Adhikarana 1 (1-2) · Śloka 2
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
हृद्रोगप्रतिषेधानन्तरं सङ्ख्यासाम्यात् तीक्ष्णाम्लकटुकादिहृद्रोगचिकित्सितस्य हेतुत्वात् पाण्डुरोगप्रतिषेधारम्भो युक्त इत्याह- अथात इत्यादि| अत्रादिशब्दद्वयं लुप्तं द्रष्टव्यं, तेन पाण्ड्वादिरोगादिप्रतिषेधमिति| तत्र प्रथमेनादिशब्देन कृष्णपीतमिश्रा वर्णा ग्राह्याः, कामलादयो द्वितीयेन; अपरे तु पाण्डुवर्णाधिक्यात् सर्वे एव पाण्डुरोगाः प्रोच्यन्त इति मत्वा एकमेवादिशब्दं लुप्तं वर्णयन्ति; ते च आदिशब्दात् कामलादीन् गृह्णन्ति| अपरे त्वादिशब्दं विनाऽपि कामलादीन् गृह्णन्ति, पाण्डुरोगान्तर्भावात्तेषामिति||१-२||
Adhikarana 2 (3) · Śloka 3
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् |
निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ||३||
पाण्डुरोगस्य हेतुसम्प्राप्ती आह- व्यवायमम्लमित्यादि| व्यवायादीनि निषेवमाणस्य पुरुषस्य दुष्टा दोषा रक्तं विदूष्य त्वचि पाण्डुभावं कुर्वन्तीति पिण्डार्थः| व्यवायः स्त्रीसेवा, स च सर्वदोषप्रकोपकः, अन्ये तु वातपित्तप्रकोपकत्वं व्यवायस्य मन्यन्ते भारहरणादौ क्रोधादौ च तत्पाठात्| अम्ललवणयोः पित्तकफकरत्वम्| मृत्तिका सर्वदोषप्रकोपणी, नानाविधत्वात्; तथा चोक्तम्,- “कषाया मारुतं, पित्तमूषरा, मधुरा कफम्| कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं विरूक्षयेत्”- इति| दिवास्वप्नः त्रिदोषप्रकोपकः| तीक्ष्णं पित्तकोपि| एवं यथास्वं यथासम्भवं हेतुरुक्तः| विदूष्य रक्तमित्यादिका सम्प्राप्तिः| अतीव तीक्ष्णमित्यत्र आदिशब्दो लुप्तो द्रष्टव्यः; तेन पिष्टपयोमाषतिलादीनां ग्रहणम्| केचित् ‘मृन्मद्यमत्स्यामिषतीक्ष्णपिष्टपयोदिवास्वप्नतिलेक्षुमाषान्| निषेवमाणस्य’- इति पठन्ति, शेषं समम्| तेऽपि लुप्तादिशब्दात् व्यवायादीनि गृह्णन्ति| अपरे ‘अतीव तीक्ष्णम्’ इत्यत्र ‘अतीवरूक्षम्’ इति पठन्ति||३||
Adhikarana 3 (4) · Śloka 4
पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः |४|
सङ्ख्यामाह- पाण्ड्वित्यादि| अष्टार्धविधिः चतुर्विधः; कथं चतुर्विध इत्याह- पृथगित्यादि| पृथग्दोषैः त्रयः, समस्तैः एकः| युगपदिति पदं दोषत्रयस्यैककालप्रकोपसूचनार्थम्| यद्यपि तन्त्रान्तरे मृज्जः पाण्डुरोगः पञ्चमः कथितः, तथाऽप्यत्र मृज्जस्त्रिदोषज एवान्तर्भूतः, वक्ष्यमाणाश्च कामलादयः पाण्डुरोगस्यैव पर्यायाः; अतोऽत्र चत्वार एव| केचित् पाण्ड्वामयस्त्वष्टविध इति पठन्ति| तन्मते पृथग्दोषैः त्रयः, समस्तैः एकः, मृद्भक्षणात् एकः, द्वे कामले च, एको हलीमकः, एवं पाण्डुरोगोऽष्टविधः| तथा च तन्त्रान्तरम्- “वातेन पित्तेन कफेन चापि त्रिदोषमृद्भक्षणसम्भवः स्यात्| द्वे कामले चैकहलीमकश्च स चाष्टधैवं त्विह पाण्डुरोगः”- इति|४|-
Adhikarana 4 (4) · Śloka 4
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ||४||
यद्यपि वातादिभेदेन कृष्णादिवर्णत्वमभिधास्यति, तथाऽप्यस्य विकारस्य पाण्डुवर्णाधिक्यात् पाण्डुरोगव्यपदेश इति दर्शयन्नाह- सर्वेषु चैतेष्विह पाण्डुभाव इत्यादि||४||
Adhikarana 5 (5) · Śloka 5
त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः |
विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||५||
इदानीं पाण्डुरोगपूर्वरूपाण्याह- त्वगित्यादि| त्वक्स्फोटः त्वचां स्फुटनम्| ष्ठीवनं थूत्करणम्| यद्यप्यत्र मृद्भक्षणं कथितं, तथाऽपि मृद्भक्षणे इच्छा गम्यते| प्रेक्षणम् अक्षि| अविपाक आहारस्य| पुरःसराणि अग्रेसराणि||५||
Adhikarana 6 (6) · Śloka 6
स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघर(व)कोऽलसाख्यः |
विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ||६||
तस्यैव पाण्डुरोगस्य पर्यायानाह- स इत्यादि| स रोगः कामलादिकाभिः सञ्ज्ञाभिर्विभाष्यते विविधं भाष्यते| अस्येति कामलादिपर्यायैर्निर्दिष्टस्य रोगस्य| अनुपूर्वशः पूर्वं पूर्वमनुपूर्वेणेत्यर्थः| तं पाण्डुरोगम्||६||
Adhikarana 7 (7) · Śloka 7
कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||७||
वातिकपाण्डुरोगलक्षणमाह- कृष्णेक्षणमित्यादि| कृष्णेक्षणं कृष्णाक्षिकम्| तद्वर्णविण्मूत्रनखाननं कृष्णवर्णविण्मूत्रनखमित्यर्थः| तदुपद्रवैः वातोपद्रवैः||७||
Adhikarana 8 (8) · Śloka 8
पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||८||
पैत्तिकपाण्डुरोगलक्षणमाह- पीतेत्यादि| तद्वर्णं पीतवर्णम्| तदुपद्रवैः पित्तोपद्रवैरित्यर्थः||८||
Adhikarana 9 (9) · Śloka 9
शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च |
कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||९||
श्लैष्मिकपाण्डुरोगलक्षणमाह- शुक्लेत्यादि| तद्वर्णं शुक्लवर्णं, तदुपद्रवैः कफोपद्रवैः||९||
Adhikarana 10 (10) · Śloka 10
सर्वात्मके सर्वमिदं व्यवस्येद्... |१०|
सान्निपातिकपाण्डुरोगलक्षणमाह- सर्वात्मके सर्वमिदमित्यादि| सर्वात्मके सान्निपातिके पाण्डुरोगे, सर्वं समस्तम्, इदं वातादिज पाण्डुरोगलक्षणं, व्यवस्येत् जानीयात्|१०|-
Adhikarana 11 (10) · Śloka 11
... वक्ष्यामि लिङ्गान्यथ कामलायाः |
यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् ||१०||
करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रिबलक्षयौ च |११|
इदानीं पाण्डुरोगपर्यायभूताया अपि कामलाया लक्षणमाह- वक्ष्यामीत्यादि| ननु, यदि पाण्डुरोगस्य पर्यायः कामला, तत् कथं तस्य लक्षणान्युक्तानि? सत्यं, यथा पाण्डुरोगाणां वातादिजानां प्रतिस्वं भेदो विद्यते तथाऽस्यापीति न दोषः; एतेन कामलादीनां सञ्ज्ञानां विशिष्टावस्थाविषयत्वाद्विशिष्टत्वं, पर्यायत्वं पाण्डुरोगत्वापरित्यागात्| तान्येव लिङ्गान्याह- य इत्यादि| ‘वक्ष्यामि लिङ्गान्यथ कामलाया’ इत्यभिधाय कामलाकारणवचनं भविष्यन्त्या अपि तस्याः परिज्ञानार्थम्| आमयान्ते पाण्डुरोगान्ते अन्यरोगान्ते च| सहसा शीघ्रम्| अन्नमम्लम् अम्लभोजनम्| पाण्डुमित्यत्र देहमिति शेषः| ‘पूर्वेरितौ तन्द्रिबलक्षयौ च’ इति शारीरस्थाने गर्भव्याकरणाध्याये तन्द्रा कथिता, सूत्रस्थाने दोषादिक्षयवृद्ध्यध्याये बलक्षय इत्यर्थः| ननु, तन्द्राशब्दस्य व्युत्पादितत्वात् कथं तन्द्रिबलक्षयाविति? सत्यं, कृष्यादेराकृतिगणत्वेनेक्प्रत्ययान्तत्वेन साधु| अन्ये ‘तन्द्राऽबलत्वं प्रथमोदितं च’ इति पठन्ति; तत्रापि स एवार्थः| अपरे 'प्रथमोदितांश्च' इति पठन्ति; ते च पाण्डुरोगोक्तलिङ्गविशेषान् गृह्णन्ति| ‘पाण्डुवदनम्’ इत्यत्र ‘पीतवदनम्’ इति केचित् पठन्ति, तं चानार्षं टीकाकारा भाषन्ते||१०||-
Adhikarana 12 (11) · Śloka 11
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ||११||
इदानीं कामलाभेदमाह- भेद इत्यादि| तत्रेति कुम्भसाह्वे| पर्वभेदः सन्धिपीडा| कुम्भसाह्वः तन्त्रान्तरे कुम्भकामलेति कथ्यते||११||
Adhikarana 13 (12) · Śloka 12
ज्वराङ्गमर्दभ्रमसादतन्द्राक्षयान्वितो लाघर(व)कोऽलसाख्यः |१२|
तस्यैव कुम्भसाह्वस्यावस्थायां सञ्ज्ञान्तरमाह- ज्वराङ्गमर्देत्यादि| स एव कुम्भसाह्वो ज्वरादियुक्तो लाघरकोऽलसाख्यः स्यादिति पिण्डार्थः| लाघरकः कथ्यते अलसकश्च कथ्यत इत्यर्थः| अङ्गमर्दो वेदनाविशेषः, स्फुटनिकेत्यपरे| अन्ये पाण्डुरोग एव ज्वरादियुक्तः कुम्भसाह्वः कथ्यत इति मन्यन्ते| अस्यैव अवस्थाभेदं पानकीति तन्त्रान्तरीयाः पठन्ति| तद्यथा- “सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता| पाण्डुता नेत्ररोगश्च पानकीलक्षणं वदेत्”- इति|१२|-
Adhikarana 14 (12) · Śloka 12
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः ||१२||
इदानीं हलीमकलक्षणमाह- तमित्यादि| तं पाण्डुरोगम्| कुम्भसाह्वो यदा हरितपीतनीलः स्यात्, तदा तज्ज्ञाः कायचिकित्साविदो हलीमकं नाम वदन्ति| हरि हरितं, नीलं श्यावम्| केचित्तु ‘तं वातपित्ताभिपरीतलिङ्गं’ इति पठित्वा वातपित्ताभ्यामभिपरीतं सम्बद्धं लिङ्गं यस्य तथेति व्याख्यानयन्ति||१२||
Adhikarana 15 (13) · Śloka 13
उपद्रवास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः |
शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च ||१३||
इदानीं पाण्डुरोगोपद्रवानाह- उपद्रवा इत्यादि| तेषु पाण्डुरोगेषु| मूर्धरुजा शिरोव्यथा| अबलत्वं निर्बलत्वम्| सोपद्रवस्य पाण्डुरोगस्य कृच्छ्रसाध्यत्वमसाध्यत्वं च यथावस्थं बोद्धव्यम्||१३||
Adhikarana 16 (14-15) · Śloka 15
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् |
सम्पादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ||१४||
पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि |
विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन ||१५||
इदानीं चिकित्सितमाह- साध्यमित्यादि| साध्यपाण्डुरोगज्ञानं वक्ष्यमाणासाध्यलक्षणविपर्ययादरिष्टलक्षणवैपरीत्याच्च| घृतेनेति कट्वरकल्याणकदाधिकमहातिक्तपञ्चगव्यादिना, अन्ये केवलेनैव गव्यघृतेनेत्याहुः| यदत्र पाण्डुरोगेषु घृतेनैव स्नेहनमुक्तं तत्तेषां पित्तभूयिष्ठत्वाद्रक्तदूष्यत्वाच्च| यद्यपि पाण्डुरोगे ऊर्ध्वशोधनं निषिद्धं, तथाऽपि ऋतुदेशप्रकृतिकालशरीरापेक्षया मृदु वमनं देयम्| तथा च तन्त्रान्तरम्,- “कालं च देशप्रकृती शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः| वान्तस्य तीक्ष्णान्यनुलोमनानि कल्पोपदिष्टानि भिषग्विदध्यात्”- इति| वमनानन्तरं वक्ष्यमाणैः शालिप्रभृतिभिः कृतसंसर्जनक्रमस्य दोषशमनार्थमाह- सम्पादयेदित्यादि| शुद्धं पाण्डुरोगिणमेवम्भूतैः प्रयोगैर्वक्ष्यमाणयोगैः शेषदोषशमनार्थं सम्पादयेत् सम्यक् योजयेदित्यर्थः| ननु, सर्पिर्मधुहरीतकीयुक्तमेकमेवायोरजोयोगमभिधास्यति, तत् कथं प्रयोगैरिति बहुवचनं? सत्यं, प्रदेशान्तरोक्तानां नवायसप्रभृतीनामत्र शस्तत्वात्| पिबेद्घृतं वेत्यादि| रजनीविपक्वं हरिद्राकल्कसाधितम्|त्रैफलं त्रिफलासाधितम्| तैल्वकमिति तिल्वकः पट्टिकारोध्रः, तेन साधितमित्यर्थः; अन्ये तैल्वकं वातव्याध्युक्तमाहुः| विरेचनद्रव्यकृतमित्यादि|- त्रिवृदादिसंस्कृतं घृतं; वैरेचनिकान् योगान् विरेचनद्रव्यविकल्पोक्तान्, तांश्च घृतेन पिबेत्||१४-१५||
Adhikarana 17 (16) · Śloka 16
मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम् |
खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा ||१६||
इदानीं पाण्डुरोगेऽपराण्यपि विरेचनान्याह- मूत्रे इत्यादि| निकुम्भा दन्ती, तस्या अर्धपलं महिषीमूत्रे षोडशगुणे विपाच्य, चतुर्भागावशिष्टं कुडवार्धमात्रं पलद्वयमात्रं, विरेकाय पिबेदित्यर्थः| गुड इक्षुविकृतिः| अभयाविपक्वं हरीतकीक्वाथविपक्वं, अन्ये अभयाविपक्वं गुडकं सहरीतकीप्रभृतिकमाहुः| अपरे ‘अभयाविमिश्रम्’ इति पठन्ति| मुहुर्वैरेचनिकयोगनिर्देशात् पाण्डुरोगे विरेचनस्यात्यन्तहितत्वं ज्ञेयम्||१६||
Adhikarana 18 (17) · Śloka 17
अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा |
सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् ||१७||
किं पाण्डुरोगे पूर्वोक्तमेव कार्यमुतान्यदपीत्याह- अय इत्यादि| अयोरजोव्योषविडङ्गचूर्णमित्येको योगः| हरिद्रां त्रिफलान्वितामिति द्वितीयो योगः| अयोरजो लोहचूर्णम्| व्योषं त्रिकटुकम्| ‘लिह्यात्’ इत्यात्र ‘मधुसर्पिर्भ्याम्’ इति सम्बन्धनीयम्| हरिद्रां पिण्डहरिद्राम्| केचित् हरिद्राशब्देन आदौ दारुशब्दलोपात् दारुहरिद्रां गृह्णन्ति| विदधीत वाऽपीत्यादि| विदधीत कुर्वीत| शास्त्रप्रदेशाभिहितांश्च योगान् शास्त्रेऽन्यप्रदेशोक्तान् नवायसादीन्||१७||
Adhikarana 19 (18) · Śloka 18
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु |१८|
इदानीं पाण्डुरोगे यत् शोधनमुक्तं तदल्पमात्रया कर्तव्यमित्याह- हरेच्च दोषानित्यादि| बहुशो बहून् वारान्| अल्पमात्रान् स्तोकस्तोकान्| कस्मात् स्तोकान् स्तोकान् हरेदित्याह- श्वयेद्धि दोषेष्वित्यादि| श्वयेत् श्वयथुं प्राप्नुयात्| हि यस्मादर्थे| अत्र पाठान्तरं- ‘हरेच्च दोषान् बहुशोऽल्पमात्रान् शुद्धेषु दोषेष्वभिनिर्हृतेषु’ इति| शुद्धेषु दुष्टिरहितेषु; अभिनिर्हृतेष्वित्यभिशब्दः सम्यगर्थः, अतियोगस्यानिष्टत्वात्|१८|-
Adhikarana 20 (18) · Śloka 18
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्रयुतं हिताशी ||१८||
धात्रीफलानामित्यादि| धात्रीफलानामामलकफलानां स्वरसं क्षौद्रयुतं पिबेदित्येको योगः| इक्षुजं रसं क्षौद्रयुतमिति द्वितीयः| मन्थमिति “शक्तवः सर्पिषाऽभ्यक्ताः शीतवारिपरिप्लुताः”- इत्याद्युक्तलक्षणं क्षौद्रयुतमिति तृतीयः| तथा च तन्त्रान्तरम्- “पिबेत् सुशीतलान् मन्थान् घृताक्तान् मधुसंयुतान्| सक्षौद्रं वा रसं धात्र्या इक्षोर्वाऽपि हिताशनः”- इति| तन्त्रान्तरे पाण्डुरोगे मन्थशब्देन विशिष्टो मन्थ उच्यते| तद्यथा- “धात्रीफलरसे शक्तूनिक्षूणां च रसे तथा| पाण्डुर्मधुसमायुक्तं पिबेन्मन्थं सुशीतलम्”- इति||१८||
Adhikarana 21 (19) · Śloka 20
उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम् |
आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये ||१९||
तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि |२०|
उमे इत्यादि| शुकाख्या चर्मकारवटः, अन्ये शुकशिम्बामाहुः| काकादनी काकतिन्दुकः| आदारिबिम्बीं सकदम्बपुष्पीमित्यादि|- आदारी वेल्लन्तरसदृशपुष्पा आलिरिति लोके, बिम्बी रास्नानुकारिविटपा लोहितफला च; कार्तिककुण्डस्तु आदारिशिम्बी आउलिरिति प्रसिद्धेति व्याख्यानयति| कदम्बपुष्पी भूमिकदम्बः, अलम्बुषामपरे| एतानि कषायकल्पेन विपाच्य, तस्मिन् कषाये सर्पिर्घृतं विपचेत्| क्षीरेण वेत्यादि| मागधिका वा क्षीरेण सह यथाग्नि उपयुज्यमाना पण्डुतां हन्तीत्यर्थः||१९||-
Adhikarana 22 (20) · Śloka 20
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् ||२०||
हितं चेत्यादि| यष्टीमधुककषायं मधुना सममित्येको योगः| चूर्णं वा यष्टीमधुकस्य मधुना समं मधुना सह लिह्यादिति द्वितीयः| अन्ये ‘चूर्णं समं वा मधुनाऽवलिह्यात्’ इत्यत्र ‘चूर्णं लिहेद्वा मधुना द्वितीयम्’ इति पठन्ति; तत्रापि स एवार्थः||२०||
Adhikarana 23 (21) · Śloka 21
गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम् |
प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् ||२१||
गोमूत्रयूक्तमित्यादि| त्रिफलादलानां चूर्णमायसं चूर्णं दत्त्वा गोमूत्रयुक्तमनल्पकालं चिरकालं लिह्यात्| त्रिफलादलानामिति दलशब्दः अष्ठीलापरिहारार्थम्| अन्ये ‘गोमूत्रयुक्तं त्रिफलादलानां’ इत्यत्र ‘गोमूत्रपीतत्रिफलादलानां’ इति पठन्ति, गोमूत्रभावितत्रिफलादलानामिति व्याख्यानयन्ति| प्रवालेत्यादि| प्रवालो विद्रुमः, मुक्ता मौक्तिकम्, अञ्जनं रसाञ्जनम्| तथेति गोमूत्रयुक्तमनल्पकालं लिह्यादित्यर्थः| काञ्चनगैरिकोत्थमित्यत्रापि तथेति सम्बध्यते; तेन सुवर्णगैरिकचूर्णं गोमूत्रयुतं चिरकालं लिह्यादित्यर्थः| ‘गोमूत्रपीतां त्रिफलां सपिष्टां’ इति केचित् पठन्ति, गोमूत्रपीतां गोमूत्रभावितां मधुना अवलिह्यादिति व्याख्यानयन्ति||२१||
Adhikarana 24 (22) · Śloka 22
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च |
पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् ||२२||
आजमित्यादि| आजं शकृत् छागलीपुरीषम्| कुडवप्रमाणं चतुष्पलमात्रम्| विडं लवणम्| लवणोत्तमं सैन्धवम्| पृथक्पलांशानि विडादीनि पृथक्पलमात्राणीत्यर्थः| समग्रं समस्तम्||२२||
Adhikarana 25 (23) · Śloka 23
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः |
मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् ||२३||
इदानीं पाण्डुरोगे सिद्धतमं योगमाह- मण्डूरेत्यादि| मण्डूरं लोहकिट्टानुकारि द्रव्यम्| अग्निः चित्रकः| व्योषं त्रिकटुकम्| मण्डूरादीनां व्योषपर्यन्तानामंशः समो भागो यस्मिन् स तथेत्यर्थः| ताप्यो माक्षिकधातुः| मूत्रासुतः मूत्रे उषितः मूत्रसन्धित इत्यर्थः||२३||
Adhikarana 26 (24) · Śloka 24
बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः |
तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् ||२४||
अपरमपि सिद्धतमं योगमाह- बिभीतकेत्यादि| अयोमलं लोहसिङ्घाणकम्| तिलानां कृष्णतिलानामपि चूर्णम्| गुडश्च मुख्य इति सर्वसमो गुडो नार्धगुड इत्यर्थः| क्षिणोति हन्ति| यद्यप्येतद्योगद्वयमनार्षं तथाऽपि सिद्धतमत्वेनास्मद्गुरुसम्मतत्वादस्माभिः पठितम्||२४||
Adhikarana 27 (25-26) · Śloka 26
सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा |
मूर्वाहरिद्रामलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे ||२५||
मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी |
सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् ||२६||
सौवर्चलमित्यादि| सौवर्चलादीनामेकत्वेन निर्दिष्टानां बहुवचनान्तं कलायमात्राणीति विशेषणं सौवर्चलादीनां प्रत्येकं कलायमात्रेति प्रमाणबोधनार्थम्| सुखाम्बुना वा ईषदुष्णाम्बुना, ‘लिहेत्’ इति वाक्यशेषः| वाशब्दोऽत्र योगापेक्षया| मूर्वेत्यादि| मूर्वादिकं सप्तदिनानि गवां मूत्रे स्थितं लिह्यात्| मूर्वा चोरस्नायुः| बलाचित्रकयोः समुदितयोर्मूलकल्कं वा कर्षसमं हिताशी पाण्डुरोगार्तो मूत्रेण सुखाम्बुना वा पिबेदित्यर्थः| कार्तिककुण्डस्तु ‘मूर्वाहरिद्रामलकं पिबेद्वा स्थितं गवां सप्तदिनानि मूत्रे’ इति पठति; तत्र तन्त्रयुक्तिवशात् ‘यत्र तत्’ इति पदं द्रष्टव्यं, तेन यत्र मूर्वादिकं स्थितं तत् पिबेदित्यर्थः| तथा च तन्त्रान्तरम्- “निशामलकमूर्वाभिर्भावितं सप्त वासरान्| गोमूत्रं पिबतः पाण्डुः कामला च प्रणश्यति”- इति| सुखाम्बुना उष्णोदकेन| लवणेन सैन्धवेन| तुल्यं समम्| शिग्रोः फलं शोभाञ्जनकफलम्| कलायमात्रमित्यनुवर्तनीयं, सैन्धवस्यापि हिङ्गुवदधिकमात्रस्यानभिमतत्वात्| क्षीरभुजा दुग्धाशनेन| उपयोज्यं पानादिविधिना||२५-२६||
Adhikarana 28 (27) · Śloka 27
न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्रयुतं हिताशी |
शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् ||२७||
न्यग्रोधवर्गस्येत्यादि| न्यग्रोधवर्गस्य न्यग्रोधादिगणस्य| कषायं क्वाथपाकपरिभाषया क्वथितम्| शालादिकं चाऽप्यथ सारचूर्णमित्यादि| शालसारादिचूर्णं मधुना अवलिह्यात्, आमलकचूर्णं वेत्यर्थः||२७||
Adhikarana 29 (28-29) · Śloka 30
विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः |
चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च ||२८||
सम्भारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य |
जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे ||२९||
हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च |३०|
विडङ्गमुस्तत्रिफलेत्यादि| एतानि विडङ्गादिद्रव्याणि चूर्णीकृतानि , सारवतो गणस्य सारोदके शालासारादिगणसारक्वाथे, निधाय निक्षिप्य, तथा शुभे निर्मले कृत्वा गुडशर्करे सर्पिर्मधुनी च निक्षिप्य, ऐकध्यं तावत् पचेत् यावल्लेह्यं स्यात्, ततश्च सञ्जातलेह्यं विदित्वा मतिमान् वैद्यो मोक्षकजे समुद्गे मोक्षकमये सम्पुटे निधापयेत् निक्षिपेदिति पिण्डार्थः| विनिर्दहनी चित्रकः| गुडशर्कराविडङ्गादिद्रव्यचूर्णप्रमाणं सारोदकचतुर्थांशेन, मधुसर्पिःप्रमाणमपि तथैव| ननु, उष्णयोगेन मधु विरुध्यते, तत् कथं मधुना सहावलेहपाकः? सत्यम्, उष्णेन सह मधुनोऽभ्यवहारे विरोधो न पाके; तथा च तन्त्रान्तरं- ‘सक्षौद्रां शर्करां पक्त्वा’ इत्यादि| यद्यप्यत्र पाण्डुरोगचिकित्सितं सामान्येनोक्तं, तथाऽप्येतदेव चिकित्सितं द्रव्यस्वरूपेण विकल्प्य यथादोषं योज्यम्| तथा च तन्त्रान्तरम्- “पाण्डुरोगप्रशान्त्यर्थमिदमुक्तं चिकित्सितम्| विकल्प्यैवं च भिषजा यथादोषबलं प्रति|| स्नेहप्रायं पवनजे, तिक्तशीतं तु पैत्तिके| श्लैष्मिके कटुरूक्षोष्णं, मिश्रं स्यात् सान्निपातिके” (च. चि. १६) इति||२८-२९||-
Adhikarana 30 (30) · Śloka 30
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ||३०||
अतः परं कामलाचिकित्सितमाह- सशर्करेत्यादि| त्रिभण्डी त्रिवृत्, सशर्करा कामलिनां हिता| गवाक्षी इन्द्रवारुणी, सा सगुडा हिता, शुण्ठ्यपि सगुडा||३०||
Adhikarana 31 (31) · Śloka 31
कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्रजनीविमिश्रम् |३१|
कालेयके इत्यादि| कालेयकं दारुहरिद्रानुकारि द्रव्यं, तत्कल्कसाधितं घृतं, रजनीविमिश्रं हरिद्राचूर्णप्रक्षेपयुतम्|३१|-
Adhikarana 32 (31) · Śloka 31
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ||३१||
कुम्भाह्वयचिकित्सामाह- धातुमित्यादि| नदीजं धातुं सुवर्णमाक्षिकम्| तच्च मूत्रयुतं पिबेत्| जतु शैलजं वेति शिलाजतु वा मूत्रयुतं पिबेत्||३१||
Adhikarana 33 (32) · Śloka 32
मूत्रे स्थितं सैन्धवसम्प्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम् |३२|
मूत्रे स्थितमित्यादि| गोमूत्रे मासमुषितं लोहकिट्टं लोहमलं तेनैव मूत्रेण चूर्णितं सैन्धवयुक्तं कुम्भाह्वये पिबेत्| लोहकिट्टमित्यत्र हिरण्यकिट्टमिति केचित् पठन्ति; तन्नेच्छन्ति निबन्धकाराः, हिरण्यस्यामलत्वात्|३२|-
Adhikarana 34 (32-35) · Śloka 35
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ||३२||
विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात् |
सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ||३३||
लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव |
एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ||३४||
यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत् |
तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ||३५||
कुम्भाह्वये सिद्धतमं योगमाह- दग्ध्वेत्यादि| सिन्धूद्भवं सैन्धवम्| अग्निसमं कृत्वा बिभीतकाग्निना अग्निवर्णं कृत्वेत्यर्थः| सकृत् एकवारम्| लौहं च किट्टमिति लोहसिंहाणकमित्यर्थः| निर्वाप्य निर्वापित्तं कृत्वा| एकीकृतं समभागेन मिश्रीकृतं, गोजलपिष्टं निर्वापणावशिष्टपञ्चगुणे गोमूत्रे पिष्टम्, उखायां स्थाल्यां निक्षिप्य, मुखं पिधाय, यथा बाष्पो बहिर्न निःसरति यथा न दह्येत तथा विपचेत्| ततश्च विशुष्कं चूर्णीकृतमुदश्विता मथितेन सह पेयम्| जीर्णे च तक्रौदनं भोजयेदित्यर्थः| अयमसौश्रुतोऽपि पूर्वोक्तहेतुत्वादस्माभिः पठितः| अस्य योगस्य तन्त्रान्तरे बिभीतकलवणमिति सञ्ज्ञा||३२-३५||
Adhikarana 35 (36) · Śloka 36
द्राक्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघर(व)के हितं च |३६|
इदानीं लाघरचिकित्सामाह- द्राक्षेत्यादि|३६|-
Adhikarana 36 (36-37) · Śloka 37
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ||३६||
स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम् |
सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ||३७||
इदानीं तन्त्रान्तरोक्तान् सर्वानेवाभयारिष्टादीन् भोजनं च सङ्गृह्णन्नाह- गौडानित्यादि| गौडानरिष्टान् अभयारिष्टादीन्| मधुशर्कराश्चेति मधुशब्देन मध्वासवः, स च लोहारिष्टप्रभृतिकः; शर्कराशब्देन शर्करासवः| मूत्रासवान् कुष्ठचिकित्सितोक्तान्| क्षारकृतानासवान् श्लीपदपठितान्| स्निग्धान् रसान् स्नेहभृष्टान् जाङ्गलानां मांसरसान्; आमलकैरुपेतान् आमलकफलसंस्कृतान्, कोलान्वितान् वेति बदरसंस्कृतान्; विकल्पाभिधानं सात्म्यापेक्षया| शोफाभिहितान् योगान् देवदारुशुण्ठीरसादिकान्| शालयो रक्तशाल्यादयः||३६-३७||
Adhikarana 37 (38) · Śloka 38
श्वासातिसारारुचिकासमूर्च्छातृट्छर्दि शूलज्वरशोफदाहान् |
तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसामीक्ष्य शास्त्रम् ||३८||
पाण्डुरोगोपद्रवचिकित्सामाह- श्वासेत्यादि| एतान् श्वासादीनुपद्रवान्, यथास्वं शास्त्रं यथात्मीयं चिकित्साशास्त्रं प्रसमीक्ष्य जयेत्| केचिदमुं पाठमन्यथा पठन्ति,- ‘तृष्णां ज्वरं छर्दिमथातिसारं मूर्च्छां क्षयं श्वासमनन्नलिप्साम् | तथाऽविपाकस्वरभेदसादान् जयेद्यथावत् प्रसमीक्ष्य शास्त्रम्’- इति| ननु, ज्वरातिसारान्वितस्य तस्यासाध्यत्वेन वक्ष्यमाणत्वात् कुतो ज्वरातिसारयोश्चिकित्सातिदेशः? उच्यते, अचिरोत्थितयोस्तयोः सतोः पाण्डुरोगिणः प्रतिकार्यत्वात्||३८||
Adhikarana 38 (39-40) · Śloka 40
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् |
गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसञ्ज्ञकल्पम् ||३९||
विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितं च ||४०||
इदानीमनुपक्रम्यस्य पाण्डुरोगिणो लक्षणमाह- अन्तेषु शूनमित्यादि| अन्तेषु हस्तपादमुखेषु| परिहीनमध्यं कृशमध्यकायम्| म्लानं कृशम्| गुदे च शेफसीत्यत्रापि शूनमिति सम्बन्धनीयं, शेफो योनिलिङ्गम्| मुष्कशूनम् अण्डकोषशूनम्| यद्यपि मध्यशूनमित्यनेनैव गुदादिशोफः प्राप्तः, तथाऽप्यन्ते म्लानतां विनाऽपि गुदादिशोफी त्याज्य इति दर्शनार्थं गुदादिशोफकथनम्| प्रताम्यमानं मूर्च्छन्तम्| विसञ्ज्ञकल्पं वेचेतनप्रायम्| यद्यपि मूर्च्छायेन विसञ्ज्ञकल्पमिति प्राप्तं, तथाऽप्यभिधानं विसञ्ज्ञकल्पस्य विशेषेणासाध्यताप्रतिपादनार्थम्| अतिसारज्वरपीडितम् अतिसारज्वराभ्यां पीडितमित्यर्थः| यद्यपि पानकीहलीमकचिकित्सितं नोक्तं, तथाऽपि पाण्डुरोगचिकित्सितं तयोरपि कर्तव्यम्||३९-४०||
Adhikarana puShpikA · Śloka 44
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम (षष्ठोऽध्यायः, आदितः) चतुश्चत्वारिंशत्तमोऽध्यायः ||४४||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम चतुश्चत्वारिंशत्तमोऽध्यायः||४४||