Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

51. śvāsapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-3) · Śloka 3

अथातः श्वासप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| यैरेव कारणैर्हिक्का बहुभिः सम्प्रवर्तते | तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ||३||

🔊 Audio coming soon

हिक्काप्रतिषेधानन्तरं तुल्यहेत्वादिसाम्यात् श्वासप्रतिषेधारम्भः; अत एव वेगवदूर्ध्वागतवातयोगित्वसाधर्म्यात् हिक्काश्वासचिकित्सितमेकमेवोक्तं चरके| श्वासनिदानमाह- यैरेवेत्यादि| यैरेवेति विदाह्यादिभिः| कारणैः हेतुभिः| बहुभिः अनेकैः, बहुभिरिति कथनं श्वासस्य बहुप्रकारत्वसूचनार्थम्| हिक्का सम्प्रवर्तते जायते, तैरेव कारणैः श्वासो देहिनां प्राणिनं भवति| किंविशिष्टः? घोरः| कार्तिककुण्डस्तु अमुं पाठमयुक्तं वदति, हिक्काप्रतिषेध एव हिक्काश्वासयोस्तुल्यहेतुत्वप्रतिपादितत्वात्; मया पुनः श्रीजेज्जटपठितत्वात् पठितः||१-३||

Adhikarana 2 (4) · Śloka 4

विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः | श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ||४||

🔊 Audio coming soon

इदानीं श्वाससम्प्राप्तिमाह- विहायेत्यादि| प्राणो वायुः, प्रकृतिं विहाय विगुणो भूत्वेत्यर्थः, ऊर्ध्वगो भूत्वा तथा कफसंयुतः सन् यदा श्वासयति तं बुधाः श्वासं परिचक्षते कथयन्ति| प्राणो वायुः कफसंयुत इत्युक्तेऽपि तत्रान्येऽपि दोषाः समुच्चीयन्ते; यदुक्तं तन्त्रान्तरे- “क्षुद्रको वातिकः श्लेष्मभूयिष्ठस्तमकः स्मृतः| छिन्नः पित्तप्रधानः स्यादन्यौ मारुतकोपजौ”- इति||४||

Adhikarana 3 (5) · Śloka 5

क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा | भिद्यते स महाव्याधिः श्वास एको विशेषतः ||५||

🔊 Audio coming soon

श्वासभेदानाह- क्षुद्रक इत्यादि| स श्वास एकोऽपि क्षुद्रकादिभेदात् पञ्चधा भिद्यते| सङ्ख्येयनिर्देशादेव पञ्चप्रकारत्वे सिद्धे पञ्चवचनं तमकभेदस्य प्रतमकस्य पृथक्सङ्ख्यानिषेधार्थम्||५||

Adhikarana 4 (6) · Śloka 6

प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा | आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ||६||

🔊 Audio coming soon

पूर्वरूपमाह- प्राग्रूपं तस्येत्यादि| तस्य श्वासस्य हृत्पीडादिकं प्राग्रूपं भवति||६||

Adhikarana 5 (7) · Śloka 7

किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते | निषण्णस्यैति शान्तिं च स क्षुद्र इति सञ्ज्ञितः ||७||

🔊 Audio coming soon

क्षुद्रश्वासं लक्षयति- किञ्चिदारभमाणस्येत्यादि| यस्य किञ्चित् कर्म आरभमाणस्य पुरुषस्य यः श्वासः प्रवर्तते निषण्णस्य च शान्तिमेति स क्षुद्रः श्वास इति सञ्ज्ञितः||७||

Adhikarana 6 (8-10) · Śloka 10

तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः | विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ||८|| घोषेण महताऽऽविष्टः सकासः सकफो नरः | यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ||९|| स शाम्यति कफे हीने स्वपतश्च विवर्धते | मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः ||१०||

🔊 Audio coming soon

तमकलक्षणमाह- तृट्स्वेदेत्यादि| सः तमकः श्वासो मतः| किंविशिष्टः? तृट्स्वेदवमथुप्रायः| तृट् तृष्णा, स्वेदः प्रस्वेदः, वमथुः थूत्कृतिः, कण्ठे घुर्घुरिकया अन्वितो युक्तः| प्रतमकलक्षणमाह- मूर्च्छेत्यादि||८-१०||

Adhikarana 7 (11) · Śloka 11

आध्मातो दह्यमानेन बस्तिना सरुजं नरः | सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ||११||

🔊 Audio coming soon

छिन्नलक्षणमाह- आध्मातो दह्यमानेनेत्यादि||११||

Adhikarana 8 (12) · Śloka 12

निःसञ्ज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान् | संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ||१२||

🔊 Audio coming soon

महाश्वासलक्षणमाह- निःसञ्ज्ञ इत्यादि| निःसञ्ज्ञः चेतनारहितः, संरब्धनेत्रः सशोथलोचनः, आयम्य द्विधीभूयेव, श्वस्यात् श्वासं कुर्यात्, स महान् महाश्वासः| अत्र आश्रयाश्रयिणोरभेदात् महाश्वास एव ‘महान्’ शब्देनोच्यते; एवं सर्वत्र||१२||

Adhikarana 9 (13) · Śloka 13

मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः | ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् ||१३||

🔊 Audio coming soon

ऊर्ध्वश्वासलक्षणमाह- मर्मस्वित्यादि| मर्मसु हृद्बस्तिशिरःसु| आयम्यमानेषु आकृष्यमाणेषु| मूढो निश्चेष्टः| मुहुः अनवरतम्| ऊर्ध्वप्रेक्षी ऊर्ध्वप्रेक्षणशीलः| हतरवो हतस्वनः||१३||

Adhikarana 10 (14) · Śloka 14

क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते | त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ||१४||

🔊 Audio coming soon

इदानीं श्वासानां साध्यासाध्यत्वमाह- क्षुद्र इत्यादि| कृच्छ्रः कृच्छ्रसाध्यः| त्रयः श्वासाः छिन्नश्वासमहाश्वासोर्ध्वश्वासाः| तमको दुर्बलस्य चेति दुर्बलस्य पुंसस्तमकश्वासो न सिध्यतीत्यर्थः; चकारात् तन्त्रान्तरोक्तं ‘ज्वरमूर्च्छादियुक्तस्य’ इत्यपि लभ्यते||१४||

Adhikarana 11 (15) · Śloka 15

स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम् | मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि ||१५||

🔊 Audio coming soon

इदानीं चिकित्सामाह- स्नेहबस्तिं विनेत्यादि| यद्यपि श्वासे स्नेहबस्तिः प्राङ्निषिद्धः, तथाऽप्यत्र पुनर्निषेधकरणं श्वासेऽवस्थावशेनापि तस्याप्रयोगार्थम्| विना ऋते| ऊर्ध्वं शोधनं वमनम्, अधः शोधनं विरेकः; मृदु अपीडाकरम्, एतद्वमनविरेकयोर्विशेषणम्| प्राणवतां बलवताम्| आदिशन्ति कथयन्ति| परमतमप्रतिषिद्धमनुमतमेव||१५||

Adhikarana 12 (16) · Śloka 16

श्वासे कासे च हिक्कायां हृद्रोगे चापि पूजितम् | घृतं पुराणं संसिद्धमभयाविडरामठैः ||१६||

🔊 Audio coming soon

श्वासे नित्योपयोगिकं घृतमाह- श्वासे इत्यादि| अभयादिभिः संसिद्धं पुराणं घृतं श्वासादिषु पूजितमिति सम्बन्धः| पुराणं दशवर्षस्थितम्| रामठं हिङ्गु||१६||

Adhikarana 13 (17) · Śloka 18

सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम् | पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे ||१७|| सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति |१८|

🔊 Audio coming soon

सौवर्चलाभयाबिल्वैरित्यादि| सौवर्चलादिभिः सिद्धमनवं पुराणं घृतं श्वासादिषु संयोज्यमिति सम्बन्धः| पिप्पल्यादिप्रतीवापमित्यादि|- पिप्पल्यादिप्रतीवापं पिप्पल्यादिकल्के सिद्धम्| प्रथमो गणो विदारिगन्धादिः, तस्य क्वाथेन सिद्धम्| सपञ्चलवणमिति सिद्धं सत् पञ्चलवणप्रक्षेपं पातव्यमित्यर्थः| विकल्पाभिधानं पूर्वयोगापेक्षया| केचित् पञ्चलवणेन सह सिद्धमिति मन्यन्ते; तन्नेच्छन्ति निबन्धकाराः, समानतन्त्रविरोधात्||१७||-

Adhikarana 14 (18-20) · Śloka 21

हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ||१८|| द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम् | कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति ||१९|| अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा | कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे ||२०|| तन्मूलकुसुमावापं शीतं क्षौद्रेण योजयेत् |२१|

🔊 Audio coming soon

हिंस्राविडङ्गेत्यादि| हिंस्रा बृहदहिंस्रा, पूतीकः चिरबिल्वः| द्विक्षीरं द्विगुणक्षीरम्| सर्पिः प्रस्थप्रमाणम्| कोलमात्रैः अर्धकर्षप्रमाणैः; अन्ये कल्कस्याल्पीयस्त्वात् कोलशब्देन कर्षमिच्छन्ति| केचिदस्याग्रे ‘कृत्स्ने वृषकषाये वा पचेत्’ इत्यादि पठन्ति; तन्नेच्छति श्रीजेज्जटः, ‘वासाघृतं षट्पलं च घृतं चात्र हितं भवेत्’ इति वक्ष्यमाणवचनेन वासाघृतस्य कथनात्||१८-२०||-

Adhikarana 15 (21-22) · Śloka 23

शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः ||२१|| सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः | घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे ||२२|| श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति |२३|

🔊 Audio coming soon

शृङ्गीत्यादि| शृङ्गी कर्कटशृङ्गी| मधूलिका तृणजातिः ‘मर्कट’ इति लोके| तार्क्ष्यं रसाञ्जनम्| अम्बुदो मुस्ता| आवाप्य प्रक्षिप्य| योगतः युक्तितः, यावत्प्रमाणेन कल्केन उत्कटगन्धादिकं न स्यात्तावत्प्रमाणः कल्को देयो न तु स्नेहचतुर्थांशेन, योगत इत्यभिधानमन्तरेणैव तथा सिद्धेः| यद्यपि स्नेहाच्चतुर्गुणो द्रव इति सामान्यपरिभाषावशादेव जलचातुर्गुण्यं सिद्धं, तथाऽपि चतुर्गुणे इति करणं साहचर्याद्वक्ष्यमाणसुवहादियोगोक्तजलद्वैगुण्यमत्रापि मा भूदिति दर्शनार्थम्| नियच्छति निवारयति||२१-२२||-

Adhikarana 16 (23-24) · Śloka 25

सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् ||२३|| काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम् | कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् ||२४|| कटूष्णं पीतमेतद्धि श्वासामयविनाशनम् |२५|

🔊 Audio coming soon

सुवहा कालिका भार्गीत्यादि| सुवहा गोधापदी, कालिका कालेयकं, शुकाख्या चर्मकारवटः, शुकशिम्बामपरे, नैचुलं फलं जलवेतसफलं, काकादनी वायसतिन्दुकः, वर्षाभूः श्वेतपुनर्नवा, बृहतीद्वयं स्थूलफला चणकफला च, कोलमात्रैः अर्धकर्षप्रमाणैः सुवहादिभिरित्यर्थः; अन्ये कर्षप्रमाणैरिति मन्यन्ते; तन्न, समानतन्त्रविरोधात्| जलद्विकं द्विगुणजलमित्यर्थः||२३-२४||-

Adhikarana 17 (25-26) · Śloka 26

सौवर्चलयवक्षारकटुकाव्योषचित्रकैः ||२५|| वचाभयाविडङ्गैश्च साधितं श्वासशान्तये | गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् ||२६||

🔊 Audio coming soon

सौवर्चलयवक्षारेत्यादि| व्योषं त्रिकटुकम्| सौवर्चलादीनां विडङ्गान्तानां कल्केन द्रवेण वा अनुक्तेनापि जलेन साधितं घृतं पीतं सत् श्वासशान्तये भवतीति योज्यम्| गोपवल्ल्युदके सिद्धमित्यादि| गोपवल्ल्युदके सारिवाक्वाथे| अन्यदिति घृतविशेषणम्| द्विगुणे घृतद्विगुणे गोपवल्लीक्वाथे||२५-२६||

Adhikarana 18 (27) · Śloka 27

पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः |२७|

🔊 Audio coming soon

इदानीं हिंस्रादिपञ्चघृतानामत्यर्थं श्वासहिततमत्वप्रतिपादनार्थमुपसंहारमाह- पञ्चैतानि हवींष्याहुरित्यादि| पञ्चैतानीति हिंस्रादिशृङ्ग्यादिसुवहादिसौवर्चलादिगोपवल्ल्यादीनि|२७|-

Adhikarana 19 (27-29) · Śloka 29

तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः ||२७|| बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः | पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् ||२८|| हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम् | वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् ||२९||

🔊 Audio coming soon

तालीशतामलकीत्यादि| तामलकी दलफलिका, उग्रा वचा, जीवन्ती पटोलसमानपत्रा कन्दवती पश्चिमदेशे प्रसिद्धा, लाटदेशे स्थूलवल्ली विलक्षणैव, पुष्करं पुष्करमूलं, भूतीकं रोहिषं, कणा पिप्पली, अग्निः चित्रकः, तेजोवती काकमर्दनिका| हिङ्गुपादयुतमिति एकद्रव्यचतुर्थांशेन हिङ्ग्वित्यर्थः| केचिदमुं पाठमन्यथा पठन्ति, स चाभावान्न लिखितः| वासाघृतं षट्पलं चेत्यादि वासाघृतं ‘कृत्स्ने वृषे तत्कुसुमैः’ इत्यादिना रक्तपित्तोक्तं, पित्तप्रधाने श्वासे हितं; षट्पलं वातव्याध्युक्तं, तच्च वातप्रधाने श्वासे||२७-२९||

Adhikarana 20 (30) · Śloka 30

तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे | सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ||३०||

🔊 Audio coming soon

पित्तवातप्रधानयोः श्वासयोः स्नेहमभिधायेदानीं कफप्रधाने स्नेहमाह- तैलमित्यादि| यथान्यायं यो यो यथा न्याय्यस्तथा; एतेन यथायोग्यतया विचारणात्स्नेहमच्छपानं वा योज्यमित्युक्तम्| अन्ये यथान्यायं यथाव्याधीत्याहुः| व्यपोहति नाशयति||३०||

Adhikarana 21 (31) · Śloka 32

फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः | एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ||३१|| हन्युः श्वासं च कासं च संस्कृतानि पयांसि च |३२|

🔊 Audio coming soon

फलाम्ला विष्किररसा इत्यादि| फलाम्ला दाडिमबीजपूरादिना अम्लीकृताः| विष्किररसा लावादिमांसरसाः| प्रव्यक्तसैन्धवा उत्कटसैन्धवाः| एणादीनां शिरोभिर्वेति कृष्णहरिणादिमस्तकैर्वा कृता मांसरसा वातहरा इत्यर्थः| आदिशब्दात् गौरहरिणादयः| कौलत्था वा सुसंस्कृताः कुलत्थसंस्कृता यूषाः| संस्कृतानि पयांसि ‘वातहरैः पञ्चमूलप्रभृतिभिः’ इति शेषः||३१||-

Adhikarana 22 (32-35) · Śloka 35

तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ||३२|| दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी | श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ||३३|| भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम् | नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ||३४|| पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः | सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ||३५||

🔊 Audio coming soon

तिमिरस्येत्यादि|तिमिरो नखरागिपत्रः ‘तिवरिया’ इति प्रसिद्धः, कर्कटाख्यः कर्कटशृङ्गीः, केचित् ‘कर्कटाख्या’ इत्यत्र ‘कर्कटाख्यश्च’ इति पठन्ति, तत्र कर्कटाख्यः तृणजातिः| श्वावित् सेढिका, तस्याः सूचय एव रोमाणि| कोला चव्यम्| मागधिकाकणा पिप्पलीतण्डुलाः| शल्लकाङ्गजं शल्लकशकलं; अन्ये ‘शल्लका गजं’ इति पठन्ति, तत्र शल्लका शल्लकी, गजं नागकेशरम्| नृत्तकौण्डको मर्कटकः; केचित् ‘नृत्तकौण्डकबीजानि’ इत्यत्र ‘नीचैःकदम्बबीजानि’ इति पठन्ति, तत्र नीचैःकदम्बबीजानि लघुकदम्बबीजानि| श्लोकार्धिका अर्धश्लोकनिर्दिष्टाः||३२-३५||

Adhikarana 23 (36) · Śloka 36

सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना | पिबेत् सञ्चूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ||३६||

🔊 Audio coming soon

सप्तच्छदस्येत्यादि| सप्तच्छदस्य पुष्पाणि पिप्पलीश्च सञ्चूर्ण्य मस्तुना सह पिबेदिति योज्यम्| सप्तच्छदः सप्तपर्णः| धाना भृष्टयवाः| केचित् मधुनेति पदं धानाश्चाप्यथ भक्षयेदित्यत्र सम्बध्नन्ति||३६||

Adhikarana 24 (37-38) · Śloka 38

अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः | तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ||३७|| शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् | तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ||३८||

🔊 Audio coming soon

यादृशानां यवानां धाना भक्षयेत्तादृशानाह- अर्काङ्कुरैर्भावितानामित्यादि| अर्काङ्कुरैः अर्कपल्लवपुष्पकृतैः क्वाथैः| साधु शोभनं यथा भवतीत्यर्थः| अनेकश इति भावितानामित्यत्र योज्यम्| तर्पणं वा पिबेदेषामित्यादि| तर्पणं सक्तवः| एषां पूर्वोक्तानामर्काङ्कुरैर्भावितयवानामित्यर्थः| शिरीषेत्यादि| शिरीषादिपुष्पं पिप्पलीयुतं तण्डुलाम्बुना पीत्वा अशेषतो निःशेषान् श्वासान् जयेदिति सम्बन्धः| कुन्दो निर्गन्धं श्वेतपुष्पम्| तण्डुलाम्बु तण्डुलप्रक्षालनोदकम्||३७-३८||

Adhikarana 25 (39) · Śloka 40

कोलमज्जां तालमूलमृष्यचर्ममसीमपि | लिह्यात् क्षौद्रेण भार्गीं वा सर्पिर्मधुसमायुताम् ||३९|| नीचैःकदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना |४०|

🔊 Audio coming soon

कोलमज्जामित्यादि| कोलमज्जा बदरमज्जा, मज्जाशब्द आकारान्तोऽप्यस्ति, तेन मज्जामिति साधुपाठः| ‘तालमूलम्’ इत्यत्र ‘तालमूलीम्’ इति केचित् पठन्ति; तत्र तालमूलीमुषली| नीचैःकदम्बबीजमित्यादि| नीचैःकदम्बबीजं लघुकदम्बबीजम्| ‘तण्डुलाम्बुना’ इत्यत्र ‘पेयम्’ इत्यध्याहार्यम्| केचित् ‘नीपं कदम्बं रक्तं च तत् पीतं तण्डुलाम्बुना’ इति पठन्ति, व्याख्यानयन्ति च- नीपं बृहत्कदम्बफलं, कदम्बं लघुकदम्बवृक्षफलं, रक्तमिति विशेषणादनयोः पक्वयोर्ग्रहणं यतः परिपक्वं रक्तं भवति, पिष्टं पाने देयमिति यावत्| अपरे तु तण्डुलाम्बुना पीतं सुदारुणान् श्वासान् हन्तीति योजयन्ति| ये पूर्वं पञ्चलेहप्रस्तावे ‘नीचैःकदम्बबीजानि’ इति पठन्ति तन्मतेऽप्यत्र न पुनरुक्तता, यतः पूर्वं मधुसर्पिर्भ्यां विलिहन् श्वासान् हन्तीति लेहः, अत्र तु तण्डुलाम्बुना पानम्||३९||-

Adhikarana 26 (40) · Śloka 41

द्राक्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ||४०|| सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान् |४१|

🔊 Audio coming soon

द्राक्षां हरीतकीमित्यादि| कृष्णा पिप्पली| कर्कटाख्या कर्कटशृङ्गी||४०||-

Adhikarana 27 (41) · Śloka 42

हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शटीम् ||४१|| लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः |४२|

🔊 Audio coming soon

हरिद्रामित्यादि| कणा पिप्पली| केचिदमुं पाठमन्यथा पठन्ति, स चाभावान्न दर्शितः||४१||-

Adhikarana 28 (42) · Śloka 43

गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ||४२|| लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्रसम् |४३|

🔊 Audio coming soon

गवां पुरीषस्वरसमित्यादि| गोशकृद्रसपिप्पल्यौ मधुघृताभ्यां लिह्यात्, अश्वशकृद्रसपिप्पल्यौ वा मधुघृताभ्यां लिह्यात्||४२||-

Adhikarana 29 (43) · Śloka 44

पाण्डुरोगेषु शोथेषु ये योगाः सम्प्रकीर्तिताः ||४३|| श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः |४४|

🔊 Audio coming soon

इदानीं पाण्डुरोगाद्युक्तयोगानत्राप्यतिदिशन्नाह- पाण्डुरोगेष्वित्यादि पाण्डुरोगादिप्रतिषेधेषु ये योगाः कथितास्तेऽपि श्वासकासापहाः, कासघ्ना ये च कीर्तितास्तेऽपि| केचिदमुं पाठं न पठन्ति||४३||-

Adhikarana 30 (44) · Śloka 45

भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम् ||४४|| पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च |४५|

🔊 Audio coming soon

भार्गीत्वगित्यादि| अत्र लिह्यादिति सम्बन्धनीयम्||४४||-

Adhikarana 31 (45) · Śloka 46

तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ||४५|| सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान् |४६|

🔊 Audio coming soon

तलकोटस्येत्यादि| तलकोटः अङ्कोठः| उत्कारिका लप्सिका| केचित् ‘भार्गीत्वक्’ इत्यादिकं ‘तलकोटस्य बीजेषु’ इतिपर्यन्तमुत्कारिकार्यं मन्यन्ते||४५||-

Adhikarana 32 (46-47) · Śloka 47

पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ||४६|| सुरा सौवीरकं हिङ्गुः मातुलुङ्गरसो मधु | द्राक्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ||४७||

🔊 Audio coming soon

इदानीं श्वासे हिक्कायां चान्यदपि यद्धितं तदाह- पुराणसर्पिरित्यादि| कौलत्थाः कुलत्थैः संस्कृताः| जाङ्गला रसा एणादीनामेव मांसरसाः| सौवीरकं विरेचनकल्पोक्तम्||४६-४७||

Adhikarana 33 (48) · Śloka 49

श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत् | आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ||४८|| खस्थो विलयनं याति मारुतश्च प्रशाम्यति |४९|

🔊 Audio coming soon

श्वासे तत्प्रसङ्गेन च हिक्कायामपि तुल्यं प्रतीकारमाह- श्वासहिक्कापरिगतमित्यादि| श्वासहिक्कापरिगतं श्वासहिक्काव्याप्तम्| स्निग्धैः स्वेदैः साल्वणप्रभृतिभिः| आक्तं लवणतैलाभ्यां सैन्धवतिलतैलाभ्यां चुप्पटितम् आतुरमित्यर्थः| तैः स्निग्धस्वैदेः| ग्रथितः घनीभूतः| खस्थः स्रोतःस्थितः| विलयनं द्रवभावम्||४८||-

Adhikarana 34 (49-50) · Śloka 51

स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ||४९|| वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत् | मनःशिलादेवदारुहरिद्राच्छदनामिषैः ||५०|| लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः |५१|

🔊 Audio coming soon

स्वेदे कृतेऽपि यदा वातकफानुबन्धो नोपशाम्यति तदा किं कर्तव्यमित्याह- स्विन्नमित्यादि| स्विन्नं ज्ञात्वा रसौदनं भोजयित्वा वातकफानुबन्धे सति युक्तं धूमं प्रयोजयेदिति पिण्डार्थः| केषां धूमं प्रयोजयेदित्याह- मनःशिलेत्यादि| छदनं पत्रकम्, आमिषं गुग्गुलुः| उरुबूकमूलं रक्तैरण्डमूलम्| विधानतः धूमनस्यकवलग्रहचिकित्सितोक्तविधानेन||४९-५०||-

Adhikarana 35 (51) · Śloka 51

सर्पिर्यवमधुच्छिष्टशालनिर्यासजं तथा ||५१||

🔊 Audio coming soon

अपरमपि धूममाह- सर्पिरित्यादि| मधूच्छिष्टं मदनम्| शालनिर्यासो राला| सर्पिर्यवादिजं धूमं तथा तेनैव प्रकारेण प्रयोजयेदिति पिण्डार्थः||५१||

Adhikarana 36 (52) · Śloka 52

शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि |५२|

🔊 Audio coming soon

अपराण्यपि धूमद्रव्याण्याह- शृङ्गबालखुरेत्यादि| गवां शृङ्गादिकं त्वक्पर्यन्तं समस्तमपि धूमार्थं प्रयोजयेत्| स्नायुः धनुर्ज्याबन्धनार्थं द्रव्यं ‘नहारु’ इति लोके|५२|-

Adhikarana 37 (52) · Śloka 52

तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ||५२||

🔊 Audio coming soon

तुरुष्केत्यादि| तुरुष्कः सिह्लकः| तुरुष्कादिपद्मकान्तानां वा धूमं प्रयोजयेत्||५२||

Adhikarana 38 (53) · Śloka 53

एते सर्वे ससर्पिष्का धूमाः कार्या विजानता |५३|

🔊 Audio coming soon

पूर्वोक्तधूमानामुपसंहारमाह- एत इत्यादि| एते पूर्वोक्ता धूमाः ससर्पिष्काः सघृता विजानता वैद्येन कार्याः|५३|-

Adhikarana 39 (53) · Śloka 53

बलीयसि कफग्रस्ते वमनं सविरेचनम् ||५३||

🔊 Audio coming soon

श्वासिहिक्किनामवस्थायां विरेचनमाह- बलीयसीत्यादि| बलीयसि बलयुक्ते पुरुषे, वमनं सविरेचनं ‘मृदु हितम्’ इत्यत्राध्याहार्यम्||५३||

Adhikarana 40 (54) · Śloka 54

दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते | जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ||५४||

🔊 Audio coming soon

दुर्बले इत्यादि| तर्पणं सन्तर्पणम्| कैस्तर्पणं प्रयोक्तव्यमित्याह- जाङ्गलोरभ्रजैरित्यादि| जाङ्गला एणादयो लावादयश्च| उरभ्रो मेषः| आनूपाः कच्छपादयः| सुसंस्कृतैः सूदशास्त्रोक्तविधिना||५४||

Adhikarana 41 (55) · Śloka 55

निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम् | लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्र्यहेण ||५५||

🔊 Audio coming soon

इदानीं श्वासे सिद्धतमं योगमाह- निदिग्धिकामित्यादि| निदिग्धिका कण्टकारी, तां कल्कीकृतामामलकप्रमाणां तदर्धप्रमाणेन हिङ्गुना मधुना च युक्तां श्वासपीडितो नरः पुरुषो लिहन् बलात् श्वासमाशु त्र्यहाज्जयेदिति सम्बन्धः| एतत् सर्वश्वासचिकित्सितं सामान्यमपि द्रव्यस्वरूपमभिसमीक्ष्य विशेषादूह्यमिति||५५||

Adhikarana 42 (56) · Śloka 56

यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम् | रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ||५६||

🔊 Audio coming soon

श्वासस्य तत्प्रसङ्गेन च कासादीनामपि दुःखोपचर्यत्वख्यापनार्थमाह- यथाऽग्निरिद्ध इत्यादि| इद्धः दीप्तः| पवनानुविद्धो वातसहितः||५६||

Adhikarana puShpikA · Śloka 51

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम (त्रयोदशोऽध्यायः, आदितः) एकपञ्चाशत्तमोऽध्यायः ||५१||

🔊 Audio coming soon

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे हिक्काश्वासप्रतिषेधो नामैकपञ्चाशत्तमोऽध्यायः||५१||