Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

36. naigamēṣapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

मुखमण्डिकाप्रतिषेधानन्तरं परिशिष्ठत्वान्नैगमेषप्रतिषेधारम्भो युक्त इत्याह- अथातो नैगमेषप्रतिषेधमित्यादि||१-२||

Adhikarana 2 (3-4) · Śloka 4

बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने | सुरा सबीजं धान्याम्लं परिषेके च शस्यते ||३|| प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः | पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ||४||

🔊 Audio coming soon

बिल्वाग्निमन्थेत्यादि| पूतीकः चिरबिल्वः| ‘सुरा सबीजं धान्याम्लं’ इत्यत्रान्ये ‘सुरासबीजधान्याम्लैः’ इति पठन्ति; तथापाठे सबीजं धान्याम्लं बीजेन सह काञ्जिकमिति| अन्ये तु सुरास्थाने तथेति पठन्ति| सबीजमप्यत्र सौवीरमिति केचित्| प्रियङ्गुसरलेत्यादि| सरला शुक्ला त्रिवृत्, अनन्ता उत्पलसारिवा, कुटन्नटं तगरं; तत्र प्रियङ्ग्वादिकल्कं चतुर्थांशं, दध्यादिद्रव्यैश्चतुर्भिः प्रत्येकं समं तैलं पचेदिति क्रमः||३-४||

Adhikarana 3 (5) · Śloka 5

पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च | पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ||५||

🔊 Audio coming soon

पञ्चमूलद्वयक्वाथे इति पञ्चमूलद्वयक्वाथे दशमूलक्वाथे त्रिगुणे, क्षीरे घृतसमे, काकोल्यादिकल्कचतुर्थांशं, खर्जूरीमज्जचतुर्थांशं वा घृतं पानार्थं पचेदित्यर्थः||५||

Adhikarana 4 (6) · Śloka 6

वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत् | उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ||६||

🔊 Audio coming soon

वचामित्यादि| वयःस्था गुडूची, ब्राह्मीत्यन्ये, गोलोमी दूर्वा, जटिला मांसी| उत्सादनम् उद्वर्तनम्||६||

Adhikarana 5 (7) · Śloka 7

सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह | भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ||७||

🔊 Audio coming soon

सिद्धार्थकेत्यादि| अक्षता यवाः||७||

Adhikarana 6 (8) · Śloka 8

मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे | धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ||८||

🔊 Audio coming soon

मर्कटेत्यादि| मर्कटादिपुरीषेण रात्रौ सुप्ते लोके बालस्य धूपनम्||८||

Adhikarana 7 (9) · Śloka 9

तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि | कुमारपितृमेषाय वृक्षमूले निवेदयेत् ||९||

🔊 Audio coming soon

तिलेत्यादि| विविधान् स्वस्तिकमोदकादीन्| कुमारपितृमेषायेति कुमाराणां पिता रक्षणात्मकत्वात्, मेषो नैगमेषः, तस्मै नैगमेषाय| वृक्षमूले क्षीरवृक्षमूले| निवेदयेत्तिलादिकं बलिम्||९||

Adhikarana 8 (10-11) · Śloka 11

अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते | बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् ||१०|| अजाननश्चलाक्षिभ्रः कामरूपी महायशाः | बालं बालपिता देवो नैगमेषोऽभिरक्षतु ||११||

🔊 Audio coming soon

रक्षामाह- अधस्तादित्यादि| स्नपनं गायत्र्यभिमन्त्रिताभिरद्भिः| बलिमपि तिलतण्डुलमित्यादिकं वटमूले षष्ठ्यां निवेदयेत्||१०-११||

Adhikarana puShpikA · Śloka 36

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम(दशमोऽध्यायः, आदितः) षट्त्रिंशोऽध्यायः ||३६||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे नैगमेषप्रतिषेधाध्यायः षट्त्रिंशत्तमः||३६||