Adhikarana 1 (1-2) · Śloka 2
अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
क्रियाकल्पानन्तरं शारीरदोषनिमित्तानां नयनामयानामुक्तत्वाद्बाह्यनिमित्तस्यावशिष्टत्वाच्चिकित्सार्थं नयनाभिघातप्रतिषेधाध्यायारम्भो युक्त इत्यत आह- अथात इत्यादि| अभिघातशब्देनात्राभिघातजनिता वेदनादयः, तेषां प्रतिषेधश्चिकित्सितम्| स चाभिघातो मूर्तेन दण्डादिना अमूर्तेन भयशोकादिना वा||१-२||
Adhikarana 2 (3) · Śloka 4
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान् |
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ||३||
दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः |४|
तमेवाभिघातं मूर्तदण्डादिजं चिकित्साभेदयोगिनं दर्शयन्नाह- अभ्याहते इत्यादि| नराणां बहुधा अभ्याहते नयने सति संरम्भरागतुमुलासु रुजासु नस्यास्यलेपाद्यं कर्म क्षतजपित्तजशूलपथ्यं यदुक्तं तथा स्निग्धादिभिर्दृष्टिप्रसादजननं विधिं धीमानाशु कुर्यादिति पिण्डार्थः| बहुधा बहुप्रकारम्| तथा च विदेहः,- “तीक्ष्णाञ्जनातिपरिक्लिष्टेषु नेत्रेषु वातातपधूमरजव्यापारकीटमक्षिकामशकस्पर्शादिभिरभिहतेषु सलिलक्रीडाजागरणलङ्घनाप्लुताभिद्रुतेषु श्रान्तक्लान्तेषु भयार्दितेषु दिवाकराग्निचन्द्रग्रहनक्षत्रक्रमणकर्मविविधरूपप्रेक्षणाद्यभिहतेषु दुर्बलेषु नेत्रेषु रागदाहतोदशोफपाकघर्षादिवेदनासु”- इति| संरम्भरागाभ्यां तुमुलाः सङ्कुलाः संरम्भरागतुमुलास्तासु| अन्ये तु संरम्भश्च रागश्च तुमुलश्च संरम्भरागतुमुलास्तासु; तुमुलाः प्रचण्डाः, संरम्भः श्वयथुः, इत्यर्थं वदन्ति| क्षतजपित्तजशूलपथ्यमिति रक्ताभिष्यन्दहितं पित्ताभिष्यन्दहितं चेत्यर्थः| अन्ये तु अभिघातजो हि वायुः शोणितपित्तं दूषयन् ताभ्यामेवावृतः शूलं करोतीति तद्धितमिति व्याख्यानयन्ति| दृष्टिप्रसादनं नयनगोलकप्रसादनम्||३||-
Adhikarana 3 (4) · Śloka 4
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ||४||
‘अभ्याहते तु नयने बहुधा नराणाम्’ इत्यत्र मूर्तानां दण्डादीनामभिघाते यच्चिकित्सितमभिहितं तदेव चिकित्सितममूर्तानामपि स्वेदादीनामभिघातेऽतिदिशन्नाह- स्वेदाग्निधूमभयेत्यादि| तथैव चिकित्सेत् पूर्वोक्तप्रकारेण चिकित्सेत्| एवं सप्ताहादर्वागेव| ‘अभ्याहते तु नयने’ इत्यत्र पूर्ववाक्ये बहुधात्वं मूर्तदण्डाद्यभिघातस्य बोध्यम्, इहामूर्ताभिघातचिकित्सितमभिधीयते||४||
Adhikarana 4 (5) · Śloka 5
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः |५|
इदानीं पूर्वोक्तो विधिः सप्ताहादर्वागेव कार्यस्तदूर्ध्वमन्यो विधिरित्याह- सद्योहत इत्यादि| सद्योहते सप्ताहादर्वागेवेत्यर्थः| एष विधिः पूर्वोक्तो विधिः| तदूर्ध्वं सप्ताहादूर्ध्वम्| स्यन्देरितो वाताभिष्यन्दोक्तो विधिः|५|-
Adhikarana 5 (5) · Śloka 5
अभ्याहतं नयनमीषदथास्यबाष्पसंस्वेदितं भवति तन्निरुजं क्षणेन ||५||
इदानीं किञ्चिदभ्याहतनयने विशेषचिकित्सितमाह- अभ्याहतमित्यादि| आस्यबाष्पं मुखफूत्कारजनितोष्मा||५||
Adhikarana 6 (6) · Śloka 7
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु |
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ||६||
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि, साध्यं यथास्थितमनाविलदर्शनं च |७|
इदानीं पटलावगाहनविशेषेणाभिघातस्य साध्यकृच्छ्रसाध्यासाध्यविशेषमाह- साध्यं क्षतमित्यादि| केचिदमुं पाठं न पठन्ति| यादृङ्नयनं याप्यं तादृगाह- स्यात् पिच्चितमित्यादि| अवसन्नम् अन्तःप्रविष्टं, स्रस्तं शिथिलं, च्युतम् अवलम्बितं, विस्तीर्णं मण्डलं तथा तनुरागं च यदसत्प्रदर्शि स्यात् तदपि याप्यम्| साध्यमाह- साध्यमित्यादि||६||-
Adhikarana 7 (7) · Śloka 7
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ||७||
अतिप्रविष्टनेत्रे चिकित्सितमाह- प्राणोपरोधेत्यादि| प्राणायामेन वमनेन छिक्काप्रवर्तनेन तथा कण्ठनिरोधनेन वा उन्नम्यमुन्नमनीयम्||७||
Adhikarana 8 (8) · Śloka 8
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च |८|
अतिनिर्गतनयनस्य चिकित्सितमाह- नेत्र इत्यादि| विलम्बिनि अतिनिर्गते, विधिर्विहितः पुरस्तादिति ‘भिन्नं नेत्रकर्मण्यमभिन्नं लम्बते तु यत्’ इत्यादिना प्रोक्तः| उच्छिङ्घनं नासिकया वायोरन्तःप्रवेशनम्| वार्यवसेचनं शीतोदकपरिषेकः|८|-
Adhikarana 9 (8) · Śloka 9
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ||८||
स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्यः |९|
इदानीं वक्ष्यमाणकुकूणकेन षट्सप्ततेः सङ्ख्याधिक्यमित्याशङ्क्यमानमाह- षट्सप्ततिरित्यादि| य इमे नयनजा रोगाः षट्सप्ततिः प्रदिष्टास्तेऽमहतां बालानां तथा महतां च भवन्ति| तेभ्यः षट्सप्ततिविकारेभ्यः स्तन्यप्रकोपादिभिर्बालाक्षिवर्त्मभव एव अन्यः कुकूणक इति समुदायार्थः| बालाक्षिवर्त्मभव एव न महतामक्षिवर्त्मनि, अन्यः अपरः| योऽसौ कुकूणको बालानामेव भवति, स कफाभिष्यन्दे अवरुद्धोऽतो न सङ्ख्यातिरेकः| ‘स्तन्यप्रकोपकफमारुतपित्तरक्तैः’ इत्यत्र ‘स्तन्यप्रकोपजनितैः पिशितोदयाद्वा’ इत्यन्ये पठन्ति; अपरे तु ‘पिशितोच्छ्रयात्’ इति पठन्ति; तौ च नेच्छति जेज्जटः||८||-
Adhikarana 10 (9-10) · Śloka 10
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ||९||
सूर्यप्रभां न सहते स्रवति प्रबद्धं, तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च |
क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् ||१०||
इदानीं तस्य कुकूणकस्य लक्षणमाह- मृद्गातीत्यादि| नासाललाटमपि मृद्गाति| प्रबद्धं निरन्तरम्| कुकूणकस्य साधनमाह- तस्याहरेद्रुधिरमित्यादि| आहरेद्रुधिरं जलौकोभिः, विनिर्लिखेत् शेफालिकापत्रैः| कटुभिः त्रिकटुकादिभिः| इदानीं बालस्यौषधाक्षमत्वान्मातुरेवौषधमाह- मातुरित्यादि| यः स्तन्यरोगचिकित्सिते ‘स्तन्ये गते विकृतिमाशु भिषक्’ इत्यादिविधिरभिहितः, तं शिशोर्या जननी तस्या विदध्यादिति पिण्डार्थः| अन्ये तु द्वयोरेवाभिहितं विधिमिच्छन्ति||९-१०||
Adhikarana 11 (11) · Śloka 12
तं वामयेत्तु मधुसैन्धवसम्प्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ||११||
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा... |१२|
इदानीं क्षीरपस्य बालस्य स्तन्यसात्म्यत्वात् स्तन्ययुक्तमेव वमनं निर्दिशन्नाह- तं वामयेदित्यादि| मधुसैन्धवसंयुतैः खरमञ्जरीणां फलैः सह पयः स्तन्यं पीतं तं बालं वामयेदिति सम्बन्धः| खरमञ्जरीणां फलैः अपामार्गफलचूर्णैः| स्यादित्यादि| पिप्पलीसैन्धवादियुतैर्वा खरमञ्जरीणां फलचूर्णैः सह स्तन्यं पीतं वमनकृद्भवेदित्यर्थः||११||-
Adhikarana 12 (12) · Śloka 12
... नैनं वमन्तमपि वामयितुं यतेत |१२|
इदानीमुत्कृष्टदोषत्वात् स्वयं वमन्तं बालकं वमनयोगं दत्त्वा न वामयेदित्याह- नैनमित्यादि| एनमुत्क्लिष्टदोषत्वात्स्वयमेव वमन्तं वामयितुमन्यप्रकारेण वामयितुं न यतेत यत्नं न कुर्वीत, वमनातियोगभयात्|१२|-
Adhikarana 13 (12) · Śloka 12
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः ||१२||
क्षीरान्नादस्य तथाऽन्नादस्य च वमनमाह- दत्त्वा वचामित्यादि| अशनदुग्धभुजे क्षीरान्नादाय पूर्वोक्तमेव वमनं वचां दत्त्वा प्रयोज्यम्| अत ऊर्ध्वं क्षीरान्नावस्थातोऽनन्तरमन्नादस्य मदनफलयुतं पूर्वोक्तमेव वमनं सक्षीरमक्षीरं वा योज्यम्||१२||
Adhikarana 14 (13) · Śloka 13
जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि |१३|
इदानीं कुकूणके वर्त्मनः प्रक्षालनपरिषेकार्थं कषायमाह- जम्ब्वाम्रधात्र्यणुदलैरित्यादि| धात्री आमलकी, अणुः अश्मन्तकः, परिधावनार्थं प्रक्षालनार्थं, परिषेचनं परिषेक इत्यर्थः|१३|-
Adhikarana 15 (13) · Śloka 13
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽऽहुरपि च त्रिफलाविपक्वम् ||१३||
प्रक्षालनपरिषेकावभिधाय पूरणार्थमकल्कघृतद्वयमाह- आश्च्योतने इत्यादि| आश्च्योतने अक्षिपूरणे| अत्र कुकूणके गुडूचीस्वरसेन घृतचतुर्गुणेन पक्वं, इदमेकमञ्जनं; त्रिफलाक्वाथेन पक्वं, एतच्च द्वितीयम्||१३||
Adhikarana 16 (14) · Śloka 14
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि |
स्यादञ्जनं, मधुरसामधुकाम्रकैर्वा ... |१४|
अधुना कुकूणकेऽञ्जनमाह- नेपालजेत्यादि| नेपालजा मनःशिला| सिन्धुप्रसूतं सैन्धवम्| अपरमञ्जनमाह- स्यादञ्जनमित्यादि| मधुरसा मूर्वा| एतैर्मूर्वादिभिस्त्रिभिर्वाऽञ्जनं स्यात्|१४|-
Adhikarana 17 (14) · Śloka 14
... कृष्णायसं घृतपयो मधु वाऽपि दग्धम् ||१४||
चूर्णाञ्जनमाह- कृष्णायसमित्यादि| कृष्णायसं कृष्णलोहचूर्णम्| एतत् कृष्णलोहादिकं चान्तर्धूमदग्धं चूर्णाञ्जनं भवेत्| तथा च विदेहः,- “लौहचूर्णं च सर्पिश्च मधु क्षीरं च दाहयेत्|| एतच्चूर्णाञ्जनं पिष्टं कुमाराणां कुकूणके”- इति||१४||
Adhikarana 18 (15) · Śloka 15
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गौरिकयुतां गुटिकाञ्जनं वा |
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् ||१५||
गुटिकाञ्जनमाह- व्योषमित्यादि| पलाण्डुः लशुनभेदः, मधुकं यष्टीमधु, लवणोत्तमं सैन्धवम्| गुटिकाञ्जनं वर्त्यञ्जनम्| अपरमपि वर्त्यञ्जनमाह- निम्बच्छदमित्यादि| दार्वी हरिद्राद्वयं; विदेहदर्शनात्| अत्र कुकूणके अञ्जनमित्यत्र गुटिकाशब्दो लुप्तो द्रष्टव्यः; तेन गुटिकाञ्जनमित्यर्थः| अंशतुल्यं निम्बच्छदादिकं समभागमित्यर्थः||१५||
Adhikarana 19 (16) · Śloka 16
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन |
स्यन्दे कफदभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः ||१६||
इदानीं कुकूणकप्रसङ्गेन बालानां शुक्रलेखनार्थमञ्जनमाह- स्रोतोजेत्यादि| अस्याञ्जनस्य कल्पनां विदेहदर्शनेन वृद्धवैद्या आहुः| तद्यथा- गव्येन दध्ना पिष्टाभ्यां शङ्खसैन्धवाभ्यां स्रोतोजं रसाञ्जनमर्धपक्षं सार्धसप्तरात्रमसकृल्लेपयेत्; ततोऽनन्तरं तत्स्रोतोजं रसाञ्जनं पिष्ट्वा वर्तिः कार्या, सा अञ्जनेन शिशोः शुक्रं नुदति स्फोटयतीत्यर्थः| केचित् स्रोतोञ्जनशब्देन सौवीराञ्जनमाहुः| केचित् ‘शुक्रं शिशोर्नुदति भावितमञ्जनेन’ इत्यत्र ‘आभावितं शिशुकरोगनुदञ्जनेन’ इति पठन्ति| अन्ये तु ‘ब्राह्मीरसेन परिभावितमञ्जनार्थं’ इति पठन्ति, तन्नेच्छति गयी| पूर्वोक्तमेवौषधं शुक्रेऽतिदिशन्नाह- स्यन्दे कफादभिहितमित्यादि| कफाद्यः स्यन्दस्तत्र स्यन्दे यः क्रमोऽभिहितस्तं क्रमं बालस्याक्षिगदं जिघांसुर्योगकुशलो वैद्य आचरेत् कुर्यादिति सम्बन्धः; जिघांसुः हन्तुमिच्छुः| केचित् ‘स्यन्दे कफादभिहितं क्रमं’ इत्यत्र ‘स्यन्दक्रमं कफविनाशनमाचरेच्च’ इति पठन्ति| बालस्य कफाधिक्यात् कफस्यन्दक्रमं विदध्यात्| आचरेच्चेति चकारो भिन्नक्रमे, स च कफविनाशनमित्यत्र द्रष्टव्यः; ततोऽन्यमप्यवस्थाकुपितं वातं पित्तं रक्तं चानुबन्धभूतमिहोक्तमवेक्ष्य वातपित्तस्यन्दानुक्रमं रक्ताभिष्यन्दक्रमं चावेक्ष्य यथादोषं योगमुपयोजयेदिति व्याख्यानयन्ति||१६||
Adhikarana 20 (17-18) · Śloka 18
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम् |
वक्तुं निरवशेषेण श्लोकानामयुतैरपि ||१७||
सहस्रैरपि वा, प्रोक्तमर्थमल्पमतिर्नरः |
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः ||१८||
कुतः पुनः स क्रमोऽवस्थाविशेषेण स्वग्रन्थे आचार्येण न निबद्ध इत्याह- समुद्र इव गम्भीरमित्यादि| समुद्र इव गम्भीरं चिकित्सितं श्लोकानां सहस्रैरप्ययुतैर्निरवशेषेण वक्तुं नैव शक्यमित्यर्थः; श्लोकानां सहस्तैरप्ययुतैः श्लोककोट्याऽपीत्यर्थः| यदि श्लोककोट्या वक्तुं न शक्यते तर्हि किं ग्रन्थकर्तुरशक्तिरित्याशङ्कमानमाह- प्रोक्तमित्यादि| अल्पमतिरपण्डितो नरो यतस्तर्कग्रन्थार्थरहितोऽतः श्लोककोट्योक्तमप्यर्थं नैव गृह्णातीति सम्बन्धः; तर्कग्रन्थार्थरहितस्तर्केणोहेन यो ग्रन्थार्थः शास्त्रार्थस्तेन रहित इत्यर्थः||१७-१८||
Adhikarana 21 (19-20) · Śloka 20
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम् |
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति ||१९||
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना |
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना ||२०||
तदिदमित्यादि| यस्मान्निरवशेषेण रोगावस्थानन्त्याच्चिकित्सितस्य वक्तुमशक्यत्वं, शक्यत्वे वा निरूपणस्य निष्फलता, तस्मात् कारणादिदं बहुगूढार्थं चिकित्साया बीजमीरितमिति समुदायार्थः| तदेव चिकित्साबीजं कुशलेन ज्ञातमनेकधा प्ररोहतीत्याह- कुशलेनेत्यादि| कुशलेनावस्थाविदा वैद्येनाभिपन्नमधिगतं तद्बहुधाऽभिप्ररोहति| चिकित्साबीजमिति बीजमिव बीजं, यथैकं बीजं सुभूमौ निक्षिप्तं मूलकाण्डशाखापल्लवादिनाऽनेकधा प्ररोहति तथेदमपीति चिकित्साबीजमित्यर्थः| यस्मात् कुशलेनाधिगतं चिकित्साबीजमनेकधा प्ररोहति तस्मात् कारणान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना आगमबुद्धिना वैद्येन सर्वमगाधार्थं शास्त्रं नित्यमूह्यमिति सम्बन्धः| नानाशास्त्राणि शालाक्यानि| आगमः आप्तानां शास्त्रं; तथा चोक्तं,- “सिद्धं सिद्धैः प्रमाणैस्तु हितं चात्र परत्र च| आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थदर्शिनः”- इति||१९-२०||
Adhikarana puShpikA · Śloka 19
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः ||१९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे एकोनविंशोऽध्यायः||१९||