Adhikarana 1 (1-2) · Śloka 2
अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
श्वासप्रतिषेधानन्तरं वातकफप्राधान्यत्वसाम्यात्तुल्यचिकित्सितत्वाच्च कासप्रतिषेधारम्भः- अथात इत्यादि||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
श्वासप्रतिषेधानन्तरं वातकफप्राधान्यत्वसाम्यात्तुल्यचिकित्सितत्वाच्च कासप्रतिषेधारम्भः- अथात इत्यादि||१-२||
Adhikarana 2 (3) · Śloka 3
उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः | कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ||३||
🔊 Audio coming soon
इदानीमतिदेशेन कासहेतूनाह- उक्ता इत्यादि||३||
Adhikarana 3 (4-5) · Śloka 5
धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च | विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||४|| प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः | निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ||५||
🔊 Audio coming soon
कासस्य सम्प्राप्तिनिरुक्ती आह- प्राण इत्यादि| प्राणो वायुः, उदानानुगत उदानवायुमिलितः, ऊर्ध्वगतित्वादुदानस्य, प्रदुष्टः कोपमापन्नः सन्, सम्भिन्नकांस्यस्वरतुल्यघोष इति जर्जरितकांस्यशब्दानुकारी स्वरः, निरेति निर्गच्छति| सदोषः सदुष्टिरित्यर्थः; दुष्टिश्चात्र तादृग्विधशब्दप्राणवायुनिर्गमनात्मिकैव; केचित् ‘सदोष’ इत्यत्र ‘सघोष’ इति पठन्ति, व्याख्यानयन्ति च- सघोषः तादृग्विधप्राणनिर्गमनोत्थस्वरयुक्तः| स प्राणो वायुः ‘कास’ इत्युदाहृतः||४-५||
Adhikarana 4 (6) · Śloka 6
स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च | पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ||६||
🔊 Audio coming soon
काससङ्ख्यामाह- स वातपित्तप्रभव इत्यादि| स इति कासः| क्षतात् क्षतजः| क्षयजः शुक्रक्षयजः| सङ्ख्येयनिर्देशादेव सङ्ख्यायां सिद्धायां पञ्चप्रकार इति सङ्ख्याकरणं नियमार्थम्| तेन वातादिकृतकासस्य पञ्चप्रकाराः, न पुनर्निमित्तान्तरभेदाद्भेदः| यक्ष्मविकारकृत् राजयक्ष्मकृत्, रोगस्यापि व्याधिकारणत्वात्| यद्यपि क्षयादुत्पन्नकासस्य क्षयकर्तृत्वं न सम्भवति, तथाऽपि पूर्वावस्थातोऽधिकं क्षयं करोति, अतः क्षयजकासस्यापि क्षयकर्तृत्वम्, अथवा बहुषु छत्रिषु गच्छत्सु केषुचिदच्छत्रिष्वपि छत्रिणो यान्तीति व्यपदेशवत् क्षयजकासस्यापि क्षयकर्तृत्वव्यपदेशः| केचित् ‘पञ्चप्रकारः पठितो भिषग्भिर्विशेषतो लक्षणतः पुराणैः’ इति पठन्ति||६||
Adhikarana 5 (7) · Śloka 7
भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः | स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ||७||
🔊 Audio coming soon
कासपूर्वरूपमाह- भविष्यतस्तस्येत्यादि| भोज्योपरोधः ग्रासस्य गले सङ्गः| स्वशब्दवैषम्यमिति ईषत्प्रकृतिस्वरवैकृतम्| अग्निसादः अग्निमान्द्यम्| केचित् कासपूर्वरूपं न पठन्ति, रूपाणामेवाव्यक्तानां प्राग्रूपसद्भावात्; तन्न, समानतन्त्रविरोधात्||७||
Adhikarana 6 (8) · Śloka 8
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः | प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ||८||
🔊 Audio coming soon
वातकासलक्षणमाह- हृच्छङ्खमूर्धोदरेत्यादि| क्षामाननः क्षीणमुखक्रियः| क्षीणबलस्वरौजा इति बलं कर्मनिर्वर्तनक्षमता, ओजो हृदि स्थितं प्रसिद्धमेव| प्रसक्तमित्यादि| प्रसक्तं यथा भवति तथाऽन्तःकफं यथा भवति शुष्कं च यथा भवति तथा कासेदित्यर्थः; प्रसक्तं निरन्तरं, अन्तःकफम् अभ्यन्तरकफं, शुष्कं श्लेष्मरहितम्| ईरणेन वायुना| स्वरभेदयुक्तो भिन्नस्वर इत्यर्थः| ‘हृच्छङ्खमूर्धोदरपार्श्वशूलम्’ इति केचित् पठन्ति, तत्रापि स एवार्थः||८||
Adhikarana 7 (9) · Śloka 9
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः | पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ||९||
🔊 Audio coming soon
पित्तकासलक्षणमाह- उरोविदाहज्वरेत्यादि| अभ्यर्दितः पीडितः| तिक्तमुखो निम्बादिभक्षणेनेव| पाण्डुत्वमत्र पित्तकृतं बोद्धव्यं, तेन पाण्डुः पीतवर्णः| परिदह्यमानो दाहयुक्तः||९||
Adhikarana 8 (10) · Śloka 10
प्र(वि)लिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः | अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्रकफं कफेन ||१०||
🔊 Audio coming soon
कफकासलक्षणमाह- प्रलिप्यमानेनेत्यादि| प्रलिप्यमानेन मुखेन श्लेष्मणा लिप्यमानेन मुखेन| सीदन् पतन्| शिरोरुजार्तः शिरोव्यथापीडितः; यद्यपि शिरोरुजा वातजन्या अतो वातिक एव कासे सम्भवति, तथाऽपि कफजेऽपि कासे वायुसद्भावात् शिरोरुजा युक्तैव| कफपूर्णदेहः गुरुशरीर इत्यर्थः| अभक्तरुक् भोजनारुचिः| सादः अङ्गग्लानिः| ना पुरुषः||१०||
Adhikarana 9 (11) · Śloka 11
वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः | विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ||११||
🔊 Audio coming soon
उरःक्षतकासलक्षणमाह- वक्षोऽतिमात्रमित्यादि| वक्षः स्तनयोरन्तरालं, अन्ये तु जत्रुक्रोडपार्श्वानामन्तरालं वक्ष इत्याहुः| विहतं विशेषेण पीडितम्| अभिघातो लगुडप्रहारादिः| विश्लिष्टवक्षाः अवसन्नवक्षाः| सरक्तं ष्ठीवति ‘कफं’ इति शेषः| तस्यावस्थायामसाध्यत्वमाह- स इत्यादि| स क्षतजकासी| उरःक्षतस्य उरःक्षतजकासस्य चायं भेदः- उरःक्षती पूर्वमेव सरक्तादिकं कफं ष्ठीवति, उरःक्षतजकासी तु पूर्वं शुष्कं कासते पश्चात् सशोणितं ष्ठीवति| तथा चोक्तं- “रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत्| स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम्” (च. चि. १८) इति| किञ्च उरःक्षते गात्रशूलादीनि लक्षणानि पूर्वमेव भवन्ति, तज्जकासे त्वसाध्यावस्थायामेवेत्यतोऽपि भेदः||११||
Adhikarana 10 (12) · Śloka 13
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी | शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् ||१२|| ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति |१३|
🔊 Audio coming soon
क्षयजकासलक्षणमाह- शुष्यन्नित्यादि| ‘विनिष्ठीवति’ इति पदं रुधिरं सपूयमित्यत्र सम्बध्यते| ससर्वलिङ्गमिति सह सर्वैर्लिङ्गैर्वर्तते यः स ससर्वलिङ्गः सर्वदोषलिङ्गयुक्त इत्यर्थः| चिकित्सितज्ञाः कायचिकित्साविदः| क्षयजं शुक्रक्षयजम्| यद्यपि सामान्यक्षयशब्देन रसादिक्षयः प्राप्तस्तथाऽप्यत्र शुक्रक्षयो ग्राह्यः, तज्जनितत्वात् क्षयकासस्य सर्वधातुक्षयस्य च| यद्यपि क्षयस्य क्षयकासस्य च भेदो नोपलभ्यते, तथाऽपि क्षये यानि कासज्वरादीनि लक्षणानि भवन्ति तान्येकदोषारब्धानि, क्षयजकासे पुनस्तानि त्रिदोषारब्धानीत्यतो भेदः| तथा च तन्त्रान्तरम्,- “क्षये कासादिकं लिङ्गमेकदोषकृतं मतम्| तदेव तत्कृते कासे सर्वदोषान्वितं बुधैः”- इति||१२||-
Adhikarana 11 (13) · Śloka 13
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् ||१३||
🔊 Audio coming soon
इदानीं कासस्यावस्थायां याप्यत्वमाह- वृद्धत्वमित्यादि| वृद्धत्वं स्थविरत्वम्||१३||
Adhikarana 12 (14) · Śloka 14
शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम् | उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् ||१४||
🔊 Audio coming soon
इदानीं सामान्यं कासचिकित्सितमाह- शृङ्गीवचाकट्फलकत्तृणाब्देत्यादि| शृङ्गी कर्कटशृङ्गी| अब्दं मुस्ता| अमराह्वो देवदारुः| बद्धास्यं चिरकालं व्याप्य आस्ये स्थितिकरं, चिरकालानुबद्धमिति तात्पर्यार्थः| अत्र पूर्वं सामान्यचिकित्साकरणं कासे आशु चिकित्सा कर्तव्येति द्योतनार्थम्| मधुपर्पटक रहितः कट्फलादिरयम्||१४||
Adhikarana 13 (15) · Śloka 15
फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः | लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् ||१५||
🔊 Audio coming soon
फलत्रिकव्योषविडङ्गेत्यादि| फलत्रिकं त्रिफला, व्योषं त्रिकटु, देवकाष्ठं देवदारु||१५||
Adhikarana 14 (16) · Śloka 16
पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम् | सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् ||१६||
🔊 Audio coming soon
पथ्यामित्यादि| पथ्यादीनि चूर्णयित्वा मधुघृताभ्यां कासी विलिहीतेत्यर्थः| केचित् पथ्यादिकं लाजपर्यन्तमेकं योगं, समागधीं वाऽपि विचूर्ण्य शुण्ठीमिति द्वितीयं योगं मन्यन्ते| ससैन्धवामित्यादि| कृष्णा पिप्पली; ‘उष्णजलेन’ इत्यत्र ‘पिबेत्’ इत्यध्याहार्यं, समानतन्त्रदर्शनात्| तथा च- “पिबेत् ससैन्धवां कृष्णां कासघ्नीं कोष्णवारिणा”- इति||१६||
Adhikarana 15 (17-18) · Śloka 18
खादेद्गुडं नागरपिप्पलीभ्यां द्राक्षां च सर्पिर्मधुनाऽवलिह्यात् | द्राक्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च ||१७|| लिह्याद्घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम् | धात्रीकणाविश्वसितोपलाश्च सञ्चूर्ण्य मण्डेन पिबेच्च दध्नः ||१८||
🔊 Audio coming soon
योगद्वयमाह- खादेद्गुडमित्यादि| नागरपिप्पलीभ्यां ‘युक्तं’ इति शेषः| द्राक्षां सितामित्यादि| द्राक्षामित्यादिको मागधिकां च तुल्यामित्येतत्पर्यन्त एको योगः| अत्र च ‘खादेत्’ इति सम्बन्धनीयं, समानतन्त्रदर्शनात्| तथा च,- “शर्करामागधीद्राक्षाः कासी खादेत् समांशिकाः”-इति| सशृङ्गवेरमित्यादिकः घृतक्षौद्रयुतं समांशमित्यन्तो द्वितीयो योगः| तुगा वंशलोचना, अन्ये वंशलोचनानुकारि पार्थिवं द्रव्यमाहुः| सितोपलामित्यादिर्मरिचांशयुक्तामितिपर्यन्तस्तृतीयः| सितोपलां शर्करां, मरिचांशयुक्तां मरिचभागयुक्ताम्| अत्रापि लिह्यादिति सम्बन्धनीयम्| धात्रीकणेत्यादि| धात्री आमलकीफलं, कणा पिप्पली, विश्वं शुण्ठी, सितोपला शर्करा| दध्नो मण्डेन मस्तुना||१७-१८||
Adhikarana 16 (19-20) · Śloka 20
हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः | उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् ||१९|| बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीं च सतिल्वकाख्याम् | भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि ||२०||
🔊 Audio coming soon
हरेणुकामित्यादि| गायत्रिसारः खदिरसारः| उभे हरिद्रे इत्यादिर्बस्तस्य मूत्रेणेति पर्यन्तमेको योगः| सुखाम्बुना वेत्यादिर्द्वितीयः; सुखाम्बु उष्णोदकम्| द्रवन्ती चीरितपत्रा दन्तीभेदः| सतिल्वकाख्यामिति पट्टिकालोध्रसहितामित्यर्थः| भृष्टानि सर्पींषीत्यादि| बादराणि पलाशानि बदरीपत्राणि||१९-२०||
Adhikarana 17 (21) · Śloka 21
कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि |२१|
🔊 Audio coming soon
कोलप्रमाणमित्यादि| कोलप्रमाणं कर्षप्रमाणम्| सौवीरकेण काञ्जिकेन| अम्लरसेन बीजपूरकरसेन| यद्यपि हिङ्गु अल्पप्रमाणमेव हितं, तथाप्यर्धकर्षप्रमाणं हिङ्गु प्रयुज्यते, रोगविशेषेणाधिकप्रमाणस्यापि हितत्वात्| केचित् ‘सौवीरकेणाम्लरसेन वाऽपि’ इत्यत्र ‘सौवीरकेणापि समातुलुङ्गम्’ इति पठित्वा बीजपूरकेण सह हिङ्गु पिबेदिति व्याख्यानयन्ति|२१|-
Adhikarana 18 (21) · Śloka 22
क्षौद्रेण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः ||२१|| धूमे प्रशस्ता घृतसम्प्रयुक्ता वेणुत्वगेलालवणैः कृता वा |२२|
🔊 Audio coming soon
क्षौद्रेणेत्यादि| धूमे धूमविषये, प्रशस्ता हिता, वर्तिः ‘षोडशाङ्गुलनेत्रन्यस्ता पीता सती’ इति शेषः| वेणुत्वक् वंशच्छल्ली| लवणैः सैन्धवैः||२१||-
Adhikarana 19 (22) · Śloka 23
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः ||२२|| विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी |२३|
🔊 Audio coming soon
अपराण्यपि धूमद्रव्याण्याह- मुस्तेत्यादि| इङ्गुदीत्वक् इङ्गुदीवल्कलम्| आलं हरितालम्| छगलाम्बु छागमूत्रम्| विधाय कृत्वा| पयोनुपानं दुग्धानुपानम्| धूमं पिबेत् पूर्वोक्तविधानेन| यद्यपि पूर्वोक्तयोगानां दोषापेक्षया विषयो नोक्तः, तथाऽपि योगानां रसादीन् बुद्ध्वा यथादोषं वैद्यः पूर्वोक्तयोगान् प्रयोजयेत्||२२||-
Adhikarana 20 (23) · Śloka 23
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य ||२३||
🔊 Audio coming soon
पिबेच्च सीधुमित्यादि| सीधुः शस्यकः| तेन मरिचान्वितसीधुना| जयति ‘आतुर’ इति शेषः| प्रसह्य हठात्||२३||
Adhikarana 21 (24) · Śloka 24
द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिः क्षीरं शृतं माक्षिकसम्प्रयुक्तम् |२४|
🔊 Audio coming soon
द्राक्षाम्बुमञ्जिष्ठेत्यादि| अम्बु वालकम्| पुराह्वया शल्लकी, गुग्गुलुमपरे| क्षीरमित्यत्र ‘पिबेत्’ इति शेषः| ‘केचित् मञ्जिष्ठशुण्ठीजलगोस्तनीभिः क्षीरं घृतं माक्षिकसंयुतं वा’ इतीदृशं पाठं पठन्ति|२४|-
Adhikarana 22 (24) · Śloka 24
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् ||२४||
🔊 Audio coming soon
निदिग्धिकेत्यादि| सुसिद्धान् सुपक्वान् मुद्गान् निदिग्धिकादिभिश्चूर्णिताभिः सार्धं मधुना च खादेदिति| तथा च,- “क्षुद्रामृतानागरपिप्पलीभिः खादेच्च मुद्गानथ साधुसिद्धान्” इति| केचित् ‘निदिग्धिकामूलसमांशसिद्धान्’ इति पठन्ति, तत्र कण्टकारीमूलतुल्यभागेन सह स्विन्नानित्यर्थः| अपरे ‘कटुकोपगाढान्’ इति पठित्वा त्रिकटुप्रगाढानिति व्याख्यानयन्ति||२४||
Adhikarana 23 (25) · Śloka 25
उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः | एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् ||२५||
🔊 Audio coming soon
उत्कारिकामित्यादि| उत्कारिकां लप्सिकाम्| नागराढ्यां शुण्ठ्यधिकाम्| अत्रापि ‘खादेत्’ इति सम्बन्धनीयम्| ‘त्रुटिकोलपत्रैः’ इत्यत्र ‘वटकोलपत्रैः’ इत्यन्ये पठन्ति| एभिरित्यादि| एभिरिति पूर्वोक्तैः उत्कारिकादिद्रव्यैः| तन्वीम् अल्पसिक्थां बहुद्रवाम्||२५||
Adhikarana 24 (26) · Śloka 26
यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य | विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् ||२६||
🔊 Audio coming soon
सामान्यचिकित्सितमभिधायेदानीमतिदेशेन वातकासचिकित्सितमाह- यत् प्लीह्नि सर्पिरित्यादि| षडङ्गं षट्पलं षट्पलस्य षडङ्गाख्या द्वितीया सञ्ज्ञेति प्रतिपादनार्थं षडङ्गकथनम्| तच्च षट्पलप्रमाणं पक्तव्यम्| विदारिगन्धादिगणक्वाथकल्कसंस्कृतम्| रसेन क्वाथेन||२६||
Adhikarana 25 (27) · Śloka 28
विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च | धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र ||२७|| हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव |२८|
🔊 Audio coming soon
विरेचनमित्यादि| अत्र वातकासे| आस्थापनं निरूहणम्| ननु, कासे बस्तिनिषेधात् कथमत्रास्थापनमुच्यते? सत्यं; निषिद्धमप्यास्थापनं वातकासे प्रयुज्यते, दोषप्रत्यनीकत्वात्| धूमं पिबेदित्यादि| अत्र ‘यथोक्तविधिना’ इति शेषः| स्नैहिकं मधूच्छिष्टसर्जरसवसादिभिः कृतम्| अप्रमत्तः सावधानः| सुखोष्णम् ईषदुष्णम्| घृतम् असंस्कृतम्| अत्र वातकासेऽन्यदपि यद्धितं तदाह- हिता यवाग्वश्चेत्यादि| रसेषु सिद्धाः मांसरसेषु सिद्धाः| पयांसि वातहरद्रव्यसिद्धानि| लेहाः पूर्वोक्ताः||२७||-
Adhikarana 26 (28-31) · Śloka 32
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च ||२८|| उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च | कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् ||२९|| निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम् | पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ||३०|| शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः | सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ||३१|| श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान् |३२|
🔊 Audio coming soon
कफकासचिकित्सितमाह- प्रच्छर्दनमित्यादि| प्रच्छर्दनं वमनम्| कायशिरोविरेका इति कायविरेको विरेचनं, शिरोविरेको नस्यभेदः; स च पिप्पल्यादिकृतः| तथैव धूमा विरेचना इत्यर्थः| उष्णा लेहाः कटुद्रव्यकृता इत्यर्थः| कटुकाः कफहरकटुकद्रव्यकृताः| कफं कफकासं, कारणे कार्योपचारात्| विशोषणं लघुरूक्षाल्पभोजनम्, अन्ये नानाप्रकारलङ्घनमाहुः; तथा चोक्तम्,- “चतुःप्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्”- इति| पथ्यं हितम्| कृमिघ्नस्वरसे विपक्वमार्द्रविडङ्गस्वरसविपक्वं, स्वरसालाभे च पूर्वोक्तकल्पनया सविडङ्गचूर्णं रात्रिपर्युषितं जलं ग्राह्यम्| अन्ये तु कृमिघ्नशब्देन कृमिघ्नानि यानि द्रव्याणि सुरसादीनि तान्याहुः| निर्गुण्डिपत्रस्वरसे च पक्वमित्यादि निर्गुण्डिपत्रस्वरसे नीलसिन्धुवारस्वरसे, नीलसिन्धुवारश्च शेफालिकेति लोके| पाठेत्यादि| व्योषं त्रिकटुकम्| सिन्धु सैन्धवम्| त्रिकण्टो गोक्षुरकः| हुतभुक् चित्रकः| अम्भोधरः मुस्तम्| स्वरभेदभिन्नान् कांस्यपात्रादिस्वरभेदेन भिन्नान्| पञ्च कासान् हन्तीति स्तुतिवाक्यं, तस्मात् कफकासं हन्तीति ज्ञातव्यं, कफकासप्रस्तावात्| यद्यपि वातकासानन्तरं पित्तकासाभिधानं युक्तं न कफकासाभिधानं , तथाऽपि कफकासप्रतिकारस्योभयहितत्वप्रतिपादनार्थं कथनम्||२८-३१||-
Adhikarana 27 (32-33) · Śloka 33
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ||३२|| घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत् | प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ||३३||
🔊 Audio coming soon
इदानीं पित्तजक्षयजक्षतकासानां चिकित्सितमाह- विदारिगन्धेत्यादि| आदिशब्दो विदारिगन्धादिभिः सह प्रत्येकं सम्बध्यते; तेन विदारिगन्धादिः, उत्पलादिः, सारिवादिश्च| मधुरं वर्गं काकोल्यादिकम्| कृत्स्नं समग्रम्| अत्रापि निष्क्वाथ्येति सम्बध्यते| द्रवप्रमाणं च प्रत्येकं स्नेहसमम्| तथा च परिभाषा- “पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ| तत्र स्नेहसमान्याहुरर्वाक्च स्याच्चतुर्गुणम्”- इति| काकोलिवर्गे ‘कल्कीकृते’ इति शेषः| सशर्करं शर्कराप्रक्षेपम्| प्रातः पूर्वाह्णे, पित्तादिकासे पिबेत्||३२-३३||
Adhikarana 28 (34) · Śloka 34
खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः | चूर्णं सिताक्षौद्रघृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ||३४||
🔊 Audio coming soon
खर्जूरभार्गीत्यादि| प्रियालः चारः| मधूलिका मर्कटकः| समांशैः तुल्यप्रमाणैः| त्रीन् कासान् पित्तोरःक्षतक्षयजान्| खर्जूरादिभिस्तुल्यभागैः कृतं चूर्णं सिताक्षौद्रघृतप्रगाढं लेहत्वेनोपयुज्यमानं त्रीन् कासान् हन्तीति पिण्डार्थः| पित्तकासचिकित्सितं यदत्रोरःक्षतक्षयकासाभ्यां सहैव कथितं तदुभयतुल्यचिकित्सितख्यापनार्थम्||३४||
Adhikarana 29 (35) · Śloka 35
रक्ताहरिद्राञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः | क्षौद्रेण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ||३५||
🔊 Audio coming soon
रक्तेत्यादि| रक्ता मञ्जिष्ठा, अञ्जनं सौवीराञ्जनं, समानतन्त्रदर्शनात्, वह्निः अजमोदा, मूर्वा चोरस्नायुः, उपकुल्या पिप्पली| समांशाः तुल्यभागाः| मञ्जिष्ठादीनि पिप्पल्यन्तानि द्रव्याणि तुल्यभागानि चूर्णीकृतानि क्षतजे क्षयोत्थे च कासे मधुना विलिहेत्, चकारात् पित्तकासेऽपि; इक्षुरसे विपक्वं वा घृतं पिबेदिति पिण्डार्थः||३५||
Adhikarana 30 (36) · Śloka 36
चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी |३६|
🔊 Audio coming soon
तेषामपरमपि चिकित्सितमाह- चूर्णमित्यादि| आमलकस्य चूर्णं सघृतं विपक्वं हिताशी क्षीरेण सह पिबेदिति सम्बन्धः| ‘हिताशी’ इत्यत्र ‘हिताय’ इति केचित् पठन्ति; तत्र कासशान्तये इति व्याख्यानम्|३६|-
Adhikarana 31 (36) · Śloka 37
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ||३६|| कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वाऽपि |३७|
🔊 Audio coming soon
पित्तजादिकासत्रयेऽपरमपि चिकित्सितमाह- चूर्णानीत्यादि| गोधूमादिचूर्णानि चूर्णीकृतः काकोल्यादिगणश्च मधुघृतयुक्तेन दुग्धेन पित्तोरःक्षतक्षयजकासवद्भिः पुरुषैः पेय इत्यर्थः| केचिद्गोधूमचूर्णादिचूर्णत्रयं यथाक्रमं त्रिषु कासेषु त्रिभिरेव क्षीरादिभिर्द्रवैः पेयमिच्छन्ति||३६||-
Adhikarana 32 (37) · Śloka 37
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम् ||३७||
🔊 Audio coming soon
गुडोदकमित्यादि| गुडोदकं शीतकषायविधिना गृहीतं, क्वथितमिति पक्वमित्यर्थः; एतेन शीतकषायीकृतस्य गुडोदकस्य पश्चात्किञ्चित्पक्वस्य शीतीभूतस्य क्षौद्रेण सह पानमित्यर्थः| वेति विकल्पस्तु पूर्वयोगापेक्षया| मरिचोपदंशं समरिचभक्षणम्||३७||
Adhikarana 33 (38-41) · Śloka 41
प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य | चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ||३८|| विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः | दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ||३९|| तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् | अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ||४०|| शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः | स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ||४१||
🔊 Audio coming soon
कल्याणगुडमाह- प्रस्थत्रयेणेत्यादि| शुद्धस्य निर्मलस्य| अर्धतुलां पञ्चाशत्पलानि| ग्रन्थिकं पिप्पलीमूलं, व्योषं त्रिकटु, इभकृष्णा हस्तिपिप्पली, सिन्धु सैन्धवं, अग्निः चित्रकः| पिचुप्रमाणैः कर्षप्रमाणैः; ‘पलप्रमाणैः’ इत्यन्ये पठन्ति; तन्न, समानतन्त्रविरोधात्| ‘दत्त्वा त्रिवृच्चूर्णपलानि चाष्टौ’ इत्यत्र ‘ईषत्तैलभृष्टानि’ इति शेषः, त्रिवृतो रेचनीयतास्फोटनार्थं वृद्धपारम्पर्यस्मरणात्| यथावत् मृदुमध्यक्रूरकोष्ठक्रमानुरूपं खरमृदुमध्यपाकेनेत्यर्थः| अयमिति कल्याणकः| पुंस्त्वस्य शुक्रस्य, अत्रापि हतस्येति सम्बध्यते| कल्याणक इति कल्याणकरणात्||३८-४१||-
Adhikarana 34 (42-46) · Śloka 46
द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान् | पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ||४२|| द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम् | द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ||४३|| पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च | चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ||४४|| रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात् | तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ||४५|| पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च | मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ||४६||
🔊 Audio coming soon
अगस्त्यावलेहमाह- द्विपञ्चमूलेत्यादि| द्विपञ्चमूलं दशमूलम्| इभकणा गजपिप्पली| आत्मगुप्ता कपिकच्छूः| ग्रन्थिकं पिप्पलीमूलम्| अग्निः चित्रकः| यवासो धन्वयवासकः, पूर्वपदलोपात्| न्यस्य प्रक्षिप्य| यवाढकं चतुःषष्टिपलानि| गुरूणाम् अतिस्थूलानाम्| जलद्रोणे द्वादशाधिकपञ्चशतपलेषु| द्विपञ्चमूलादीन् प्रत्येकं द्विपलप्रमाणान् यवाढकं च तथा हरीतकीशतं जलद्रोणे प्रक्षिप्य तावत् पचेद्यावत् पादावशेषितं, ततश्च तस्मिन् कषाये वस्त्रपूते गुडतुलां शुद्धस्विन्नहरीतकीशतं तथा घृततैलयोः प्रत्येकमष्टौ पलानि प्रक्षिप्य पचेत् यावत्तन्तुमत्त्वाज्जलपतितं न शीर्यते, ततश्च पिप्पलीचूर्णं चतुष्पलं मधु चाष्टपलप्रमाणं दत्त्वा स्थापयेत्, ततः तस्माद्रसायनात्, कल्कम् अर्धपलप्रमाणं लिह्यात्, हरीतकीद्वयं च खादेत्| एतद्रसायनं भगवता अगस्त्येन कृतम्||४२-४६||
Adhikarana 35 (47-48) · Śloka 48
कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् | पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ||४७|| शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम् ||४८||
🔊 Audio coming soon
कुलीरशुक्तीत्यादि| कुलीरः कर्कटः, शुक्तिः जलशुक्तिः, चटको ग्रामचटकः, एणः कृष्णमृगः, मधुरवर्गः काकोल्यादिः, कृत्स्नं समग्रम्| केचित् ‘निष्क्वाथ्य वर्गैर्मधुरैस्तथाऽन्यं’ इति पठित्वा काकोल्यादिसहितानि लावादीनि निष्क्वाथ्य तथा अन्यैर्मधुरैर्जीवनीयैः कल्कीकृतैर्घृतं पचेदिति व्याख्यानयन्ति| चकारात् पित्तजकासमपि| शतावरीनागबलेत्यादि| केचित् शतावरीनागबलाकल्के घृतं सिद्धमिच्छन्ति; तन्न, समानतन्त्रविरोधात्||४७-४८||-
Adhikarana puShpikA · Śloka 52
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम (चतुर्दशोऽध्यायः, आदितः) द्विपञ्चाशत्तमोऽध्यायः ||५२||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे कासप्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः||५२||