Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

42. gulmapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो गुल्मप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

शोषप्रतिषेधानन्तरं रिष्टोक्तक्रमानुक्रमेण गुल्मप्रतिषेधारम्भो युज्यत इत्याह- अथातो गुल्मप्रतिषेधमित्यादि||१-२||

Adhikarana 2 (3) · Śloka 3

यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः | जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ||३||

🔊 Audio coming soon

तत्र निदानानन्तरयीकत्वात् प्रतिषेधस्यादौ गुल्मानां हेतुसम्प्राप्तिसङ्ख्या आह- यथोक्तैरित्यादि| यथोक्तैः कोपनैः व्रणप्रश्नोक्तैर्बलवद्विग्रहादिक्रोधादिदिवास्वप्नादिभिः| आमपक्वाग्निरक्तमूत्राशयहृदयोण्डुकफुप्फुसाश्च कोष्ठशब्दवाच्याः, तथा चोक्तम्- ‘स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते’ इति| गुल्मः पञ्चविधः पृथग्दोषैः त्रयः, समस्तैः एकः, रक्तेन अपरः, एवं पञ्चविधः| एतच्च प्रायोवचनं, द्वन्द्वजगुल्मानां सद्भावात्| तथा चोक्तम्- “व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेद्भेषजकल्पनार्थम्”- इति, तथा व्रणप्रश्नोक्तप्रसरतया पञ्चदशप्रकारगुल्मसम्भवात्| यथोक्तैः कोपनैरित्यादिर्हेतुः, दोषाः कुपिता इत्यादिः सम्प्राप्तिः, स पञ्चविध इत्येषा सङ्ख्या||३||

Adhikarana 3 (4) · Śloka 4

हृद्बस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः | चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ||४||

🔊 Audio coming soon

गुल्मस्य रूपमाह- हृद्बस्त्योरन्तरे ग्रन्थिरित्यादि| हृद्बस्त्योः हृदये च बस्तौ च, वा तयोरेवान्तरे; तेन सर्वमुदरमाक्षिप्तम्| सञ्चारी चलनशीलः, वाताधिक्यात्| अचल एकस्थानशायी, वायोरल्पत्वात्| चयापचयवान् कदाचिदुपचितः कदाचिदपचित इति, विचित्रक्रियत्वाद्वायोः| वृत्तो वर्तुलः| केचित् ‘हृन्नाभ्योरन्तरे’ इति पठन्ति; ते च नाभिग्रहणेनैव सामीप्याद्बस्तिं गृह्णन्ति| ‘चयापचयवान्’ इत्यत्र ‘स्थिरोपचयवान्’ इति केचित् पठन्ति, स्थिर उपचयो वृद्धिर्यस्य स इति च व्याख्यानयन्ति||४||

Adhikarana 4 (5) · Śloka 5

पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः |५|

🔊 Audio coming soon

इदानीं तत्राप्युदरे पञ्चगुल्माश्रयानाह- पञ्च गुल्माश्रया इत्यादि| सुबोधमेतत्| कार्तिककुण्डस्त्वेनं पाठं ‘स व्यस्तैर्जायते दोषैः’ इत्यादिवाक्यादनन्तरं पठति|५|-

Adhikarana 5 (5) · Śloka 6

गुपितानिलमूलत्वाद्गूढमूलोदयादपि ||५|| गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते |६|

🔊 Audio coming soon

अथ गुल्मनिरुक्तिमाह- गुपितानिलमूलत्वादित्यादि | गुपितानिलमूलत्वात् आकुलीकृतवायुमूलत्वात्, एतेन सर्वगुल्मानां वायुः कारणम्| गूढमूलोदयादिति गूढमूलाः कन्दादयः, तेषामिवोदयादुत्पत्तेः; अन्ये तु गूढमूलो गुप्तकारण उदयो यस्य स तथा तस्मात्, मूलस्य वायोर्गूढत्वमावृतत्वमुच्यते तत्प्रकोपद्वैविध्यात्; तथा च- “वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च”- इति| गुल्मवत् मनुष्यादिसंहतिवत् | विशालत्वात् विस्तीर्णत्वात्| एतेनैतदुक्तं भवति- यथा संहतिविशेषेणावस्थिता मनुष्यवृक्षादयो गुल्मव्यपदेशं भजन्ते- मनुष्यगुल्मो वृक्षगुल्म इति, एवमत्रापि दृष्टान्तत्रयं गुल्मस्य दोषत्रयोद्भवत्वप्रदर्शनार्थम्| ‘गुपितानिलमूलत्वात्’ इत्यत्र ‘कुपितानिलमूलत्वात्’ इति केचित् पठन्ति| तत्रापि स एवार्थः| ‘गूढमूलोदयात्’ इत्यत्रापरे ‘गूढगूल्मोदयात्’ इति पठन्ति, व्याख्यानयन्ति च- गूढस्य लतादिवृतस्य गुल्मस्येव वर्तुलविटपस्येव उदयादुत्पत्तेर्गुल्म इत्यर्थः||५||-

Adhikarana 6 (6) · Śloka 7

स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ||६|| अन्तः सरति यस्माच्च न पाकमुपयात्यतः |७|

🔊 Audio coming soon

इदानीं यथा न पच्यते गुल्मस्तथाऽऽह- स यस्मादित्यादि| स गुल्मो यस्मात् कारणादात्मनि स्वावयवे चयं निचयं गच्छति याति; अप्स्विव बुद्बुद उद्गच्छति उद्गतिं याति, तथा गुल्मरूपोऽपि दोषः स्वावयवे उद्गच्छति उद्गतिं याति; अन्तः अभ्यन्तरे, सरति भ्राम्यति| एवम्भूतः प्रायेण वातिको भवति, स च न पच्यते; इतरे च गुल्मा यदा रक्तादिदूष्यमधिष्ठाय अवतिष्ठन्ते तदा कदाचित् पच्यन्ते| तथा चोक्तम्- “रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य वा| यदि गुल्मो विदह्येत शस्त्रं तत्र भिषग्जितम्”- इति| अथैवमन्तर्विद्रधेर्गुल्मस्य च शीघ्रमन्दपाकित्वेन भेदः||६||-

Adhikarana 7 (7) · Śloka 8

स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ||७|| पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः |८|

🔊 Audio coming soon

इदानीं ‘स पञ्चविध उच्यते’ इत्यस्यैव विवरणमाह- स व्यस्तैर्जायते दोषैरित्यादि| स गुल्मः, व्यस्तैः एकैकैः; उच्छ्रितैः प्रकुपितैः, रक्तेन आर्तवरक्तेन; चकारात् धातुरक्तेनापि गुल्मो जायते, स च पुंसां स्त्रीणां च भवति; तस्य च पृथगुपादानं न कृतं, पैत्तिकगुल्मसमानलक्षणतया तत्रैवावरोधात्||७||-

Adhikarana 8 (8-9) · Śloka 9

सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ||८|| विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा | द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ||९||

🔊 Audio coming soon

गुल्मपूर्वरूपाण्याह- सदनमित्यादि| आटोप उदरापूरः| सङ्गो निरोधः| सौहित्यासहता तृप्त्यक्षमत्वम्| वायुः ऊर्ध्वं सन्ततोद्गार इत्यर्थः||८-९||

Adhikarana 9 (10) · Śloka 10

हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च | ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु ||१०||

🔊 Audio coming soon

वातगुल्मलक्षणमाह- हृत्कुक्षिशूलमित्यादि| विषमाग्निता चेति चकारान्मुखवैरस्यं ग्राह्यम्| ते ते विकाराः स्तम्भकम्पादयः| केचिद्वातगुल्मलक्षणं ‘आध्मानशूले भवतोऽतिमात्रं’ इत्यादिना पाठेन पठन्ति; स चाभावान्न लिखितः||१०||

Adhikarana 10 (11) · Śloka 11

स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च | पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ||११||

🔊 Audio coming soon

पित्तगुल्मलक्षणमाह- स्वेदेत्यादि| आहारविदाहः भुक्तमात्रस्याहारस्याम्लिकादिसद्भावः| पित्तस्य लिङ्गानि भ्रममदमूर्च्छादीनि| पित्तगुल्मलक्षणमपि केचिदन्यपाठेन पठन्ति| यथा- ‘अम्लीभवत्यन्नमथो ज्वरश्च दाहः पिपासा कटुवक्त्रता च| पित्तस्य लिङ्गानि च कीर्तितानि भवन्ति पित्तप्रभवे तु गुल्मे’ इति||११||

Adhikarana 11 (12) · Śloka 12

स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च | कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसम्भवे तु ||१२||

🔊 Audio coming soon

कफगुल्मलक्षणमाह- स्तैमित्यमित्यादि| स्तैमित्यं स्तिमितता| अन्ने अरुचिः अन्नानभिलाषः| प्रसेको लालास्रावः| कफस्य लिङ्गानि गौरवशैत्यादीनि| कफगुल्ममपि केचित् “अन्ने न लिप्सा गुरुगात्रता च छर्दिः प्रसेको मधुरास्यता च” इत्यादिपाठेन पठन्ति, सोऽप्यभावान्न दर्शितः||१२||

Adhikarana 12 (13) · Śloka 13

सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः, ... |१३|

🔊 Audio coming soon

सन्निपातगुल्मलक्षणमाह- सर्वात्मक इत्यादि| सर्वविकारयुक्तः प्रत्येकवातादिगुल्मोक्तलक्षणसहितः| ‘सर्वात्मके सर्वरुजोपपत्तिः’ इति केचित् पठन्ति, व्याख्यानयन्ति च- सर्वलिङ्गोपपत्तिरिति वक्तव्ये सर्वरुजोपपत्तिरिति यत्कृतं तन्महारुजत्वप्रतिपादनार्थम् | केचिदत्र निचयगुल्मं पुरीषलसिकारक्तजन्यं दक्षिणपार्श्वाश्रितं पठन्ति| तस्य विशेष उच्यते,- “सिराजालपरिच्छन्नो दाहरागज्वरान्वितः| कूर्मवद्रक्तपर्यन्तस्त्रिदोषः स न सिध्यति”- इति| केचिच्च गुल्मावस्थाविशेषमुपस्तम्भनामान्तरं पठन्ति- “पयो ह्यम्लसमायुक्तं दधिभावं व्रजेद्यथा| यत्नहीनस्य गुल्मोऽपि तथोपस्तम्भतां व्रजेत्|| अम्भोवहे स्तम्भयित्वा स्रोतसी कोष्ठसंश्रितः| उदरे प्रति सन्तिष्ठेदुपस्तम्भं तु तं विदुः”- इति|१३|-

Adhikarana 13 (13-15) · Śloka 15

... क्षतजं प्रवक्ष्ये | नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा ||१३|| वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् | पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ||१४|| न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् | तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ||१५||

🔊 Audio coming soon

आर्तवरक्तजगुल्मं हेत्वादिभिराह- क्षतजमित्यादि| क्षतजशब्देनार्तवरक्तमुच्यते , कारणे कार्योपचारात्| आमगर्भ; षण्मासं यावत्| ऋतावित्यत्रापि अहितभोजनेति सम्बध्यते| पैत्तस्य पित्तजगुल्मस्य| विशेषणं विशेषम्| निबोध जानीहि| न स्पन्दते न चलति, ‘अङ्गैः’ इति शेषः| अन्ये तु परतो निषेधस्योभयत्र सम्बन्धात् स्पन्दते इत्येव वर्णयन्ति; तेन पिण्डितः स्पन्दत एवेत्यर्थः; तथा चोक्तम्- ‘यः स्पन्दते पिण्डित एव नाङ्गैः’ (च. चि. अ.५)- इति| गर्भिणीनां लिङ्गानि श्रमादीनि सदनान्तान्यत्र व्याधिस्वभावाद्भवन्ति| तं रक्तगुल्मम्| गर्भकालातिगमे प्रसूतिकालेऽतिक्रान्ते; प्रसूतिकालादनन्तरं पिण्डीभूते रक्तगुल्मे स्नेहादिनोपस्कृतदेहायाः सुखसाध्यत्वम्| उक्तं च- “ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम् ” इति| केचिदेवं व्याख्यानयन्ति- ‘मासे व्यतीते दशमे चिकित्स्यः’ इति वक्तव्ये ‘तं गर्भकालातिगमे चिकित्स्यम्’ इति यत्कृतं तद्रक्तगुल्मे सम्यगुपचिते प्रसूतिकालादर्वागपि चिकित्सा करणीयेति बोधयति||१३-१५||

Adhikarana 14 (16) · Śloka 16

वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः | उपाचरेद्यथाकालं निरूहैः सानुवासनैः ||१६||

🔊 Audio coming soon

अतः परं चिकित्सामाह- वातगुल्मार्दितमित्यादि| स्निग्धमवस्थापेक्षया चतुर्भिरपि स्नेहैः| यथाकालमिति ‘पक्षाद्विरेको वान्तस्य’ इत्यादिनोक्तस्य कालस्यानतिक्रमेणेत्यर्थः; ‘यथाकालं’ इत्यत्र ‘यथायोगं’ इति पठित्वा यथावस्थमिति व्याख्या नयन्ति||१६||

Adhikarana 15 (17) · Śloka 17

पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु | विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् ||१७||

🔊 Audio coming soon

पित्तगुल्मार्दितमित्यादि| मधुरैर्योगैः आरग्वधादिभिः क्षीरशर्करादिभिश्च; अन्ये तु ‘भित्त्वा द्विधेक्षुम्’ इत्याद्युक्तैर्मधुरैर्योगैरिति व्याख्यानयन्ति| निरूहैः समुपाचरेन्मधुरैरेव||१७||

Adhikarana 16 (18) · Śloka 18

श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु | तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् ||१८||

🔊 Audio coming soon

श्लेष्मगुल्मार्दितमित्यादि| तीक्ष्णैः दन्तीद्रवन्तीप्रभृतीभिः| तद्रूपैर्निरूहैस्तीक्ष्णैः ‘आरग्वधादिभिः क्वाथः’ इत्यादिभिरित्यर्थः| सर्वगुल्मेषु स्नेहस्वेदौ प्रयोज्यौ, वातारब्धत्वात् ||१८||

Adhikarana 17 (19) · Śloka 19

सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः |१९|

🔊 Audio coming soon

सन्निपातोत्थिते गुल्मे इत्यादि| ननु, पूर्वं सान्निपातिको गुल्मोऽसाध्य उक्तः, तत् कथं त्रिदोषघ्नो विधिर्हित इत्युच्यते? सत्यं, यथा विषमसन्निपातजो गुल्मोऽसाध्यस्तथा समसन्निपातजोऽभिनवो बलवति पुरुषे कृच्छ्रसाध्यः, अतोऽत्र चिकित्सितमुक्तम्| तथा चोक्तं- “सन्निपातोत्थितो गुल्मश्चिरोत्थोऽसमदोषजः| वर्जनीयोऽन्यथा कृच्छ्रसाध्यो बलवतो मतः”- इति|१९|-

Adhikarana 18 (19-21) · Śloka 21

पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः ||१९|| विशेषमपरं चास्याः शृणु रक्तविभेदनम् | पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् ||२०|| दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु | उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ||२१||

🔊 Audio coming soon

पित्तवद्रक्तगुल्मिन्या इत्यादि| पित्तवत् पित्तगुल्मवत्| पित्तगुल्मचिकित्सया प्रतिकृतस्य रक्तगुल्मस्य विशेषचिकित्सामाह- विशेषमपरं चास्या इत्यादि| पलाशक्षारतोयेन पलाशभस्मगालितेन जलेन| केचित्तोयशब्दं क्वाथे वर्णयन्ति | स च क्षारक्वाथः स्नेहोपयोगोक्तविधिना कार्यः| पिप्पल्यादिगणकल्कक्वाथाभ्यां साधितघृतेन| उष्णैरिति पिप्पल्यादिप्रभृतिभिः| विधिरासृग्दर इति रक्तपित्तोक्तो विधिः; कुत एतत्? असृग्दरे रक्तपित्तविध्यतिदेशात्; असृग्दरविध्यतिदेशेन रक्तपित्तविध्यतिदेशं कुर्वन्नेतज्ज्ञापयति- अधोगतरक्तपित्तचिकित्सितमत्र कार्यमिति||१९-२१||

Adhikarana 19 (22) · Śloka 22

आनूपौदकमज्जानो वसा तैलं घृतं दधि | विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् ||२२||

🔊 Audio coming soon

वातगुल्मेऽनुवासनमुद्दिशन्नाह- आनूपौदकमज्जान इत्यादि| आनूपा गजगवयादयः, औदका मत्स्यादयः| वसाऽपि आनूपादीनामेव| विपक्वमेकत इति एतच्च स्नेहमेकीकृत्य विपक्वम्, अर्थाद्वातहरैर्द्रव्यैरिति बोद्धव्यम्||२२||

Adhikarana 20 (23) · Śloka 23

जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके |२३|

🔊 Audio coming soon

पैत्तिके गुल्मेऽनुवासनमाह- जाङ्गलैकशफानामित्यादि| अत्र जाङ्गलशब्देन जङ्घालविष्किरौ प्रधानतया गृह्येते| एकशफा अश्ववेशरादयः| वसा सर्पिश्चेति अत्रापि विपक्वमिति सम्बध्यते| तेनैतद्द्वयं पित्तहरैर्द्रव्यैर्विपक्वं पैत्तिके गुल्मेऽनुवासनं योज्यमिति|२३|-

Adhikarana 21 (23) · Śloka 23

तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते ||२३||

🔊 Audio coming soon

कफगुल्मेऽनुवासनमाह- तैलं जाङ्गलमज्जान इत्यादि| एवमिति कफहरद्रव्यैर्विपक्वमनुवासनं शस्तमित्यर्थः||२३||

Adhikarana 22 (24) · Śloka 24

धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् | शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने ||२४||

🔊 Audio coming soon

वातादिजगुल्मेष्वनुवासनमभिधाय वातापहघृतान्याह - धात्रीफलानामित्यादि| धात्रीफलानां स्वरसे चतुर्गुणे; षडङ्गमिति षट्पलकं; तेनात्र पञ्चकोलयवक्षारकल्कमिति लभ्यते| शर्करासैन्धवोपेतमिति शर्करासैन्धवप्रक्षेपयुक्तं तद्घृतं वातगुल्मिने हितमित्यर्थः||२४||

Adhikarana 23 (25-26) · Śloka 26

चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः | दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः ||२५|| दध्यारनालबदरमूलकस्वरसैर्घृतम् | तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् ||२६||

🔊 Audio coming soon

चित्रकादिघृतमाह- चित्रकव्योषेत्यादि| पृथ्वीका हिङ्गुपत्रिका, ‘कृष्णजीरक’ इत्यन्ये; दीप्यकः अजमोदा, ग्रन्थिकं पिप्पलीमूलम्| समैरिति ‘कल्कीकृतैः’ इत्यध्याहार्यम्| दध्यादीनि मूलकस्वरसान्तानि प्रत्येकं घृताच्चतुर्गुणानि||२५-२६||

Adhikarana 24 (27-28) · Śloka 28

हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः | पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः ||२७|| शटीवचाजगन्धैलासुरसैश्च विपाचितम् | शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ||२८||

🔊 Audio coming soon

हिङ्ग्वाद्यं घृतमाह- हिङ्गुसौवर्चलेत्यादि| धान्यं धान्यकम्| अजगन्धा बोवयिका| सुरसः तुलसी| हिङ्ग्वादीनां सुरसान्तानां कल्के दध्ना चतुर्गुणेन विपाचितं सर्पिः शूलादिहरमिति सम्बन्धः||२७-२८||

Adhikarana 25 (29-30) · Śloka 30

विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः | हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः ||२९|| बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् | साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ||३०||

🔊 Audio coming soon

दाधिकसञ्ज्ञं घृतमाह- विडदाडिमसिन्धूत्थेत्यादि| हुतभुक् चित्रकः| क्षारो यवक्षारः, रुक् कुष्ठं, वृक्षाम्लं तिन्तिडीकम्| बीजपूरकरसोऽत्र चतुर्गुणः, द्रवद्रव्यत्वात्||२९-३०||

Adhikarana 26 (31-33) · Śloka 33

रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् | सुरारनालदध्यम्लमूलकस्वरसैः सह ||३१|| व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः | हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ||३२|| सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् | कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ||३३||

🔊 Audio coming soon

रसोनादिघृतमाह- रसोनस्वरसो इत्यादि| पञ्चमूलरसान्वितमिति बिल्वादिपञ्चमूलक्वाथान्वितम्| आरनालं काञ्जिकं, दध्यम्लं दधिमस्तु| दीप्यकः अजमोदा| रसोनस्वरसादिमूलकस्वरसान्तैः षड्भिर्द्रवैर्घृतसमैः, व्योषादिद्रव्यैः कल्कितैः सर्पिश्चतुर्थांशैः, सिद्धं सर्पिर्गुल्मादीन् जयेदिति सम्बन्धः||३१-३३||

Adhikarana 27 (34-35) · Śloka 35

दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ | पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ||३४|| सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम् | वातगुल्मापहं सर्पिरेतद्दीपनमेव च ||३५||

🔊 Audio coming soon

दधि सौवीरकमित्यादि| दध्यादीनि चत्वारि पृथगाढकप्रमाणानि, सौवर्चलादीनि द्विपलान्यावाप्य सर्पिराढकं विपचेत्, अयमत्र सिद्धः पाठः, पारम्पर्याविच्छेदस्मरणात्| वर्तमानपुस्तकेषु चायं पठ्यते- कुलत्थमूलकक्वाथेत्यादि||३४-३५||

Adhikarana 28 (36) · Śloka 37

तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् | न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ||३६|| रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् |३७|

🔊 Audio coming soon

पित्तजरक्तजगुल्मयोर्घृतान्याह- तृणमूलकषाये इत्यादि| अत्र तृणमूलशब्दात्तृणपञ्चमूलकषाये इति बोद्धव्यम्| जीवनीयैरिति काकोल्यादिभिः कल्कीकृतैरित्यर्थः| न्यग्रोधादिगणे क्वाथीकृते इति ज्ञेयम्| वाऽपीत्वपिशब्दो जीवनीयैः पचेद्घृतमिति समुच्चिनोति| एतमुत्पलादावपि ग्राह्यम्| रक्तपित्तोत्थितं ‘गुल्मं’ इति शेषः||३६||-

Adhikarana 29 (37-38) · Śloka 38

आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ||३७|| क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् | घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ||३८||

🔊 Audio coming soon

कफगुल्मे घृतान्याह- आरग्वधादौ विपचेदित्यादि| आरग्वधादाविति क्वाथीकृते| दीपनीययुतमिति पिप्पल्यादिकल्कयुतम्| एकं घृतम्| क्षारवर्गे इति मुष्ककादारभ्य यावच्चतस्रः कोशातकीरिति क्षारवर्गे, मुष्ककादिगणे इत्यन्ये व्याख्यानयन्ति| अत्रापि दीपनीययुतमिति सम्बध्यते, तेन क्षारवर्गद्रवे पिप्पल्यादिकल्कयुतं घृतं पचेदित्यर्थः; द्वितीयं घृतमित्यर्थः| पचेन्मूत्रगणेऽपरमिति मूत्रगणे गोमूत्रादिकेऽष्टसङ्ख्याकेऽपरं तृतीयं घृतम्| अत्रापि दीपनीययुतमिति सम्बध्यते| ‘मूत्रगणेऽपरम्’ इत्यत्रान्ये ‘दीपनीयगणेऽपरम्’ इति पठन्ति, तच्च टीकाकारा अनार्षं वर्णयन्ति| केचिदिदं कफगुल्मचिकित्सितं वातगुल्मचिकित्सानन्तरं पठित्वा वातावरकं कफशान्तये कफहन्तॄण्यपि घृतानि वातगुल्मे शस्तानीति व्याख्यानयन्ति||३७-३८||

Adhikarana 30 (39) · Śloka 39

यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् |३९|

🔊 Audio coming soon

एवं घृतान्यभिधायाधुना सान्निपातिके दोषोद्रेकेण घृतचूर्णादिभिश्चिकित्सितमाह- यथेत्यादि| यथादोषोच्छ्रयं यो यो दोष उच्छ्रित उत्कटस्तच्चिकित्सया चिकित्सेदित्यर्थः| ‘यथादोषोच्छ्रयं’ इत्यत्रान्ये ‘यथादोषबलं’ इति पठन्ति; तत्राप्येकोऽर्थः|३९|-

Adhikarana 31 (39) · Śloka 40

चूर्णं हिङ्ग्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ||३९|| पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा |४०|

🔊 Audio coming soon

तच्च यथादोषोच्छ्रयं चिकित्सितं वाते जिते सति कार्यमिति वातहरविधिमाह- चूर्णमित्यादि| चूर्णं हिङ्ग्वादिकमिति हिङ्गुत्रिकटुकेत्यादिना वातव्याध्युक्तम्| घृतं वा प्लीहनाशनमिति षट्पलकमित्यर्थः| यद्यपि षट्पलं घृतं तन्त्रान्तरे कफगुल्महरत्वेन दर्शितं, तथाऽप्यत्र विलक्षणैकद्रव्यत्वाद्वातगुल्महरत्वम्| काले उत्पन्नमात्र एव षट्पलकं घृतं हितं, काले अवस्थायामित्यन्ये| सर्पिस्तैल्वकमिति तिल्वकः पट्टिकारोध्रः, तेन संस्कृतं तैल्वकं, वातव्याध्युक्तं वा||३९||-

Adhikarana 32 (40-44) · Śloka 44

तिलेक्षुरकपालाशसार्षपं यावनालजम् ||४०|| भस्म मूलकजं चापि गोजाविखरहस्तिनाम् | मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ||४१|| कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः | साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् ||४२|| अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्य(ह)मथोद्धरेत् | तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषाऽपि वा ||४३|| धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा | गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ||४४||

🔊 Audio coming soon

पानीयं क्षारमाह- तिलेत्यादि| इक्षुरकः कोकिलाक्षकः| नागरकस्थाने केचित्त्र्यूषणं पठन्ति| कृमिघाति विडङ्गम्| तिलादीनां मूलकान्तानां भस्म गवादिमूत्रगणेन चतुर्गुणेन क्षारकल्पेन परिस्राव्य कुष्टादिभिरजमोदान्तैः पालिकेः सामुद्रात् समुद्रलवणाद्दशभिः पलैश्चूर्णितैर्युतं लौहपात्रे मृदुना चाग्निना लेह्यं पक्त्वा उद्धरेदिति सम्बन्धः| अन्ये तु व्याख्यानयन्ति- तिलादिभस्मपलशतं गवादिमूत्रेण चतुर्गुणेन निष्क्वाथ्य पादभागिकमवशेष्य, तच्चतुर्थांशं कुष्ठादिचूर्णमावाप्य तावत् पचेद्यावल्लेह्यं भवति| दध्नेत्याद्यनेकावलोडनद्रव्योपदेशो दोषकालाग्न्यपेक्षया| वातविकारान् तूनीप्रभृतीन्||४०-४४||

Adhikarana 33 (45) · Śloka 45

स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा | तैलेन शमयेत् पीतो गुल्मं पवनसम्भवम् ||४५||

🔊 Audio coming soon

श्लोकेन योगद्वयमाह- स्वर्जिकेत्यादि| क्षारो यवक्षारः| तत्र स्वर्जिकाकुष्ठसहितो यवक्षारस्तैलेनेत्येको योगः; केतकिजोऽपि वेत्यत्रापि क्षार इति सम्बध्यते, तेन केतकिजोऽपि वा क्षारस्तैलेनेति द्वितीयो योगः| गौडास्तु केतकिक्षारः स्वर्जिकाकुष्ठसहितस्तैलेनेत्येकमेव योगं मन्यन्ते||४५||

Adhikarana 34 (46) · Śloka 46

पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम् |४६|

🔊 Audio coming soon

क्षारावलेहमभिधाय चूर्णमाह- पीतमित्यादि| सुखाम्बुना ईषदुष्णोदकेन| गुल्मं हन्तीत्यत्रापि सम्बध्यते|४६|-

Adhikarana 35 (46-48) · Śloka 49

वृश्चीव(र)मुरुबूकं च वर्षाभूर्बृहतीद्वयम् ||४६|| चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् | मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ||४७|| मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् | बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ||४८|| अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम् |४९|

🔊 Audio coming soon

वृश्चीवाद्यरिष्टमाह- वृश्चीवेत्यादि वृश्चीवः शुक्लपुनर्नवा| उरुबूकः शुक्लैरण्डः| वर्षाभूः रक्तपुनर्नवा| बृहतीद्वयमिति एका अणुफला , द्वितीया कण्टकिनी स्थूलफला| वृश्चीवादीनां चित्रकान्तानामाढकम्; अन्ये पलशतं मन्यन्ते, द्रोणेऽम्भसि पलशतमित्यादिपरिभाषितत्वात्| पादावशेषितं चतुर्थांशावशिष्टं क्वाथं, मगधादिप्रमाणं यावन्मात्रेण कुम्भस्य सम्यग्लेपनं भवति, पथ्याचूर्णार्धसंयुक्तं हरीतकीचूर्णाष्टपलसंयुतम्| बुसोषितं बुसमध्ये स्थितम्| जीर्णभक्तः परिणताहारः लघुकोष्ठ इति यावत्| पिबेत् प्रातरेव||४६-४८||-

Adhikarana 36 (49-51) · Śloka 52

पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ||४९|| लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः | पथ्याभिर्वा युतं चूर्णं गवां मूत्रयुतं पचेत् ||५०|| गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान् | गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ||५१|| हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् |५२|

🔊 Audio coming soon

पाठेत्यादि| निकुम्भा दन्ती| अग्निकः चित्रकः, ‘अग्निमन्थ’ इत्यन्ये, ‘मोरट’ इत्यपरे| वृक्षबीजम् इन्द्रयवः| अनवं गुडं पुराणं गुडम्| पाठादिचूर्णं समपुराणगुडयुतं स्वादेत्, अथवा तदेव चूर्णं हरीतकीभिः सह गोमूत्रेण पचेत्, तं च घनीभूतं गुटिकाः कृत्वा प्रातरेव खादेत्| हरीतकीप्रमाणं चूर्णाच्चतुर्थांशं, गोमूत्रं तु चतुर्गुणम्||४९-५१||-

Adhikarana 37 (52) · Śloka 53

सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ||५२|| गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् |५३|

🔊 Audio coming soon

इदानीमवस्थायां गुल्मे रक्तमोक्षणमाह- सशूले इत्यादि| अस्पन्दे अचले| पाकरुगन्विते पाकवेदनायुक्ते, जलौकोभी रक्तं हरेत् गुल्मस्थाने एव, सिरामोक्षेण तु बाह्वोः, तन्त्रान्तरोक्तत्वात्| केचित् ‘अलाबुपातनं चापि गुल्मे शस्तं कफात्मके’ इति पठन्ति||५२||-

Adhikarana 38 (53) · Śloka 54

सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ||५३|| कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् |५४|

🔊 Audio coming soon

गुल्मिनां जाङ्गलरस्य पानमाह- सुखोष्णा इत्यादि| सुखोष्णा ईषदुष्णाः| जाङ्गलरसा जाङ्घालविष्किरमांसरसाः संस्कृताः| सुस्निग्धाः सम्यक् स्नेहसंस्कृताः| हिता इति ‘यथादोषं’ इति शेषः||५३||-

Adhikarana 39 (54) · Śloka 55

पेया वातहरैः सिद्धाः कौलत्था संस्कृता रसाः ||५४|| खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः |५५|

🔊 Audio coming soon

भोजनार्थमाह- पेयेत्यादि| वातहरैः भद्रदार्वादिभिः| संस्कृताः स्नेहादिभिः| खलाः कपित्थदाडिमतक्रशाकादिसंस्कृताः ‘कचिला’ इति प्रसिद्धाः| सपञ्चमूलाः पञ्चमूलसहिताः, एतेन पञ्चमूलसहितैः कपित्थादिभिः कृता इत्यर्थः| भोजने हिता यथादोषमित्युपस्कारः||५४||-

Adhikarana 40 (55) · Śloka 55

बद्धवर्चोनिलानां तु सार्द्रकं क्षीरमिष्यते ||५५||

🔊 Audio coming soon

अवस्थावशेन गुल्मे भोजनविशेषमाह- बद्धेत्यादि| बद्धवर्चोनिलानां निरुद्धपुरीषवायूनाम्| सार्द्रकम् आर्द्रकसहितम्| इष्यते ‘भोजने’ इति शेषः||५५||

Adhikarana 41 (56) · Śloka 56

कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक् |५६|

🔊 Audio coming soon

आन्तरोपचारमभिधायावस्थायां बाह्योपचारं स्वेदमाह- कुम्भीपिण्डेष्टकास्वेदानित्यादि| कुम्भीप्रभृतिस्वेदाः स्वेदाध्याये अभिहिताः| निपुणतया स्वेदान् कारयेत्|५६|-

Adhikarana 42 (56) · Śloka 57

गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ||५६|| अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत् |५७|

🔊 Audio coming soon

वातश्लेष्मात्मके सशूले कठिने च गुल्मे गुल्मिनो विरेकमाह- गुल्मिन इत्यादि| सुखिन्नानिति स्नेहो हि स्वेदेनैवाक्षिप्तः, तेन सम्यक् स्निग्धस्विन्नान्| स्रंसनेन विरेकेण| उपपादयेत् योजयेत्||५६||-

Adhikarana 43 (57-58) · Śloka 59

विम्लापनाभ्यञ्जनानि तथैव दहनानि च ||५७|| उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः | उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ||५८|| लवणानि च योज्यानि यान्युक्तान्यनिलामये |५९|

🔊 Audio coming soon

किं गुल्मे विरेक एव कार्यं उतान्यदपीत्याह- विम्लापनाभ्यञ्जनानीत्यादि| विम्लापनम् अङ्गुल्यादिना गुल्मस्य मर्दनं, दहनं जाम्बवौष्ठादिना| साल्वणादय इत्यत्र आदिशब्दः प्रकारे; तेन साल्वणप्रकारा अन्येऽप्युपनाहस्वेदाः पच्यमानाभिमुखे गुल्मे कार्याः| उदरोक्तानि सर्पींषि ‘हरीतकीचूर्णप्रस्थं’ इत्यादिकानि| मूत्रवर्तिक्रियास्तथेति उदरोक्ता ‘वमनशिरोविरेचनद्रव्याणां’ इत्यादिकाः| लवणानि पत्रलवणस्नेहलवणकल्याणलवणानि| अनिलामये वातव्याधौ| केचित् ‘सर्पींषि’ इत्यस्याग्रे ‘चूर्णानि’ इति पठित्वा नाराचकादय इति व्याख्यानयन्ति||५७-५८||-

Adhikarana 44 (59) · Śloka 60

वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ||५९|| कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः |६०|

🔊 Audio coming soon

इदानीं मूत्रवर्तिप्रयोगावस्थामपरवर्तिं चाह- वातेत्यादि| सामुद्रं समुद्रलवणं, समुद्रफेनमपरे| मरिचोत्तरा मरिचप्रधानाः||५९||-

Adhikarana 45 (60) · Śloka 61

दन्तीचित्रकमूलेषु तथा वातहरेषु च ||६०|| कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान् |६१|

🔊 Audio coming soon

दन्तीचित्रकमूलेष्वित्यादि| वातहरेषु विदारिगन्धाप्रभृतिषु| श्लोकस्थाने यथेरितानिति यथा सूत्रस्थाने विरेचनकल्पे आसवकरणमुक्तं, तेनैव प्रकारेणात्रापि दन्त्यादिक्वाथेऽरिष्टानासवान् कुर्यात्| अन्ये तु ‘श्लोकस्थाने’ इत्यत्र द्वितीयं स्थानशब्दं लुप्तं वर्णयन्ति, लुप्तस्थानशब्देन गुल्मप्रतिषेधं गृह्णन्ति| तेनात्रोक्तवृश्चीवाद्यरिष्टवद्दन्त्यादिक्वाथे मधुपथ्याचूर्णप्रक्षेपेणारिष्टकरणं, सूत्रस्थानोक्तप्रकारेण वाऽऽसवकरणम्||६०||-

Adhikarana 46 (61) · Śloka 61

स्वादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ||६१||

🔊 Audio coming soon

स्वादेदित्यादि| अङ्कुरान् कोमलपल्लवान्| भृष्टानिति ‘स्नेहेन’ इति शेषः; अन्ये अग्निना भृष्टानित्याहुः, तन्मते वातकारिणोऽप्यङ्कुरा व्याधिप्रत्यनीकत्वाद्गुल्मे हिताः| पूतीकः चिरबिल्वः, नृपवृक्षो गिरिमालकः||६१||

Adhikarana 47 (62) · Śloka 62

ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् |६२|

🔊 Audio coming soon

इदानीं गुल्मे हितस्यापि निरूहस्यावस्थायां निषेधमाह- ऊर्ध्ववातमित्यादि| ऊर्ध्ववातम् ऊर्ध्ववातयुक्तं गुल्मिनं मनुष्यं न निरूहयेदिति सम्बन्धः| केचिदिमं पाठं न पठन्ति|६२|-

Adhikarana 48 (62-63) · Śloka 63

पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ||६२|| गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् | मूत्रमद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम् ||६३||

🔊 Audio coming soon

पिबेदित्यादि| पिबेदिति वक्ष्यमाणेन मूत्रमद्यादिद्रवेण; अन्ये पानीयेन पिबेदित्याहुः| त्रिवृन्नागरमित्येको योगः, सगुडां वा हरीतकीमिति द्वितीयः| गुग्गुलुमित्यादि| द्रवन्ती चीरितपत्रा दन्तीभेदः| पयः दुग्धं, द्रक्षारसः द्राक्षास्वरसः| वीक्ष्य बलाबलमिति ‘दोषादीनां’ इति वाक्यशेषः| अत्रापि पिबेदिति सम्बन्धनीयम्||६२-६३||

Adhikarana 49 (64) · Śloka 64

एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु |६४|

🔊 Audio coming soon

एवमित्यादि| एवमिति मूत्रादिभिरित्यर्थः| (भृष्टानि स्नेहेन )|६४|-

Adhikarana 50 (64) · Śloka 65

पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ||६४|| युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता |६५|

🔊 Audio coming soon

पिप्पलीत्यादि| सुरा पैष्टी| हन्तीत्यत्र शीघ्रमिति सम्बध्यते| काले आध्मानादिकायामवस्थायाम्||६४||-

Adhikarana 51 (65) · Śloka 66

बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ||६५|| कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् |६६|

🔊 Audio coming soon

बद्धेत्यादि| पयसा दुग्धेन| यवान् वाट्यादिकृतान्| कुल्माषान् यवपिष्टमयान् भक्ष्यान्| लवणोत्तरान् सैन्धवप्रधानान्||६५||-

Adhikarana 52 (66) · Śloka 67

अथास्योपद्रवः शूलः कथञ्चिदुपजायते ||६६|| शूलं निखानितमिवासुखं येन तु वेत्त्यसौ |६७|

🔊 Audio coming soon

इदानीं गुल्मोपद्रवमाह- अथेत्यादि| अस्य गुल्मस्य, उपद्रवः पश्चात्कालभावी कथञ्चित् स्वहेतुभिरित्यर्थः| शूल उपजायते| शूलं निखानितमिव कीलकं निखानितमिवेत्यर्थः||६६||-

Adhikarana 53 (67-68) · Śloka 69

तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ||६७|| तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता | रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ||६८|| वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा... |६९|

🔊 Audio coming soon

तस्यैवोपद्रवस्य दोषविशेषेण लिङ्गं सङ्ख्यां चाह- तत्रेत्यादि| तत्रेत्युपद्रवे शूले| स्थिराङ्गता कठिनाङ्गता| अन्नस्य विदग्धपरिवृद्धिता अन्नस्य विदाहे शूलस्य परिवृद्धिर्भवतीत्यर्थः| भुक्तवृद्धिरिति भुक्तस्य वृद्धिः भुक्तमात्रे शूलस्य वृद्धिर्भवतीत्यर्थः| जडाङ्गता अङ्गानां जडता| मिश्रैरिति द्वन्द्वैः सान्निपातिकैश्चेत्यर्थः| विण्मूत्रसंरोध इत्यादिकं वातजशूललक्षणं, तृष्णादाह इत्यादिकं पित्तजशूललक्षणं, रोमहर्षोऽरुचिरित्यादिकं श्लेष्मजशूललक्षणं, द्विदोषलिङ्गं द्वन्द्वैः, सर्वलिङ्गं समस्तैः||६७-६८||-

Adhikarana 54 (69-72) · Śloka 73

...वीक्ष्य योजयेत् | पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ||६९|| यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् | विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ||७०|| काश्मरीफलयष्ट्याह्वपरूषकहिमानि च | षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ||७१|| कृष्णामूलकचव्यं च नागरक्षारचित्रकान् | उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ||७२|| यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे |७३|

🔊 Audio coming soon

अतः परमुपद्रवशूलस्य चिकित्सितमाह- वीक्ष्येत्यादि| वीक्ष्येति वातादिभेदेन शूलमित्यर्थः| त्रिलवणं सैन्धवसौवर्चलबिडानि| क्षारो यवक्षारः| अभीरुः शतावरी, शृङ्गाटी जलजं द्रव्यं त्रिकण्टकफलं| गुडशर्करा गाङ्गेटीफलम् | हिमं चन्दनम्| षड्ग्रन्था वचा| वृक्षज इन्द्रयवः| मूलकं पिप्पलीमूलम्| उष्णशब्दोऽम्लकाञ्जिकादिभिः सम्बध्यते| श्लोकसमापनान् ‘योगान्’ इति शेषः| यथाक्रममिति पथ्याद्यम्लवेतसान्तमुष्णाम्लकाञ्जिकेन वातिके, विदार्यादिहिमान्तुमुष्णक्षीरेण पैत्तिके, षड्ग्रन्थादिचित्रकान्तमुष्णतोयेन श्लैष्मिके; विमिश्रं द्वन्द्वे इति पथ्यादिविदार्यादी वातपैत्तिके, पथ्यादिषड्ग्रन्थादी वातश्लैष्मिके, विदार्यादिषड्ग्रन्थादी पित्तश्लैष्मिके, सर्वांश्च पथ्यादीन् त्रीन् सन्निपाते||६९-७२||-

Adhikarana 55 (73-74) · Śloka 75

तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ||७३|| शिशिरोदकपूर्णानां भाजनानां च धारणम् | वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ||७४|| स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते |७५|

🔊 Audio coming soon

किमेतदेवोपद्रवशूले कार्यमुतान्यदपीत्याह- तथैवेत्यादि| तथैवेति यथासङ्ख्यमित्यर्थः| तेन सेकादिकं वातिके, शिशिरोदकादिकं पैत्तिके, वमनादिकं श्लैष्मिके| स्नेहादिक्रमश्च यथादोषं यथावस्थं सर्वेषामेव, द्वन्द्वजे द्वयं, सान्निपातिके समस्तम्| क्षपणक्रिया अन्या अपि कफक्षयकरी||७३-७४||-

Adhikarana 56 (75) · Śloka 76

वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ||७५|| न खादेदालुकं गुल्मी मधुराणि फलानि च |७६|

🔊 Audio coming soon

गुल्मोपद्रवमभिधाय गुल्मे वर्ज्यमाह- वल्लूरं मूलकमित्यादि| वल्लूरं शुष्कमांसम्| वैदलं मुद्गवनमुद्गादिकम्| आलुकं पिण्डालुकादिभेदेनानेकप्रकारम्| मधुराणि फलानि क्षीरवृक्षफलानि चोचमोचादीनि च| चकारादेवंविधान्यन्यान्यपि वर्ज्यानि| अस्याग्रे केचित् ‘लघ्वन्नं दीपनं स्निग्धमुष्णं वातानुलोमनम्| बृंहणं च भवेद्यच्च तद्धितं सर्वगुल्मिनाम्|| स्थानेऽवसेको रक्तस्य बाहुमध्ये सिराव्यधः| स्वेदोऽनुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम्’ इत्यादिकं पठन्ति; स चाभावान्न लिखितः| (इति डह्लणेनान्यग्रन्थदर्शनादुक्तम्)||७५||-

Adhikarana 57 (76) · Śloka 77

विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ||७६|| निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् |७७|

🔊 Audio coming soon

गुल्मोपद्रवं शूलमभिधायेदानीं केवलं शूलमाह- विनेत्यादि| गुल्मस्थानेषु गुल्मप्रतिषेधोक्तेषु| अन्ये ‘विना गुल्मेन’ इत्यादिश्लोकं परित्यज्य ‘अथातः शूलप्रतिषेधं व्याख्यास्यामः’ इति प्रतिज्ञां पठित्वा वातमूत्रपुरीषाणां निग्रहादित्यादिना पृथगेव शूलाध्यायं पठन्ति; ते च पूर्वपरिपाटीं त्यजन्ति| अपरे विना गुल्मेनेत्यादिकं समस्तमपि असौ श्रुतं भणित्वा परित्यजन्ति| अस्माभिस्तु सर्वमतानुसारिभिर्जेज्जटाभिप्रायेण पठितः||७६||-

Adhikarana 58 (77-80) · Śloka 80

वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ||७७|| अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् | पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ||७८|| पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च | एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ||७९|| वायुः प्रकुपितः कोष्ठे शूलं सञ्जनयेद्भृशम् | निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ||८०||

🔊 Audio coming soon

शूलस्य हेतुं सम्प्राप्तिं चाह- वातमूत्रपुरीषाणामित्यादि| निग्रहात् वेगकालेऽवरोधात्| अजीर्णम् आमविदग्धादिभेदभिन्नम्| अध्यशनं साजीर्णभोजनम्| आयासः शरीरायासजनकं कर्म| विरुद्धान्नं हिताहितीयोक्तम्| विरूढानां विगतरोहाणामङ्कुरितानां वा| एवंविधानां दोषप्रकोपणानाम्| कोष्ठे सर्वस्मिन्नुदरे| निरुच्छ्वासः निरुद्धोच्छ्वासः| तेन शूलेन| वातमूत्रपुरीषाणां निग्रहादित्यादिरन्येषां चोपसेवनादित्यन्तो हेतुः, वायुः प्रकुपित इत्यादिश्च सम्प्राप्तिः||७७-८०||

Adhikarana 59 (81) · Śloka 81

शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः | शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ||८१||

🔊 Audio coming soon

तत् कस्माच्छूलमुच्यत इत्याह- शङ्क्वित्यादि| शङ्कुस्फोटनवत् कीलकाहननवत्तीव्रा वेदनाः, तस्य व्याधितस्य, शूलासक्तस्य शूलिनः; एतेनैतदुक्तं भवति- यथा कस्यचित् कीलकाहननेन तीव्रा वेदना लक्ष्यते तद्वत्तस्य यस्माद्वेदना लक्ष्यते तस्माच्छूलमिहोच्यते||८१||

Adhikarana 60 (82-83) · Śloka 83

निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते | प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ||८२|| वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः | एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ||८३||

🔊 Audio coming soon

वातशूललक्षणमाह- निराहारस्येत्यादि||८२-८३||

Adhikarana 61 (84) · Śloka 85

तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च | शीताभिकामो भवति शीतेनैव प्रशाम्यति ||८४|| एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् |८५|

🔊 Audio coming soon

पित्तशूललक्षणमाह- तृष्णेत्यादि| शीताभिकामः शीताभिलाषः| प्रशाम्यति ‘शूलं’ इति शेषः||८४||-

Adhikarana 62 (85-86) · Śloka 86

शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ||८५|| अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता | एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ||८६||

🔊 Audio coming soon

कफशूललक्षणमाह- शूलेनेत्यादि| हृल्लासः थूत्करणम्| निदर्शनं लक्षणम्||८५-८६||

Adhikarana 63 (87) · Śloka 88

सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम् | सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ||८७|| शूलानां लक्षणं प्रोक्तं... |८८|

🔊 Audio coming soon

सान्निपातिकशूललक्षणमाह- सर्वाणीत्यादि| ननु, कैश्चित् पूर्वाचार्यैर्दोषभेदेन नियतं स्थानं शूलस्योक्तम्| तथाहि- “वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि वदन्ति नाभ्याम्| हृत्पार्श्वकुक्षौ कफसन्निविष्टं, सर्वेषु देशेषु च सन्निपातात्”- इति; तत् कथमत्र तथा नोक्तम्| सत्यं, कुपितदोषाणां स्वाशये पराशये च व्याध्युत्पादकत्वान्न नियतं स्थानमस्ति, अतस्तथा नोक्तम्||८७||-

Adhikarana 64 (88) · Śloka 89

...चिकित्सां तु निबोध मे | आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ||८८|| तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः |८९|

🔊 Audio coming soon

चिकित्सामित्यादि| निबोध जानीहि| मे मत्सकाशात्| आशुकारीत्यादि| आशुकारी शीघ्रमत्ययकारित्वात्| हि यस्मात्| तं वातम्| तस्येत्यादि|- तस्य पुरुषस्य, शूलाभिपन्नस्य वातिकशूलक्रान्तस्य; अन्ये तु तस्य वातस्य यच्छूलं तेन आक्रान्तस्येत्याहुः||८८||-

Adhikarana 65 (89) · Śloka 89

पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ||८९||

🔊 Audio coming soon

स च स्वेदः कैर्द्रव्यैः कार्य इत्याह- पायसैरित्यादि| पायसो दुग्धसिद्धास्तण्डुलाः| कृशरापिण्डैः तिलतण्डुलमाषकृतयवागूपिण्डैः| हित इति ‘स्वेद’ इति शेषः||८९||

Adhikarana 66 (90-91) · Śloka 91

त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम् | चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ||९०|| वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः | यथालाभं निषेवेत मांसानि बिलशायिनाम् ||९१||

🔊 Audio coming soon

भोजनमाह- त्रिवृच्छाकेनेत्यादि| स्निग्धादिगुणं भोजनं त्रिवृच्छाकेन सह भुञ्जीतेति पिण्डार्थः| चिरबिल्वाङ्कुरानित्यादि| अङ्कुराः शुङ्गाः| वैहङ्गांश्चेत्यादि| जाङ्गलान् वैहङ्गान्, लावादिकृतानित्यर्थः| बिलेशयाः श्वाविच्छल्लकादयः||९०-९१||

Adhikarana 67 (92) · Śloka 92

सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि | सकाललवणं पेयं शूले वातसमुद्भवे ||९२||

🔊 Audio coming soon

सुरा सौवीरकमित्यादि| सुरा पिष्टभवा| सौवीरकं काञ्जिकभेदः| चुक्रं शुक्तम्| मस्तु दधिमस्तु| उदश्वित् अर्धोदकं तक्रम्| तथेति यथालाभमित्यर्थः| काललवणशब्देन यद्यपि निर्गन्धसौवर्चलमुच्यते, तथाऽप्यत्र गन्धवत्सौवर्चलं ग्राह्यं, तन्त्रान्तरोक्तत्वात्||९२||

Adhikarana 68 (93) · Śloka 93

कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः | ससैन्धवः समरिचो वातशूलविनाशनः ||९३||

🔊 Audio coming soon

कुलत्थयूष इत्यादि| युक्तं मात्रयोपहितमम्लं दाडिमादिकं यत्र स युक्ताम्लः| लावकीयूषसंस्कृत इति लावकेन कृतो यूषो लावकीयूषः, तेन संस्कृतः||९३||

Adhikarana 69 (94) · Śloka 95

विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान् | सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ||९४|| मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति |९५|

🔊 Audio coming soon

विडङ्गेत्यादि| शिग्रुः विटपशाकं, शोभाञ्जनमपरे| श्यामा अरुणमूला त्रिवृत्| सुरसा तुलसी| अश्वमूत्री शल्लकी||९४||-

Adhikarana 70 (95-99) · Śloka 100

पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ||९५|| पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् | तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ||९६|| मध्वासवेन चुक्रेण सुरासौवीरकेण वा | अथवै(चै)तानि चूर्णानि मातुलुङ्गरसेन वा ||९७|| तथा बदरयूषेण भावितानि पुनः पुनः | तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ||९८|| सह दाडिमसारेण वर्तिः कार्या भिषग्जिता | सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ||९९|| गुडतैलेन वा लीढा पीता मद्येन वा पुनः |१००|

🔊 Audio coming soon

पृथ्वीकेत्यादि| पृथ्वीका हिङ्गुपत्रिका| अजाजी उत्तरापथे जीरकविशेषः| काम्बलिकेन दधिमस्त्वम्लसिद्धयूषेण| चुक्रं शुक्तम्| सौवीरकं विरेचनद्रव्यविकल्पकथितम्| पक्षान्तरमाह- अथवेत्यादि| एतानि पूर्वोक्तानि चूर्णानि, बीजपूरकरसेन बदरयूषेण वा पुनः पुनर्भावितानि हिङ्गूत्कटानि शर्करया सह मातुलुङ्गरसेनैव पिबेदिति पिण्डार्थः| सह दाडिमसारेणेत्यादि|- तैरेव चूर्णैर्दाडिमसारेण सह भिषग्जिता वैद्येन वर्तिर्वा कार्या| सा च वर्तिर्गुडतैलेन लीढा मद्येन वा पीता सती वातिकं शूलं क्षिप्रमेव हन्तीत्यर्थः||९५-९९||-

Adhikarana 71 (100) · Śloka 101

बुभुक्षाप्रभवे शूले लघु सन्तर्पणं हितम् ||१००|| उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा |१०१|

🔊 Audio coming soon

बुभुक्षाप्रभवे इत्यादि| लघ्विति मात्रया स्वभावेन च| सन्तर्पणं भोजनम्| उष्णैरिति क्षीरादिभिः सम्बध्यते||१००||-

Adhikarana 72 (101-102) · Śloka 103

वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् ||१०१|| सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः | वारुणीं च पिबेज्जन्तुस्तथा सम्पद्यते सुखी ||१०२|| एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् |१०३|

🔊 Audio coming soon

वातेत्यादि| सुसंस्कृताः शुण्ठीमरिचादिभिः| प्रदेया दातव्याः| घृतपूरा घृतपूपा इत्यर्थः| वारुणी सुरा| तथा तेन प्रकारेण| सुखी सम्पद्यते सुखी भवतीत्यर्थः| उपसंहारमाह- एतद्वातसमुत्थस्येत्यादि||१०१-१०२||-

Adhikarana 73 (103-104) · Śloka 104

अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ||१०३|| स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः | शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ||१०४||

🔊 Audio coming soon

वातशूलोपक्रममभिधायेदानीं पित्तशूलचिकित्सामाह- अथेत्यादि| अथेति वाक्यालङ्कारे, वाक्योपक्रमे इत्यन्ये| तदेष चिकित्सितमाह- स इत्यादि| स पित्तशूली नरः, शीतोदकं पीत्वा, सुखं यथा भवति तथा छर्दयित्वा, शीतलानि भजेत, उष्णानि सर्वाणि वर्जयेदिति पिण्डार्थः||१०३-१०४||

Adhikarana 74 (105) · Śloka 105

मणिराजतताम्राणि भाजनानि च सर्वशः | वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् ||१०५||

🔊 Audio coming soon

मणिराजतताम्राणीत्यादि| राजतं रूप्यमयम्| सर्वश आमुखात्| अस्य पित्तशूलिनः||१०५||

Adhikarana 75 (106-107) · Śloka 107

गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् | जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ||१०६|| रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत् | पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् ||१०७||

🔊 Audio coming soon

गुडेत्यादि| पित्तघ्नान् रसान् जाङ्गलवर्गे यानि निर्दिष्टानि पित्तहराणि मांसानि तत्कृतान् रसानित्यर्थः| पित्तलानीत्यादि| पित्तलानि अन्नपानादीनि| पालाशं यूषं मांसादमांसरसमित्यर्थः| धान्वनं जाङ्गलमांसरसम्||१०६-१०७||

Adhikarana 76 (108) · Śloka 108

परुषकाणि मृद्वीकाखर्जूरोदकजान्यपि | तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ||१०८||

🔊 Audio coming soon

परूषकाणीत्यादि| परूषकाणि परूषकफलानि| उदकजानि पद्मानि||१०८||

Adhikarana 77 (109) · Śloka 109

अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च | वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ||१०९||

🔊 Audio coming soon

श्लैष्मिकशूलचिकित्सामाह- अशने इत्यादि| अशने भोजने| श्लैष्मिकस्य श्लेष्मशूलस्य| तत्र श्लेष्मशूले| पिप्पलीवारिणा पिप्पलीयुक्तपानीयेन, अन्ये वारिशब्दं क्वाथे वर्तयन्ति, अपरे पिप्पलीशब्देन मदनफलबीजानि कथयन्ति||१०९||

Adhikarana 78 (110) · Śloka 110

रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः | पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ||११०||

🔊 Audio coming soon

रूक्षः स्वेदः प्रयोज्य इत्यादि|- रूक्षः स्वेदः स्निग्धरहितः करीषादिकृतः| पिप्पलीशृङ्गवेरप्रयोगश्चूर्णकल्कक्वाथादिविधिना||११०||

Adhikarana 79 (111) · Śloka 111

पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् | चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् ||१११||

🔊 Audio coming soon

पाठामित्यादि| पाठादीनि द्रव्याणि चूर्णितानि कल्कितानि वा चित्रकस्य निर्यूहे क्वाथे पिबेदित्येको योगः| यूषं सहार्जकमिति द्वितीयो योगः| यूषं शूलहरशिम्बिधान्ययूषम्| अर्जकः कुठेरकः||१११||

Adhikarana 80 (112-115) · Śloka 115

एरण्डफलमूलानि मूलं गोक्षुरकस्य च | शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ||११२|| दद्याच्छृगालविन्नां च सहदेवां तथैव च | महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ||११३|| एतत् सम्भृत्य सम्भारं जलद्रोणे विपाचयेत् | चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ||११४|| वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम् | प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ||११५||

🔊 Audio coming soon

एरण्डद्वादशकमाह- एरण्डेत्यादि| शृगालविन्ना पृश्निपर्णीभेदः| महासहा माषपर्णी| क्षुद्रसहा मुद्गपर्णी| इक्षुरकः कोकिलाक्षकः| सम्भृत्य एकीकृत्य| एरण्डादिद्रव्यसम्भारः चतुःषष्टिपलप्रमितः; तुलाप्रमित इत्यन्ये| प्रसह्य बलात्कारेण| पिबेदित्यनेनाभ्यवहारेणात्र सूच्यते; तेन तृष्णायां पानमाचमनं वा तेन कार्यम्, अन्यथा द्रोणचतुर्थांशस्य साधितस्य जलस्यापरक्वाथवत् पलद्वयपाने वैयर्थ्यं स्यात्| यद्यप्ययं योगः सर्वशूलहरस्तथाप्यत्यन्तकफशूलहरत्वादत्रोक्तः| केचित् ‘मूलं चेक्षुरकस्य’ इत्यत्र ‘दद्याच्चैवेक्षुवालिकाम्’ इति पठित्वा खग्गलीमिति व्याख्यानयन्ति||११२-११५||

Adhikarana 81 (116) · Śloka 117

पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च | सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ||११६|| तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम् |११७|

🔊 Audio coming soon

पिप्पलीत्यादि| सेव्यम् उशीरं, तत् भस्म||११६||-

Adhikarana 82 (117-119) · Śloka 119

रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ||११७|| स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम् | सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ||११८|| नान्नं वाञ्छति नो निद्रामुपैत्यर्तिनिपीडितः | पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ||११९||

🔊 Audio coming soon

यद्यपि चत्वारः शूलाः, तथापि दोषधातुमलसंसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्प इति कृत्वा पार्श्वादिशूलमाह- रुणद्धीत्यादि| स वायुः| आध्मानम् उदरापूरः| गुड्गुडायनमत्र अव्यक्तशब्दः| नो निद्रामुपैति न निद्रां प्राप्नोतीत्यर्थः||११७-११९||

Adhikarana 83 (120-122) · Śloka 123

तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम् | सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ||१२०|| पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम् | सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् ||१२१|| बीजपूरकसारं वा पयसा सह साधितम् | एरण्डतैलमथवा मद्यमस्तुपयोरसैः ||१२२|| भोजयेच्चापि पयसा जाङ्गलेन रसेन वा |१२३|

🔊 Audio coming soon

पार्श्वशूले चिकित्सितमाह- तत्रेत्यादि| पुष्करमूलादीनि द्रव्याणि चूर्णं कृत्वा पार्श्वादिशूलेषु यवक्वाथेन संयुतं पाययेदिति पिण्डार्थः| यद्यप्ययं योगोऽपतन्त्रकेऽपि पठितः, तथाऽप्यत्राम्लवेतसाभावात् पुनः पठितः| सर्पिः प्लीहोदरोक्तमित्यादि प्लीहोदरोक्तं सर्पिः षट्पलं, हिङ्गुसंयुतं घृतं वा असिद्धमेव| पयसा क्षीरेण, साधितं क्वाथितं, बीजपूरकसारं बीजपूरकफलबीजम्, अत्रापि पाययेदिति सम्बध्यते| केचित् ‘बीजपूरकसारं च’ इत्यत्र ‘पिबेद्बीजकसारं च’ इति पठन्ति| एरण्डतैलमित्यादि|- एरण्डतैलं वा मद्यादिभिर्यथासात्म्यं यथादोषं च प्रातरेव पिबेत्, जीर्णे च क्षीरेण जाङ्गलरसेन वा भोजयेत्||१२०-१२२||-

Adhikarana 84 (123-125) · Śloka 125

प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ||१२३|| तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते | उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः ||१२४|| नैवासने न शयने तिष्ठन् वा लभते सुखम् | कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ||१२५||

🔊 Audio coming soon

कुक्षिशूलमाह- प्रकुप्यतीत्यादि| आक्रम्य मन्दीकृत्य| सोपस्तम्भं स्तब्धतान्वितम्| उच्छ्वसिति उच्छ्वासं करोति ‘पुरुष’ इति शेषः| आमशकृता अपक्वपुरीषेण| तिष्ठन् ऊर्ध्वीभवन्||१२३-१२५||

Adhikarana 85 (126) · Śloka 126

वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम् | संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः ||१२६||

🔊 Audio coming soon

कुक्षिशूले चिकित्सामाह- वमनं कारयेत्तत्रेत्यादि| तत्र कुक्षिशूले| यथाबलं बलस्यानतिक्रमेण| संसर्गपाचनं पेयादिक्रमपाचनम्| अम्लैः दाडिमतक्रादिभिः| दीपनसंयुतैरिति पञ्चकोलयुतैः||१२६||

Adhikarana 86 (127) · Śloka 128

नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम् | मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः ||१२७|| बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत् |१२८|

🔊 Audio coming soon

क्वाथमाह- नागरं दीप्यकमित्यादि| नागरादिक्वाथं हिङ्गुसौर्वचलविडप्रक्षेपं पिबेदिति पिण्डार्थः| बीजानीतिशब्दो मातुलुङ्गादिभिः कण्टकारीपर्यन्तैः सह सम्बध्यते| श्यामा वृद्धदारकः| उरुबूकः रक्तैरण्डः, शुक्लैरण्डमपरे| बृहती अणुफला स्थूलफला वा||१२७||-

Adhikarana 87 (128-129) · Śloka 129

वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया ||१२८|| कुटजस्य च बीजानि सद्यःशूलहराणि तु | विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ||१२९||

🔊 Audio coming soon

कुक्षिशूले विरेचनमाह- वचेत्यादि| वचादीनि कुटजबीजान्तानि सद्यःशूलहराणि विरेचने दोषबलाबलं ज्ञात्वा प्रयुञ्जीतेति पिण्डार्थः| दोषबलाबलमित्यत्रादिशब्दो लुप्तो द्रष्टव्यः, तेन प्रकृत्यादीनपि ज्ञात्वेत्यर्थः||१२८-१२९||

Adhikarana 88 (130) · Śloka 130

स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान् |१३०|

🔊 Audio coming soon

किं कुक्षिशूले विरेचनमेव युज्यते उतान्यदपीत्याह- स्नेहबस्तीनित्यादि|१३०|-

Adhikarana 89 (130) · Śloka 131

उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् ||१३०|| अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम् |१३१|

🔊 Audio coming soon

कुक्षिशूले उपनाहादिस्वेदस्य प्रशस्तत्वमाह- उपनाहा इत्यादि| उपनाहाः साल्वणाप्रकाराः| धान्याम्लं काञ्जिकम्| अवगाहो वातहरद्रवपूर्णद्रोण्यादिनिमज्जनम्| यच्चान्यदपीत्यादि| तद्धितं कुक्षिशूलहितं यदन्यदपि भवति तदस्य शस्यते इत्यर्थः||१३०||

Adhikarana 90 (131-132) · Śloka 132

कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः ||१३१|| हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम् | स हृच्छूल इति ख्यातो रसमारुतसम्भवः ||१३२||

🔊 Audio coming soon

हृच्छूलमाह- कफेत्यादि| अवरुद्धो रुद्धः| रसमूर्च्छितो रससंयुतः| उच्छ्वासारोधकं उच्छ्वासस्य आसमन्ताद्रोधकमित्यर्थः| एतद्धृच्छूलं यस्माद्धृद्रोगविलक्षणं तस्माद्धृद्रोगाद्भिन्नं, तथा सम्प्राप्तिभेदाच्च||१३१-१३२||

Adhikarana 91 (133) · Śloka 133

तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् |१३३|

🔊 Audio coming soon

हृच्छूले हृद्रोगोक्तां क्रियामतिदिशन्नाह- तत्रापि कर्माभिहितमित्यादि| यद्धृद्विकारिणां हृद्रोगिणां कर्मोक्तं तदत्रापि हृच्छूलेऽभिहितमिति पिण्डार्थः|१३३|-

Adhikarana 92 (133-134) · Śloka 134

संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति ||१३३|| बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते | विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ||१३४||

🔊 Audio coming soon

बस्तिशूलमाह- संरोधादित्यादि| संरोधात् मूत्रपुरीषादीनामित्यर्थः| बस्तिः मूत्राधारः, वङ्क्षणः गण्डकः||१३३-१३४||

Adhikarana 93 (135) · Śloka 135

नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः | मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ||१३५||

🔊 Audio coming soon

मूत्रशूलमाह- नाभ्यामित्यादि| यदा मेढ्रान्त्रमर्दको वायुरावृत्य अवरुध्य मूत्रं गृह्णाति , तदा नाभ्यादिषु शूलो जायते| स च मारुतात् मूत्रशूलो ज्ञेयः||१३५||

Adhikarana 94 (136-139) · Śloka 139

वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः | मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ||१३६|| शूलं सञ्जनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि | दक्षिणं यदि वा वामं कुक्षिमादाय जायते ||१३७|| सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान् | पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते ||१३८|| उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति | विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ||१३९||

🔊 Audio coming soon

पुरीषशूलमाह- वायुरित्यादि| एवम्भूतस्य देहिनो वह्निं मन्दीकृत्य स्रोतांसि चावृत्य प्रकुपितो वायुस्तीव्रं शूलं सञ्जनयन् कोष्ठस्थं मलं रुणद्धि, तस्य च दक्षिणं वामं वा कुक्षिं गृहीत्वा शूलाय जायते, स च सर्वत्र भ्रमन् घोषवान् शब्दयुक्तो वर्धते इति पिण्डार्थः| उच्चारितः सञ्जातपुरीषवेगः| नाधिगच्छति न प्राप्नोति| परमदारुणम् अतिशयकष्टकारि||१३६-१३९||

Adhikarana 95 (140-141) · Śloka 141

क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता | स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः ||१४०|| पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् | उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ||१४१||

🔊 Audio coming soon

इदानीं बस्तिशूलदीनां सामान्यचिकित्सामाह- क्षिप्रमित्यादि| दोषहरं शोधनम्| साधु शोभनम्| शमनं संशमनम्||१४०-१४१||

Adhikarana 96 (142-144) · Śloka 144

अतिमात्रं यदा भुक्तं पावके मृदुतां गते | स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ||१४२|| अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति | मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ||१४३|| विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति | अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः ||१४४||

🔊 Audio coming soon

अतिमात्रमित्यादि| अविपाकगतम् अविपाकं प्राप्तम्||१४२-१४४||

Adhikarana 97 (145) · Śloka 145

वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः | क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ||१४५||

🔊 Audio coming soon

तस्य चिकित्सितमाह- वमनमित्यादि||१४५||

Adhikarana 98 (146) · Śloka 146

गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् ||१४६||

🔊 Audio coming soon

इदनीमुपसंहारमाह- गुल्मावस्था इत्यादि| यथावत् यथावस्थम्||१४६||

Adhikarana puShpikA · Śloka 42

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे गुल्मप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) द्विचत्वारिंशोऽध्यायः ||४२||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां सुश्रुतव्याख्यायां निबन्धसङ्ग्रहाख्यायामुत्तरतन्त्रे कायचिकित्सायां गुल्मप्रतिषेधो नाम द्विचत्वारिंशत्तमोऽध्यायः||४२||