः ||३८||
उत्तरतन्त्रे द्वितीयं कौमारतन्त्रं समाप्तम् ||२||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे योनिव्यापत्प्रतिषेधाध्यायोऽष्टत्रिंशत्तमः||३८||