Adhikarana 1 (1-2) · Śloka 2
अथातः शोषप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अतीसारप्रतिषेधानन्तरं शोषेऽप्यतीसारसम्भूतेरथवा ज्वरातीसाराभ्यां शोषस्योत्पत्तेः शोषप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| अथेत्यादिकं पूर्ववद्व्याख्येयम्| शोषप्रतिषेधं शोषचिकित्सितम्||१-२||
Adhikarana 2 (3) · Śloka 3
अनेकरोगानुगतो बहुरोगपुरोगमः |
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ||३||
ननु, शोषचिकित्सितं व्याख्यास्याम इति प्रतिज्ञां कृत्वा निदानाभिधाने को हेतुः? उच्यते- अज्ञातरोगस्य वैद्यस्य चिकित्सायां प्रगल्भ्यं न स्यादतो निदानारम्भ इति; तथा चोक्तं- “रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्”- इति| प्रागेव विकारस्वभावाभिधानाय वाक्यमाह- अनेकरोगानुगत इत्यादि| अनेकरोगा उपद्रवसञ्ज्ञकाः, तैरनुगत आश्रितः| बहवो रोगाः श्वासकासाङ्गसादकफसंस्रवादयः, पुरोगमाः पूर्वरूपत्वेनोपस्थिता यस्य स तथा| दुर्विज्ञेय इति त्रिदोषलिङ्गत्वादंशांशबलविकल्पनाभिः प्रकुपितदोषाणां लिङ्गदर्शनात्| दुर्निवार इति दोषाणां परस्परविरुद्धोपक्रमत्वात्; दुर्निवारत्वाच्च कृच्छ्रोऽयं महाबलः||३||
Adhikarana 3 (4-5) · Śloka 5
संशोषणाद्रसादीनां शोष इत्यभिधीयते |
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ||४||
राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः |
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ||५||
इदानीमस्य व्याधेर्यथा शोषक्षयराजयक्ष्मेति नामानि तथाऽऽह- संशोषणाद्रसादीनामित्यादि| क्रिया चिकित्सा, कायवाङ्मानसं वा कर्म, तस्य क्षयकरत्वात्| राज्ञ इति ‘द्विजानां’ इति शेषः| चन्द्रमसः चन्द्रस्य, आमयो यक्ष्मा रोगः, केचिदिति आत्रेयप्रभृतयः; यस्मादेष आमयो द्विजानां राज्ञश्चन्द्रमसश्चन्द्रस्याभूत्तस्मात् तं रोगं केचित् पुनर्जना राजयक्ष्मेति ब्रुवते; यतोऽयं यक्ष्मा रोगो रोगाणां राजा अतो राजयक्ष्मेति वाग्भटो व्याख्यानयति| किलेति वार्तायाम्| एवं खलु यथा श्रूयते- पूर्वं दक्षनामा प्रजापतिरभूत्, तस्य बह्वयो दुहितरो बभूवुः, तेन च सप्ताधिका विंशतिः कन्यकाश्चन्द्राय विवोढे दत्ताः, स चन्द्रमास्तासु मध्ये रोहिण्यामेवानुरक्तो बभूव, ततश्च सशोकाभिरश्विन्यादिभिर्दुहितृभिरात्मपितरि दक्षसञ्ज्ञके चन्द्रस्य रोहिण्यामासक्तिवृत्तान्तो निवेदितः, ततो दुहितॄणां वार्तामाकर्ण्य, चन्द्रमाहूय, सर्वास्वपि निजपुत्रीषु समतया वर्तनाय चन्द्रोऽभिहितः, स च तथेति स्वीकृत्यापि स्वगुरोर्वचनमनादृत्य न तासु समवर्तत, ततो दक्षप्रजापतेः क्रोधो निश्वासरूपेण मूर्तिमान् भूत्वा निःसृत्य यक्ष्मरूपेण रोहिण्यामतिप्रसङ्गेनाविलं चन्द्रमाविशत्, ततोऽसौ तेन रोगेणाभिभूतः सन् गतप्रभो गतोत्साहश्च सञ्जातः, गुरुवचनातिक्रमेण दोषं मत्वा तमेव दक्षनामानं गुरुं शरणं गतवान्, ततोऽनन्तरं देववैद्याभ्यामश्विभ्यां स चिकित्सितः, ततः प्राप्तबलश्चन्द्रो (रराजातीव सुप्रभः) लघ्वगुरुप्रसादोऽश्विभ्यां चिकित्सितोऽभूत् | एवं च सति कर्मदोषजो व्याधिरिति दर्शितम्||४-५||
Adhikarana 4 (6) · Śloka 6
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि |६|
एकीयमतेनास्य व्याधेः पृथग्दोषजत्वमाह- स व्यस्तैरित्यादि| स व्याधिः| व्यस्तैः पृथग्भूतैः|६|-
Adhikarana 5 (6-7) · Śloka 7
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ||६||
क्रियाणामविभागेन प्रागेकोत्पादनेन च |
एक एव मतः शोषः सन्निपातात्मको ह्यतः ||७||
परमतनिराकरणाय स्वमतमाह- एकादशानामित्यादि| एकादशानामिति स्वरभेदशूलादीनाम्| एकस्मिन्निति राजयक्ष्मरोगे; अन्ये तु राजयक्ष्मातुर इति व्याख्यानयन्ति, सान्निध्यादिति विद्यमानत्वात्| तन्त्रयुक्तितः अर्थयुक्तितः ; अन्ये तन्त्रेत्यत्र तत्रेति पठन्ति; तत्र तस्मिन्, युक्तितो युक्तिवशादिति व्याख्यानयन्ति| का सा युक्तिः? यद्वशेनैक एव शोष इत्याह- क्रियाणामविभागेनेति|- चिकित्सानामपृथक्त्वेन दर्शितत्वादित्यर्थः| एकत्वे तृतीयं हेतुमाह- प्रागेकोत्पादनेन चेति|- यस्मात् पूर्वं दक्षेण क्रुद्धेनैकस्योत्पादनं कृतम्| हिः यस्मादर्थे; यस्मात् शोषस्यैकत्वे हेतुत्रितयमत्रोक्तम्, अत एक एव शोषः सन्निपातात्मको मत इति सम्बन्धः||६-७||
Adhikarana 6 (8) · Śloka 8
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि |८|
ननु, यदि सन्निपातात्मक एक एवायं तत् कथमत्र एकैकदोषपृथग्लिङ्गज्ञानमित्याह - उद्रेकादित्यादि| उद्रेकात् आधिक्यात्| तत्र शोषे| हिशब्दो हेतौ, स च हेतुर्बहुप्रकारोऽपि चतुर्विधत्वं न त्यजति|८|-
Adhikarana 7 (8) · Śloka 9
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ||८||
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः |९|
तमेव चतुर्विधं हेतुमाह- क्षयाद्वेगप्रतीघातादित्यादि| क्षयात् रसादिशुक्रान्तानां धातूनां क्षयात्| वेगप्रतीघातात् वातमूत्रपुरीषादीनां प्रवृत्त्युन्मुखानामवरोधात्| आघातात् पतनादितः, अयथाबलमारम्भादिति बोद्धव्यम्| विषमाशनादिति अप्राप्तातीतकालबह्वल्पभोजनात्| क्षयादित्यादिहेतुभिः कुपितैर्दोषैर्व्याप्तदेहस्य शोषो जायते इति सम्बन्धः| अन्ये त्वेवं पठन्ति- ‘वेगाघातात् पूरणाद्वा सङ्घातात् सङ्क्षयादपि’ इति; व्याख्यानयन्ति च- पूरणं विषमाशनमभिप्रेतं, सङ्घातोऽत्र साहसः, शेषं पूर्ववद्व्याख्येयम्||८||-
Adhikarana 8 (9) · Śloka 9
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ||९||
कफप्रधानैरित्यादि| कफप्रधानैः उत्कटकफैः| हिशब्दो हेतौ| रसवर्त्मस्वित्यत्रादिशब्दो लुप्तो ज्ञेयः; वर्त्म मार्गः, तेन रसादिवाहिनीषु धमनीष्वित्यर्थः||९||
Adhikarana 9 (10) · Śloka 10
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तरम् |
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||१०||
अपरप्रकारेण धातुक्षयाद्राजयक्ष्मसम्भवं दर्शयन्नाह- अतीत्यादि| अतिव्यवायिनः अत्यर्थं ग्राम्यधर्मसेविनः| क्षीणे रेतसि शुक्रे, शुक्रक्षयश्च मेढ्रवृषणवेदनेत्यादिना ज्ञेयः| अनन्तरं रेतसः क्षयादित्यर्थः| क्षीयन्ते धातवः सर्वे इति परं यदि स्त्रीभ्यो न निवर्तते| ननु, रसवर्त्मरोधाद्रसेन रक्तस्याबृंहणात्तदपचयः रक्तापचयाच्च मांसस्यापचय इत्यादिपूर्वपूर्वधातुक्षीणतया कृत्वा शुक्रस्य युक्तः क्षयः, शुक्रक्षये तु पूर्वधातूनां कथं क्षयः? उच्यते- यथा महाजलाधारपरिक्षये तत्र प्रविशतां जलप्रायाणां (जन्तूनां) क्षयस्तद्वदत्रापीति| स्वमार्गावरोधाद्रसोऽसञ्चरन् किं करोति? हृदये विदह्यते, कासवेगेन मुखमार्गात् पिच्छिलबहलविस्रहरितपीतश्वेतः प्रवर्तते||१०||
Adhikarana 10 (11) · Śloka 11
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् |
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ||११||
इदानीं मध्यबलदोषारब्धस्य शोषस्य षड्रूपाणि दर्शयन्नाह- भक्तद्वेषो ज्वर इत्यादि| स्वरभेदः घर्घरादिस्वरः||११||
Adhikarana 11 (12-13) · Śloka 13
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः |
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||१२||
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च |
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||१३||
षड्रूपाणि निर्दिश्य दोषभेदेनैकादशरूपाणि बलवत्समदोषारब्धस्य शोषस्य दर्शयन्नाह- स्वरभेद इत्यादि| संलोचो लुञ्चनमिव, अंसयोः पार्श्वयोः; ‘संलोच’ इत्यत्रान्ये ‘सङ्कोच’ इति पठन्ति, तत्र सङ्कोचनमिवेत्यर्थः| शिरसः परिपूर्णत्वं ‘कफेन’ इति शेषः| अभक्तच्छन्दो भक्तारुचिः| कण्ठस्य चोद्ध्वंसः कण्ठभङ्गः; अन्ये उद्ध्वंस उत्कासिकेति व्याख्यानयन्ति| स्वरभेदादिलिङ्गत्रयं राजयक्ष्मणि वातेन, ज्वरादीनि चत्वारि पित्तेन, शिरसः परिपूर्णत्वादीनि चत्वारि कफेन; एवं षड्रूपाण्यपि वातादिभेदेन ज्ञेयानि||१२-१३||
Adhikarana 12 (14-15) · Śloka 15
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् |
(कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||१४||
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः) |
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः ||१५||
इदानीं रूपप्रस्तावाद्बहुरूपान्वितस्यासाध्यत्वमाह- एकादशभिरित्यादि| एतैरेभिः स्वरभेदोऽनिलाच्छूलमित्यादिकैः, षड्भिर्वाऽपीति भक्तद्वेषो ज्वर इत्यादिभिः, अपिशब्दात्त्रिभिर्वा श्वासकासासृगामयैस्तन्त्रान्तरोक्तैः, समन्वितमिति समुच्चीयते| जह्यादिति त्यजेत्, परं वह्नौ मन्दे बलमांसक्षये सतीति बोद्धव्यम्| ननु, सर्वरूपादर्धत्रिरूपौ लघुतरौ, तत्कथं तावप्यसाध्यौ? उच्यते- बलवह्नयपचये कालप्रकर्षात्तयोरपि महत्त्वात्; एतेन सर्वरूपोपपन्न एवासाध्यः, इतरौ तु कालप्रकर्षेणेति| अयं पाठः पुस्तकान्तरेष्वन्यथा पठ्यते, स च निबन्धकारैर्न पठितः||१४-१५||
Adhikarana 13 (16) · Śloka 16
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः |
व्रणोरःक्षतपीडाभ्यां शोषनन्ये वदन्ति हि ||१६||
एकीयमतेन शोषभेदान्निर्दिशन्नाह- व्यवायशोकेत्यादि| व्यवायः स्त्रीसेवा, शोकः पुत्रादिवियोगेन चित्तोद्वेगः, स्थाविर्यं वृद्धत्वं; अन्ये वार्धक्यमिति पठन्ति, तत्राप्येकोऽर्थः; व्यायामः शरीरायासजनकं कर्म; अध्वा दीर्घमार्गाटनं; व्यवायाद्युपवासान्तैर्हेतुभिस्तथा व्रणपीडया उरःक्षतपीडया चान्ये शोषान् वदन्तीति सम्बन्धः||१६||
Adhikarana 14 (17) · Śloka 17
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः |
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१७||
व्यवायशोषिणो लक्षणान्याह- व्यवायेत्यादि| शुक्रस्य क्षयलिङ्गैरिति ‘शुक्रक्षये मेढ्रवृषणवेदना’ इत्यादिभिः| यथापूर्वमिति यथापूर्वं तत्र शुक्रस्य पूर्वं मज्जा, मज्ज्ञोऽस्थि, अस्थ्नो मेदः, मेदसो मांसं, मांसस्य रक्तमित्येवं क्षीयन्ते धातवः प्राग्वदेव दर्शितन्यायात्, परं यदि स्त्रीभ्यो न निवर्तते||१७||
Adhikarana 15 (18) · Śloka 18
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः |
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः ||१८||
शोकशोषिणमाह- प्रध्यानशील इत्यादि| प्रध्यानशीलः चिन्तापरः, स्रस्ताङ्गः अवसन्नगात्रः| तादृश इति व्यवायशोषितवदभिलक्षितः, परं शुक्रक्षयकृतैर्लिङ्गैर्विना; एतेन पाण्डुदेह इत्यर्थः||१८||
Adhikarana 16 (19-20) · Śloka 20
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः |
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः(नः) ||१९||
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः |
सम्प्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः ||२०||
जराशोषिणमाह- जराशोषी कृशो मन्देत्यादि| मन्दशब्दो वीर्यादिभिः प्रत्येकं सम्बध्यते, वीर्यं शक्तिः, बलम् ओजो हृदि स्थितं सप्तधातुधामभूतम्| पुनररुचिकथनमत्यन्तारोचकख्यापनार्थम् | सम्प्रस्रुतेत्यादि सम्प्रस्रुतशब्द आस्यादिभिस्त्रिभिः प्रत्येकं सम्बध्यते| आस्यं मुखकुहरम्, अक्षि लोचनम्| सुप्तरूक्षत्वं प्रभायाः, रूक्षत्वं च मलस्य; यद्यपि सत्परूक्षत्वं त्वचि भवति न प्रभायां, तथाऽपि ‘मञ्चाः क्रोशन्ति’ इतिवदुपचारात् प्रभायां बोद्धव्यम्| जेज्जटाचार्यस्तु जराशोषिणो लक्षणमत्र न पठति, सप्ततेस्तूर्ध्वं क्षीयमाणेत्यादिना आतुरोपक्रमणीये उक्तत्वात्||१९-२०||
Adhikarana 17 (21) · Śloka 21
अध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः |
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ||२१||
अध्वशोषिणमाह- अध्वप्रशोषीत्यादि| स्रस्ताङ्गः शिथिलगात्रावयवः| प्रसुप्तमात्रावयव इत्यनेन अकर्मण्यशरीरप्रदेश उक्तः| शुष्कशब्दः क्लोमादिभिः प्रत्येकं सम्बध्यते; क्लोम तिलकम्, आननं मुखकुहरम्| सम्भृष्टपरुषच्छविरिति दग्धस्येव परुषा छविर्यस्येत्यर्थः; केचित् ‘सम्भृष्टपरुषच्छविः’ इत्यत्र ‘संसृष्टपरुषच्छविः’ इति पठित्वा संसृष्टा परुषा छविः यस्य स इति व्याख्यानयन्ति| यद्यपि जराशोष्यनन्तरं व्यायामशोषी वाच्यो नाध्वशोषी, तथाऽप्यध्वशोषिलक्षणानां व्यायामशोषिण्यतिदेशात् पूर्वमत्राध्वशोषि निर्दिष्टः| यद्येवं तर्हि व्यायामशोषिलक्षणान्येव कुतोऽध्वशोषिणि नातिदिश्यन्ते? सत्यम्, उरःक्षतलिङ्गानामधिकानां व्यायामशोषिणि सद्भावात्| केचिदत्र ‘तृडङ्गमर्ददौर्बल्यपारुष्यैरर्दितोऽध्वना’ इति पाठं पठन्ति, तत्रापि स एवार्थः||२१||
Adhikarana 18 (22) · Śloka 22
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः |
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना ||२२||
व्यायामशोषिणमाह- व्यायामशोषी भूयिष्ठमित्यादि| एभिरेवेति अनन्तरोक्तैः अध्वशोषिलक्षणैरित्यर्थः| उपवासशोषिलक्षणं दोषधातुमलक्षयवृद्धिविज्ञानीयोक्तं ‘तत्र वातलाहारसेविन’ इत्यादिकं ज्ञातव्यम्||२२||
Adhikarana 19 (23) · Śloka 23
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् |
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः ||२३||
व्रणशोषिलक्षणमाह- रक्तक्षयादित्यादि| व्रणशोषिणो वैशेषिकलक्षणानुपदेशात् सामान्यलक्षणं ज्ञेयम्| यद्येवं कुतोऽस्य पृथगभिधानमिति चेत्, विशिष्टकारणतया असाध्यतमत्वख्यातेः ||२३||
Adhikarana 20 (24-25) · Śloka 26
व्यायामभाराध्ययनैरभिघातातिमैथुनैः |
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् |
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति ||२४||
कासमानश्छर्दयेच्च पीतरक्तासितारुणम् |
सन्तप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति ||२५||
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः |२६|
उरःक्षतशोषिणमाह- व्यायामेत्यादि| कर्मणा चाप्युरस्येनेति धनुराकर्षणादिनेत्यर्थः| क्षते अतिदारिते| असितम् ईषत्कृष्णम्, अरुणम् ईषद्रक्तम्| दूयनात् अतिवेदनात्, परिताम्यति मोहं याति| दुर्गन्धशब्दो वदनोच्छ्वासाभ्यां सम्बध्यते||२४-२५||-
Adhikarana 21 (26) · Śloka 27
केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः ||२६||
न तत्र दोषलिङ्गानां समस्तानां निपातनम् |२७|
एकीयमतमाह- केषाञ्चिदित्यादि| केषाञ्चिदाचार्याणां मते एवं व्यवायादिभिरनेकैः कारणैः कृत्वा हि यस्मात् शोषो भेदमागतः; अत एक एव स्वमते शोषो नेतरे व्यवायादिजाः| कुतो व्यवायादिजाः शोषा न भवन्तीत्याह- न तत्रेत्यादि| तत्र तेषु व्यवायादिजेषु||२६||-
Adhikarana 22 (27) · Śloka 27
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसञ्ज्ञिताः ||२७||
यदि ते व्यवायादिजाः शोषाः न भवन्ति तर्हि किन्नामधेया भवन्तीत्याह- क्षया एवेत्यादि| ते व्यवायादिजाः क्षया एव, किंविशिष्टाः? प्रत्येकं धातुसञ्ज्ञिताः धातुक्षयसञ्ज्ञका इत्यर्थः| यतः शुक्रमारभ्य विलोमेन व्यवायादिभिर्धातूनां यथापूर्वं सङ्क्षयात्||२७||
Adhikarana 23 (28) · Śloka 28
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसङ्क्षये ||२८||
तेषां किञ्चिच्चिकित्सितमाह- चिकित्सितं तु तेषामित्यादि| धातुसङ्क्षये दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याये||२८||
Adhikarana 24 (29-30) · Śloka 30
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः |
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||२९||
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च |
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||३०||
इदानीमेकीयमतं प्रदर्श्य सम्प्राप्त्यनन्तरं राजयक्ष्मणः पूर्वरूपाण्याह- श्वासाङ्गसादकफसंस्रवेत्यादि| अङ्गसादः अङ्गानामनुत्साहः, अग्निसादः अग्निमान्द्यम्| मदः पूगफलेनेव मत्तता| मांसपरो मांसाभिलाषी| रिरंसुः रन्तुमिच्छुः| शल्लकी गोधानुकारी वज्रशकलः, ‘शल्लक’ इति लोके प्रसिद्धः, नीलकण्ठो मयूरः, गृध्रः आमिषाशी योजनदृष्टिः| कपयो वानराः| कृकलासः कृकण्टकः ‘गिरगिट’ इति पूर्वदेशीया भाषन्ते| तं शोषिणं, वाहयन्ति प्रापयन्ति स शोषी| ननु, सम्प्राप्त्यनन्तरं पूर्वरूपेषु वक्तव्येषु कथं रूपाण्यभिधाय पूर्वरूपोपादानं कृतम्? उच्यते- रूपाण्यव्यक्तानि पूर्वरूपाण्यस्येति प्रतिपादनार्थम्||२९-३०||
Adhikarana 25 (31) · Śloka 31
महाशनं क्षीयमाणमतीसारनिपीडितम् |
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||३१||
वर्ज्यमाह- महाशनमित्यादि| मुष्को वृषणम्| ‘यक्ष्मिणम्’ इत्यत्रान्ये ‘शोषिणम्’ इति पठन्ति||३१||
Adhikarana 26 (32) · Śloka 32
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् |३२|
उपक्रम्यमाह- उपाचरेदात्मवन्तमित्यादि| आत्मवन्तं जितेन्द्रियम्|३२|-
Adhikarana 27 (32-33) · Śloka 33
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ||३२||
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम् |
आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ||३३||
तदेव चिकित्सितमाह- स्थिरादिवर्गसिद्धेनेत्यादि| स्थिरादिः विदारिगन्धादिः| मृदु यत् कर्शनं न भवतीत्यर्थः| आस्थापनं निरूहः| तथेति मृद्वित्यर्थः| शिरसो विरेचनं नस्यम्||३२-३३||
Adhikarana 28 (34) · Śloka 34
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः |३४|
शोधितस्य पश्चात्कर्म आह- यवगोधूमेत्यादि| रसैः जाङ्गलमांसरसैः|३४|-
Adhikarana 29 (34) · Śloka 34
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम् ||३४||
बृंहणविषयमाह- दृढेऽग्नावित्यादि| निवृत्तोपद्रवमिति प्रशान्तस्वरभेदादिकमित्यर्थः||३४||
Adhikarana 30 (35) · Śloka 35
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः |
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ||३५||
इदानीं व्यवायशोषिणो विशिष्टं चिकित्सितमाह- व्यवायेत्यादि| ‘व्यवायशोषिणम्’ इत्यादिवाक्यं केचिन्नेच्छन्ति, ‘क्रियाणां चाविभागेन’ इत्युक्तस्य व्याघातात्||३५||
Adhikarana 31 (36-39) · Śloka 39
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून् |
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ||३६||
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः |
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ||३७||
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः |
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ||३८||
खादेत्, पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले |
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ||३९||
शोषिणां यानि मांसान्यादेयानि तान्याह- काकानुलूकान्नकुलानित्यादि| बिडाला ग्राम्यादिभेदेन षट्प्रकारा मार्जाराः; तथा च- “ग्राम्यो वन्यस्तोयजातः पक्षिमार्जारविज्जकौ| सुगन्धवृषणश्चेति मार्जाराः षट् प्रकीर्तिताः”- इति| व्याला व्याघ्रादयः, बिलेशयाः श्वाविच्छल्लकीप्रभृतयः आखुरत्र वृक्षमूषिकः| विविधैः प्रवादैरिति “काकांस्तित्तिरिशब्देन मत्स्यशब्देन चोरगान्| भृष्टमत्स्यान्त्रशब्देन दद्याद्गण्डूपदानपि” इत्यादिभिर्नानाप्रकारैर्वचनैः| एवं प्रकारेण दाने किं प्रयोजनमिति चेत्? अजुगुप्सया भक्षणं भक्षितस्य चानुल्लेखनम्| तथा चोक्तं- “जानन् जुगुप्सुर्नैवाद्याद्भुक्तं वा पुनरुल्लिखेत्| तस्माच्छद्मोपसिद्धानि मांसान्येतानि दापयेत्”- इति| जाङ्गलानि जङ्घालविष्किरप्रतुदजानि, शेषजाङ्गलवर्गाणामत्र विशेषेणाभिधानत्| यद्यपि जाङ्गलशब्देनैव गृध्रादयोऽपि लब्धाः, तथाऽप्यत्यन्तबृंहणत्वाद्गृध्रादीनां पृथगुपादानम्| मुद्गाढकीसूपरसाः स्रोतःशुद्धिकत्वाद्देयाः| नागो हस्ती, अश्वतरो वेशरः| सुकल्पितानि वेशवारीकृतानि नानाप्रकारप्रकल्पितानि | तथा च वृद्धभोजः- “खरोष्ट्राश्वतरं नागं मांसं मांसाभिवृद्धये| दद्यान्माहिषशब्देन वेसवारीकृतं भिषक्”- इति| मांसोपदंशानरिष्टान् अभयारिष्टप्रभृतीन्, मार्द्वीकयुक्तान् द्राक्षासवयुक्तान्, मदिरा मद्यम्| भक्ष्यान्निर्देष्टुमाह- अर्कामृतक्षारजलोषितेभ्य इत्यादि| अर्कगुडूचीक्षारपानीयोषितेभ्यो यवेभ्यो भक्ष्यान् कृत्वा खादेदिति सम्बन्धः| उषितेभ्यो रात्रौ स्थितेभ्यः| अर्कादिभस्म चतुर्गुणेन जलेन गालयित्वा पचेद्यावदर्धावशिष्टं भवति| तथा चोक्तं- “पानाय भोजनायाथ भस्म स्राव्यं चतुर्गुणे| जलेऽर्धमवशिष्टे(ष्टं) तु क्षाराम्भो ग्राह्यमिष्यते”- इति| पिबेदित्यादि| अजाविकं वेति आजं वा आविकं वेत्यर्थः| अजेत्यत्र ह्रस्वत्वं छन्दोऽनुरोधात्| भक्तकाले भोजनकाले| सर्पिर्मधुभ्यामित्यादि| उपहितं संयुक्तम्||३६-३९||
Adhikarana 32 (40) · Śloka 40
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्रकणासमेतम् |४०|
मांसादमांसेष्वित्यादि| मांसादा गृध्रादयः, तन्मांसरसे चतुर्गुणे सिद्धं सर्पिः क्षौद्रपिप्पलीयुक्तं शोषापहं भवति| क्षौद्रकणेत्यत्र दन्तिकणेति केचित् पठन्ति|४०|-
Adhikarana 33 (41) · Śloka 41
द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती ||४०||
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम् |४१|
द्राक्षेत्यादि| अवलेहोऽयम्|४१|-
Adhikarana 34 (41) · Śloka 41
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्रयुतं प्रलिह्यात् ||४१||
सिताश्वगन्धेत्यादि| सिता शर्करा, मगधोद्भवा पिप्पली||४१||
Adhikarana 35 (42) · Śloka 42
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम् |४२|
क्षीरमित्यादि| वाजिगन्धाविपक्वं सामान्यक्षीरपाकपरिभाषया| वाजिगन्धा अश्वगन्धा|४२|-
Adhikarana 36 (42) · Śloka 42
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ||४२||
तदुत्थितं क्षीरघृतमित्यादि| तदुत्थितम् अश्वगन्धाविपक्वक्षीरोत्थं, क्षीरघृतं क्षीरद्विलोडितादुद्भूतं घृतम्||४२||
Adhikarana 37 (43) · Śloka 43
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च |४३|
उद्वर्तनमुपचर्यार्थमाह- उत्सादने इत्यादि| उत्सादनम् उद्वर्तनम्| तुरङ्गगन्धा अश्वगन्धा| पुनर्नवे श्वेतरक्ते द्वे| ननु, शोषे बृंहणमुपयुज्यते, एताश्च विलेखनाः, ततः कथं तदुपयोगः? सत्यं, बाह्योपयोगेन तेषां बृंहणत्वेनोपयोगात्|४३|-
Adhikarana 38 (43) · Śloka 44
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्रयुतं हिताशी ||४३||
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च |४४|
कृत्स्ने इत्यादि| कृत्स्ने वृषे इति समूलपत्रशाखाङ्कुरे| वासकाङ्गेभ्यः क्वाथे, तत्कुसुमैः वासकपुष्पैः, ‘कल्कीकृतैः’ इति शेषः| सिद्धं सर्पिरिति चतुर्गुणक्वाथेन पुष्पकल्केनाष्टमभागेन च| तथा चोक्तं,- “शणस्य कोविदारस्य वृषस्य च पृथक् पृथक्| कल्काढ्यत्वान्न शंसन्ति पुष्पकल्पं चतुष्पलम्”- इति||४३||-
Adhikarana 39 (44-45) · Śloka 46
शकृद्रसा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ||४४||
मूर्वाहरिद्राखदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य |
भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ||४५||
कटुत्रिकं चैव सभद्रदारु घृतोत्तमं यक्ष्मनिवारणाय |४६|
शकृद्रसा इत्यादि| गोश्वगजाविच्छगलीनां प्रत्येकं शकृद्रसाः, तथैव मूर्वाहरिद्राखदिरद्रुमाणां क्वाथभागैर्मिताः स्वल्पा भागाः, तथा क्षीरस्यापरो नवमो भागः, घृतस्य दशम इति , एतान् दशभागान् त्रिवर्गादिकेन कल्केन विपचेदिति सम्बन्धः| मूर्वा चोरस्नायुः| खदिरद्रुमाणामिति द्रुमग्रहणं मध्यमवयसः खदिरस्य ग्रहणार्थम्| त्रिवर्गः त्रिफला| मधुरं च कृत्स्नं काकोल्यादिकम्; अपरेऽष्टवर्गमाहुः||४४-४५||-
Adhikarana 40 (46-48) · Śloka 48
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ||४६||
यवान् कुलत्थान् बदराणि भार्गीं पाठां हुताशं समहीकदम्बम् |
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ||४७||
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च |
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ||४८||
द्वे पञ्चमूल्यावित्यादि| द्वे पञ्चमूल्यौ दशमूलमित्यर्थः| बिल्वस्य पृथक्पाठादत्र फलं ग्राह्यम्| हुताशः चित्रकः, महीकदम्बो मुण्डितिका| कृत्वा कषायमिति दशमूलादीनामष्टषष्ट्यधिकानि सप्तशतपलानि चतुर्गुणेनाम्भसा निष्क्वाथ्य चतुर्भागावशिष्टः क्वाथो ग्राह्यः| तस्य क्वाथस्य, पात्रैः आढकैः| कल्कद्रव्याण्याह- व्योषमित्यादि| व्योषं त्रिकटुकं, महावृक्षपयः सेहुण्डक्षीरं, सुराख्यं देवदारु, लवणोत्तमं सैन्धवम्; केचित् ‘लवणोत्तमम्’ इत्यत्र ‘मगधोद्भवां’ इति पठित्वा पिप्पलीमिति व्याख्यानयन्ति| प्रमेहांश्च सहानिलेनेति वातिकानपिप्रमेहान् हन्तीत्यर्थः; एतच्च स्तुतिपरं , वातिकमेहानामसाध्यत्वात्||४६-४८||
Adhikarana 41 (49) · Śloka 49
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्रसक्षीररसक्षतोत्थैः |
द्राक्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ||४९||
गोश्वाव्यजेभैणेत्यादि| गोश्वादीनां शकृद्रसक्षीरमांसरसरुधिरैः द्राक्षादीनां कल्केन सिद्धं घृतं यक्ष्मविकारान् हन्तीति सम्बन्धः| इभा हस्तिनी, एणः कृष्णसारः| क्षीरं यथासम्भवं ग्राह्यं, न तु सर्वेषाम्||४९||
Adhikarana 42 (50-54) · Śloka 54
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान् |
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ||५०||
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च |
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ||५१||
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात् |
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रितश्च ||५२||
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम् |
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ||५३||
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च |
न चात्र किञ्चित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ||५४||
एलाजमोदेत्यादि| एलादिकान् सुराष्ट्रजान्तान् कषायकल्पेन विपाच्य, तेन क्वाथेन सर्पिर्विपचेदिति सम्बन्धः| तस्मिन् क्वाथे सिद्धे पूते शर्करायास्त्रिंशत्पलानि दद्यात्, तुगाक्षीर्याश्च षट्पलानि, तथा घृतस्य प्रस्थे द्विगुणं द्विप्रस्थमितं क्षौद्रं दद्यात्| अक्षं बिभीतकं, गायत्री खदिरः, अरिष्टो निम्बः, असनो बीजकः, शालः प्रसिद्धः, सारशब्दः खदिरादिभिः सम्बध्यते| उग्रा वचा, अम्भोदो मुस्तं, सुराष्ट्रजा तुवरमृत्तिका| तुगाक्षीरी वंशलोचनम्; अन्ये वंशलोचनानुकारिपार्थिवद्रव्यमाहुः| मन्थहतं खजविलोडितम्| अतो अस्माद्रसायनात्| अतन्द्रितः अनलसः| मेध्यं मेधाजनकम्||५०-५४||
Adhikarana 43 (55) · Śloka 55
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र |५५|
अत्र रसायनेऽपराण्यपि घृतान्यतिदेशेनाह- प्लीहोदरोक्तं विहितमित्यादि| प्लीहोदरोक्तं षट्पलकं, त्रीण्येव चान्यानि उदरोक्तान्येव; तद्यथा- एकं ‘हरीतकीचूर्णप्रस्थं’ इत्यादिकं, द्वितीयं ‘गव्ये पयसि महावृक्षक्षीरम्’ इत्यादि, तृतीयं ‘चव्यचित्रकदन्त्यतिविषा’ इत्यादिकम्| अत्र शोषे| एतानि स्रोतोवरोधशान्त्यर्थं रेचनत्वेन हितानि|५५|-
Adhikarana 44 (55) · Śloka 55
उपद्रवांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ||५५||
स्वरभेदादीनां चिकित्सितमतिदेशेनाह- उपद्रवांश्च स्वरवैकृतादीनित्यादि| यथास्वं यस्य यदात्मीयं स्वरभेदादिशास्त्रं, तत् प्रसमीक्ष्येत्यर्थः||५५||
Adhikarana 45 (56) · Śloka 56
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः |
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ||५६||
इदानीमजायाः सर्वप्रकारेणोपयोगमाह- अजाशकृन्मूत्रेत्यादि| अजाशकृदादिकं यथासम्भवं स्नानादिविधिना पुरुषः सेवमानोऽशेषं शोषं मासाज्जहातीति सम्बन्धः| अजाशब्दः शकृदादिभिरालयान्तैः प्रत्येकं सम्बध्यते| आलयं गृहम्, अजानामेव||५६||
Adhikarana 46 (57) · Śloka 57
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम् |
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ||५७||
रसोनयोगमित्यादि| विधिवत् यथाशास्त्रम्| क्षीरेणेति नागबलाप्रयोगमागधिकाविधानाभ्यां सम्बध्यते| तथेति क्षीरेणेत्यर्थः| जतुनः अश्मजस्य शिलाजतुनः||५७||
Adhikarana 47 (58) · Śloka 58
शोकं स्त्रियं क्रोधमसूयनं च त्यजे... |५८|
इदानीं परिहार्यमाह- शोकं स्त्रियमित्यादि| क्रोधः पराभिद्रोहलक्षणः; असूयनं परगुणेषु दोषारोपणम्|५८|-
Adhikarana 48 (58) · Śloka 58
...दुदारान् विषयान् भजेत |
वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ||५८||
इदानीं दैवव्यपाश्रयां चिकित्सामाह- उदारानित्यादि| उदारा विषया धर्माविरुद्धा मनोनुकूलाश्च शब्दादयः| भजेत सेवेत| द्विजातीन् विप्रान्, त्रिदशान् देवान्, गुरून् पितृमातृप्रभृतीन्| पुण्या वाचो वेदोक्ता रुद्रस्तुतिप्रभृतयः||५८||
Adhikarana puShpikA · Śloka 41
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे (तृतीयोऽध्यायः, आदित) एकचत्वारिंशोऽध्यायः ||४१||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे शोषप्रतिषेधनामैकचत्वारिंशत्तमोऽध्यायः||४१||