Adhikarana 1 (1-2) · Śloka 2
अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
गुल्मप्रतिषेधानन्तरं स्थानसामीप्यान्नामसङ्कीर्तनाद्वा हृद्रोगप्रतिषेधो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
गुल्मप्रतिषेधानन्तरं स्थानसामीप्यान्नामसङ्कीर्तनाद्वा हृद्रोगप्रतिषेधो युक्त इत्यत आह- अथात इत्यादि||१-२||
Adhikarana 2 (3-4) · Śloka 4
वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः | विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(ति) भोजनैः ||३|| दूषयित्वा रसं दोषा विगुणा हृदयं गताः | कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते ||४||
🔊 Audio coming soon
इदानीं प्रतिज्ञानन्तरं पूर्ववद्धृद्रोगस्य हेतुसम्प्राप्ती आह- वेगेत्यादि| एतैर्वेगाघातादिहेतुभिर्विगुणाः कुपिता दोषा हृदयं गत्वा रसं दूषयित्वा हृदये बाधां कुर्वन्ति, तं हृद्रोगं प्रचक्षते आचार्या इति सम्बन्धः| वेगाघात इत्यत्र आघातशब्दो द्विरावर्तयितव्यः, तेन वेगाघात आघातश्च; तत्र वेगाघातो वेगावरोधः, आघातो लगुडादिप्रहारः| विरुद्धं हिताहितीयोक्तम्, अध्यशनं साजीर्णभोजनम्, अजीर्णम् आमविदग्धादिकम्| बाधाग्रहणं बाधावैचित्र्यज्ञापनार्थम्| वेगाघातादिरसात्म्यभोजनान्तो हेतुः, दूषयित्वेत्यादिका सम्प्राप्तिः| हृद्रोगे पूर्वरूपानभिधानमव्यक्तलक्षणानामेव पूर्वरूपत्वेनाभिमतत्वात्; अन्ये जातिमात्रपरिच्छेदात् पूर्वरूपावगमः||३-४||
Adhikarana 3 (5) · Śloka 5
चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक् | लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ||५||
🔊 Audio coming soon
तस्य सङ्ख्यामाह- चतुर्विध इत्यादि| स हृद्रोगः| दोषैः एकैकैः सन्निपतितैश्च, कृमिभिरिति कृमिभिः सहेत्यर्थः| ननु, तन्त्रान्तरे पञ्च हृद्रोगाः पठिताः, तत् कथमत्र चत्वारः? सत्यं, त्रिदोषहृद्रोगोत्तरावस्थैव कृमिहृद्रोगः, तेन न पञ्च हृद्रोगाः| पृथक् पृथगित्यादि| अनन्तरं लक्षणानन्तरमित्यर्थः||५||
Adhikarana 4 (6) · Śloka 6
आयम्यते मारुतजे हृदयं तुद्यते तथा | निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ||६||
🔊 Audio coming soon
वातिकहृद्रोगलक्षणमाह- आयम्यत इत्यादि| आयम्यते दीर्घीक्रियत इव, मारुतजे हृद्रोगे, तुद्यते प्रतोदेन व्यथ्यत इव, निर्मथ्यते विलोड्यत इव, दीर्यते आरयेव, पाट्यते द्विधा क्रियत इव||६||
Adhikarana 5 (7) · Śloka 7
तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः | धूमायनं मूर्च्छा च स्वेदः शोषो मुखस्य च ||७||
🔊 Audio coming soon
पैत्तिकहृद्रोगलक्षणमाह- तृष्णेत्यादि| ऊषा प्रादेशिको दाहः| चोषः चूष्यत इव वेदनाविशेषः| पैत्तिके पित्तजे हृद्रोगे| धूमायनं धूमोद्वमनमिव||७||
Adhikarana 6 (8) · Śloka 8
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् | माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ||८||
🔊 Audio coming soon
श्लैष्मिकहृद्रोगलक्षणमाह- गौरवमित्यादि| स्तम्भो जडिमा| बलासावतते श्लेष्मच्छन्ने||८||
Adhikarana 7 (9) · Śloka 9
उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः | अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ||९||
🔊 Audio coming soon
त्रिदोषजहृद्रोगलक्षणमाह- उत्क्लेश इत्यादि| ष्ठीवनं थूत्करणम्| हृल्लासो लालास्रुतिः| तमः अन्धकारदर्शनं श्वासो वा| तम इत्यत्र ‘सान्निपातिके भवेत्’ इति वाक्यशेषः| तत्र तोदशूलौ वातेन, उत्क्लेशहृल्लासष्ठीवनानि श्लेष्मणा, तमः पित्तेनेति| केचित् ‘अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत्’ इत्यन्तं सान्निपातिकहृद्रोगलक्षणं मन्यन्ते| त्रिदोषजहृद्रोगस्यैवापचारात् क्रिमीन् प्राप्तस्य लक्षणमाह- अरुचिरित्यादि| कृमिजे इति त्रिदोषजहृद्रोग एवापचारेणोत्तरावस्थायां कृमिनिपातात् कृमिज इत्युच्यते| तथा च तन्त्रान्तरम्- “त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते| तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते|| मर्मैकदेशे सङ्क्लेदं रसश्चाप्युपगच्छति| सङ्क्लेदात् कृमयश्चास्य भवन्त्युपहतात्मनः”- इति, अतो न सङ्ख्यातिरेकः| केचित् सान्निपातिको हृद्रोगो व्याधिस्वभावान्न भवत्येवेत्याहुः; तन्न, समानतन्त्रे त्रिदोषजदर्शनात्||९||
Adhikarana 8 (10) · Śloka 10
भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्रवाः |१०|
🔊 Audio coming soon
वातादिजानां कृमिहीनानां हृद्रोगिणामुपद्रवानाह- भ्रमेत्यादि| भ्रमः चक्रारूढस्येव भ्रमणं, क्लमः अनायासः श्रमः| सादः अङ्गसादः| शोषो मुखस्य धातूनां च| यद्यपि भ्रमादयो वातपित्तात्मकास्तथाऽपि व्याधिस्वभावाच्छ्लैष्मिकेऽपि भवन्ति|१०|-
Adhikarana 9 (10) · Śloka 10
कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः ||१०||
🔊 Audio coming soon
कृमिजस्योपद्रवानाह- कृमिजे कृमिजातीनामित्यादि| श्लैष्मिकाणामिति कृमिजातीनामित्यस्य विशेषणम्| तेन श्लैष्मिकाणां कृमिजातीनां य एव उपद्रवास्त एव कृमिजे हृद्रोगे मता इत्यर्थः||१०||
Adhikarana 10 (11-13) · Śloka 13
वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् | द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ||११|| पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम् | सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् ||१२|| फलधान्याम्लकौलत्थदधिमद्यासवादिभिः | पाययेत विशुद्धं च स्नेहेनान्यतमेन वा ||१३||
🔊 Audio coming soon
इदानीं वातहृद्रोगचिकित्सामाह- वातोपसृष्टे इत्यादि| वातोपसृष्टे हृदये वातहृद्रोगे इत्यर्थः| यद्यपि वाते वमनं न शस्तं, तथाऽपि वातस्य कफस्थानगणत्वादत्र वमनं शस्तमेव, तथा पित्तजेऽपि| वमनानन्तरं यत् कार्यं तदाह- पिप्पलीत्यादि| यवभस्म यवक्षारः| फलानि मातुलुङ्गादिफलानि, तेषां रसोऽभिप्रेतः| मद्यासवौ मद्यवर्गोक्तौ| स्नेहेनान्यतमेन वा चतुःस्नेहमध्ये एकेन स्नेहेनेत्यर्थः||११-१३||
Adhikarana 11 (14) · Śloka 14
भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः | वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः ||१४||
🔊 Audio coming soon
वातहृद्रोगे पथ्यमाह- भोजयेदित्यादि| किं वातहृद्रोगे एतदेव कार्यमुतान्यदपीत्याह- वातघ्नसिद्धमित्यादि| वातघ्नसिद्धं भद्रदार्वादिपक्वम्| प्रमाणतः यथाप्रमाणम्||१४||
Adhikarana 12 (15) · Śloka 16
श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत् | पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् ||१५|| घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान् |१६|
🔊 Audio coming soon
पित्तहृद्रोगे वमनमाह- श्रीपर्णीत्यादि| श्रीपर्णी काश्मरी, मधुकं यष्टीमधु, सिता शर्करा, उत्पलं कुष्ठम्| अत्र जलशब्दो न क्वाथत्वेन सर्वत्र सम्बन्धनीयः, क्षौद्रादीनां क्वाथेऽनुपयोगात्| सेवेत मधुरैरित्यादि| मधुरैः शृतं काकोल्यादिभिः पक्वम्| पित्तज्वरविनाशनान् कषायान् ‘चन्दनोशीरश्रीपर्णी’- इत्यादिनोक्तान्||१५||-
Adhikarana 13 (16) · Śloka 17
तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् ||१६|| सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम् |१७|
🔊 Audio coming soon
पित्तहृद्रोगे स्नेहबस्तिमाह- तृप्तस्येत्यादि| रसैर्मुख्यैः एणादिमांसरसैः| मधुरैः अम्लादिसंस्कृतैः| मधुकसाधितमेकेनैव यष्टीमधुकेन पक्वं; अन्ये जीवनीयसाधितमाहुः||१६||-
Adhikarana 14 (17-19) · Śloka 19
वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके ||१७|| चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम् | फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः ||१८|| श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् | बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः ||१९||
🔊 Audio coming soon
श्लैष्मिकहृद्रोगे चिकित्सामाह- वचेत्यादि| श्लेष्महृद्रोगे वचानिम्बकषायाभ्यां वान्तं वातजे हृद्रोगे उक्तं ‘चूर्णं पिप्पल्येला’- इत्यादिकं पाययेदिति पिण्डार्थः| न केवलं तच्चूर्णं पाययेत् भोजयेच्च तमिति तं वातजे हृद्रोगे उक्तं चूर्णं भोजयेच्च भक्तेन सह खादेदित्यर्थः| फलादिमथ मुस्तादिमित्यादि|- फलादिः मदनफलादिः संशोधनसंशमनीयोक्तः| मुस्तादिः द्रव्यसङ्ग्रहणीयोक्तः| श्यामात्रिवृत्कल्कयुतमित्यादि|- श्यामा वृद्धदारकः| अत्र पिबेदिति सम्बध्यते| बलातैलैरित्यादि| वातादिचिकित्सितं सर्वमेवानुक्तमपि त्रिदोषजे कार्यम्||१७-१९||
Adhikarana 15 (20-22) · Śloka 22
कृमिहृद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् | दध्ना च पललोपेतं त्र्यहं, पश्चाद्विरेचयेत् ||२०|| सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः | विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् ||२१|| हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम् | यवान्नं वितरेच्चास्य सविडङ्गमतः परम् ||२२||
🔊 Audio coming soon
कृमिहृद्रोगचिकित्सामाह- कृमिहृद्रोगिणमित्यादि| पिशितौदनं सपललं दध्ना सह क्रिमिहृद्रोगिणं त्र्यहं भोजयेत् कृमीणामुत्क्लेशनार्थं; पिशितं मांसं, पललोपेतं भृष्टतिलचूर्णयुक्तम्| क्रिम्युत्क्लेशानन्तरं किं कुर्यादित्याह- पश्चादित्यादि| सुगन्धिभिर्योगैः विरेचनकल्पोक्तैः ‘शर्कराक्षौद्रसंयुक्तं’ इत्यादिभिः| सलवणैर्योगैरिति ‘समास्त्रिवृन्नागरकाभयाः स्युः’ इत्यादिभिः| साजाजिशर्करैरिति सुगन्धियोगसलवणयोगविशेषणं, साजाजिकानां वैरेचनिकानामनिर्देशात्; तेन, अजाजिशर्करासहितैः सुगन्धिभिर्योगैरथवा सलवणैरप्यजादियुक्तैर्विरेचयेत्| पीतविरेकस्यानुपानमाह- विडङ्गगाढमित्यादि| विडङ्गगाढं विडङ्गोत्कटम्| धान्याम्लं काञ्जिकम्| एवं पूर्वोक्तेन विधानेन| केचित् ‘सलवणैः’ इत्यत्र ‘सपललैः’ इति पठित्वा सभृष्टतिलकल्कैः सुगन्धिभिर्योगैर्विरेचयेदिति व्याख्यानयन्ति| कृमिहृद्रोगे वमनं न योज्यं, कृमिजर्जरहृदयत्वात्; अत एव सुगन्धियोगैर्विरेचनमुक्तं, वमनशङ्काभयात्| धान्याम्लपानादनन्तरं किं कुर्यादित्याह- यवान्नं वितरेदित्यादि| वितरेत् दद्यात्| अत इति विरेकात्||२०-२२||
Adhikarana puShpikA · Śloka 43
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) त्रिचत्वारिंशोऽध्यायः ||४३||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम त्रिचत्वारिंशत्तमोऽध्यायः||४३||